बुधवार, 1 सितंबर 2021

मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत् वायुपुराण पूर्वार्ध नवम अध्याय-

मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत्।
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।।३९

पद्भ्याञ्चाश्चान् समातङ्गान् शरभान् गवयान् मृगान्।
उष्ट्रानश्चतरांश्चैव ताश्वान्याश्चैव जातयः ।।४०।

ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे।
एवं पश्वोषधीः सृष्ट्वा न्ययुञ्जत्सोऽध्वरे प्रभुः ।।४१।।
____________________
तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा।
गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्द्दभौ।
एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोधत ।।४२।।

श्वापदा द्विखुरो हस्ती वानरः पक्षिपञ्चमाः।
उन्दकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः ।।४३।।
________________
गायत्रं वरुणञ्चैव त्रिवृत्सौम्यं रथन्तरम्।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ।।४४।।

छन्दांसि त्रैष्टुभङ्कर्म स्तोमं पञ्चदशन्तथा।
बृहत्साममथोक्थञ्च दक्षिणात्सोऽसृजन्मुखात् ।।४५।।

सामानि जगती च्छन्दस्तोमं पञ्चदशन्तथा।
वैरूप्यमतिरात्रञ्च पश्चिमादसृजन्मुखात् ।।४६।।

एकविंशमथर्वाणमाप्तोर्यामाणमेव च।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ।।४७।।
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च।
वयांसि च ससर्ज्जादौ कल्पस्य भगवान् प्रभुः ।।४८।।

विश्वरूपमथार्यायाः पृथग्देहविभावनात्।
श्रृणु संक्षेपतस्तस्या यथावदनुपूर्वशः ।।८०।।

____________________________
प्रकृतिर्नियता रौद्री दुर्गा भद्रा प्रमाथिनी।
कालरात्रिर्महामाया रेवती भुतनायिका ।।८१।।
___________________
द्वापरान्तविकारेषु देव्या नामानि मे श्रृणु।
गौतमी कौशिकी आर्या चण्डी कात्यायनी सती ।।८२।।
____________________
कुमारी यादवी देवी वरदा कृष्णपिङ्गला।
बर्हिर्ध्वजा शूलधरा परमब्रह्मचारिणी ।।८३।।

माहेन्द्री चेन्द्रभगिनी वृषकन्यैकवाससी।
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी ।।८४।।
एकानसा दैत्यहनी माया महिषमर्द्दिनी।
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका ।।८५।।
देवीनामविकाराणि इत्येतानि यथाक्रमम्।
भद्रकाल्यास्तवोक्तानि देव्या नामानि तत्त्वतः ।।८६।।

इति श्रीमहापुरणे वायुप्रोक्ते देवादिसृष्टिवर्णनं नाम नवमोऽध्यायः ।। ९ ।।
_____________________________
  तुलना करें-
वायुपुराण
मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत्।
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।३९।
 वायुपुराण पूर्वार्ध नवम अध्याय श्लोक ३९ वाँ।
________
वायुपुराण
रजस्तमोभ्यामाविष्टांस्ततोऽन्यानसृजत् प्रभुः।।
वयांसि वयसः सृष्ट्वा अवीन्वै वक्षसोऽसृजत् ।७.५४
________


कूर्मपुराण-
मुखतोऽजान् ससर्जान्यान् उदराद्‌गाश्चनिर्ममे ।
पद्भ्यांचाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ।७.५५
_
______________
इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तमोऽध्यायः।।७।।
कूर्मपुराणपूर्वभाग सप्तम अध्याय -


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें