स्कन्दपुराणम् खण्डः (७)(प्रभासखण्डः)प्रभासक्षेत्र माहात्म्यम् अध्यायः (१६५)
"आभीर अथवा गोपालक कन्या गायत्री का वर्णन
॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि सावित्रीं लोकमातरम् ॥
महा पापप्रशमनीं सोमेशादीशदिक्स्थिताम् ॥१॥
संयतात्मा नरः पश्येत्तत्र तां नियतात्मवान् ॥ २॥
ब्रह्मणा यष्टुकामेन सावित्री सहधर्मिणी ॥
कृता तां बलतो ज्ञात्वा गायत्रीं कोपमाविशत् ॥३॥
ततः संत्यज्य सा देवी ब्रह्माणं कमलोद्भवम् ॥
सपत्नीरोषसन्तप्ता प्रभासं क्षेत्रमाश्रिता ॥४॥
तपः करोति विपुलं देवैरपि सुदुःसहम् ॥
तत्र स्थले स्थिता देवी साऽद्यापि प्रियदर्शना ॥५॥
॥ श्रीदेव्युवाच ॥
किमर्थं सा परित्यक्ता सावित्री ब्रह्मणा पुरा ॥
गायत्री च कथं प्राप्ता केन चास्य निवेदिता ॥ ६॥
कीदृशीं तां च गायत्रीं लब्धवान्पद्मसंभवः ॥
यस्तां पत्नीं समुत्सृज्य तस्यामेव मनो दधौ ॥ ७ ॥
कस्य सा दुहिता देव किमर्थं च विवाहिता ॥
एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥ ८ ॥
॥ ईश्वर उवाच ॥
शृणु देवि प्रवक्ष्यामि सावित्र्याश्चरितं महत् ॥
यथा सा ब्रह्मणा त्यक्ता गायत्री च विवाहिता ॥ ९॥
पुरा बुद्धिः समुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ॥
इति वेदा मया प्रोक्ता यज्ञार्थं नात्र संशयः॥7.1.165.१०॥
______________________________________
यज्ञैः संतर्पिता देवा वृष्टिं दास्यंति भूतले ॥
ततश्चौषधयः सर्वा भविष्यंति धरातले ॥ ११ ॥
तस्मात्संजायते शुक्रं शुक्रात्सृष्टिः प्रवर्तते ॥
सृष्ट्यर्थं सर्वलोकानां ततो यज्ञं करोम्यहम् ॥ १२ ॥
दृष्ट्वा मां यज्ञ आसक्तं ये च विप्रा धरातले ॥
ते यज्ञान्प्रचरिष्यंति शतशोऽथ सहस्रशः ॥ १३ ॥
एवं स निश्चयं कृत्वा यज्ञार्थं सुरसुंदरि ॥
तीर्थं निवेशयामास पुष्करं नाम नामतः ॥ १४ ॥
यज्ञवाटो महांस्तत्र आसीत्तस्य महात्मनः ॥
तत्र देवर्षयः सर्वे देवाः सेन्द्रपुरोगमाः ॥ १५ ॥
समायाता महादेवि यज्ञे पैतामहे तदा ॥
पुण्यास्तेऽपि द्विजश्रेष्ठास्तत्रर्त्विजः प्रजज्ञिरे ॥ १६॥
सावित्री लोकजननी पत्नी तस्य महात्मनः ॥
गृहकार्ये समासक्ता दीक्षा कालव्यतिक्रमात् ॥
अध्वर्युणा समाहूता सावित्री वाक्यमब्रवीत् ॥१७॥
॥ सावित्र्युवाच ॥
अद्यापि न कृतो वेषो न गृहे गृहमण्डनम् ॥
लक्ष्मीर्नाद्यापि संप्राप्ता न भवानी न जाह्नवी ॥ १८॥
न स्वाहा न स्वधा चैव तथा चैवाप्यरुंधती ॥
इन्द्राणी देवपत्न्योऽन्याः कथमेकाकिनी व्रजे ॥१९॥
___________
उक्तः पितामहो गत्वा पुलस्त्येन महात्मना॥
सावित्री देव नायाति प्रसक्ता गृहकर्मणि॥7.1.165.२०॥
_________________________________________
त्वत्पत्नी किमिदं कर्म फलेन संप्रवर्तते ॥
तच्छ्रुत्वा दीक्षितो वाचं शिखी मुंडी मृगाजिनी ॥ २१॥
पत्नीकोपेन संतप्तः प्राह देवं पुरन्दरम् ॥ २२॥
गच्छ मद्वचनाच्छक्र पत्नीमन्यां कुतश्चन ॥
गृहीत्वा शीघ्रमागच्छ न स्यात्कालात्ययो यथा ॥२३ ॥
जगाम बलहा तूर्णं वचनात्परमेष्ठिनः ॥
अपश्यमानः कांचित्स्त्रीं या योग्या हंसवाहने ॥ २४॥
______________________________________
अथ शापाद्बिभीतेन सहस्राक्षेण धीमता ॥
दृष्टा गोपालकन्यैका रूपयौवनशालिनी ॥ २५॥
बिभ्रती तत्र पूर्णं सा कुम्भं कन्येत्यचोदयत् ॥
तां गृहीत्वा ततः शक्रः समायाद्यत्र दीक्षितः ॥
देवदेवश्चतुर्वक्त्रो विष्णुरुद्रसमन्वितः ॥ २६ ॥
संप्रदानं तु कृतवान्कन्याया मधुसूदनः ॥२७॥
प्रेरितः शंकरेणैव ब्रह्मा देवर्षिभिस्तथा॥
परिणीयतां ततो दीक्षां तस्याश्चक्रे यथात्मनः ॥२८॥
ततः प्रवर्तितो यज्ञः सर्वकामसमन्वितः ॥२९॥
___________________________________
अत्रिर्होतार्चिकस्तत्र पुलस्त्योऽध्वर्युरेव च॥
उद्गाताऽथो मरीचिश्च ब्रह्माहं सुरपुंगवः॥7.1.165.३०॥
_________________________________________
सनत्कुमारप्रमुखाः सदस्यास्तस्य निर्मिताः॥
वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः ॥ ३१ ॥
भूषिता भूषणोपेता एकैकस्य पृथक्पृथक् ॥
त्रयस्त्रयः पृष्ठतोऽन्ये ते चैवं षोडशर्त्विजः ॥३२॥
प्रोक्ता भवद्भि र्यज्ञेऽस्मिन्ननुगृह्योऽस्मि सर्वदा ॥
पत्नी ममेयं गायत्री यज्ञेऽस्मिन्ननुगृह्यताम् ॥ ३३ ॥
मृदुवस्त्रधरां साक्षात्क्षौमवस्त्रावगुण्ठिताम् ॥
निष्क्रम्य पत्नीशालात ऋत्विग्भिर्वेदपारगैः ॥ ३४ ॥
औदुम्बरेण दण्डेन संवृतो मृगचर्मणा ॥
तया सार्धं प्रविष्टश्च ब्रह्मा तं यज्ञमण्डपम् ॥३५॥
॥ ईश्वर उवाच॥
एतस्मिन्नेव काले तु संप्राप्ता देवयोषितः ॥
संप्राप्ता यत्र सावित्री यज्ञे तस्मिन्निमंत्रिताः ॥ ३६॥
भृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी ॥
आमन्त्रिता सा लक्ष्मीश्च तत्रायाता त्वरान्विता ॥ ३७॥
तत्र देवी महाभागा योगनिद्रादिभूषिता ॥
देवी कांतिस्तथा श्रद्धा द्युतिस्तुष्टिस्तथैव च ॥ ३८॥
सती या दक्षतनया उमा या पार्वती शुभा ॥
त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायका ॥३९॥
जया च विजया चैव गौरी चैव महाधना॥
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया॥7.1.165.४०॥
____________________________________
देवकन्यास्तथाऽऽयाता दानव्यो दनुवंशजाः ॥
सप्तर्षीणां तथा पत्न्य ऋषीणां च तथैव च ॥ ४१ ॥
प्लवा मित्रा दुहितरो विद्याधरगणास्तथा ॥
पितरो रक्षसां कन्यास्तथाऽन्या लोकमातरः ॥ ४२ ॥
वधूभिश्चैव मुख्याभिः सावित्री गन्तुमिच्छति ॥
अदित्याद्यास्तथा देव्यो दक्षकन्याः समागताः ॥ ४३॥
ताभिः परिवृता सार्धं ब्रह्माणी कमलालया ॥
काश्चिन्मोदकमादाय काश्चित्पूपं वरानने ॥ ४४ ॥
फलानि तु समादाय प्रयाता ब्रह्मणोऽन्तिकम् ॥
आढकीश्चैव निष्पावान्राजमाषांस्तथाऽपराः ॥ ४५॥
दाडिमानि विचित्राणि मातुलिंगानि शोभने॥
करीराणि तथा चान्या गृहीत्वा करमर्दकान्॥४६॥
कौसुंभं जीरकं चैव खर्जूरं चापरास्तथा॥
उततीश्चापरा गृह्य नालिकेराणि चापराः॥४७॥
द्राक्षया पूरितं चाम्रं शृङ्गाराय यथा पुरा॥
कर्बुराणि विचित्राणि जंबूकानि शुभानि च॥४८॥
अक्षोडामलकान्गृह्य जंबीराणि तथा पराः ॥
बिल्वानि परिपक्वानि चिर्भटानि वरानने ॥ ४९॥
अन्नपानाधिकाराणि बहूनि विविधानि च ॥
शर्करापुत्तलीं चान्या वस्त्रे कौसुम्भके तथा॥ 7.1.165.५०॥
_______________________________________
एवमादीनि चान्यानि गृह्य पूर्वे वरानने ॥
सावित्र्या सहिताः सर्वाः संप्राप्तास्तु तदा शुभाः॥५१॥
____________
सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरंदरः ॥
अधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति ॥५२॥
त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः॥
सभासदस्तथा भीतास्तथैवान्ये दिवौकसः ॥५३॥
पुत्रपौत्रा भागिनेया मातुला भ्रातरस्तथा ॥
ऋतवो नाम ये देवा देवानामपि देवताः ॥ ५४॥
_________________________________________
विलक्षास्तु तथा सर्वे सावित्री किं वदिष्यति ॥
ब्रह्मवाक्यानि वाच्यानि किं नु वै गोपकन्यया ॥५५॥
मौनीभूतास्तु शृण्वानाः सर्वेषां वदतां गिरः॥
अध्वर्युणा समाहूता नागता वरवर्णिनी ॥५६॥
शक्रेणान्या तथाऽऽनीता दत्ता सा विष्णुना स्वयम्॥
अनुमोदिता च रुद्रेण पित्रा दत्ता स्वयं तथा ॥५७॥
कथं सा भविता यज्ञः समाप्तिं वा कथं व्रजेत् ॥
एवं चिन्तयतां तेषां प्रविष्टा कमलालया ॥ ५८॥
वृतो ब्रह्मा भार्यया स ऋत्विग्भिर्वेदपारगैः ॥
हूयन्ते चाग्नयस्तत्र ब्राह्मणैर्वेदपारगैः ॥ ५९॥
______________________________________
पत्नीशाले तथा गोपी रौप्यशृंगा समेखला ॥
क्षौमवस्त्रपरीधाना ध्यायन्ती परमेश्वरम्॥7.1.165.६०॥
________________________________________
पतिव्रता पतिप्राणा प्राधान्येन निवेशिता ॥
कृपान्विता विशालाक्षी तेजसा भास्करोपमा ॥६१॥
द्योतयंती सदस्तत्र सूर्यस्येव यथा प्रभा ॥
ज्वलमानस्तथा वह्निर्भ्रमंते चर्त्विजस्तथा ॥ ६२॥
पशूनामवदानानि गृह्णंति द्विजसत्तमाः ॥
प्राप्ता भागार्थिनो देवा विलंबसमयोऽभवत् ॥ ६३॥
_________________________________
कालहीनं न कर्तव्यं कृतं न फलदं भवेत् ॥
वेदेष्वयमधीकारो दृष्टः सर्वो मनीषिभिः ॥ ६४॥
प्रवर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः ॥
क्षीरद्वये हूयमाने मंत्रेणाध्वर्युणा तथा ॥ ६५॥
उपहूतोपहूतेन आगतेषु द्विजन्मसु ॥
क्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी क्रुधान्विता ॥
उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम् ॥ ६६॥
किमेवं बुध्यते देव कृतमेतद्विचेष्टितम् ॥
मां परित्यज्य यः कामात्कृतवानसि किल्बिषम् ॥६७॥
न तुल्या पादरजसा समा साऽधिशिरः कृता ॥६८॥
यद्वदंति नराः सर्वे संगताः सदसि स्थिताः ॥
आश्चर्यं च प्रभूणां तु कुरुते यं यमिच्छति ॥ ६९॥
भवता रूपलोभेन कृतं कर्म विगर्हितम् ॥7.1.165.७०॥
_________________________________________
न पुत्रेषु कृता लज्जा पौत्रेषु च न ते विभो ॥
कामकारकृतं मन्ये ह्येतत्कर्म विगर्हितम् ॥ ७१॥
पितामहोऽसि देवानामृषीणां प्रपितामहः ॥
कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम् ॥७२॥
लोकमध्ये कृतं हास्यमिह चैव विगर्हितः ॥
यद्येष ते स्थितो भावस्तिष्ठ देव नमोऽस्तु ते ॥७३॥
अहं कथं सखीनां तु दर्शयिष्यामि वै मुखम् ॥
भर्त्रा मे विहिता पत्नी कथमेतदहं वदे ॥ ७४॥
_____________________________________
॥ ब्रह्मोवाच ॥
ऋत्विग्भिरहमाज्ञप्तो दीक्षा कालोऽतिवर्तते ॥
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय ॥ ७५ ॥
_____________________________________
शक्रेणैषा समानीता दत्ता चैवाऽथ विष्णुना ॥
गृहीता च मया त्वं हि क्षमस्वैकं मया कृतम् ॥
न चापराध्यं भूयोऽन्यं करिष्ये तव सुव्रते ॥ ७६ ॥
॥ ईश्वर उवाच ॥
एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता॥
यदि मेऽस्ति तपस्तप्तं गुरवो यदि तोषिताः ॥७७॥
सर्वब्राह्मणशालासु स्थानेषु विविधेष्वपि ॥
न तु ते ब्राह्मणाः पूजां करिष्यंति कदाचन ॥ ७८॥
_________________________
ऋते वै कार्तिकीमेकां पूजां सांवत्सरीं तव॥
करिष्यंति द्विजाः सर्वे सत्येनानेन ते शपे॥
एतद्बुद्ध्वा न कोपोस्तु हतो हन्ति न संशयः ॥ ७९॥
॥ सावित्र्युवाच ॥
भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोऽन्तिकम् ॥_______
यस्मादीदृक्कृतं कर्म तस्मात्त्वं लप्स्यसे फलम् ॥7.1.165.८०॥
__________________________________________
यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि ॥
तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम् ॥ ८१ ॥
अकिंचनो नष्टसुतः शत्रूणां नगरे स्थितः॥
पराभवं महत्प्राप्य अचिरादेव मोक्ष्यसे ॥ ८२ ॥
_________________________________________
शक्रं शप्त्वा तदा देवी विष्णुं चाऽथ वचोब्रवीत् ।८३ ॥
गुरुवाक्येन ते जन्म यदा मर्त्ये भविष्यति ॥
भार्याविरहजं दुःखं तदा त्वं तत्र भोक्ष्यसे ॥ ८४ ॥
_______________________________
हृतां शत्रुगणैः पत्नीं परे पारे महोदधेः ॥
न च त्वं ज्ञायसे सीतां शोकोपहचेतनः ॥ ८५ ॥
_________________
भ्रात्रा सह परां काष्ठामापदं दुःखितस्तथा ॥
पशूनां चैव संयोगश्चिरकालं भविष्यति ॥ ८६ ॥
तथाऽऽह रुद्रं कुपिता यदा दारुवने स्थितः ॥
तदा ते मुनयः क्रुद्धाः शापं दास्यंति ते हर ॥ ८७ ॥
भोभोः कापालिक क्षुद्र पत्न्योऽस्माकं जिहीर्षसि ॥
तदेतद्भूषितं लिंग भूमौ रुद्र पतिष्यति ॥ ८८ ॥
विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः ॥
गंगातीरे स्थिता पत्नी सा त्वामाश्वासयिष्यति ॥ ८९ ॥
अग्ने त्वं सर्वभक्षोऽसि पूर्वं पुत्रेण मे कृतः॥
भ्रूणहा धर्म इत्येष कथं दग्धं दहाम्यहम् ॥7.1.165.९०।
_______________________________________
जातवेदस रुद्रस्त्वां रेतसा प्लावयिष्यति ॥
मेध्येषु च कृतज्वाला ज्वालया त्वां ज्वलिष्यति ॥ ९१ ॥
ब्राह्मणानृत्विजः सर्वान्सावित्री ह्यशपत्तदा ॥ ९२ ॥
प्रतिग्रहाग्निहोत्राश्च वृथा दारा वृथाश्रमाः ॥
सदा क्षेत्राणि तीर्थानि लोभादेव गमिष्यथ ॥ ९३ ॥
परान्नेषु सदा तृप्ता अतृप्ताः स्वगृहेषु च ॥
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम् ॥ ९४ ॥
वृथा धनार्जनं कृत्वा व्यवश्चैव तथा वृथा ॥
मृतानां तेन प्रेतत्वं भविष्यति न संशयः ॥ ९५ ॥
___________________________________
एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा ॥
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानशपत्तदा ॥ ९६॥
शापं दत्त्वा तथा तेषां तदा सावस्थिता स्थिरा ॥९७॥
लक्ष्मीः प्राह सखीं तां च इन्द्राणी च वरानना ॥
अन्या देव्यस्तथा प्राहुः साऽऽह स्थास्यामि नात्र वै ॥
तत्र चाहं गमिष्यामि यत्र श्रोष्ये न तु ध्वनिम् ॥९८॥
_____________________________________
ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वं निकेतनम् ॥
सावित्री कुपिता तासां पुनः शापाय चोद्यता ॥९९॥
यस्मान्मां संपरित्यज्य गतास्ता देवयोषितः॥
तासामपि तथा शापं प्रदास्ये कुपिता भृशम्॥ 7.1.165.१०० ॥
__________________________________
नैकत्र वासो लक्ष्म्यास्तु भविष्यति कदाचन ॥
रुद्रापि चंचला तावन्मूर्खेषु च वसिष्यसि ॥ १०१ ॥
म्लेच्छेषु पर्वतीयेषु कुत्सिते कुष्ठिते तथा ॥
वाचाटे चावलिप्ते च अभिशस्ते दुरात्मनि ॥
एवंविधे नरे तुभ्यं वसतिः शापकारिता ॥ १०२ ॥
शापं दत्त्वा ततस्तस्या इन्द्राणीमशपत्तदा ॥ १०३ ॥
त्वष्टुर्वाचा गृहीतेन्द्रे पत्यौ ते दुष्टकारिणि ॥
नहुषाय गते राज्ये दृष्ट्वा त्वां याचयिष्यति ॥ १०४ ॥
अहमिन्द्रः कथं चैषा नोपतिष्ठति चालसा ॥
सर्वान्देवान्हनिष्यामि लप्स्ये नाहं शचीं यदि ॥ १०५ ॥
नष्टा त्वं च तदा शस्ता वने महति दुःखिता ॥
वसिष्यसि दुराचारे शापेन मम गर्विते ॥ १०६ ॥
देवभार्यासु सर्वासु तदा शापमयच्छत ॥ १०७ ॥
न चापत्यकृता प्रीतिः सर्वास्वेव भविष्यति ॥
दह्यमाना दिवारात्रौ वंध्याशब्देन दुःखिताः ॥१०८॥
गौरीमेवं तथा शप्त्वा सा देवी वरवर्णिनी ॥
उच्चै रुरोद सावित्री भर्तृ यज्ञाद्बहिः स्थिता ॥ १०९ ॥
रोदमाना तु सा दृष्टा विष्णुना च प्रसादिता ॥
मा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदः शुभे ॥ 7.1.165.११० ॥
________________________________________
प्रविष्टा च शुभे यागे मेखलां क्षौमवाससी ॥
गृहाण दीक्षां ब्रह्माणि पादौ ते प्रणमे शुभे ॥१११॥
एवमुक्ताऽब्रवीदेनं नाहं कुर्यां वचस्तव ॥
तत्राहं च गमिष्यामि यत्र श्रोष्ये न च ध्वनिम् ॥११२॥
एतावदुक्त्वा व्यरमदुच्चैः स्थाने क्षितौ स्थिता ॥११३॥
___________________
विष्णुस्तदग्रतः स्थित्वा बद्ध्वा च करसंपुटम् ॥
तुष्टाव प्रणतो भूत्वा भक्त्या परमया युतः ॥ ११४ ॥
॥ विष्णुरुवाच ॥
नमोऽस्तु ते महादेवि भूर्भुवःस्वस्त्रयीमयि ॥
सावित्रि दुर्गतरिणि त्वं वाणी सप्तधा स्मृता ॥११५॥
सर्वाणि स्तुतिशास्त्राणि लक्षणानि तथैव च ॥
भविष्या सर्वशास्त्राणां त्वं तु देवि नमोऽस्तु ते ॥११६॥
श्वेता त्वं श्वेतरूपासि शशांकेन समानना ॥
शशिरश्मिप्रकाशेन हरिणोरसि राजसे ॥
दिव्यकुंडलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ॥११७॥
त्वं सिद्धिस्त्वं तथा ऋद्धिः कीर्तिः श्रीः संततिर्मतिः ॥
संध्या रात्रि प्रभातस्त्वं कालरात्रिस्त्वमेव च ॥११८॥
कर्षुकाणां यथा सीता भूतानां धारिणी तथा ॥
एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता ॥ ११९ ॥
सम्यक्स्तुता त्वया पुत्र अजेयस्त्वं भविष्यसि ॥
अवतारे सदा वत्स पितृमातृसु वल्लभः॥ 7.1.165.१२० ॥
________________________________________
अनेन स्तवराजेन स्तोष्यते यस्तु मां सदा॥
सर्वदोषविनिर्मुक्तः परं स्थानं गमिष्यति ॥१२१॥
गच्छ यज्ञं चिरं तस्य समाप्तिं नय पुत्रक ॥१२२॥
कुरुक्षेत्रे प्रयागे च भविष्ये यज्ञकर्मणि ॥
समीपगा स्थिता भर्तुः करिष्ये तव भाषितम् ॥१२३॥
एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तमम् ॥
सावित्री तु समायाता प्रभासे वरवर्णिनि ॥१२४॥
_____________________________
गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत् ॥१२५॥
शृण्वंतु मुनयो वाक्यं मदीयं भर्तृसन्निधौ ॥
यदहं वच्मि संतुष्टा वरदानाय चोद्यता ॥ १२६ ॥
ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः ॥
तेषां वस्त्रं धनं धान्यं दाराः सौख्यं सुताश्च वै ॥ १२७ ॥
अविच्छिन्नं तथा सौख्यं गृहं वै पुत्रपौत्रिकम् ॥
भुक्त्वाऽसौ सुचिरं कालं ततो मोक्षं गमिष्यति ॥१२८॥
शक्राहं ते वरं वच्मि संग्रामे शत्रुभिः सह ॥
तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम् ॥ १२९ ॥
सपुत्रशत्रुनाशात्त्वं लप्स्यसे च परं मुदम् ॥
अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति ॥ 7.1.165.१३० ॥
_________________________________________
मर्त्यलोके यदा विष्णो ह्यवतारं करिष्यसि ॥
भ्रात्रा सह परं दुःखं स्वभार्या हरणं च यत् ॥१३१॥
हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ ॥
गृहीत्वा तां पुनः प्राज्यं राज्यं कृत्वा गमिष्यसि ॥१३२॥
एकादश सहस्राणि कृत्वा राज्यं पुनर्दिवम्॥
ख्यातिस्ते विपुला लोके चानुरागो भविष्यति॥१३३॥
गायत्री ब्राह्मणांस्तांश्च सर्वानेवाब्रवीदिदम् ॥१३४॥
युष्माकं प्रीणनं कृत्वाऽ तृप्तिं यास्यंति देवताः॥
भवंतो भूमिदेवा वै सर्वे पूज्या भविष्यथ ॥१३५॥
युष्माकं पूजनं कृत्वा दत्त्वा दानान्यनेकशः॥
प्राणायामेन चैकेन सर्वमेतत्तरिष्यथ॥१३६॥
प्रभासे तु विशेषेण जप्त्वा मां वेदमातरम्॥
प्रतिग्रहकृतान्दोषान्न प्राप्स्यध्वं द्विजोत्तमाः॥१३७ ॥
पुष्करे चान्नदानेन प्रीताः सर्वे च देवताः ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवतिभोजिता ॥ १३८ ॥
ब्रह्महत्यादिपापानि दुरितानि च यानि च ॥
तरिष्यंति नराः सर्वे दत्ते युष्मत्करे धने ॥ १३९ ॥
महीयध्वे तु जाप्येन प्राणायामैस्त्रिभिः कृतैः ॥
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति ॥7.1.165.१४०॥
___________________________________________
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ॥
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम् ॥ १४१ ॥
एवं ज्ञात्वा सदा पूज्या जाप्ये च मम वै कृते ॥
भविष्यध्वं न सन्देहो नात्र कार्या विचारणा ॥ १४२ ॥
ओंकारेण त्रिमात्रेण सार्धेन च विशेषतः ॥
पूज्याः सर्वे न सन्देहो जप्त्वा मां शिरसा सह ॥१४३॥
अष्टाक्षरस्थिता चाहं जगद्व्याप्तं मया त्विदम् ॥
माताऽहं सर्ववेदानां वेदैः सर्वैरलङ्कता ॥ १४४॥
जत्वा मां परमां सिर्द्धि पश्यन्ति द्विजसत्तमाः ॥
प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति ॥ १४५ ॥
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः॥
नायंत्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी॥१४६॥
___________________________________
यस्माद्भवतां सावित्र्या शापो दत्तो सदे त्विह॥
अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्॥
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः ॥ १४७ ॥
अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः॥
स्वर्गं ते तु गमिष्यंति एकविंशतिभिः कुलैः ॥१४८॥
एवं शक्रे च विष्णौ च रुद्रे वै पावके तथा ॥
ब्रह्मणो ब्रह्मणानां च गायत्री सा वरं ददौ ॥
तस्मिन्काले वरं दत्त्वा ब्रह्मणः पार्श्वगाऽभवत् ॥१४९॥
हरिणा तु समाख्यातं लक्ष्म्याः शापस्य कारणम् ॥
युवतीनां च सर्वासां शापस्तासां पृथक्पृथक् ॥ 7.1.165.१५० ॥
______________________________________
लक्ष्म्यास्तदा वरं प्रादाद्गायत्री ब्रह्मणः प्रिया ॥ १५१ ॥
अकुत्सिताः सदा पुत्रि तव वासेन शोभने ॥
भविष्यति न संदेहः सर्वेभ्यः प्रीतिदायकाः ॥ १५२ ॥
ये त्वया वीक्षिताः सर्वे सर्वे वै पुण्यभाजनाः॥
तेषां जातिः कुलं शीलं धर्मश्चैव वरानने ॥१५३॥
परित्यक्तास्त्वया ये तु ते नरा दुःखभागिनः॥
सभायां ते न शोभन्ते मन्यन्ते न च पार्थिवैः ॥१५४॥
आशिषश्चैव तेषां तु कुर्वते वै द्विजोत्तमाः ॥
सौजन्यं तेषु कुर्वन्ति नप्ता भ्राता पिता गुरुः ॥ १५५ ॥
बांधवोऽसि न संदेहो न जीवेऽहं त्वया विना ॥
त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना ॥
मनः प्रसीदतेऽत्यर्थं सत्यंसत्यं वदामि ते ॥ १५६ ॥
एवंविधानि वाक्यानि त्वया दृष्ट्या निरीक्षिते ॥
सज्जनास्ते वदिष्यन्ति जनानां प्रीतिदायकाः ॥ १५७ ॥
इन्द्राणि नहुषः प्राप्य स्वर्गं त्वां याचयिष्यति ॥
अदृष्ट्वा तु हतः पापो अगस्त्यवचनाद्द्रुतम्॥ १५८ ॥
सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं मुनिम् ॥
दर्पेणाहं विनष्टोऽस्मि शरणं मे मुने भव ॥ १५९ ॥
वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः ॥
कृत्वा मनसि कारुण्यमिदं वचनमब्रवीत् ॥ 7.1.165.१६० ॥
________________________________________
उत्पत्स्यति कुले राजा त्वदीये कुरुनंदन ॥
सार्पं कलेवरं दृष्ट्वा प्रश्नैस्त्वामुद्धरिष्यति ॥ १६१॥
सोऽप्यजगरतां त्यक्त्वा पुनः स्वर्गं गमिष्यति ॥
अश्वमेधे कृते भर्त्रा सह यासि पुनर्दिवि ॥
प्राप्स्यसे वर दानेन ममानेन सुलोचने ॥ १६२ ॥
देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः ॥
अपत्यैरपि हीनाः स्युर्नैव दुःखं भविष्यति ॥ १६३ ॥
_______________________________
इति दत्त्वा वरान्देवी गायत्री लोकसंमता ॥
जगामादर्शनं देवी सर्वेषां पश्यतां तदा ॥ १६४ ॥
सावित्री तु तदा देवी प्रभासं क्षेत्रमागता ॥
कृतस्मरस्य शृङ्गे तु श्रीसोमेश्वरपूर्वतः ॥ १६५ ॥
मन्वन्तरे चाक्षुषे च द्वितीये द्वापरे शुभे ॥
तत्र यज्ञः समारब्धो ब्रह्मणा लोककारिणा ॥ १६६ ॥
यज्ञे याता महात्मानो देवाः सप्तर्षयो वराः ॥
स्वायंभुवे तु ये शस्ताः शप्तास्ते चाभवन्पुरा ॥ १६७ ॥
तस्मात्कालात्समारभ्य प्रभासं क्षेत्रमाश्रिताः ॥ १६८ ॥
सावित्री लोकजननी लोकानुग्रहकारिणी ॥
यस्तां पूजयते भक्त्या पक्षमेकं निरंतरम् ॥
ब्रह्मपूजाविधानेन तस्य पुत्रो ध्रुवो भवेत् ॥ १६९ ॥
पाण्डुकूपे नरः स्नात्वा दृष्ट्वा लिंगानि पञ्च वै ॥
पाण्डवैः स्थापितानीह दृष्ट्वा यज्ञफलं लभेत् ॥ 7.1.165.१७० ॥
________________________________________
ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलसंनिधौ ॥
पठेद्यो ब्रह्मसूक्तानि मुच्यते सर्वपातकैः ॥ १७१ ॥
एतत्ते सर्वविख्यातमाख्यातं कल्मषापहम् ॥
यश्चेदं शृणुयाद्भक्त्या स गच्छेत्परमं पदम् ॥ १७२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम पञ्चषष्ट्युतरशततमोऽध्यायः ॥ १६५ ॥
_____________________________________________
स्कन्दपुराणम् खण्डः (७) (प्रभासखण्डः)-प्रभासक्षेत्र माहात्म्यम् अध्यायः (१६६)
॥ देव्युवाच ॥
प्रभासे संस्थिता या तु सावित्री ब्रह्मणः प्रिया ॥
तस्याश्चरित्रं मे ब्रूहि देवदेव जगत्पते ॥ १ ॥
व्रतमाहात्म्यसंयुक्तमितिहाससमन्वितम् ॥
पाति व्रत्यकरं स्त्रीणां महाभाग्यं महोदयम् ॥ २ ॥
॥ ईश्वर उवाच ॥
कथयामि महादेवि सावित्र्याश्चरितं महत् ॥
प्रभासक्षेत्रसंस्थायाः स्थल स्थाने महेश्वरि ॥
यथा चीर्णं व्रतकरं सावित्र्या राजकन्यया ॥ ३ ॥
आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः ॥
पार्थिवोऽश्वपतिर्नाम पौरजानपद प्रियः ॥ ४ ॥
क्षमावाननपत्यश्च सत्यवादी जितेन्द्रियः ॥
प्रभासक्षेत्रयात्रायामाजगाम स भूपतिः ॥
यात्रां कुर्वन्विधानेन सावित्रीस्थलमागतः ॥ ५ ॥
स सभार्यो व्रतमिदं तत्र चक्रे नृपः स्वयम् ॥
सावित्रीति प्रसिद्धं यत्सर्वकामफलप्रदम् ॥ ६ ॥
तस्य तुष्टाऽभवद्देवि सावित्री ब्रह्मणः प्रिया ॥
भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता ॥ ७ ॥
कमंडलुधरा देवी जगामादर्शनं पुनः ॥
कालेन वहुना जाता दुहिता देवरूपिणी ॥ ८ ॥
___________________________________
सावित्र्या प्रीतया दत्ता सावित्र्याः पूजया तथा ॥
सावित्रीत्येव नामाऽस्याश्चक्रे विप्राज्ञया नृपः॥ ९ ॥
सा विग्राहवतीव श्रीः प्रावर्धत नृपात्मजा ॥
सावित्री सुकुमारांगी यौवनस्था बभूव ह॥7.1.166.१०॥
________________________________________
या सुमध्या पृथुश्रोणी प्रतिमा काञ्चनी यथा ॥
प्राप्तेयं देवकन्या वा दृष्ट्वा तां मेनिरे जनाः ॥ ॥ ११ ॥
सा तु पद्मा विशालाक्षी प्रज्वलतीव तेजसा ॥
चचार सा च सावित्री व्रतं यद्भृगुणोदितम् ॥१२॥
अथोपोष्य शिरःस्नाता देवतामभिगम्य च ॥
हुत्वाग्निं विधिवद्विप्रान्वाचयेद्वरवर्णिनी ॥१३॥
तेभ्यः सुमनसः शेषां प्रतिगृह्य नृपात्मजा॥
सखीपरिवृताऽभ्येत्य देवी श्रीवत्सरूपिणी ॥१४॥
साऽभिवाद्य पितुः पादौ शेषां पूर्वं निवेद्य च ॥
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ॥ १५ ॥
तां दृष्ट्वा यौवनप्राप्तां स्वां सुतां देवरूपिणीम् ॥
उवाच राजा संमन्त्र्य पुत्र्यर्थं सह मन्त्रिभिः ॥ १६ ॥
पुत्रि प्रदानकालस्ते न हि कश्चिद्वृणोति माम्॥
विचारयन्न पश्यामि वरं तुल्यमिहात्मनः ॥१७॥
देवादीनां यथा वाच्यो न भवेयं तथा कुरु॥
पठ्यमानं मया पुत्रि धर्मशास्त्रेषु च श्रुतम् ॥१८॥
पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥
ब्रह्महत्या पितुस्तस्य सा कन्या वृषली स्मृता ॥१९॥
अतोऽर्थं प्रेषयामि त्वां कुरु पुत्रि स्वयंवरम्॥
वृद्धैरमात्यैः सहिता शीघ्रं गच्छावधारय ॥7.1.166.२०॥
__________________________________________
एवमस्त्विति सावित्री प्रोच्य तस्माद्विनिर्ययौ ॥
तपोवनानि रम्याणि राजर्षीणां जगाम सा ॥ २१ ॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् ॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमाणि च ॥ २२ ॥
आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः ॥
तत्रापश्यत देवर्षिं नारदं पुरतः शुचिम् ॥ २३ ॥
आसीनमासने विप्रं प्रणम्य स्मितभाषिणी ॥
कथयामास तत्कार्यं येनारण्यं गता च सा ॥ २४ ॥
॥ सावित्र्युवाच ॥
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ॥
द्युमत्सेन इति ख्यातो दैवादन्धो वभूव सः ॥ २५ ॥
आर्यस्य बालपुत्रस्य द्युमत्सेनस्य रुक्मिणा ॥
सामन्तेन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ २६ ॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ॥ २७ ॥
स तस्य च वने वृद्धः पुत्रः परमधार्मिकः ॥
सत्यवागनुरूपो मे भर्तेति मनसेप्सितः ॥ २८ ॥
॥ नारद उवाच ॥
अहो बत महत्कष्टं सावित्र्या नृपते कृतम् ॥
बालस्वभावादनया गुणवान्सत्यवाग्वृतः ॥ २९ ॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ॥
सत्यं वदेति मुनिभिः सत्यवान्नाम वै कृतम् ॥7.1.166.३०॥
________________________________________
नित्यं चाश्वाः प्रियास्तस्य करोत्यश्वाश्च मृन्मयान् ॥
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ ३१ ॥
सत्यवान्रंतिदेवस्य शिष्यो दानगुणैः समः ॥
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ ३२ ॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः ॥
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ ३३ ॥
एको दोषोऽस्ति नान्यश्च सोऽद्यप्रभृति सत्यवान् ॥
संवत्सरेण क्षीणायुर्देहत्यागं करिष्यति ॥ ३४ ॥
नारदस्य वचः श्रुत्वा दुहिता प्राह पार्थिवम् ॥ ३५ ॥
॥ सावित्र्युवाच ॥
सकृज्जल्पंति राजानः सकृज्जल्पंति ब्राह्मणाः ॥
सकृत्कन्या प्रदीयेत त्रीण्येतानि सकृत्सकृत् ॥ ३६ ॥
दीर्घायुरथवाल्पायुः सगुणो निर्गुणोऽपि वा ॥
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ ३७ ॥
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते ॥
क्रियते कर्मणा पश्चात्प्रमाणं हि मनस्ततः ॥ ३८ ॥
॥ नारद उवाच ॥
यद्येतदिष्टं भवतः शीघ्रमेव विधीयताम् ॥
अविघ्नेन तु सावित्र्याः प्रदानं दुहितुस्तव ॥ ३९ ॥
एवमुक्त्वा समुत्पत्य नारूदस्त्रिदिवं गतः ॥
राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ॥
शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः॥7.1.166.४० ॥
________________________________________
सावित्र्यपि च तं लब्ध्वा भर्तारं मनसेप्तितम् ॥।
मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत् ॥ ४१ ॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम् ॥
कालस्तु पश्यतां किञ्चिदतिचक्राम पार्वति ॥ ४२ ॥
सावित्र्यास्तु तदा नार्यास्तिष्ठन्त्याश्च दिवानिशम् ॥
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ ४३ ॥
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ॥
प्राप्तः कालोऽथ मर्तव्यो यत्र सत्यव्रतो नृपः ॥ ४४ ॥
ज्येष्ठमासे सिते पक्षे द्वादश्यां रजनीमुखे ॥
गणयंत्याश्च सावित्र्या नारदोक्तं वचो हृदि ॥ ४५ ॥
चतुर्थेऽहनि मर्तव्यमिति संचिंत्य भामिनी ॥
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽऽश्रमे ॥ ४६ ॥
ततस्त्रिरात्रं न्यवसत्स्नात्वा संतर्प्य देवताम् ॥
श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी ॥ ४७ ॥
अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ॥
सावित्र्यपि च भर्तारं गच्छंतं पृष्ठतोऽन्वयात् ॥ ४८ ॥
ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ॥
अथ शुष्काणि चादाय काष्ठभारमकल्पयत् ॥ ४९ ॥
अथ पाटयतः काष्ठं जाता शिरसि वेदना ॥
काष्ठभारं क्षणात्त्यक्त्वा वटशाखावलंबितः ॥ 7.1.166.५० ॥
सावित्रीं प्राह शिरसो वेदना मां प्रबाधते ॥
तवोत्संगे क्षणं तावत्स्वप्तुमिच्छामि सुन्दरि ॥ ५१ ॥
विश्रमस्व महाबाहो सावित्री प्राह दुःखिता ॥
पश्चादपि गमिष्यामि ह्याश्रमं श्रमनाशनम् ॥ ५२ ॥
यावदुत्संगगं कृत्वा शिरोस्य तु महीतले ॥
तावद्ददर्श सावित्री पुरुषं कृष्णपिंगलम् ॥ ५३ ॥
किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ॥
तमुवाचाथ सावित्री प्रणम्य मधुराक्षरम् ॥ ५४ ॥
कस्त्वं देवोऽथवा दैत्यो यो मां धर्षितुमागतः ॥
न चाहं केनचिच्छक्या स्वधर्माद्देव रोधितुम् ॥ ५५ ॥
विद्धि मां पुरुषश्रेष्ठ दीप्तामग्निशिखामिव ॥ ५६ ॥
॥ यम उवाच ॥
यमः संयमनश्चास्मि सर्वलोकभयंकरः ॥ ५७ ॥
क्षीणायुरेष ते भर्ता संनिधौ ते पतिव्रते ॥
न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः ॥ ५८ ॥
एवमुक्त्वा सत्यव्रतशरीरात्पाशसंयुतः ॥
अंगुष्ठमात्रं पुरुषं निचकर्ष यमो बलात् ॥ ५९ ॥
अथ प्रयातुमारेभे पंथानं पितृसेवितम् ॥
सावित्र्यपि वरारोहा पृष्ठतोऽनुजगाम ह ॥7.1.166.६०॥
_______________________________
पतिव्रतत्वाच्चाश्रांता तामुवाच यमस्तथा ॥
निवर्त गच्छ सावित्रि मुहूर्तं त्वमिहागता ॥ ६१ ॥
एष मार्गो विशालाक्षि न केनाप्यनुगम्यते ॥ ६२ ॥
॥ सावित्र्युवाच ॥
न श्रमो न च मे ग्लानिः कदाचिदपि जायते ॥
भर्तारमनुगच्छन्त्या विशिष्टस्य च संनिधौ ॥ ६३ ॥
सतां सन्तो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः ॥
वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः ॥ ६४ ॥
सर्वेषामेव भूतानां स्थानमस्ति महीतले ॥
भर्त्तारमेकमुत्सृज्य स्त्रीणां नान्यः समाश्रयः ॥ ६५ ॥
एवमन्यैः सुमधुरैर्वाक्यैर्धर्मार्थसंहितैः ॥
तुतोष सूर्यतनयः सावित्रीं वाक्यमब्रवीत् ॥६६॥
॥ यम उवाच ॥
तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि ॥
सापि वव्रे च राज्यं स्वं विनयावनतानना ॥ ६७ ॥
चक्षुःप्राप्तिं तथा राज्यं श्वशुरस्य महात्मनः ॥
पितुः पुत्रशतं चैव पुत्राणां शतमात्मनः ॥ ६८ ॥
जीवितं च तथा भर्तुर्धर्मसिद्धिं च शाश्वतीम् ॥
धर्मराजो वरं दत्त्वा प्रेषयामास तां ततः ॥ ६९ ॥
अथ भर्तारमासाद्य सावित्री हृष्टमानसा ॥
जगाम स्वाश्रमपदं सह भर्त्रा निराकुला ॥ 7.1.166.७० ॥
____________________________________
ज्येष्ठस्य पूर्णिमायां च तया चीर्णं व्रतं त्विदम् ॥
माहात्म्यतोऽस्य नृपतेश्चक्षुःप्राप्तिरभूत्पुरः ॥ ७१ ॥
ततः स्वदेशराज्यं च प्राप निष्कण्टकं नृपः ॥
पितास्याः पुत्रशतकं सा च लेभे सुताञ्छतम् ॥ ७२ ॥
एवं व्रतस्य माहात्म्यं कथितं सकलं मया ॥ ७३ ॥
॥ देव्युवाच ॥
कीदृशं तद्व्रतं देव सावित्र्या चरितं महत् ॥
तस्मिंस्तु ज्येष्ठमासे हि विधानं तस्य कीदृशम् ॥ ७४ ॥
का देवता व्रते तस्मिन्के मन्त्राः किं फलं विभो ॥
विस्तरेण महेश त्वं ब्रूहि धर्मं सनातनम् ॥ ७६ ॥
॥ ईश्वर उवाच ॥
श्रूयतां देवदेवेशि सावित्रीव्रतमा दरात् ॥
कथयामि यथा चीर्णं तया सत्या महेश्वरि ॥ ७६ ॥
त्रयोदश्यां तु ज्येष्ठस्य दन्तधावनपूर्वकम् ॥
त्रिरात्रं नियमं कुर्यादुपवासस्य भामिनि ॥ ७७ ॥
अशक्तस्तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः ॥
अयाचितं चतुर्दश्यां ह्युपवासेन पूर्णिमाम् ॥ ७८ ॥
नित्यं स्नात्वा तडागे वा महानद्यां च निर्झरे ॥
पांडुकूपे तु सुश्रोणि सर्वस्नानफलं लभेत् ॥ ७९ ॥
विशेषात्पूर्णिमायां तु स्नानं सर्षपमृज्जलैः ॥ 7.1.166.८० ॥
_________________________________
गृहीत्वा वालुकं पात्रे प्रस्थमात्रे यशस्विनि ॥
अथवा धान्यमादाय यवशालितिलादिकम् ॥ ८१ ॥
ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टिते ॥
सावित्रीप्रतिमां कृत्वा सर्वावयवशोभिताम्॥ ८२ ॥
सौवर्णीं मृन्मयीं वापि स्वशक्त्या दारुनिर्मिताम् ॥
रक्तवस्त्रद्वयं दद्यात्सावित्र्या ब्रह्मणः सितम् ॥ ८३ ॥
सावित्रीं ब्रह्मणा सार्धमेवं शक्त्या प्रपूजयेत् ॥
गन्धैः सुगन्धपुष्पैश्च धूपनैवेद्यदीपकैः ॥ ९४ ॥
पूर्णकोशातकैः पक्वैः कूष्माण्डकर्कटीफलैः ॥
नालिकेरैः सखर्जूरैः कपित्थैर्दाडिमैः शुभैः ॥ ८५ ॥
जंबूजंबीरनारिंगैरक्षोटैः पनसैस्तथा ॥
जीरकैः कटुखण्डैश्च गुडेन लवणेन च ॥ ८६ ॥
विरूढैः सप्तधान्यैश्च वंशपात्रप्रकल्पितैः ॥
रंजयेत्पट्टसूत्रैश्च शुभैः कुंकुमकेसरैः ॥ ८७ ॥
अवतारं करोत्येवं सावित्री ब्रह्मणः प्रिया ॥ ८८ ॥
तामर्च्चयीत मन्त्रेण सावित्र्या ब्रह्मणा समम्॥
इतरेषां पुराणोक्तो मंत्रोऽयं समुदाहृतः ॥ ८९ ॥
ओंकारपूर्वके देवि वीणापुस्तकधारिणि ॥
वेदांबिके नमस्तुभ्यमवैधव्यं प्रयच्छ मे ॥7.1.166.९०।।
एवं संपूज्य विधिवज्जागरं तत्र कारयेत्॥
गीतवादित्रशब्देननरनारीकदंबकम् ॥
नृत्यद्धसन्नयेद्रात्रिं नृत्यशास्त्रविशारदैः ॥ ९१ ॥
सावित्र्याख्यानकं चापि वाचयीत द्विजोत्तमान्॥
यावत्प्रभातसमयं गीतभावरसैः सह ॥ ९२ ॥
विवाहमेवं कृत्वा तु सावित्र्या ब्रह्मणा सह ॥
परिधाप्य सितैर्वस्त्रैर्दंपतीनां तु सप्तकम् ॥ ९३ ॥
गृहदानं प्रदातव्यं सर्वोपस्करसंयुतम् ॥
ब्राह्मणे वेदविदुषे सावित्रीं विनिवेदयेत् ॥ ९४ ॥
अथ सावित्रीकल्पज्ञे सावित्र्याख्यानवाचके ॥
दैवज्ञे ह्युञ्छवृत्तिस्थे दरिद्रे चाग्निहोत्रिणि ॥ ९५ ॥
एवं दत्त्वा विधानेन तस्यां रात्रौ निमन्त्रयेत् ॥
पौर्णमास्यां वटाधस्ताद्दंपतीनां चतुर्दश ॥ ९६ ॥
ततः प्रभातसमये उषःकाल उपस्थिते ॥
भक्ष्यभोज्यादिकं सर्वं सावित्रीस्थलमानयेत् ॥ ९७॥
पाकं कृत्वा तु शुचिना रक्षां कृत्वा प्रयत्नतः ॥
ब्राह्मणान्गृहिणीयुक्तांस्तत आह्वानयेत्सुधीः ॥ ९८ ॥
सावित्र्याः स्थलके तत्र कृत्वा पादाभिषेचनम् ॥
सुस्नातान्ब्राह्मणांस्तत्र सभार्यानुपवेशयेत् ॥ ९९ ॥
सावित्र्याः पुरतो देवि दंपत्योर्भोजनं ददेत् ॥
तेनाहं भोजितस्तत्र भवामीह न संशय॥7.1.166.१००॥
द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः ॥
लक्ष्म्याः सहायो वरदो वरांस्तस्य प्रयच्छति ॥ १०१ ॥
सावित्र्या सहितो ब्रह्मा तृतीये भोजितो भवेत् ॥
एकैकं भोजनं तत्र कोटिभोजसमं स्मृतम् ॥ १०२ ॥
अष्टादशप्रकारेण षड्रसीकृतभोजनम् ॥
देव्यास्तत्र महादेवि सावित्रीस्थलसन्निधौ ॥ १०३ ॥
विधवा न कुले तस्य न वंध्या न च दुर्भगा ॥
न कन्याजननी चापि न च स्याद्भर्तुरप्रिया ॥
अष्टौ दोषास्तु नारीणां न भवंति कदाचन ॥ १०४ ॥
तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे च भोजनम् ॥
दातव्यं सर्वदा देवि कटुनीलविवर्जितम् ॥ १०५ ॥
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन ॥
पंचप्रकारं मधुरं हृद्यं सर्वं सुसंस्कृतम् ॥ १०६ ॥
घृतपूर्णापूपकाश्च बहुक्षीरसमन्विताः ॥
पूपकास्तादृशाः कार्या द्वितीयाऽशोकवर्तिका ॥ १०७ ॥
तृतीया पूपिका कार्या खर्जुरेण समन्विताः ॥
चतुर्थश्चैव संयावो गुडाज्याभ्यां समन्वितः ॥ ॥ १०८॥
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा ॥
धनधान्यजनोपेतं नारीनरशताकुलम् ॥
पूपकैस्तु कुलं तस्या जायते नात्र संशयः ॥ ॥ १०९ ॥
न ज्वरो न च संतापो दुःखं च न वियोगजम् ॥
अशोकवर्तिदानेन कुलानामेकविंशतिः।7.1.166.११०॥
वधूभिश्च सुतैश्चैव दासीदासैरनन्तकैः ॥
पूरितं च कुलं तस्याः पूरिका या प्रयच्छति ॥ १११ ॥
पुत्रिण्यो वै दुहितरो वधूभिः सहिताः कुले ॥
शिखरिणीप्रदात्रीणां युवतीनां न संशयः ॥ ११२ ॥
मोदते च कुलं सर्वं सर्वसिद्धिप्रपूरितम् ॥
मोदकानां प्रदानेन एवमाह पितामहः ॥ ११३ ॥
एतच्च गौरिणीनां तु भोजनं हि विशिष्यते ॥ ११४ ॥
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता ॥
सहस्रभोजिनी देवि भवेज्जन्मनिजन्मनि ॥ ११५ ॥
पानानि चैव मुख्यानि हृद्यानि मधुराणि च ॥
द्राक्षापानं तु चिंचायाः पानं गुडसमन्वितम् ॥ ११६ ॥
सरसेन तु तोयेन कृतखण्डेन वै शुभम् ॥
सुवासिनीनां पेयं वै दातव्यं च द्विजन्मनाम् ॥ ११७ ॥
इतरैरितराण्येव वर्णयोग्यानि यानि च ॥
सुरभीणि च पानानि तासु योग्यानि दापयेत् ॥ ११८ ॥
प्रतिपूज्य विधानेन वस्त्रदानैः सकंचुकैः ॥
कुङ्कुमेनानुलिप्तांगाः स्रग्दामभिरलंकृताः ॥
गंधैर्धूपैश्च संपूज्य नालिकेरान्प्रदापयेत् ॥ ११९ ॥
नेत्राणां चाञ्जनं कृत्वा सिन्दूरं चैव मस्तके ॥
पूगीफलानि हृद्यानि वासितानि मृदूनि च ॥
हस्ते दत्त्वा सपात्राणि प्रणिपत्य विसर्जयेत् ॥ 7.1.166.१२० ॥
स्वयं च भोजयेत्पश्चाद्बंधुभिर्बालकैः सह ॥ १२१ ॥
अथवा नैव संपद्येत्तीर्थे चैव तु भोजनम् ॥
गृहे गत्वा प्रभोक्तव्यं तुष्टा देवी यथा भवेत् ॥ ११२ ॥
एवमेव पितॄणां च आगम्य स्वे च मन्दिरे ॥
पिण्डप्रदानपूर्वं तु श्राद्धं कृत्वा विधानतः ॥
पितरस्तस्य तुष्टा वै भवन्ति ब्रह्मणो दिनम् ॥१२३॥
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतः शुभे ॥
न च पश्यन्ति वै नीचाः श्राद्धं दत्तं द्विजातिभिः ॥१२४॥
एकान्ते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते ॥
नीचं दृष्ट्वा हतं तत्तु पितॄणां नोपतिष्ठति ॥ १२५ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत् ॥
पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा ॥१२६॥
गौरीभोज्यादिका या तु उत्सर्गात्क्रियते क्रिया ॥
राजसी सा समाख्याता जनानां कीर्तिदायिनी ॥१२७॥
इदं दानं सदा देयमात्मनो हित मिच्छता ॥
श्राद्धे चैव विशेषेण यदीच्छेत्सात्त्विकं फलम् ॥ १२८ ॥
इदमुद्यापनं देवि सावित्र्यास्तु व्रतस्य च ॥
सर्वपातकशुद्ध्यर्थं कार्यं देवि नरैः सदा ॥
अकामतः कामतो वा पापं नश्यति तत्क्षणात् ॥ १२९ ॥
इह लोके तु सौभाग्यं धनं धान्यं वराः स्त्रियः ॥
भवंति विविधास्तेषां यैर्यात्रा तत्र वै कृता ॥ 7.1.166.१३० ॥
इदं यात्राविधानं तु भक्त्या यः कुरुते नरः ॥
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते ॥ १३१ ॥
ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलके शुभे ॥
प्रदक्षिणा यः कुरुते फलदानैर्यथाविधि ॥ १३२ ॥
अष्टोत्तरशतं वापि तदर्धार्धं तदर्धकम् ॥
यः करोति नरो देवि सृष्ट्वा तत्र प्रदक्षिणाम् ॥ १३३ ॥
अगम्यागमनं यैश्च कृतं ज्ञानाच्च मानवैः ॥
अन्यानि पातकान्येवं नश्यंते नात्र संशयः ॥ १३४ ॥
यैर्गत्वा स्थलके संध्या सावित्र्याः समुपासिता ॥
स्वपत्न्याश्चैव हस्तेन पांडुकूपजलेन च ॥ १३५ ॥
भृंगारकनकेनैव मृन्मयेनाथ भामिनि ॥
आनीय तु जलं पुण्यं संध्योपास्तिं करोति यः ॥
तेन द्वादशवर्षाणि भवेत्संध्या ह्युपासिता ॥ १३६ ॥
अश्वमेधफलं स्नाने दाने दशगुणं तथा ॥
उपवासे त्वनंतं च कथायाः श्रवणे तथा ॥ १३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीव्रतविधिपूजनप्रकारोद्यापनादिकथनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ १६६ ॥
स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६७
< स्कन्दपुराणम् | खण्डः ७ (प्रभासखण्डः) | प्रभासक्षेत्र माहात्म्यम्
॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि तत्रस्थां भूतमातृकाम् ॥ सावित्र्या वारूणे भागे शतधन्वंतरे स्थिताम् ॥
नवकोटि गणैर्युक्तां प्रेतभूतसमाकुलाम् ॥ पूजितां सिद्धगंधर्वैर्देवादिभिरनेकशः ॥ २ ॥
॥ देव्युवाच ॥
भूतमातेति संहृष्टा ग्रामेग्रामे पुरेपुरे ॥ गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ॥ ३ ॥
उन्मत्तवत्प्रलपते क्षितौ पतति मत्तवत् ॥ क्रुद्धवद्धावति परान्मृतवत्कृष्यते हि सः ॥ ४ ॥
सुखभंगांश्च कुरुते लोको वातगृहीतवत् ॥भूतवद्भस्ममूत्रांबुकर्दमानवगाहते ॥ ५ ॥
किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः ॥ मुह्यते मे मनो देव तेन त्वं वक्तुमर्हसि ॥ ६ ॥
कथं सा पुरुषैः पूज्या प्रभासक्षेत्रवासिभिः ॥ कस्मात्तत्र गता देवी कस्मिन्काले समागता ॥
कस्मिन्दिने तु मासे तु तस्याः कार्यो महोत्सवः ॥ ७ ॥
॥ ईश्वर उवाच ॥
शृणु देवि प्रवक्ष्यामि यत्ते किंचिन्मनोगतम् ।। अस्तिकाः श्रद्दधानाश्च भवन्तीति मतिर्मम ॥ ८ ॥
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतेऽन्तरे ॥दक्षापमानात्संजाता तदा पर्वतपुत्रिका ॥ ९ ॥
द्वापरे तु द्वितीये वै दत्ता त्वं पर्वतेन मे ॥ विवाहे चैव संजाते सर्वदेवमनोरमे ॥ 7.1.167.१० ॥
त्वया च सहितः पूर्वं मन्दरे चारुकंदरे ॥ अक्रीडं च मुदा युक्तो दिव्यक्रीडनकैः प्रिये ॥
पीनोन्नतनितंबेन भ्राजमाना कुचोन्नताम् ॥ ११ ॥
सिताब्जवदनां हृष्टां दृष्ट्वाऽहं त्वां महाप्रभाम् ॥
दग्धकामतरोः कन्दकंदलीमिव निःसृताम् ॥
महार्हशयनस्थां त्वां तदा कामितवानहम् ॥ १२ ॥
सुरते तव संजातं दिव्यं वर्षशतं यदा ॥
तदा देवि समुत्थाय निरोधान्निर्गता बहिः ॥ ॥ १३ ॥
तवोदकात्समुत्तस्थौ नार्येका गह्वरोदरा ॥
कृष्णा करालवदना पिंगाक्षी मुक्तमूर्धजा ॥ १४ ॥
कपालमालाभरणा बद्धमुण्डार्धपिंडका ॥
खट्वांगकंकालधरा रुण्डमुंडकरा शिवा ॥ १५ ॥
द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखला ॥
डमड्डमरुकारा च फेत्कारपूरिताम्बरा ॥ १६ ॥
तस्याश्च पार्श्वगा अन्यास्तासां नामानि मे शृणु ॥
सख्यो ब्राह्मणराक्षस्यस्तासां चैव सुदर्शनाः ॥ १७ ॥
दशकोटिप्रभेदेन धरां व्याप्य सुसंस्थिताः ॥
मुख्यास्तत्र चतस्रो वै महाबलपराक्रमाः ॥ १८ ॥
रक्तवर्णा महाजिह्वाऽक्षया वै पापकारिणी ॥
एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ १९ ॥
श्लेष्मातकतरौ ह्येते प्रायशः सुकृतालयाः ॥
उत्तालतालचपला नृत्यंति च हसंति च ॥ 7.1.167.२० ॥
विज्ञेया इह लोकेऽस्मिन्भूतानां मूलनायकाः ॥
अतिकृष्णा भवन्त्येते व्यंतरान्तरचारिणः ॥ २१ ॥
वृक्षाग्रमात्रमाकाशं ते चरंति न संशयः ॥ ॥ २२ ॥
तथैव मम वीर्यात्तु मद्रूपाभरणः पुमान् ॥
कपालखट्वांगधरो जातश्चर्मविगुण्ठितः ॥ २३ ॥
अनुगम्यमानो बहुभिर्भूतैरपि भयंकरः ॥
सिंहशार्दूलवदनैर्वदनोल्लिखितांबरैः ॥ २४ ॥
एवं देवि तदा जातः क्षुधाक्रान्तो बभाष माम् ॥
अतोऽहं क्षुधितं दृष्ट्वा वरं हीमं च दत्तवान् ॥ २५ ॥
युवयोर्हस्तसंस्पर्शान्नक्तमेवास्तु सर्वशः ॥
नक्तं चैव बलीयांसौ दिवा नातिबलावुभौ ॥
पुत्रवद्रक्षतं लोकान्धर्मश्चैवानुपाल्यताम् ॥ ॥ २६ ॥
इत्युक्तौ तौ मया तत्र भूतमातृगणौ प्रिये ॥
एकीभूतौ क्षणेनैव तौ भवानीभवोद्भवौ ॥ २७ ॥
दृष्ट्वा हृष्टमनाश्चाहमवोचं त्वां शुचिस्मिते ॥ २८ ॥
कल्याणि पश्यपश्यैतौ ममांशाच्च समुद्भवौ ॥
बीभत्साद्भुतशृंगारधारिणौ हास्यकारिणौ ॥२९॥
भ्रातृभांडा भूतमाता तथैवोदकसेविता ॥
संज्ञात्रयं स्मृतं देवि लोके विख्यातपौरुषम् ॥7.1.167.३०॥
पुनः कृतांजलिपुटौ दृष्ट्वा मामूचतुस्तदा ॥
आवयोर्भगवन्कुत्र स्थाने वासो भविष्यति ॥३१॥
इत्युक्तवन्तौ तौ तत्र वरेण च्छन्दितौ मया ॥
अस्ति सौराष्ट्रविषये भारते क्षेत्रमुत्तमम् ॥३२॥
प्रभासेति समाख्यातं तत्र क्षेमं मम प्रियम् ॥
कूर्मस्य नैर्ऋते भागे स्थितं वै दक्षिणे परे॥३३॥
स्वाती विशाखा मैत्रं च यत्र ऋक्षत्रयं स्मृतम्॥
तस्मिन्स्थाने सदा स्थेयं यावन्मन्वन्तरावधि॥३४॥
अन्यदा जीविकं वच्मि तव भूतप्रिये सदा ॥ ३५ ॥
यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी ॥
भार्या पुनर्भूर्वल्मीकस्तास्ते वसतयश्चिरम् ॥ ३६ ॥
यस्मिन्गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ॥
अन्धकारेंधनाग्निश्च तद्गृहे वसतिस्तव ॥ ३७ ॥
भूतैः प्रेतैः पिशाचैश्च यत्स्थानं समधिष्ठितम् ॥
एकावि चाष्टबालेयं त्रिगवं पञ्चमाहिषम् ॥
षडश्वं सप्तमातंगं तद्गृहे वसतिस्तव ॥ ३८ ॥
उद्दालकान्नपिटकं तद्वत्स्थाल्यादिभाजनम् ॥
यत्र तत्रैव क्षिप्तं च तव तच्च प्रतिश्रयम् ॥ ३९ ॥
मुशलोलूखले स्त्रीणामास्या तद्वदुदुंबरे ॥
भाषणं कटुकं चैव तत्र देवि स्थितिस्तव ॥ 7.1.167.४० ॥
खाद्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ॥
तद्वच्छाखाश्च तत्र त्वं भूतैः सह चरिष्यसि ॥ ४१ ॥
स्थालीपिधाने यत्राग्निं ददते विकला नराः ॥
गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः ॥ ४२ ॥
मानुष्यास्थि गृहे यत्र अहोरात्रे व्यवस्थितम् ॥
तत्रायं भूतनिवहो यथेष्टं विचरिष्यति ॥ ४३ ॥
सर्वस्मादधिकं ये न प्रवदन्ति पिनाकिनम् ॥
साधारणं वदंत्येनं तत्र भूतैः समाविश ॥ ४४ ॥
कन्या च यत्र वै वल्ली रोहीनाम जटी गृहे ॥
अगस्त्य पादपो वापि बंधुजीवो गृहेषु वै ॥ ४५ ॥
करवीरो विशेषेण नंद्यावर्तस्तथैव च ॥
मल्लिका वा गृहे येषां भूतयोग्यं गृहं हि तत् ॥ ४६ ॥
तालं तमालं भल्लातं तिंतिणीखंडमेव वा ॥
बकुलं कदलीखंडं कदंबः खदिरोऽपि वा ॥४७॥
न्यग्रोधो हि गृहे येषामश्वत्थं चूत एव वा ॥
उदुंबरश्च पनसः सर्वभूत प्रियं हि तत् ॥४८॥
यत्र काकगृहं वै स्यादारामे वा गृहेऽपि वा ॥
भिक्षुबिंबं च वै यत्र गृहे दक्षिणके तथा ॥४९॥
बिंबमूर्ध्वं च यत्रस्थं तत्र भूतनिवेशनम् ॥7.1.167.५०॥
लिंगार्चनं न यत्रैव यत्र नास्ति जपादिकम् ॥
यत्र भक्तिविहीना वै भूतानां तान्गृहान्वदेत् ॥५१॥
मलिनास्यास्तु ये मर्त्या मलिनांबर धारिणः ॥
मलदंता गृहस्था ये गृहं तेषां समाविश ॥५२॥
अगम्यनिरता ये तु मैथुने व्यभिचारतः ॥
संध्यायां मैथुनं यांति गृहं तेषां समाविश ॥ ॥ ५३ ॥
बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः ॥
रुद्रभक्तिविहीना ये गृहं तेषां समाविश ॥ ५४ ॥
अदत्त्वा भुंजते योऽन्नं बंधुभ्योऽन्नं तथोदकम् ॥
सपिण्डान्सोदकांश्चैव तत्कालात्तान्नरान्भज ॥ ५५ ॥
यत्र भार्या च भर्ता च परस्परविरोधिनौ ॥
सह भूतैर्गृहं तस्य विश त्वं भयवर्ज्जिता ॥ ५६ ॥
वासुदेवे रतिर्नास्ति यत्र नास्ति सदा हरिः ॥
जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम् ॥ ५७ ॥
पर्वस्वप्यर्चनं नास्ति चतुर्दश्यां विशेषतः ॥ ५८ ॥
कृष्णाष्टम्यां च ये मर्त्याः संध्यायां भस्मवर्जिताः ॥
पंचदश्यां महादेवं न यजंति च यत्र वै ॥५९॥
पौरजानपदैर्यत्र प्राक्प्रसिद्धा महोत्सवाः ॥
क्रियते पूर्ववन्नैव तद्गृहं वसतिस्तव ॥ 7.1.167.६० ॥
वेदघोषो न यत्रास्ति गुरुपूजादिकं न च ॥
पितृकर्मविहीनं च तद्भूतस्य गृहं स्मृतम् ॥। ॥ ६१ ॥
रात्रौरात्रौ गृहे यस्मिन्कलहो जायते मिथः ॥
बालानां प्रेक्षमाणानां यत्र वृद्धश्च पूर्वतः ॥
भक्षयेत्तत्र वै हृष्टा भूतैः सह समाविश ॥६२॥
कस्मिन्मासे दिने चापि भवित्री लोकपूजिता ॥
इत्युक्तोऽहं तया देवि तामवोचं पुनः प्रिये ॥६३॥
अमा या माधवे मासि तस्मिन्या च चतुर्दशी ॥
तस्यां महोत्सवस्तत्र भविता ते चिरंतनः॥६४॥
याः स्त्रियस्तां च यक्ष्यंति तस्मिन्काले महोत्सवे॥
बलिभिः पुष्पधूपैश्च मा तासां त्वं गृहे विश॥६५॥
नारायण हृषीकेश पुण्डरीकाक्ष माधव ॥
अच्युतानंत गोविंद वासुदेव जनार्दन ॥ ६६ ॥
नृसिंह वामनाचिंत्य केशवेति च ये जनाः ॥
रुद्र रुद्रेति रुद्रेति शिवाय च नमोनमः ॥ ६७ ॥
वक्ष्यंति सततं हृष्टास्तेषां धनगृहादिषु ॥
आरामे चैव गोष्ठे च मा विशेथाः कथंचन ॥ ६८ ॥
देशाचाराञ्ज्ञा तिधर्माञ्जपं होमं च मंगलम् ॥
दैवतेज्यां विधानेन शौचं कुर्वंति ये जनाः ॥
लोकापवादभीता ये पुमांसस्तेषु मा विश ॥६९॥
॥ देव्युवाच ॥
कदा पूजा प्रकर्तव्या भूतमातुः सुखार्थिभिः ॥
पुरुषैर्देवदेवेश एतन्मे वक्तुमर्हसि ॥ 7.1.167.७० ॥
॥ ईश्वर उवाच ॥ ॥
सर्वत्रैषा भगवती बालानां हितकारिणी ॥
नामभेदैः कालभेदैः क्रियाभेदैश्च पूज्यते ॥७१॥
प्रतिपत्प्रभृति वैशाखे यावच्चतुर्दशीतिथिः ॥
तावत्पूजा प्रकर्तव्या प्रेरणीप्रेक्षणीयकैः ॥ ७२ ॥
भग्नामपि गतां चैनां जरत्तरुतले स्थिताम् ॥
सेचयिष्यंति ये भक्त्या जलसंपूर्णगंडुकैः ॥ ७३ ॥
ग्रीवासूत्रकसिन्दूरैः पुष्पैर्धूपैस्तथार्चयेत्॥
तत्र सिद्धवटः पूज्यः शाखां चास्य विनिक्षिपेत्॥ ७४ ॥
पूजितां तां नरैर्यत्नादवलोक्य शुभेप्सुभिः ॥
भोजयेत्क्षिप्रासंयावकृशरापूपपायसैः ॥७५॥
एवं विधिं यः कुरुते पुरुषो भक्तिभावतः ॥
स पुत्रपशुवृद्धिं च शरीरारोग्यमाप्नुयात् ॥७६॥
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ॥
पीडां कुर्वन्ति शिशवो यान्ति वृद्धिमनामयाम् ॥ ७७ ॥
अथ देवि प्रवक्ष्यामि प्रतिपत्प्रभृति क्रमात् ॥
यथोत्सवो नरैः कार्यः प्रेरणीप्रेक्षणीयकैः ॥७८॥
विकर्मफलनिर्द्देशैः पाखंडानां विटंबनैः ॥
प्रदर्श्यते हास्यपरैर्नरैरद्भुतचेष्टितैः ॥ ७९ ॥
पञ्चम्यां तु विशेषेण रात्रौ कोलाहलः शुभे ॥
जागरं तत्र कुर्वीत देवीं पूज्य प्रयत्नतः ॥ 7.1.167.८० ॥
विश्वस्य धनलोभेन स्वाध्यायो निहतः पतिः॥
आरोप्यमाणं शूलाग्रमेनं पश्यत भो जनाः॥८१॥
दृष्टो भवद्भिर्दुष्टः स परदारावमर्शकः ॥
छित्त्वा हस्तौ च खड्गेन खरारूढस्तु गच्छति ॥ ८२ ॥
शीर्णश्चैवासिपत्रेण अस्याभरणभूषितः ॥
सुखासन समारूढः सुकृती यात्यसौ सुखम् ॥ ८३ ॥
हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ॥
करपत्रैर्विदार्यंतमुच्छलच्छोणितान्तरम् ॥ ८४ ॥
चौरः किलायं संप्राप्तः सर्वोद्वेगकरः परः ॥
दंडप्रहाराभिहतो नीयते दंडपाशकैः ॥ ८५ ॥
प्रेक्षकैश्चेष्टितः शश्वदारटन्विविधैः स्वरैः ॥
संयम्य नीयते हन्तुं लज्जितोऽधोमुखो जनाः ॥ ८६ ॥
सितकेशं सितश्मश्रुं सितांबरधरध्वजम् ॥
विटंकाद्यैश्च चेटीभिर्हन्यमानं न पश्यथि ॥८७॥
गृहान्निष्क्राम्य मां रंडां गृहं नीत्वाऽकरोद्रतिम् ॥
कस्मादसौ न कुरुते मूढो भरणपोषणम् ॥ ८८ ॥
भैरवाभरणो नेता सदा घूर्णितलोचनः ॥
प्रवृत्ततंद्रवन्मूढो वध्यश्चासावितस्ततः ॥८९॥
निर्वेदेकोऽस्य हृदये धनक्षेत्रादिसंभवः ॥
गृहीतं यदनेनाद्य बालेनापि महाव्रतम् ॥
रक्ताक्षं काककृष्णांगं सत्वरं किं न पश्यथि ॥ 7.1.167.९० ॥
तरुकोटरगान्बद्ध्वा अन्याञ्छृंखलया तथा ॥
शरौघैः काष्ठकैश्चैव बहुभिः शकलीकृतान् ॥ ९१ ॥
विमुक्तहक्काहुंकारा न्सुप्रहारान्निरीक्षत ॥ ९२ ॥
इमां कृष्णार्धवदनां ग्रहीष्यसि दुरात्मिकाम् ॥
विमुक्तकेशां नृत्यन्तीं पश्यध्वं योगिनीमिव ॥ ९३ ॥
गम्भीर नूपुरध्वानप्रवृद्धोद्धततांडवा ॥
उन्मत्तनेत्रचरणा यात्येषा डिम्भमण्डली ॥ ९४ ॥
कटीतटस्थपिटिकोल्लसत्कंबलधारिणी ॥
अटते नटती ह्युर्वी परितश्च गृहाद्गृहम् ॥ ९५ ॥
इत्येवमादिभिर्नित्यं प्रेरणीप्रेक्षणीयकैः ॥
प्रेरयेत्तान्महानित्थं पुत्रभ्रातृसुहृद्वृतः ॥ ९६ ॥
एकादश्यां नवम्यां वा दीपं प्रज्वाल्य कुण्डकम् ॥
मुखबिंबानि तत्रैव लेपदारुकृतानि वै ॥ ९७ ॥
विचित्राणि महार्हाणि रौद्रशान्तानि कारयेत् ॥
मातृणां चण्डिकादीनां राक्षसानां तथैव च ॥ ९८ ॥
भूतप्रेतपिशाचानां शाकिनीनां तथैव च ॥
मुखानि कारयेत्तत्र हावभावकृतानि च ॥ ९९ ॥
रक्षिभिर्बहुभिर्गुप्तं तिर्य ग्ध्वनिपुरःसरम् ॥
अमावास्यां महादेवि क्षिपेत्पूजाक्रमैर्नरः ॥ 7.1.167.१०० ॥
ततः प्रदोषसमये यत्र देवी जनैर्वृता ॥
तत्र गच्छेन्महारावैः फेत्कारा कुलकीर्तनैः ॥ १०१ ॥
वीरचर्याविधानेन नगरे भ्रामयेन्निशि ॥
वीरचर्या स कथितो दीपः सर्वार्थसाधकः ॥ १०२ ॥
नित्यं निष्क्रामयेद्दीपं याव त्पञ्चदशी तिथिः ॥
पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ॥
तस्य गृहेश्वरं यावद्गृहे विघ्नं न जायते ॥ १०३ ॥
अथ कालान्तरेऽतीते भूतमातुः शरीरतः ॥
जाताः प्रस्वेदबिन्दुभ्यः पिशाचाः पञ्चकोटयः ॥ १०४ ॥
सर्वे ते क्रूरवदना जिह्वाज्वालाकृशोदराः ॥
पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः ॥ १०५ ॥
धमनीसंतताः शुष्काः श्मश्रुलाश्चर्मवाससः ॥
उलूखलैराभरणैः शूर्पच्छत्रासनांबराः ॥ १०६ ॥
नक्तं ज्वलितकेशाढ्या अंगारानुद्गिरंति वै ॥
अंगारकाः पिशाचास्ते मातृमार्गानुसारिणः ॥ १०७ ॥
आकर्णदारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥
बलाढ्यास्ते पिशाचा वै सूतिकागृहवासिनः ॥ १०८ ॥
पृष्ठतः पाणिपादाश्च पृष्ठगा वातरंहसा ॥
विषादनाः पिशाचास्ते संग्रामे पिशिताशनाः ॥ ॥ १०९ ॥
एवंविधान्पिशाचांस्तु दृष्ट्वा दीनानुकम्पया ॥
तेभ्योऽहमवदं किञ्चित्कारुण्यादल्पचेतसाम् ॥ 7.1.167.११० ॥
अन्तर्धानं प्रजादेहे कामरूपित्वमेव च ॥
उभयोः संध्ययोश्चारं स्थानान्याजीवितं तथा ॥ १११ ॥
गृहाणि यानि नग्नानि शून्यान्यायतनानि च ॥
विध्वस्तानि च यानि स्यू रचनारोषितानि च॥ ११२ ॥
राजमार्गोपरथ्याश्च चत्वराणि त्रिकाणि च ॥
द्वाराण्यट्टालकांश्चैव निर्गमान्संक्रमांस्तथा ॥ ॥ ११३ ॥
पथो नदीश्च तीर्थानि चैत्यवृक्षान्महापथान् ॥
स्थानानि तु पिशाचानां निवासायाददां प्रिये ॥ ११४ ॥
अधार्मिका जनास्तेषामा जीवो विहितः पुरा ॥
वर्णाश्रमाचारहीनाः कारुशिल्पिजनास्तथा ॥ ११५ ॥
अनुतापाश्च साधूनां चौरा विश्वासघातिनः ॥
एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः ॥ ११६ ॥
आरभ्यते क्रिया यास्तु पिशाचास्तत्र देवताः ॥
मधुमासदिने दध्ना तिलचूर्णसुरासवैः ॥ ११७ ॥
पूपैर्हारिद्रकृशरैस्तिलैरिक्षुगुडौदनैः ॥
कृष्णानि चैव वासांसि धूम्राः सुमनसस्तथा ॥ ११८ ॥
सर्वभूतपिशाचानां कृता देवी मया शुभा ॥
एवंविधा भूतमाता सर्वभूतगणैर्वृता ॥ ११९ ॥
प्रभासे संस्थिता देवी समुद्रादुत्तरेण तु ॥
य एतां वेद वै देव्या उत्पत्तिं पापनाशिनीम् ॥ 7.1.167.१२० ॥
कुत्सिता संतति स्तस्य न भवेच्च कदाचन ॥
भूतप्रेतपिशाचानां न दोषैः परिभूयते ॥ १२१ ॥
सर्वपापविनिर्मुक्तः सर्वसौभाग्यसंयुतः ॥
सर्वान्कामानवाप्नोति नारीहृदयनंदनः ॥ १२२ ॥
ये मानयंति निजहासकलैर्विलासैः संसेवया अभयदा भवभूतमाताम् ॥
ते भ्रातृभृत्यसुतबंधुजनैर्युताश्च सर्वोपसर्ग रहिताः सुखिनो भवन्ति ॥ १२३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भूत मातृकामाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥ १६७ ॥
स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)प्रभासक्षेत्र माहात्म्यम्/अध्यायः (१६८)
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं शालकटंकटाम् ॥
सावित्र्या दक्षिणे भागे रैवतात्पूर्वतः स्थिताम् ॥ १ ॥
महापापोपशमनीं सर्वदुःखविनाशनीम् ॥ पूजितां सर्वगन्धर्वैः स्फुरद्दंष्ट्रोग्रभीषणाम् ॥ २ ॥
महाप्रचण्डदैत्यघ्नीं पौलस्त्येन प्रतिष्ठिताम् ॥
महिषघ्नीं महाकायां क्षेत्रे प्राभासिके स्थिताम् ॥ ३ ॥
माघे मासे चतुर्दश्यां यस्ता माराधयेन्नरः ॥
स भवेत्पशुमान्धीमाँल्लक्ष्मीवान्पुत्रवान्सुधीः ॥ ४ ॥
यस्तां पशुप्रदानेन सन्तर्पयति भक्तितः ॥
बलिपूजोपहारैश्च स स्याच्छत्रु विवर्जितः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये
शालकटंकटा माहात्म्यवर्णनंनामाष्टषष्ट्युत्तरशततमोऽध्यायः ॥ १६८ ॥
॥ आपस्तंब उवाच ॥ ॥
उत्तिष्ठाम्येष सुप्रीतः सम्यक्क्रीतोऽस्मि पार्थिव ॥ गोभ्यो मूल्यं न पश्यामि पवित्रं परमं भुवि ॥ ४१ ॥
गावः प्रदक्षिणीकार्याः पूजनीयाश्च नित्यशः ॥ मंगलायतनं देव्यः सृष्टा ह्येताः स्वयंभुवा॥ ॥ ४२ ॥
अग्न्यगाराणि विप्राणां देवतायतनानि च ॥ यद्गोमयेन शुद्ध्यंति किंभूतमधिकं ततः ॥४३॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च ॥ गवां पंच पवित्राणि पुनंति सकलं जगत् ॥४४॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ॥ गावो मे ह्रदये चैव गवां मध्ये वसाम्यहम ॥४५॥
एवं जपन्नरो मंत्रं त्रिसंध्यं नियतः शुचिः ॥ मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ॥ ४६ ॥
तृणाहारपरा गावः कर्त्तव्या भक्तितोऽन्वहम्॥ अकृत्वा स्वयमाहारं कुर्वन्प्राप्नोति दुर्गतिम् ॥ ४७ ॥
तेनाग्नयो हुताः सम्यक्पितरश्चापि तर्पिताः ॥ देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्॥४८॥
।। मन्त्रः ॥
सौरभेयी जगत्पूज्या देवी विष्णुपदे स्थिता ॥ सर्वमेव मया दत्तं प्रतीच्छतु सुतोषिता॥४९॥
रक्षणाद्बालपुत्राणां गवां कण्डूयनात्तथा ॥क्षीणार्तरक्षणाच्चैव नरः स्वर्गे महीयते । 7.1.338.५० ॥
(स्कन्द पुराण प्रभास खण्ड अध्याय ३३८ )
_____________________________________
यदि तुष्टोऽसि देवेश वरार्हा यदि वाप्यहम्॥
प्रभास क्षेत्रमाहात्म्यं पुनर्विस्तरतो वद ॥ 7.1.9.२० ॥
भूतेश भगवान्विष्णुर्दैत्यानामन्तकाग्रणीः ॥
स कस्माद्द्वारकां हित्वा प्रभासक्षेत्रमाश्रितः ॥ २१ ॥
षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥
द्वारकामध्यसंस्थानि कथं न्यक्कृतवान्हरिः ॥ २२ ॥
अमरैरावृतां पुण्यां पुण्यकृद्भिर्निषेविताम् ॥
एवं तां द्वारकां त्यक्त्वा प्रभासं कथमागतः ॥ २३ ॥
देवमानुषयोर्नेता द्योभुवोः प्रभवो हरिः ॥
किमर्थं द्वारकां त्यक्त्वा प्रभासे निधनं गतः ॥ २४ ॥
यश्चक्रं वर्त्तयत्येको मानुषाणां मनोमयम् ॥
प्रभासे स कथं कालं चक्रे चक्रभृतां वरः ॥२५॥
_________________________
गोपायनं यः कुरुते जगतः सार्वलौकिकम् ॥
स कथं भगवान्विष्णुः प्रभासक्षेत्रमाश्रितः ॥ २६ ॥
योंतकाले जलं पीत्वा कृत्वा तोयमयं वपुः ॥
लोकमेकार्णवं चक्रे दृष्ट्या दृष्टेन चात्मना ॥ २७ ॥
(स्कन्दपुराण प्रभासखण्ड 7.1.9.२६-२७)
न देवी न च गन्धर्वी नासुरी न च किंनरी ॥तादृग्रूपा महादेवि यादृशी सा सुमध्यमा॥४॥
शीलरूपगुणोपेता नित्यं सा तु पतिवता॥सर्वयोषिद्गुणैर्युक्ता यथा साध्वी ह्यरुन्धती॥५॥
स्कन्दपुराण प्रभासखण्ड 7.1.३७
___________________________________
संपूर्णमण्डला तासां मालिनी षोडशी कला ॥प्रतिपत्तिथिमारभ्य विचरत्यासु चन्द्रमाः ॥ १४ ॥
षोडशैव कला यास्ता गोपीरूपा वरानने ॥ एकैकशस्ताः संभिन्नाः सहस्रेण पृथक्पृथक् ॥ १५ ॥
एवं ते कथितं देवि रहस्यं ज्ञानसंभवम् ॥ एवं यो वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ १६ ॥
अथ ताभिः कृताञ्ज्ञात्वा प्रासादान्यादवैः पृथक् ॥ ततो गोप्योऽपि ताः सर्वाः सहस्राणि तु षोडश ॥
कृष्णमाज्ञाप्य भावेन स्थापयांचक्रिरे रविम् ॥ १७ ॥
ऋषिभिर्नारदाद्यैस्तास्तथा क्षेत्रनिवासिभिः ॥ तं प्रतिष्ठापयामासुः प्रतिष्ठाविधिना रविम् ॥ १८ ॥
प्रतिष्ठिते ततः सूर्ये ददुर्दानानि भूरिशः ॥ ततः क्षेत्रनिवासिभ्यो गोभूहेमांबराणि च ॥ १९ ॥
ततस्त ऋषयः सर्वे संतुष्टा हृष्टमानसाः ॥ चक्रुर्नाम रवेस्तत्र गोप्यादित्येति विश्रुतम्॥
सर्वपाप हरं देवं महासौभाग्यदायकम् ॥ 7.1.118.२० ॥
एवं कृते कृतार्थास्ताः संप्राप्यातिमहद्यशः ॥ जग्मुर्यथागतं सर्वा द्वारकां कृष्णसंयुताः ॥ २१ ॥
पुनः कालान्तरे देवि शापाद्दुर्वाससः प्रिये ॥ यादवस्थलतां प्राप्ताः प्रभासे पापनाशने ॥ २२ ॥
एवं ते कथितो देवि गोप्यादित्यसमुद्भवः ॥ माहात्म्यं तस्य ते वच्मि पूजावन्दनजं क्रमात् ॥ २३ ॥
अस्मिन्मित्रवने देवि यो गोपीभिः प्रतिष्ठितः ॥ तस्य दर्शनमात्रेण दुःखशोकैः प्रमुच्यते ॥ २४ ॥
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ॥ तां गतिं ते नरा यान्ति ये गोपीरविमाश्रिताः ॥ २५ ॥
येन सर्वात्मना भावो गोप्यादित्ये निवेशितः ॥ महेश्वरि कृतार्थत्वात्स श्लाघ्यो धन्य एव सः ॥ २६ ॥
अपि नः स कुले धन्यो जायते कुलपावनः ॥भाग्यवान्भक्तिभावेन येन भानुरुपासितः ॥ २७ ॥
सप्तम्यां पूजयेद्यस्तु माघे मास्युषसि प्रिये ॥सप्तावरान्सप्त पूर्वान्पितॄन्सोप्युद्धरेन्नरः ॥ २८ ॥
छिनत्ति रोगान्दुश्चेष्टान्दुर्जयाञ्जयति ह्यरीन् ॥ २९ ॥
न सप्तम्यां स्पृशेत्तैलं नीलवस्त्रं न धारयेत् ॥ न चाप्यामलकैः स्नानं न कुर्यात्कलहं क्वचित् ॥ 7.1.118.३० ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें