स्कन्दपुराण खण्डः द्वितीय (वैष्णवखण्डः) वेङ्कटाचलमाहात्म्यम् अध्यायः (१३)
।। अथ धर्मगुप्तचरित्रवर्णनम् ।।
।। श्रीसूत उवाच ।। ।।
भूयोपि संप्रवक्ष्यामि स्वामितीर्थस्य वैभवम् ।।
युष्माकमादरेणाऽहं नैमिषारण्यवासिनः ।। १ ।।
नन्दोनाम महाराजः सोमवंशसमुद्भवः ।।
धर्मेण पालयामास सागरान्तां धरामिमाम् ।। २ ।।
तस्य पुत्रः समभवद्धर्मगुप्त इति स्मृतः ।।
राज्यरक्षाधुरं नन्दो निजपुत्रे निधाय सः ।। ३ ।।
जितेंद्रियो जिताहारः प्रविवेश तपोवनम् ।।
ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ।। ४ ।।
मेदिनीं पालयामास धर्मज्ञो नीतितत्परः ।।
ईजे वहुविधैर्यज्ञैर्देवानिन्द्र पुरोगमान् ।। ५ ।।
ब्राह्मणानां ददौ वित्तं क्षेत्राणि च बहूनि सः ।।
सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति ।।६।।
कदाचिन्नाभवन्पीडास्तस्मिंश्चोरादिसम्भवाः ।।
कदाचिद्धर्मगुप्तोऽयमारुह्य तुरगोत्तमम् ।। ७ ।।
वनं विवेश विप्रेंद्रा मृगयारसकौतुकी ।।
तमालतालहिन्तालकुरवाकुलदिङ्मुखे ।। ८ ।।
विचचार वने तस्मिन्सिंसहव्याघ्रभयानके ।।
मत्तालिकुलसन्नादसंमूर्च्छितदिगन्तरे ।। ९ ।।
पद्मकल्हारकुमुदनीलोत्पलवनाकुले ।।
तटाके रससंपूर्णे तपस्विजनमण्डिते ।2.1.13.१०।
तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः ।।
अभूद्विभावरी विप्रास्तमसावृतदिङ्मुखा ।। ११ ।।
राजाऽपि पश्चिमां सन्ध्यामुपास्य विनयान्वितः ।।
जजाप च वने तत्र गायत्रीं वेदमातरम् ।। १२ ।।
सिंहव्याघ्रादिभीत्यास्मिन्वृक्षमेकं समाश्रिते ।।
राजपुत्रे तदभ्याशमृक्षः सिंहभयार्दितः ।। १३ ।।
अन्वधावत वृक्षं तमेकः सिंहो वनेचरः ।।
अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत् ।। १४ ।।
आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ।।
वृक्षस्थितं महात्मानं महाबलपराक्रमम् ।। १५ ।।
उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ।।
मा भीतिं कुरु राजेंद्र वत्स्यावो रजनीमिह ।। १६ ।।
महासत्त्वो महाकायो महादंष्ट्रसमाकुलः ।।
वृक्षमूलं समायातः सिंहोऽयमतिभीषणः ।। १७ ।।
रात्र्यर्धं भज निद्रां त्वं रक्ष्यमाणो मयोद्यतः ।।
ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते ।। १८ ।।
इति तद्वाक्यमाकर्ण्य सुप्ते नन्दसुते हरिः ।।
प्रोवाच ऋक्षं सुप्तोऽयं नृपो मे त्यज्यतामिति ।।१९ ।
तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः ।।
भवान्धर्मं न जानीते मृगराज वनेचर ।2.1.13.२०।
विश्वासघातिनां लोके महाकष्टं भवत्यहो ।।
न हि मित्रद्रुहां पापं नश्येद्यज्ञायुतैरपि ।। २१ ।।
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ।।
विश्वासघातिनां पापं न नश्येज्जन्मकोटिभिः ।।२२।।
नाहं मेरुं महाभारं मन्ये पञ्चास्य भूतले ।।
महाभारमिमं मन्ये लोकविश्वासघातकम् ।।२३।
एवमुक्तोऽथ ऋक्षेण सिंहस्तूष्णीं बभूव ह ।।
धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे ।।२४।।
ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ।।
एवमुक्तोऽथ सिंहेन राजा सुप्तमशंकितः ।।२५ ।
स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ।।
पात्यमानस्ततो राज्ञा समालम्बितपादपः ।। २६ ।।
ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ।।
स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत ।। २७ ।।
कामरूपधरो राजन्नहं भृगुकुलोद्भवः ।।
ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम् ।।२८।।
कस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ।।
मच्छापादतिशीघ्रं त्वमुन्मत्तश्चर भूतले ।। २९ ।।
इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ।।
न सिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ।।2.1.13.३०।।
हिमवद्गिरिमासाद्य कदाचित्तं वधूसखः ।।
अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा ।। ३१ ।।
गौतमोऽप्युटजाद्दैवात्समिदाहरणाय वै ।।
निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत् ।। ३२ ।।
यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ।।
अतः सिंहत्वमद्यैव भविता ते न संशयः ।। ३३ ।।
इति गौतमशापेन सिंहत्वमगमत्पुरा ।।
कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा ।। ३४ ।।
कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ।।
अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम् ।। ३५ ।।
एतत्सर्वमहं ध्यानाज्जानामि हि मृगाधिप ।।
इत्युक्तो ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः ।।३६ ।।
यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ।।
ध्यानकाष्ठमसावाह प्रांजलिः प्रणतो मुनिम् ।। ३७ ।।
अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ।।
गौतमः शापकाले मे शापान्तमपि चोक्तवान् ।। ३८ ।।
ध्यानकाष्ठेन संवाद ऋक्षरूपेण ते यदा ।।
तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि ।। ३९ ।।
इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुङ्गवः ।।
अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने ।2.1.13.४०।
______________________________________
ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ।।
इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट् ।। ४१ ।।
विमानवरमारुह्य प्रययावलकापुरीम् ।।
उन्मत्तरूपं तं दृष्ट्वा मन्त्रिणस्तु नृपोत्तमम्।। ।। ४२ ।।
पितुः सकाशमानिन्यू रेवातीरे नृपोत्तमम् ।।
तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य च ।। ४३ ।।
ज्ञात्वा तु पुत्रवृत्तान्तं पिता वै नंदनस्तदा ।। ४४ ।।
।। अथ जैमिनिवाक्यात्स्वामितीर्थस्नातस्य
।।धर्मगुप्तस्योन्मादनिवृत्तिः ।।
पुत्रमादाय सहसा जैमिनेरन्तिकं ययौ ।।
तस्मै निवेदयामास पुत्रवृत्तान्तमादितः ।। ४५ ।।
भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः ।।
अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ।। ४६ ।।
इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुंगवः ।।
ध्यात्वा तु सुचिरं कालं नृपनन्दनमब्रवीत् ।। ४७ ।।
ध्यानकाष्ठस्य शापेन ह्युन्मत्तस्ते सुतोऽभवत् ।।
तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते ।। ४८ ।।
सुवर्णमुखरीतीरे वेंकटेनाम पर्वते ।।
सर्वपापहरे पुण्ये नानाधातुविनिर्मिते ।। ४९ ।।
स्वामिपुष्करिणी चेति तीर्थमस्ति महत्तरम् ।।
पवित्राणां पवित्रं हि मंगलानां च मंगलम् ।2.1.13.५०।
श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ।।
नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महामते ।। ५१ ।।
उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ।।
इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुंगवम् ।। ५२ ।।
नन्दः पुत्रं समादाय स्वामिपुष्करिणीं ययौ ।।
तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ।। ५३ ।।
स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ।।
स्वयं सस्नौ स नन्दोऽपि स्वामिपुष्करिणीजले ।। ५४ ।।
उषित्वा दिनमेकं तु सहपुत्रः पिता तदा ।।
सेवित्वा वेंकटेशं च श्रीनिवासं कृपानिधिम् ।। ५५ ।।
पुत्रमापृच्छ्य नन्दस्तं प्रययौ तपसे वनम् ।।
गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः ।। ५६ ।।
प्रददौ वेंकटेशस्य बहुवित्तानि भक्तितः ।।
ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा ।। ५७ ।।
प्रययौ मन्त्रिभिः सार्धं स्वां पुरीं तदनन्तरम् ।।
धर्मेण पालयामास राज्यं निहतकण्टकम् ।। ५८ ।।
पितृपैतामहं विप्रा धर्मगुप्तोतिधार्मिकः ।।
उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः ।। ५९ ।।
ग्रस्ता भवन्ति विप्रेन्द्रास्तेऽपि चात्र निमज्जनात् ।।
पुष्करिण्यां विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम् ।। 2.1.13.६० ।।
स्वामिपुष्करिणीं त्यक्त्वा तीर्थमन्यद्व्रजेत्तु यः ।।
स्निग्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते ।। ६१ ।।
स्वामितीर्थं स्वामितीर्थं स्वामितीर्थमिति द्विजाः ।।
त्रिःपठन्तो नरा एवं यत्र क्वापि जलाशये ।। ६२ ।।
स्नांति सर्वे नरास्ते वै यास्यन्ति ब्रह्मणः पदम् ।।
एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ।। ६३ ।।
यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ।। ।। ६४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहाल्ये स्वामिपुष्करिणीमहिमानुवर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।।
________________________________________
स्कन्दपुराणम् खण्डः द्वित्तीय (२ )(वैष्णवखण्डः)वासुदेवमाहात्म्यम् अध्यायः (०९)
।।स्कन्द उवाच ।।
भाविधर्मविपर्यासकालवेगवशोऽथ सः ।।
नाहं क्षमिष्य इत्युक्त्वा कैलासं प्रययौ मुने ।। १ ।।
त्रैलोक्याच्छ्रीरपि तदा समुद्रेन्तर्द्धिमाययौ ।।
इन्द्रं विहायाप्सरसः सर्वशः श्रियमन्वयुः ।। २ ।।
तपः शौचं दया सत्यं पादः सद्धर्मऋद्धयः ।।
सिद्धयश्च बलं सत्त्वं सर्वतः श्रियमन्वयुः ।। ३ ।।
गजादीनि च यानानि स्वर्णाद्याभूषणानि च ।।
चिक्षिपुर्मणिरत्नानि धातूपकरणानि च ।। ४ ।।
अन्नान्यौषधयः स्नेहाः कालेनाल्पेन चिक्षियुः ।।
न क्षीरं धेनुमहिषीप्रमुखानां स्तनेष्वऽभूत् ।। ५ ।।
नवापि निधयो नष्टाः कुबेरस्यापि मन्दिरात ।।
इन्द्रः सहामरगणैरासीत्तापससन्निभः ।। ६ ।।
सर्वाणि भोगद्रव्याणि नाशमीयुस्त्रिलोकतः ।।
देवा दैत्या मनुष्याश्च सर्वे दारिद्यपीडिताः ।। ७ ।।
कान्त्या हीनस्ततश्चन्द्रः प्रापाम्बुत्वं महोदधौ।।
अनावृष्टिर्महत्यासीद्धान्यबीजक्षयंकरी ।। ८ ।।
क्वान्नं क्वान्नेति जल्पन्तः क्षुत्क्षामाश्च निरोजसः ।।
त्यक्त्वा ग्रामान्पुरश्चोषुर्वनेषु च नगेषु च ।।९।।
क्षुधार्त्तास्ते पशून्हत्वा ग्राम्यानारण्यकांस्तथा ।।
पक्त्वाऽपक्त्वापि वा केचित्तेषां मांसान्यभुञ्जत ।। 2.9.9.१० ।।
विद्वांसो मुनयश्चाऽथ ये वै सद्धर्मचारिणः ।।
म्रियमाणाः क्षुधाऽथापि नाश्नन्त पललानि तु ।।११ ।।
तदा तु वृद्धा ऋषयस्तान्दृष्ट्वाऽनशनादृतान् ।।
मनुभिः सह वेदोक्तमापद्धर्ममबोधयन् ।। १२ ।।
मुनयः प्रायशस्तत्र क्षुधा व्याकुलितेन्द्रियाः ।।
परोक्षवादवेदार्थान्विपरीतान्प्रपेदिरे ।। १३ ।।
अर्थं चाजादिशब्दानां मुख्यं छागादिमेव ते ।।
बुबुधुश्चाऽथ ते प्राहुर्यज्ञान् कुरुत भो द्विजाः ।। १४ ।।
या वेदविहिता हिंसा न सा हिंसास्ति दोषदा ।।
उद्दिश्य देवान्पितॄंश्च ततो घ्नत पशूञ्छुभान्।। १५ ।।
प्रोक्षितं देवताभ्यश्च पितृभ्यश्च निवेदितम् ।।
भुञ्जत स्वेप्सितं मांसं स्वार्थं तु घ्नत मा पशून् ।१६।।
ततो देवर्षिभूपाला नराश्च स्वस्वशक्तितः ।।
चक्रुस्तैर्बोधिता यज्ञानृते ह्येकान्तिकान्हरेः।।१७।।
________________________________________
गोमेधमश्वमेधं च नरमेधमुखान्मखान् ।।
चक्रुर्यज्ञावशिष्टानि मांसानि बुभुजुश्च ते।।१८।।
विनष्टायाः श्रियः प्राप्त्यै केचिद्यज्ञांश्च चक्रिरे ।।
स्त्रीपुत्रमंदिराद्यर्थं केचिच्च स्वीयवृत्तये ।। १९।।
__________________________________
महायज्ञेष्वशक्तास्तु पितॄनुदिश्य भूरिशः ।।
निहत्य श्राद्धेषु पशून्मांसान्यादंस्तथाऽऽदयन् ।। 2.9.9.२० ।।
केचित्सरित्समुद्राणां तीरेष्वेवावसञ्जनाः ।।
मत्स्याञ्जालैरुपादाय तदाहारा बभूविरे ।।२१।।
स्वगृहागतशिष्टेभ्यः पशूनेव निहत्य च ।।
निवेदयामासुरेते गोछागप्रमुखान्मुने ।। २२ ।।
सजातीयविवाहानां नियमश्च तदा क्वचित् ।।
नाभवद्धर्मसांकर्याद्वित्तवेश्माद्यभावतः ।।२३।।
ब्राह्मणाः क्षत्रियादीनां क्षत्राद्या ब्रह्मणां सुताः ।।
उपयेमिरे कालगत्या स्वस्ववंशविवृद्धये ।। २४ ।।
इत्थं हिंसामया यज्ञाः संप्रवृत्ता महापदि ।।
धर्मस्त्वाभासमात्रोऽस्थात्स्वयं तु श्रियमन्वगात् ।।२५ ।।
अधर्मः सान्वयो लोकांस्त्रीनपि व्याप्य सर्वतः ।।
अवर्द्धताऽल्पकालेन दुर्निवार्यो बुधैरपि ।। २६ ।।
दरिद्राणामथैतेषामपत्यानि तु भूरिशः ।।
तेषां च वंशविस्तारो महाँल्लोकेष्ववर्द्धत ।। २७ ।।
विद्वांसस्तत्र ये जातास्ते तु धर्मं तमेव हि ।।
मेनिरे मुख्यमेवाऽथ ग्रन्थांश्चक्रुश्च तादृशान् ।।२८।
ते परम्परया ग्रन्थाः प्रामाण्यं प्रतिपेदिरे ।।
आद्ये त्रेतायुगे हीत्थमासीद्धर्मस्य विप्लवः ।। २९ ।।
ततःप्रभृति लोकेषु यज्ञादौ पशुहिंसनम् ।।
बभूव सत्ये तु युगे धर्म आसीत्सनातनः।2.9.9.३०।।
कालेन महता सोपि सह देवैः सुराधिपः ।।
आराध्य संपदं प्राप वासुदेवं प्रभुं मुने ।। ३१ ।।
ततो धर्मनिकेतस्य श्रीपतेः कृपया हरेः ।।
यथापूर्वं च सद्धर्मस्त्रिलोक्यां संप्रवर्त्तत ।। ३२ ।।
तत्रापि केचिन्मुनयो नृपा देवाश्च मानुषाः ।।
कामक्रोधरसास्वादलोभोपहतसद्धियः ।।
तमापद्धर्ममद्यापि प्राधान्येनैव मन्वते ।। ३३ ।।
एकान्तिनो भागवता जितकामादयस्तु ये ।।
आपद्यपि न तेऽगृह्णंस्तं तदा किमुताऽन्यदा ।। ३४ ।।
इत्थं ब्रह्मन्नादिकल्पे हिंस्रयज्ञप्रवर्त्तनम् ।।
यथासीत्तन्मयाख्यातमापत्कालवशाद्भुवि ।। ३५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये हिंस्रयज्ञप्रवृत्तिहेतुनिरूपणं नाम नवमोऽध्यायः। ९ ।।
___________________________________________
स्कन्दपुराणम् खण्डः द्वित्तीय (२)(वैष्णवखण्डः) वासुदेवमाहात्म्यम् अध्यायः (१४)
।। स्कन्द उवाच ।।
ब्रह्मा प्रजेश्वराः शम्भुर्मनवश्च महर्षयः ।।
आदित्यवसुरुद्राश्च सिद्धगन्धर्वचारणाः ।। १ ।।
साध्याश्च मरुतश्चैव विश्वेदेवा दिगीश्वराः ।।
दस्रौ वह्निश्चन्द्रमाश्च स्वयं धर्मः प्रजापतिः ।। २ ।।
सुपर्णः किन्नराश्चैव ये चान्ये गणदेवताः ।।
शेपाद्या वैष्णवा नागा देवपत्न्यश्च सर्वशः ।। ३ ।।
सावित्री पार्वती चैव पृथिवी च सरस्वती ।।
शची गौरी शिवा संज्ञा ऋद्धिः स्वाहा च रोहिणी ।।
धूमोर्णा चादितिर्द्धर्मपत्न्यो मूर्तिदयादयः ।। ४ ।।
अरुन्धती शाण्डिली च लोपामुद्रा तथैव च ।।
अनसूयादयः साध्व्य ऋपिपत्न्यश्च सर्वशः ।। ५ ।।
गङ्गा सरस्वती रेवा यमुना तपती तथा ।।
चन्द्रभागा विपाशा च शतद्रुर्देविका तथा ।। ६ ।।
गोदावरी च सरयूः कावेरी कौशिकी तथा ।।
कृष्णा वेणी भीमरथा ताम्रपर्णी महानदी ।। ७ ।।
कृतमाला वितस्ता च निर्विन्ध्या सुरसा तथा।।
चर्मण्वती पयोष्णी च विश्वाद्या नद्य आययुः ।। ८ ।।
रम्भा घृताची विश्वाची मेनका च तिलोत्तमा ।।
उर्वशीप्रमुखास्तत्र सर्वाप्सरस आययुः ।।९ ।।
वैकुण्ठवासिनः सर्वे तथा गोलोकवासिनः ।।
पार्षदप्रवरा विष्णोस्तत्राजग्मुः प्रहर्षिताः ।2.9.14.१०।।
अणिमाद्याः सिद्धयोऽष्टौ शंखपद्मादयो नव ।।
निधयो मूर्तिमन्तश्च समाजग्मुः श्रियोन्तिके ।। ११ ।।
पूर्णः शारदचन्द्रोपि तदानीं प्रीतये श्रियाः ।।
नैशं तमोऽहरत्सर्वं बभूवुर्निर्मला दिशः ।। १२ ।।
ततोऽभिषेकमारेभे तस्या ब्रह्माज्ञया वृषा ।।
मण्डपं रचयामास सद्यस्त्वष्टातिशोभनम् ।। १३ ।।
रत्नस्तम्भसहस्राणामायताभिश्च पंक्तिभिः ।।
चित्रैरनेकैरुल्लोचैः शोभितं कदलीद्रुमैः ।। १४ ।।
सुगन्धिपुष्पनम्राभिर्दिव्यकल्पद्रुमालिभिः ।।
जुष्टं नानाविधैरङ्गैर्दर्शनीयं मनोहरम् ।। १५ ।।
कोटिशो रत्नदीपानां पंक्तिभिः शुद्धरोचिषाम् ।।
भ्राजमानं तोरणैश्च मुक्ताहारैश्च लम्बिभिः ।। १६ ।।
रत्नसिंहासने तत्र गीतवाद्यपुरस्सरम् ।।
उपावेश्य श्रियं चक्रुरभिषेकं महर्षयः ।। १७ ।।
ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ।।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।। १८ ।।
कुर्वन्तो बृंहितान्येते हेमकुम्भोद्धृतैः शुभैः ।।
चतुःसिन्धुसमानीतैरभ्यषिञ्चन्त वारिभिः ।। १९ ।।
मूर्तिमत्यो महानद्यस्तत्राजहुर्जलानि च ।।
मंत्रानुच्चारयंति स्म मूर्ता वेदाः सहर्षिभिः।2.9.14.२०।
जगुः सुकण्ठा गंधर्वा ननृतुश्चाप्सरोगणाः ।।
वाद्यानि वादयामासुरन्ये देवगणास्तदा ।।२१।।
महानभूत्तदानंदस्त्रिलोक्यां सर्वदेहिनाम् ।।
श्रीसूक्तादि द्विजाः पेठुर्जगुर्गीतानि च स्त्रियः । २२ ।।
कांस्यतालमृदङ्गांश्च पणवानकगोमुखान् ।।
वादयामासुरम्भोदा दिवि दुंदुभयोऽनदन् ।। २३ ।।
आसीत्कुसुमवृष्टिश्च साकं जयरवैस्तदा ।।
आसंस्तत्परिचर्यायां धर्मपत्न्यश्च सिद्धयः ।। २४ ।।
सुस्नातायै ततस्तस्यै कौशेये पीतवाससी ।।
ददावनर्घ्ये जलधी रत्नभूषाश्च भूरिशः ।। २५ ।।
उपवेशोचितं तस्या इंद्र आसनमाहरत् ।।
विश्वकर्मा कङ्कणानि ददौ सद्रत्नमुद्रिकाः ।। २६ ।।
सुधाकरस्तु तद्भ्राता नासाभूषणमुत्तमम् ।।
ददौ तस्यै केशभूषा सद्रत्ननिचिता तथा ।। २७ ।।
पद्मजन्मा ददौ पद्मं मुक्ताहारं सरस्वती ।।
नागाश्च शेषप्रमुखास्तस्यै रत्नेंद्रकुण्डले ।। २८ ।।
अञ्जनं कुङ्कुमं चादाद्दुर्गा सोभाग्यलक्षणम् ।।
ललाटिकां च सावित्री शची ताम्बूलपात्रिकाम् ।२९ ।।
वसंतः कौसुमान्हारान्कण्ठसूत्रं च शंकरः ।।
वैजयंतीं स्रजं पाशी कुबेरो रत्नदर्पणम् ।2.9.14.३०।।
अनर्घ्यां कंचुकीं वह्निर्यमोऽदाद्व्यजनं शुभम् ।।
ददुस्तस्यै चापरेपि भूषास्तत्समयोचिताः ।। ३१ ।।
ततः स्वलंकृतां कन्यां कस्मै दद्यामिमामिति ।।
सिंधुः पप्रच्छ ब्रह्माणं तदोवाच स सर्ववित् ।।३२ ।।
कन्या तवेयमम्भोधे माता मम शिवस्य च ।।
देवानामथ सर्वेषां लोकानामस्ति निश्चितम् ।। ३३ ।।
नारायणं वासुदेवं परं ब्रह्माखिलेश्वरम् ।।
पुरुषोत्तममेवैकं विनास्या नापरः पतिः ।। ३४ ।।
अतः साक्षाद्भगवते त्रैलोक्यसुखहेतवे ।।
आगतायोपविष्टाय देह्यस्मै विधिनाम्बुधे ।। ३५ ।।
कुरुष्व जन्मसाफल्यं पावयित्वा निजं कुलम् ।।
समुद्धर भवाम्भोधेर्दत्त्वेमां परमात्मने ।।३६।।
एकस्त्वं सप्तभी रूपैः सप्तद्वीप विभागतः ।।
विश्रुतोऽथ विधायैतन्महतीं कीर्त्तिमाप्स्यसि ।।३७।।
इत्युक्तो ब्रह्मणा हृष्टः समुद्रः पुलकाञ्चितः ।।
मन्यमानो निजं धन्यमदित्सद्विष्णवे सुताम् ।।३८।।
ततः सहैव विधिना स संप्रार्थ्य तमीश्वरम् ।।
वाग्दानादि विधायैव चक्रे वैवाहिकं विधिम् ।।३९।।
धन्वंतरिश्चन्द्रमाश्च वासवाद्याश्च देवताः ।।
आसन्समुद्रस्य पक्षे तत्र वैवाहिकोत्सवे ।।2.9.14.४०।।
वस्त्राभरणयानादि दाने भोजनकर्मणि ।।
सन्मानने च जन्यानां मुख्या आसंस्त एव हि ।। ४१ ।।
लक्ष्म्याश्च मांगल्यविधौ मुख्यास्तत्र तु योषितः ।।
आसन्गंगादयो नद्यः शच्याद्याश्च सुरांगनाः ।। ४२ ।।
मेनाद्या नगपत्न्यश्च सिद्धयश्चाणिमादयः ।।
चन्द्रपत्नी तथा कान्तिः सर्वाश्चाप्सरसो मुने ।। ४३ ।।
नारायणस्याथ विभोर्लीलां वैवाहिकीं विधिः ।।
शोभयन्पितरौ चक्रे मूर्तिधर्मौ विचार्य च ।। ४४ ।।
धर्मोऽसौ जगदाधार पूज्यश्चाखिलदेहिनाम् ।।
पिताऽस्य भवितुं योग्यो ह्यस्मिंश्च प्रीतिमान्भृशम् ।। ४५ ।।
इयं च मूर्त्तिः प्रख्याता सर्वसद्गुणजन्मभूः ।।
दाक्षायणी धर्मपत्नी माता भवितुमर्हति ।। ४६ ।।
___________________________________________
ततो धर्मस्यापि पक्षे मुख्याः कार्येष्विमेऽभवन् ।।
नन्दीश्वरगणेशाभ्यां सहितः शंकरो मुने ।। ४७ ।।
महर्षयो मरीच्याद्याः प्रजेशा नारदो मुनिः ।।
वैनतेयश्च नन्दाद्याः श्रीदामाद्याश्च पार्षदाः ।। ४८ ।।
दुर्गा च वेदसूर्वाणी स्त्रीषु मुख्या बभूविरे ।।
ऋषिपत्न्योऽनसूयाद्या धर्मपत्न्यश्च सर्वशः ।। ४९ ।।
सह वेदादिभिर्ब्रह्मा त्वासीदुभयपक्षयोः ।।
ब्राह्मणा वैदिका ये च विवाहविधिकोविदाः ।। 2.9.14.५० ।।
____________________________________
अथाब्धिः सर्वसंभाराञ्छ्रिया एव प्रसादतः ।।
सद्यः संपादयामास जनयन्देवविस्मयम् ।। ५१ ।।
यद्यत्संकल्पयामास हृदि तत्तदुपाहृतम् ।।
सद्यः स्वांतिक एवैक्षत्ततोभूदतिहर्षितः ।। ५२ ।।
मध्ये तु मण्डपस्यासावग्निस्थापनवेदिकाम् ।।
कारयामास विधिवद्ब्राह्मणैर्वेदवेदिभिः ।। ५३ ।।
अलंचकार तां वेदिं गन्धपुष्पाक्षतादिभिः ।।
नानाविधैः शुभै रङ्गैः साङ्कुरैः करकैस्तथा ।। ५४ ।।
ततो महामङ्गलवाद्यघोषैः समन्त्रकं संस्नपितो मुनीन्द्रैः ।।
अनर्घ्यवासांसि च रत्नभूषा दधार विष्णुर्मुकुटं च दिव्यम्।। ५५ ।।
वादित्रनिध्वाननिनादिताशं नृत्यत्सुरस्त्रीकलगीतशोभनम्
तं मण्डपं सोऽथ सुरैः स्तुवद्भिः सहेत्य हैमे निषसाद पीठे ।। ५६ ।।
प्रक्षालयामास तदङ्घ्रिपङ्कजं स्वप्रेष्ठपत्न्या जलधिः सगंगया ।।
भृङ्गारसिक्तोत्तमवारिधारया तदम्बु शीर्ष्णा च दधार सान्वयः ।।।। ५७ ।।
ततः पठन्मंगलमुच्चकैः श्रियं प्रादापयच्चाम्बुधिनाऽच्युताय।
प्रज्वाल्य वह्निं विधिना विधाता साकं बृहद्भिर्मुनिभिर्जुहाव ।। ५८ ।।
प्रदाय तस्मै तनयां मनोज्ञां तत्पादपद्मैकनिबद्धदृष्टिम् ।।
वासांसि रत्नाभरणानि चादाद्भूयांसि भूम्ने स समं दुहित्रा ।। ५९ ।।
हुतस्य तस्याऽथ हुताशनस्य प्रदक्षिणां चापि सह श्रियैव
चकार चेतांसि निजेक्षकाणां स्त्रीणां च पुंसां च हरन्हरिः सः ।। 2.9.14.६० ।।
एकासने तौ सह सन्निविष्टौ ब्रह्माण्डमातापितरौ मनोज्ञौ ।।
संपूजयामासुरनर्घ्यवस्त्रविभूषणैर्देवगणाः सयोषाः ।६१ ।।
तदा च गीतानि सुमंगलानि श्रियश्च विष्णोर्गुणवर्णनानि ।।
दुर्गादयश्चाऽथ पुलोमजाद्या देव्यो जगुः सस्मितचारुवक्त्राः ।। ६२ ।।
द्विधा विभक्तानि सुरांगनानां वृन्दान्युपाविश्य च सम्मुखानि ।।
तद्दम्पतिप्रेक्षणकौतुकानि तथा जगुः प्रेमभरेण तानि ।। ६३ ।।
यथा तदाकर्ण्य सुराः समस्ता महर्षयश्चाऽखिलयोषितोपि
स्वांतस्तमैक्षंत सह श्रियेशं स्फुरंतमासन्ननु चित्रवच्च।६४।
प्रणम्य भक्त्या च वराक्षतादि समर्प्य ताभ्यां विबुधा मुदैव
पृथक्पृथक्तुष्टुवुरूर्जिताभिर्वाग्भिश्च तौ प्राञ्जलयो विनीताः ।। ६५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये लक्ष्मीनारायणविवाहोत्सवनिरूपणं नाम चतुर्दशोऽध्यायः ।। १४ ।।
________________________________________
स्कन्दपुराणम् /खण्डः द्वितीय (२)(वैष्णवखण्डः)वासुदेवमाहात्म्यम्/अध्यायः (१५)
< स्कन्दपुराणम् | खण्डः २ (वैष्णवखण्डः) | वासुदेवमाहात्म्यम्
।। ब्रह्मोवाच ।।
विचार्य्याऽहं वेदान्मुहुरुपगतो निश्चयमिमं रमारामे भक्तिस्त्वयि दृढतरा यर्ह्यसुभृताम् ।।
भवेत्तर्ह्येवैषां क्षयविरहिता भोगनिकरास्तथा स्युर्लोका वै परमपुरुषात्यंतिकगतिः ।। ।। १ ।।
अजानन्तस्त्वित्थं भृतरजतमस्कानपि हरे भजन्त्यस्मान्देवान्बहुविधतपोर्च्चासरणिभिः ।।
त एवोक्ता मूढाः क्षयरहितसौख्यं न कुहचिल्लभन्तेऽतस्त्वां वै निजहृदि दधे केशवमहम् ।।२।।
।।शंकर उवाच ।।
त्रयी सांख्यवेदांतयोगाः पुराणं तथा पञ्चरात्रं प्रभो धर्मशास्त्रम् ।।
तवैवातिमाहात्म्यमेकस्य नित्यं प्रकारैरनेकैर्हि गायंति भक्त्या ।।३।।
त्वदेवेश शास्त्राणि चैतानि भूम्नो बभूवुस्त्वदेकाश्रयाण्यादिकल्पे।।
रमासेव्यपादाम्बुजं शास्त्रयोनिं तमाद्यं भवन्तं भजे वासुदेवम् ।। ४ ।।
।।धर्म उवाच ।।
कथा त्वदीया भवपाशमोचनी सुधैव तापत्रयतप्तदेहिनाम्
अनेकजन्माघचयापहारिणी तनोति भक्तिं वयुनं तवाञ्जसा ।।५।।
सदैव सा कर्णपथेन हृद्दरी विशत्वनन्ताभिध सम्मुखोद्गता
मम त्वदन्या हरताच्च वासना दयाब्धये ते प्रभविष्णवे नमः ।। ६ ।।
।।प्रजापतय ऊचुः ।।
धन्या एते कल्पवृक्षा यदीयां छायामेतामाश्रितस्त्वं सहश्रीः।
धन्यः कर्ता मण्डपस्यास्य ते वै धन्यैषा भूर्यत्र पीठं तवेश ।। ७ ।।
धन्यो लोके नूनमेषोम्बुराशिः साक्षात्तुभ्यं येन दत्ता स्वकन्या ।।
धन्याश्चैते त्वां वयं वीक्षमाणा धन्येशानं श्रीपतिं त्वां नताः स्मः ।। ८ ।।
।।मनव ऊचुः ।।
धर्मः खलु स हि परमो धर्मेभ्यो माधव सकलेभ्योपि ।।
भक्तिर्भवति यतो वै धर्मभुवि त्वयि हि निरवद्या ।। ९ ।।
धर्मात्मानं भगवन्धर्मधुरीणं च धर्मपातारम् ।।
सर्वातिप्रियधर्मं नुमस्त्वां धर्मसंभूतिम् ।। 2.9.15.१० ।।
।।ऋषय ऊचुः ।।
भक्त्या हीनस्त्वद्विमुखो वयुनार्थी श्राम्यन्भूयोप्यस्य न सिद्धिं समुपैति ।।
तर्ह्यासक्तः कर्मणि काम्ये तु कुतोसौ सौख्यं यायादक्षयमानन्दमहाब्धे ।। ११ ।।
भक्त्या नित्यं त्वामत एव वयं वै श्रद्धायुक्ता धर्मतपोनिगमाद्यैः ।।
मायातीतं कालनियन्तारमुदारं ध्यायामः श्रीकान्तपरात्परमेकम् ।। १२ ।।
।।इन्द्र उवाच ।।
भगवन्नुरुदुःखिता वयं ननु दुर्वासस एव हेलनात् ।।
न भवन्तमृतेऽवितुं हि नो विधिरुद्रप्रमुखा इमेऽशकन् ।। १३ ।।
विगताखिलसंपदो निरन्नाः समभावं भुवि पामरैरुपेताः ।।
भवतैव वयं हृतापदः स्मः सपदि श्रीहरये नमोस्तु तुभ्यम् ।। १४ ।।
।।अग्निरुवाच ।।
गीर्वाणदानवनराद्युपजीवनान्नं यन्निर्मितं हि भवतैव ततो बुधास्तु ।।
यज्ञेषु तेन यजनं तव कुर्वतेऽथो त्वच्छेषमन्यदिविषद्भ्य उपानयन्ति ।। १५ ।।
काम्येषु कर्मसु रता अपि याज्ञिकास्ते तत्कर्मबन्धनत आशु विमुच्य यान्ति ।।
ब्राह्मीं गतिं तदितरे तु भवन्ति चौराः श्रीयज्ञपूरुषमहं प्रणमामि तं त्वाम् ।। १६ ।।
।।मरुत ऊचुः ।।
भक्ता एकान्तिकास्तेऽक्षरपरमपदे सेवया ते तु हीनं वासैश्वर्यादि नेच्छन्त्यतिशयितसुखं नापि कैवल्यमोक्षम् ।।
तद्युक्तं त्वात्मनोपि श्वपचकुलजनुर्मानयन्त्युत्तमं वै तं त्वामेकान्तधर्माश्रयणमुपगताः श्रीमहापूरुषं स्मः ।१७ ।।
।।सिद्धा ऊचुः ।।
नैकब्रह्माण्डसर्गादिकारणं त्वामकारणम् ।।
तत्स्थं तद्व्यतिरिक्तं च नियन्तारं नमामहे।। १८ ।।
।।रुद्रा ऊचुः ।।
मायायाः सर्वमोहिन्या मोहनं मोहवर्जितम् ।।
महाकालस्यापि कालं त्वां नमः पुरुषोत्तमम् ।। १९ ।।
।।आदित्या ऊचुः ।।
प्रकाशिता येन वयं जगन्ति प्रकाशयामो भवता रमेश ।।
स्वयंप्रकाशं तमुरुप्रकाशं प्रकाशमूर्त्तिं प्रणता भवन्तम् ।। 2.9.15.२० ।।
।।साध्या ऊचुः ।।
शास्ता नृपाणां च महोरगाणां दैत्याधिपानां च सुराधिपानाम् ।।
त्वं वै मनूनां च प्रजापतीनां राजाधिराजाय नमोस्तु तुभ्यम् ।। ।। २१ ।।
।।वसव ऊचुः ।।
भवति भुवि यदायदाऽसुरांशैः प्रथितसनातनधर्मधार्मिकाणाम् ।।
कदनमुरु तदातदा स्वयं ते ह्यवतरते प्रणमाम धर्मगोप्त्रे ।। २२ ।।
।।चारणा ऊचुः ।।
चरित्रं शुभं ते धृतानेकमूर्त्तेः प्रबन्धैरनेकैर्हि गायन्ति भक्ताः
यदु श्रोतृवक्तॄन्पुनात्येव सद्यो वयं तं नताः पुण्यकीर्त्तिं भवन्तम् ।। २३ ।।
।।गन्धर्वाप्सरस ऊचुः ।।
ये कथास्ते विहायान्यगाथाः प्रभो कीर्त्तयन्तेऽथ शृण्वन्ति वा ते जनाः ।।
दुःखिताः स्युश्च संसारपाशैः सितास्तं नताः स्मः शरण्यं भवन्तं वयम् ।। २४ ।।
।।समुद्र उवाच ।।
अजित तवाऽथ तावकजनस्य मुदाऽल्पमपि द्रविण जलान्नवस्त्रनमनान्यतमेन सकृत् ।।
चरति ह सेवनं स पदवीं महतीं महतां व्रजति जनोल्पकोपि तमहं प्रणतः करुणम् ।। २५ ।।
।।पार्षदा ऊचुः ।।
पितरो त्वमसि स्वजनस्त्वमसि त्वमसीष्टगुरुः सुहृदात्मपतिः ।।
त्वमसीश्वर एव च नः परमस्त्वमसि द्रविणं सकलं त्वमसि ।। ।। २६ ।।
।।मूर्त्तिरुवाच ।।
यत्संबन्धत एव यान्ति पदवीमुच्चां महद्भिर्न्नुतां स्त्रीशूद्रासुरनीचपक्षिपशवः पापात्मजीवा अपि ।।
यद्धीना विबुधेश्वरा अपि भवन्त्यर्च्चोज्झितास्तत्क्षणं गोलोकाधिपतिं तमेव हृदये नित्यं भजे त्वामहम् ।। २७ ।।
।।सावित्र्युवाच ।।
त्वं सर्गकाले प्रकृतिं च पूरुषं दृष्ट्या स्वयोत्थाप्य ततस्तदात्मना ।।
तत्त्वानि सृष्ट्वा महदादिमानितैर्न्नैकान्विराजो बहुधा ससर्जिथ ।। २८ ।।
वैराजरूपेण जगद्विधातृतां स्वीकृत्य देवासुरमानुषोरगान्
त्वं स्थावरं जंगममीश निर्ममे त्वामादिकर्तारमुपाश्रितास्म्यहम् ।। ।। २९ ।।
।।दुर्गोवाच ।।
प्रियतयाऽधिकया हृदि चिन्तनं विदधते तव ये भुवि ते विभो ।।
न परमेष्ठिसुखं न दिवः सुखं न कमयन्ति धरैकनरेशताम् ।। 2.9.15.३० ।।
__________________________________________
प्रसभमर्पितमप्यतुलं त्वया सुखमिदं समवाप्य च तत्र ते ।।
तदपहाय न शक्तिकृतः क्षणं तमु नमामि च सात्वतनायकम् ।। ३१ ।।
।।नद्य ऊचुः ।।
वरद नमनमात्रं नामसंकीर्तनं वा विदधति तव ये वै ज्ञानतोऽज्ञानतो वा ।।
जनिमृतियमभीतेस्तानपि त्रायमाणं नरसखमुपयाताः स्मोऽद्य नारायणं त्वाम् ।। ३२ ।।
।।देवपत्न्य ऊचुः ।।
भुवि धृताकृतेर्जन्म मङ्गलं चरितमद्भुतं लोकपावनम् ।।
भवति निर्गुणं सर्वमेव ते भवसि निर्गुणब्रह्म यत्परम् ।। ३३ ।।
तव समाश्रयात्तामसा जना अपि च राजसाः सात्त्विकाश्च ये ।।
ननु भवन्ति ते निर्गुणास्ततो वयमुपास्महे त्वां हि निर्गुणम् ।। ३४ ।।
।।ऋषिपत्न्य ऊचुः।।
आर्तानामुरुवृजिनैस्त्रिधा च तापैः सर्वापत्प्रशमनमेकमेव विष्णोः ।।
पादाब्जं तव भवतीति तद्वयं वै प्राप्ताः स्मः शरणमनन्त देवदेव ।। ३५ ।।
।।पृथिव्युवाच ।।
पूर्णशारदसुधाकराननं शारदाब्जदलदीर्घलोचनम् ।।
श्रीवियोगबहुधार्तिमोचनं वाऽसुदेवमहमेकमाश्रये । ३६ ।।
।।सरस्वत्युवाच ।।
नयने ममाच्युत तवातिसुन्दरे मुखशीतरोचिषि चकोरतां गते ।।
न हि गच्छतोऽन्यत इतीयमेव मे हृदि मूर्तिरस्तु सततं नहीतरा ।। ३७ ।।
।।स्कन्द उवाच ।।
इति स्तुतोऽखिलैर्देवैः सोभिनन्द्य दृशैव तान् ।। प्राह श्रियं शुभे पश्य देवादींस्त्वमिमानिति ।। ३८ ।।
ततः समीक्षिताः प्रीत्या तया मधुरया दृशा ।।त्रिलोकीवासिनः सर्वे ऋद्धा आसन्यथा पुरा ।। ३९ ।।
लेभिरे स्वस्वऋद्धिं ते गृहिणस्त्यागिनोपि च ।। धर्मादयश्च सानन्दं प्रचरन्ति स्म पूर्ववत् ।2.9.15.४० ।।
तस्याः श्रियश्च भगवान्ददौ स्थानमुरः स्वकम् ।। तत्र स्थित्वैव सा व्यापत्त्रैलोक्यं संपदात्मना ।। ४१ ।।
ततो रत्नाकरः स्वस्माच्छ्रीजनेरनुभावतः ।।बभूवान्वर्थसंज्ञो वै संपूर्णक्षयरत्नवान् ।। ४२ ।।
चतुर्विधैर्बहुरसैः सदन्नैरमृतोपमैः ।। सर्वान्समागतांस्तत्र तर्पयामास सादरम् ।। ४३ ।।
अनर्घ्याणि च वस्त्राणि रत्नभूषाः परिच्छदान् ।। देवादिभ्यो ददौ प्रीत्या सर्वेभ्योपि पृथक्पृथक् ।। ४४ ।।
जामातुस्तुष्टये स्वस्य तदीयेभ्यस्तदाम्बुधेः ।।नासीत्किमप्यदेयं वै घनवद्धनवर्षिणः ।। ४५ ।।
भगवानपि तद्दत्तं यौतकं च धनं बहु ।। ब्राह्मणेभ्यः प्रदायैव श्रिया सह तिरोदधे ।। ४६ ।।
लक्ष्मीनारायणाभ्यां ते भृशमानन्दिताः सुराः ।। इन्द्रादयो दिवं जग्मुः स्वंस्वं धामाऽपरे ययुः ।। ४७ ।।
अधिकारं च संप्राप्य यथापूर्वं निजंनिजम् ।। सर्वेपि सुखिनो जाताः प्रसादात्कमलापतेः ।। ४८ ।।
मन्दरं च गिरिं तार्क्ष्यः पुनर्भगवदाज्ञया ।। स्वस्थानं समुपानीय स्थापयामास लीलया ।। ४९ ।।
एवमिन्द्रेण ब्रह्मर्षे नष्टा ब्राह्मणशापतः ।। उपलब्धा पुनः संपन्नारायणप्रसादतः। 2.9.15.५०।।
य एतां शृणुयात्पुण्यां कथां भगवतो मुने ।। कीर्तयेत्प्रयतो वापि संपदं प्राप्नुतो हि तौ ।। ५१ ।।
गृहिणां धनसिद्धिः स्यात्त्यागिनां च यथेप्सिता ।।भक्तिज्ञानविरागादेर्भवेत्सिद्धिरनेन वै ।। ५२ ।।
इति ते कथितं ब्रह्मन्यथेन्द्रः प्राप संपदम् ।। नारदोपि यथा श्वेतं द्वीपं स गतवानृषिः ।।
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकेन चैतसा ।। ५३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये लक्ष्मीनारायणस्तुतिनिरूपणं नाम पञ्चदशोऽध्यायः ।। १५ ।।
स्कन्दपुराणम् खण्डः २ द्वितीय (वैष्णवखण्डः) वासुदेवमाहात्म्यम् अध्यायः (१६)
।। स्कन्द उवाच ।।
मेरुशृंगं समारूढो नारदो दिव्यया दृशा ।।
श्वेतद्वीपं च तत्रस्थान्पश्यन्मुक्तान्सहस्रशः ।। १ ।।
वासुदेवे भगवति दृष्टिमाबध्य तत्क्षणम् ।।
उत्पपात महायोगी सद्यः प्राप च धाम तत् ।। २ ।।
प्राप्य श्वेतं महाद्वीपं नारदो हृष्टमानसः ।।
ददर्श भक्तांस्तानेव श्वेतांश्चन्द्रप्रभाञ्छुभान् ।। ३ ।।
पूजयामास शिरसा मनसा तैश्च पूजितः ।।
दिदृक्षुर्ब्रह्म परमं स च कृच्छ्रपरः स्थितः ।। ४ ।।
भक्तमेकान्तिकं विष्णोर्बुद्ध्वा भागवतास्तु ते ।।
तमूचुस्तुष्टमनसो जपन्तं द्वादशाक्षरम् ।। ५ ।।
।।श्वेतमुक्ता ऊचुः ।।
मुनिवर्य भवान्भक्तः कृष्णस्याऽस्ति यतोऽत्र नः ।।
दृष्टवान्देवदुर्दृश्यान्किमिच्छन्नथ तप्यति ।। ६ ।।
।।नारद उवाच ।।
भगवन्तं परं ब्रह्म साक्षात्कृष्णमहं प्रभुम् ।।
द्रष्टुमुत्कोऽस्मि भक्तेन्द्रास्तं दर्शयत तत्प्रियाः ।।७।।
।।स्कन्द उवाच ।।
तदैकः श्वेतमुक्तस्तु कृष्णेन प्रेरितो हृदि ।।
एहि ते दर्शये कृष्णमित्युक्त्वा पुरतोभवत् ।।८।।
प्रहृष्टो नारदस्तेन साकमाकाशवर्त्मना ।।
पश्यन्धामानि देवानां तत ऊर्द्ध्वं ययौ मुनिः ।।९।।
सप्तर्षींश्च ध्रुवं दृष्ट्वाऽनासक्तः कुत्रचित्स च ।।
महर्जनतपोलोकान्व्यतीयाय द्विजोत्तम।।2.9.16.१०।।
ब्रह्मलोकं ततो दृष्ट्वा श्वेतमुक्तानुगो मुनिः ।।
कृष्णस्यैवेच्छयाऽध्वानं प्रापाष्टावरणेष्वपि।।११।।
भूम्यप्तेजोनिलाकाशाहम्महत्प्रकृतीः क्रमात् ।।
क्रान्त्वा दशोत्तरगुणाः प्राप गोलोकमद्भुतम् ।।१२।।
धाम तेजोमयं तद्धि प्राप्यमेकान्तिकैर्हरेः।।
गच्छन्ददर्श विततामगाधां विरजां नदीम्।।१३।।
______________________________
गोपीगोपगणस्नानधौतचन्दनसौरभाम्।।
पुण्डरीकैः कोकनदै रम्यामिन्दीवरैरपि।।१४।।
तस्यास्तटं मनोहारि स्फटिकाश्ममयं महत्।।
प्राप श्वेतहरिद्रक्तपीतसन्मणिराजितम्।।१५।।
कल्पवृक्षालिभिर्ज्जुष्टं प्रवालाङ्कुरशोभितम्।।
स्यमन्तकेन्द्रनीलादिमणीनां खनिमण्डितम् ।। १६ ।।
नानामणीन्द्रनिचितसोपानततिशोभनम् ।।
कूजद्भिर्मधुरं जुष्टं हंसकारण्डवादिभिः ।। १७ ।।
वृन्दैः कामदुघानां च गजेन्द्राणां च वाजिनाम् ।।
पिबद्भिर्न्निर्मलं तोयं राजितं स व्यतिक्रमत् ।। १८ ।।
उत्तीर्याऽथ धुनी दिव्यां तत्क्षणादीश्वरेच्छया ।।
तद्धामपरिखाभूतां शतशृङ्गागमाप सः ।। १९ ।।
हिरण्मयं दर्शनीयं कोटियोजनमुच्छ्रितम् ।।
विस्तारे दशकोट्यस्तु योजनानां मनोहरम् । 2.9.16.२०।।
सहस्रशः कल्पवृक्षैः पारिजातादिभिर्द्रुमैः ।।
मल्लिकायूथिकाभिश्च लवङ्गैलालतादिभिः ।।२१।
स्वर्णरम्भादिभिश्चान्यैः शोभमानं महीरुहैः ।।
दिव्यैर्मृगगणैर्न्नागैः पक्षिभिश्च सुकूजितैः ।। २२ ।।
दुर्गायितस्य तद्धाम्नस्तस्य रम्येषु सानुषु ।।
मनोज्ञान्विततानैक्षद्भगवद्रासमण्डपान् ।। २३ ।।
वृतानुद्यानततिभिः फुल्लपुष्पसुगन्धिभिः ।।
कपाटै रत्ननिचितैश्चतुर्द्वारसुशोभनान् ।। २४ ।।
चित्रतोरणसंपन्नै रत्नस्तम्भैः सहस्रशः ।।
जुष्टांश्च कदलीस्तम्भैर्मुक्तालम्बैर्वितानकैः ।। २५ ।।
दूर्वालाजाक्षतफलैर्युक्तान्माङ्गलिकैरपि ।।
चन्दनागुरुकस्तूरीकेशरोक्षित चत्वरान् ।। २६ ।।
__________________________________
सुश्राव्यवाद्यनिनदैर्हृद्यान्बहुविधैरपि ।।
तेषु यूथानि गोपीनां कोटिशः स ददर्श ह ।। २७ ।।
अनर्घ्यवासोभूषाभिः सद्रत्नमणिकङ्कणैः ।।
काञ्चीनूपुरकेयूरैः शोभितान्यङ्गुलीयकैः ।। २८ ।।
तारुण्यरूपलावण्यैः स्वरैश्चाऽप्रतिमानि हि ।।
राधालक्ष्मीसवर्णानि शृङ्गारिककराणि च ।। २९ ।।
भोगद्रव्यैर्बहुविधैर्मण्डपेषु युतेषु च ।।
विलसन्ति च गायन्ति मनोज्ञाः कृष्णगीतिकाः ।। 2.9.16.३० ।।
उपत्यकासु तस्याद्रेरथ वृन्दावनाभिधम् ।।
वनं महत्तदद्राक्षीत्सावर्णे नारदो मुनिः ।। ३१ ।।
कृष्णस्य राधिकायाश्च प्रियं तत्क्रीडनस्थलम्।।
कल्पद्रुमालिभी रम्यं सरोभिश्च सपङ्कजैः ।। ३२ ।।
आम्रैराम्रातकैर्नीपैर्बदरीभिश्च दाडिमैः ।।
खर्जूरीपूगनारंगैर्न्नालिकेरैश्च चन्दनैः ।। ३३ ।।
जम्बूजम्बीरपनसैरक्षोदैः सुरदारुभिः ।।
कदलीभिश्चम्पकैश्च द्राक्षाभिः स्वर्णकेतकैः ।। ३४ ।।
फलपुष्पभरानम्रैर्न्नानावृक्षैर्विराजितम् ।।
मल्लिका माधवीकुन्दैर्ल्लवंगैर्यूथिकादिभिः ।। ३५ ।।
मन्दशीतसुगन्धेन सेवितं मातरिश्वना ।।
शतशृङ्गस्नुतैरार्द्रं निर्झरैश्च समन्ततः ।। ३६ ।।
सदा वसन्त शोभाढ्यं रत्नदीपालिमण्डितैः ।।
शृङ्गारिकद्रव्ययुतैः कुञ्जैर्जुष्टमनेकशः ।। ३७ ।।
गोपानां गोपिकानां च कृष्णसंकीर्त्तनैर्मुहुः ।।
गोवत्स पक्षिनिनदैर्न्नानाभूषणनिस्वनैः ।।
दधिमन्थनशब्दैश्च सर्वतो नादितं मुने ।। ३८ ।।
फुल्लपुष्पफलानम्रनानाद्रुमसुशोभनैः ।।
द्वात्रिंशतवनैरन्यैर्युक्तं पश्यमनोहरैः ।। ३९ ।।
तद्वीक्ष्य हृष्टः स प्राप गोलोकपुरमुज्वलम् ।।
वर्तुलं रत्नदुर्गं च राजमार्गोपशोभितम् ।2.9.16.४०।
राजितं कृष्णभक्तानां विमानैः कोटिभिस्तथा ।।
रथै रत्नेन्द्रखचितैः किंकिणीजालशोभितैः ।। ४१ ।।
महामणीन्द्रनिकरै रत्नस्तम्भालिमण्डितैः ।।
अद्भुतैः कोटिशः सौधैः पंक्तिसंस्थैर्मनोहरम् ।। ४२ ।।
विलासमण्डपै रम्यै रत्नसारविनिर्मितः ।।
रत्नेन्द्रदीपततिभिः शोभनं रत्नवेदिभिः ।। ४३ ।।
केसरागुरुकस्तूरीकुंकुमद्रवचर्चितम् ।।
दधिदूर्वालाजपूगै रम्भाभिः शोभिताङ्गणम् ।। ४४ ।।
वारिपूर्णैर्हेमघटैस्तोरणैः कृतमंगलम् ।।
मणिकुट्टिमराजाध्वचलद्भूरिगजाश्वकम् ।। ४५ ।।
______________________________________
श्रीकृष्णदर्शनायातैर्न्नैकब्रह्माण्डनायकैः ।।
विरिञ्चिशंकराद्यैश्च बलिहस्तैः सुसंकुलम् ।।४६।।
व्रजद्भिः कृष्णवीक्षाथ गोपगोपीकदम्बकैः ।।
सुसंकुलमहामार्गं मुमोदालोक्य तन्मुनिः ।।४७।।
कृष्णमन्दिरमापाऽथ सर्वाश्चर्यं मनोहरम् ।।
नन्दादिवृषभान्वादिगोपसौधालिभिर्वृतम् ।। ४८ ।।
चतुर्द्वारैः षोडशभिर्दुर्गैः सपरिखैर्युतम्।।
कोटिगोपवृतैकैकद्वारपालसुरक्षितैः ।। ४९ ।।
रत्नस्तम्भकपाटेषु द्वार्षु स्वाग्रस्थितेषु सः ।।
उपविष्टान्क्रमेणैव द्वारपालान्ददर्श ह ।।2.9.16.५०।।
वीरभानुं चन्द्रभानुं सूर्यभानुं तृतीयकम् ।।
वसुभानुं देवभानुं शक्रभानुं ततः परम् ।। ५१ ।।
रत्नभानुं सुपार्श्वं च विशालमृषभं ततः ।।
अंशुं बलं च सुबलं देवप्रस्थं वरूथपम् ।। ५२ ।।
श्रीदामानं च नत्वाऽसौ प्रविष्टोंतस्तदाज्ञया ।।
महाचतुष्के वितते तेजोऽपश्यन्महोच्चयम् ।। ५३ ।।
_______________________________________
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये गोलोकवर्णनं नाम षोडशोऽध्यायः ।।१६।।
स्कन्दपुराणम् खण्डः द्वितीय ( २)
(वैष्णवखण्डः)वासुदेवमाहात्म्यम् अध्यायः (१७)
< स्कन्दपुराणम् | खण्डः २ (वैष्णवखण्डः) | वासुदेवमाहात्म्यम्
।। स्कन्द उवाच ।।
तत्त्वेककालसंभूतकोटिकोट्यर्कसन्निभम् ।। स व्यचष्ट महत्तेजो दिव्यं सिततरं मुने ।।१।।
दिशश्च विदिशः सर्वा ऊर्द्ध्वाधो व्याप्नुवच्च यत्।। अक्षरं ब्रह्म कथितं सच्चिदानन्दलक्षणम् ।। २ ।।
प्रकृतिं पुरुषं चोभौ तत्कार्याण्यपि सर्वशः ।। व्याप्तं यद्योगसंसिद्धाः षट्चक्राणि निजान्तरे ।।
व्यतीत्य मूर्ध्नि पश्यन्ति वासुदेवप्रसादतः ।। ३ ।। यद्भासा भासितः सूर्यो वह्निरिन्दुश्च तारकाः ।।
भासयन्ति जगत्सर्वं स्वप्रकाशं तथामृतम् ।। ४ ।।यद्ब्रह्मपुरमित्याहुर्भगवद्धाम सात्वताः ।। यस्यान्तिकेषु परितस्तिष्ठन्त्यर्चककोटयः ।। ५ ।।
ब्रह्मशंकर वृन्दानि ह्युपर्युपरि संभ्रमात् ।। पतन्ति बलिहस्तानि गोपगोपीव्रजाश्च यत् ।। ६ ।।
कृष्णस्यानुग्रहो यस्मिन्स तेजसि तमीक्षते ।। केवलं तेज एवान्ये पश्यन्ति न तु तं मुने ।। ७ ।।
तस्मिन्ददर्शाद्भुतदिव्यमन्दिरं विचित्ररत्नेन्द्रमयं मनोज्ञम् ।।रत्नोज्ज्वलस्तम्भसहस्रकान्तं महासभा मण्डपदर्शनीयम् ।। ८ ।।
सौधालिभिर्भूरिभिरुज्ज्वलाभिः स्वोपासकानां परितो विराजितम् ।।
विचित्रसूक्ष्माम्बररत्नभूषाविभूषितानां हि नृणां च योषिताम् ।। ९ ।।
सिंहासनं तत्र मणीन्द्रसारै रत्नेन्द्रसारैश्च विनिर्मितं सः ।।
आश्चर्यकृन्प्रेक्षकमानसानां दिव्य मुनिः प्रैक्षत भूरिहर्षः ।।2.9.17.१०।।
तत्राऽथ कृष्णं भगवन्तमैक्षन्नारायणं निर्गुणमास्थितं सः ।।सर्वज्ञमीशं पुरुषोत्तमं च यं वासुदेवं च वदन्ति सात्वताः ।। ११ ।।
यं केचिदाहुः परमात्मसंज्ञं केचित्परं ब्रह्म परात्परं च ।।ब्रह्मेति केचिद्भगवन्तमेके विष्णुं च भक्ताः परमेश्वरं च।।१२।।
कन्दर्पसाहस्रमनोहराङ्गं सदा किशोरं करुणानिधानम् ।।अतिप्रशांताकृतिदर्शनीयं क्षराक्षरेभ्यश्च परं स्वतन्त्रम् ।। १३ ।।
नैकाण्डसर्गस्थितिनाशलीलाविधायकापांगनिरीक्षणं च ।।अनेककोट्यण्डमहाधिराजं विश्वैकवन्द्यं नटवर्यवेषम् ।। १४ ।।
अनर्घ्यदिव्योत्तमपीतवाससमनेकसद्रत्नविभूषणाढ्यम् ।।नवीनजीमूतसमानवर्णं कर्णोल्लसत्सन्मकराभकुण्डलम् ।। १५ ।।
निजांगनिर्यत्सितभूरितेजश्चयावृतत्वात्सितवर्णमुक्तम् ।।सद्रत्नसारोज्ज्वलसत्किरीटं शरत्सरोजच्छदचारुनेत्रम् ।। १६ ।।
सुगन्धिसच्चन्दनचर्चितांगं श्रीवत्सलक्ष्माङ्कितहृत्कपाटम् ।। निनादयन्तं मधुरं च वेणुं कृत्वा मुखाग्रेम्बुजचारुदोर्भ्याम् ।। १७।।
वृन्दैः सखीनां सह राधया च ।।समर्च्यमानं रमया च भामा कलिन्दजा जाम्बवतीमुखानाम् ।।१८।।
धर्मेण वेदैरखिलैर्भगैश्च ज्ञानादिभिः संयतपाणियुग्मैः ।।निषेव्यमाणं च सुदर्शनाद्यैर्निजायुधैर्मूर्तिधरैरनेकैः ।१९ ।।
मसारमाणिक्यजयासुशीलाललितामुखानांसुवर्णवर्णैः सितैश्च कैश्चिन्निजपार्षदाग्र्यैः ।।उपासितं चक्रगदाब्जशङ्खलसद्भुजैर्नन्दसुनन्दमुख्यैः ।। 2.9.17.२० ।।
श्रीदाममुख्यैरथ गोपवेषैर्भक्त्यावनम्रैर्द्विभुजैरनेकैः ।।उपास्यमानं गरुडेन चाग्रतो विभूतिभिश्चाष्टभिरानताभिः ।। २१ ।।
_________________________________________
मूर्त्या च शान्त्या दयया च सेवितं पुष्ट्या च तुष्ट्या ह्यथ मेधया च ।।
श्रद्धाक्रिया ह्युन्नतिभिश्च मैत्र्या तथा तितिक्षास्मृतिबुद्धिभिश्च ।। २२ ।।
दृष्ट्वा तमत्यद्भुतदिव्यमूर्त्ति तद्रूपसौरभ्यहृताखिलेन्द्रियः।आनन्दवारिप्रतिरुद्धदृष्टिः प्रेम्णोर्द्ध्वरोमा सुखसंभृतोऽभूत् ।। २३ ।।
दण्डवत्तं नमस्कृत्य नारदः प्रेमविह्वलः ।।बद्धाञ्जलिपुटस्तस्थौ वीक्षमाणस्तदाननम् ।। २४ ।।
तं मानयामास हरिः पृष्ट्वा स्वागतमादरात् ।।भक्तमेकान्तिकं स्वस्य स्वेनैव च दिदृक्षितम् ।। २५ ।।
भगवद्वाक्यपीयूषास्वादप्राप्तात्मसंस्मृतिः ।।तद्दर्शनमहानन्दो भक्त्या तुष्टाव तं मुनिः ।। २६ ।।
।।नारद उवाच ।।
जय श्रीकृष्ण भगवन्नारायण जगत्प्रभो ।।वासुदेवाऽखिलावास सदैकान्तिकवल्लभ ।। २७ ।।
अप्याश्चर्यार्चनीयाङ्घ्रे राधिकाकमलादिभिः ।।त्वमेवात्यन्तिकं श्रेयोऽभीप्सतां परमा गतिः ।। २८ ।।
नित्यानामात्मनां नित्य आत्मा चेतनचेतनः ।।क्षराक्षरेभ्यश्च परस्त्वं ब्रह्म परमं हरे ।। २९ ।।
यथा विशुद्धिः सिद्धिश्च भक्त्या परमया तव ।। तथा न स्यान्नृणामन्यैः साधनैस्तप आदिभिः ।। 2.9.17.३० ।।
त्वदङ्घ्रिदिव्यज्योत्स्नैका मुमुक्षूणां हृदि स्थितम् ।।महत्सन्तमसंहर्तुं सद्यः शक्तास्ति सत्पते ।। ३१ ।।
सर्वैर्वेदैस्त्वमेवेज्य उपास्यो ज्ञेय एव च ।। निरूपितोसि भगवन्सर्वकारणकारणम् ।। ३२ ।।
एकैकस्मिन्रोमकूपे यत्तवास्ति सितं महः ।। शान्तमानंदरूपं च तत्कोटीन्दुप्रभाधिकम् ।। ३३ ।।
अस्मिंस्त्वमक्षरे धाम्नि निर्गुणेऽमृतसञ्ज्ञके ।। महःपुञ्जे सदैवास्से निर्गुणः पुरुषोत्तमः ।। ३४ ।।
ब्रह्माण्डभयदात्कालान्मायायाश्च महाभयात् ।। मुक्ता भक्ता भवन्त्येव त्वदीयोपासनाबलात् ।। ३५ ।।
तं त्वामहमुपेतोस्मि शरणं जगदीश्वरम् ।। सर्वात्मानं विभुं ब्रह्म महापुरुषमच्युतम् ।। ३६ ।।
यथा त्वच्चरणाम्भोजे भक्तिर्मे निश्चला सदा ।।
भवेत्तथैव देवेश कर्त्तुमर्हस्यनुग्रहम् ।। ३७ ।।
।। स्कन्द उवाच ।।
इत्थं देवर्षिणा भक्त्या संस्तुतः परमेश्वरः ।।
तमाहानन्दयन्वाचा सुधासंमितया मुनिम् ।। ३८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवदर्शनं नाम सप्तदशोऽध्यायः ।। १७ ।।
___________________
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १८
।। श्रीभगवानुवाच ।।
दर्शनं मम यज्जातं तव तत्तु महामुने ।।
नित्यैकान्तिकभक्तत्वान्निर्दम्भत्वान्मदिच्छया ।। १ ।।
अहिंसा ब्रह्मचर्यं च त्वयि नित्यं च तद्द्वयम् ।।
स्वधर्मोपशमौ चैव वैराग्यं चात्मवेदनम् ।। २ ।।
सत्सङ्गोऽष्टाङ्गयोगश्च सर्वथेन्द्रियनिग्रहः ।।
मुन्यन्नवृत्तिश्च तपः सर्वव्यसनहीनता ।। ३ ।।
मदेकान्तिकभक्तिश्च महात्म्यज्ञानपूर्विका ।।
वर्त्तते तेन मामत्र पश्यसि त्वं हि सुव्रत ।। ४ ।।
ईदृग्लक्षणसंपन्ना ये स्युरन्येपि मानवाः ।।
तेपि मामीदृशं विप्र पश्यन्त्येकान्तिकप्रियम् ।। ५ ।।
असावहमिह ब्रह्मन्नस्मिन्नक्षरधामनि ।।
राधालक्ष्मीयुतो नित्यं वसामि स्वाश्रितैः सह ।। ६ ।।
वासुदेवस्वरूपोहं सर्वकर्मफलप्रदः ।।
अन्तर्यामितया वर्त्ते स्वतन्त्रः सर्वदेहिनाम् ।। ७ ।।
वैकुण्ठाख्यं महाधाम्नि लक्ष्म्या सह चतुर्भुजः ।।
वसामि नन्दगरुडमुख्यैः साकं च पार्षदैः ।। ८ ।।
धाम्नि तेजोमये दिव्ये श्वेतद्वीपेऽन्वहं भुवि ।।
ददामि श्वेतमुक्तेभ्यः पञ्चकालं स्वदर्शनम् ।। ९।।
कुर्वेऽनिरुद्धप्रद्युम्नसंकर्षणसमाह्वयैः ।।
स्वरूपैर्नैककोट्यण्डसर्गस्थित्यप्ययानहम् ।।2.9.18.१०।।
सर्गारम्भे मया ब्रह्मा सृष्टो नाभिसरोरुहात् ।।
तपसाराधयामास स मां यज्ञैश्च नारद ।।११।।
ततस्तस्मै प्रसन्नोऽहं प्राददामीप्सितान्वरान् ।।
ब्रह्मन्प्रास्यसि सामर्थ्यं प्रजानां त्वं विसर्जने ।। १२ ।।
आज्ञायामेव ताः सर्वास्तव स्थास्यन्ति मद्वरात् ।।
वेदाश्चापि स्फुरिष्यन्ति तव बुद्धौ सनातनाः ।। १३ ।।
ज्ञानं च मत्स्वरूपस्य यथावत्ते भविष्यति ।।
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन ।। १४ ।।
सुरासुरगणानां च मुनीनां च महात्मनाम् ।।
त्वमेव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि ।। १५।।
असाध्ये यत्र कार्ये च मोहमेष्यसि तत्त्वहम्।।
प्रादुर्भूय करिष्यमि स्मृतमात्रस्त्वया विधे ।। १६ ।।
सृज्यमाने त्वया विश्वे नष्टां पृथ्वीं महार्णवे ।।
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ।।
हिरण्याक्षं निहत्यैव दैतेयं बलगर्वितम् ।। १७ ।।
दिनान्ते तव मत्स्योहं भूत्वा क्षोणीं तरीमिव ।।
सहौषधिं धारयिष्ये मन्वादींश्च निशावधि ।। १८ ।।
सुधायै मथ्नतामब्धिं काश्यपानां निराश्रयम् ।।
मन्थानं कूर्मरूपोहं धास्ये पृष्ठे च मन्दरम् ।। १९ ।।
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं विधे ।।
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ।2.9.18.२० ।।
विरोचनस्य बलवान्बलिः पुत्रो महासुरः ।।
भविष्यति स शक्रं च स्वाराज्याच्च्यावयिष्यति ।। २१ ।।
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ।।
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् ।। २२ ।।
ततो राज्यं प्रदास्यामि देवेन्द्राय दिवः पुनः ।।
देवताः स्थापयिष्यामि स्वेषु स्थानेष्वहं विधे ।।
बलिं चैव करिष्यामि पातालतलवासिनम् ।।२३।।
कर्दमाद्देवहूत्यां च भूत्वाऽथ कपिलाभिधः ।।
प्रवर्तयिष्ये कालेन नष्टं सांख्यं विरागयुक् ।।२४।।
दत्तो भूत्याऽनसूययामत्रेरान्विक्षिकीं ततः ।।
प्रह्लादायोपदेक्ष्यामि विद्यां च यदवे विधे ।। २५ ।।
मेरुदेव्यां सुतो नाभेर्भूत्वाहमृषभो भुवि ।।
धर्मं पारमहंस्याख्यं वर्तयिष्ये सनातनम् ।। २६ ।।
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ।।
क्षत्रं चोत्सादयिष्यामि भग्नसेतुकदध्वगम्।। ।। २७ ।।
सन्धौ तु समनुप्राप्ते त्रेताया द्वापरस्य च ।।
कौशल्यायां भविष्यामि रामो दशरथादहम् ।। २८ ।।
सीताभिधाना लक्ष्मीश्च भवित्री जनकात्मजा ।।
उद्वहिष्यामि तामैशं भंक्त्वा धनुरहं महत् ।।२९।।
ततो रक्षःपतिं घोरं देवर्षिद्रोहकारिणम् ।।
सीतापहारिणं संख्ये हनिष्यामि सहानुजम् ।। 2.9.18.३० ।।
तस्य मे तु चरित्राणि वाल्मीक्याद्या महर्षयः ।।
तदा गास्यन्ति बहुधा यच्छ्रुतेः स्यादघक्षयः ।। ३१ ।।
द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके ।।
भूभारासुरनाशार्थं पातुं धर्मं च धार्मिकान् ।।
वसुदेवाद्भविष्यामि देवक्यां मथुरापुरे ।। ३२ ।।
कृष्णोहं वासुदेवाख्यस्तथा संकर्षणो बलः ।।
प्रद्युम्नश्चाऽनिरुद्धश्च भविष्यन्ति यदोः कुले ।। ३३ ।।
गोपस्य वृषभानोस्तु सुता राधा भविष्यति ।।
वृन्दावने तया साकं विहरिष्यामि पद्मज ।। ३४ ।।
लक्ष्मीश्च भीष्मकसुता रुक्मिण्याख्या भविष्यति ।।
उद्वहिष्यामि राजन्यान्युद्धे निर्जित्य तामहम् ।। ३५ ।।
धर्मद्रुहोऽसुरान्हत्वा तदाविष्टांश्च भूपतीन् ।।
धर्मं संस्थापयन्नेव करिष्ये निर्भरां भुवम् ।। ३६ ।।
येन केनापि भावेन यस्य कस्यापि मानसम् ।।
मयि संयोक्ष्यते तंतं नेष्ये ब्रह्मगतिं पराम् ।। ३७ ।।
धर्मं भुवि स्थापयित्वा कृत्वा यदुकुलक्षयम् ।।
पश्यतां सर्वदेवानामन्तर्द्धास्ये भुवस्ततः ।। ।। ३८ ।।
कृष्णस्य मम वीर्याणि कृष्णद्वैपायनादयः ।।
गास्यन्ति बहुधा ब्रह्मन्सद्यः पापहराणि हि ।। ३९ ।।
कृष्णद्वैपायनो भूत्वा पराशरमुनेः सुतः ।।
शाखाविभागं वेदस्य करिष्यामि तरोरिव ।2.9.18.४०।
वैदिकं विधिमाश्रित्य त्रिलोकीपरिपीडकान् ।।
छलेन मोहयिष्यामि भूत्वा बुद्धोऽसुरानहम्।।४१।।
मया कृष्णेन निहताः सार्जुनेन रणेषु ये ।।
प्रवर्तयिष्यन्त्यसुरास्ते त्वधर्मं यदा क्षितौ ।।४२।।
धर्मदेवात्तदा भक्तादहं नारायणो मुनिः।।
जनिष्ये कोशले देशे भूमौ हि सामगो द्विजः।।४३।।
मुनिशापान्नृतां प्राप्तानृषींस्तात तथोद्धवम्।।
ततोऽवितासुरेभ्योऽहं सद्धर्मं स्थापयन्नज।।४४।।
जनान्म्लेच्छमयान्भूमौ कलेरन्ते महैनसः ।।
कल्की भूत्वा हनिष्यामि विचरन्दिव्यवाजिना।। ४५।।
यदा यदा च वेदोक्तो धर्मो नाशिष्यतेऽसुरैः।।
प्रादुर्भावो भविष्यो मे तद्रक्षायै तदा तदा ।। ४६ ।।
तस्माच्चिन्तां विहायैव प्रजाः सृज यथा पुरा ।।
एतान्दत्त्वा वरांस्तस्मा अहमन्तर्हितोऽभवम् ।। ४७ ।।
यथा तस्मै वरा दत्तास्तथैव च मया कृतम् ।।
कुर्वे करिष्ये च मुने निजशक्तिभिरञ्जसा ।। ४८ ।।
एवंविधस्य मे ब्रह्मन्नीशितुः सर्वदेहिनाम् ।।
दर्शनं दुर्लभं जातं तवैकान्तिकभक्तितः ।। ४९ ।।
वरं वरय मत्तस्त्वं स्वाभीष्टं मुनिसत्तम ।।
प्रसन्नोस्मि भृशं तुभ्यं नाफलं मम दर्शनम्।।2.9.18.५०।।
।।स्कन्द उवाच ।।
श्रुत्वेति भगवद्वाक्यं नारदो मुनिसत्तमः ।।
मन्यमानो निजं धन्यं तमुवाच प्रभुं मुने।।५१।।
दर्शनादेव ते स्वामिन्संपूर्णो मे मनोरथः ।।
इदं हि दुर्लभं मन्ये सर्वेषामपि देहिनाम् ।। ५२ ।।
अतस्ते च त्वदीयानां त्वद्धाम्नोस्याऽमृतस्य च ।।
साक्षात्समीक्षणादन्यत्प्राप्यं मे नास्ति वांछितम् ।। ५३ ।।
इतोन्यद्दुर्लभं क्वापि नास्ति ब्रह्माण्डगोलके ।।
यदहं परितुष्टात्ते प्रार्थयेयमिहाच्युत ।। ५४ ।।
लोकान्तरसुखं यत्तद्वैदिकैरेव कर्मभिः ।।
दैवैः पित्र्यैश्च लभ्येत तच्चाप्यस्ति हि नश्वरम् ।। ५५ ।।
नेच्छामि तदहं किञ्चित्सुखं त्वत्तः परं प्रभो ।।
वरमेकं तु याचे त्वत्स्वेप्सितं वरदर्षभात् ।। ५६ ।।
तवाऽथ तव भक्तानां सदैव गुणगायने ।।
अत्युत्सुकास्तु मे बुद्धिस्त्वयि प्रीतिविवर्द्धिनी ।। ५७ ।।
।। स्कन्द उवाच ।।
तथास्त्विति प्रतिश्रुत्य कृष्णस्तेनेति याचितम् ।।
गानोपयुक्तां महतीं वीणां दत्त्वाऽब्रवीत्पुनः ।। ५८ ।।
।।श्रीभगवानुवाच ।।
अधुना गच्छ देवर्षे विशालां बदरीमितः ।।
तत्र धर्मात्मजं भक्त्या मामाराधय सुव्रत ।। ५९ ।।
त्वं ह्येकान्तिकभक्तोसि मम निष्कपटान्तरः ।।
तेन त्वामधिकं मन्ये विधेरपि पितुस्तव ।। 2.9.18.६० ।।
यादृशोऽहं च यद्रूपो यावांश्च महिमा मम ।।
विदुस्तत्सर्वमपि मे भक्ता एकान्तिका मुने ।। ६१ ।।
हृदि चिन्त्योहमेवास्मि सतां तेषां च ते मम ।।
तेषामिष्टं न मत्तोऽन्यन्मम तेभ्यो न किञ्चन ।। ६२ ।।
यथा पतिव्रता नार्यो वशीकुर्वन्ति सत्पतिम् ।।
निजैर्गुणैस्तथा भक्ता वशीकुर्वन्ति मामपि ।। ६३ ।।
अनुयामि श्रिया साकं तानहं परवानिव ।।
यत्रयत्र च ते सन्ति तत्रतत्राहमस्मि हि ।। ६४ ।।
सत्संगादेव मत्प्राप्तिर्भवेद्भुवि मुमुक्षताम् ।।
नान्योपायेन देवर्षे सत्यमित्यवधारय ।। ६५ ।।
मामेव यर्हि शरणं मानुषाः प्राप्नुवन्ति ये ।।
तर्ह्येव ते विमुच्यन्ते मायाया जीवबन्धनात् ।। ६६ ।।
मां प्रपन्नस्तु पुरुषो येन केनापि भावतः ।।
यथेष्टं सुखमाप्नोति न तु संसृतिमन्यवत् ।। ६७ ।।
।।स्कन्द उवाच ।।
एवमुक्तो भगवता प्राप्तोऽनुग्रहमीप्सितम् ।।
प्रणम्य साश्रुनयनः पर्यावर्तत नारदः ।। ६८ ।।
तमेव वीणया गायञ्छ्वेतमुक्तमपश्यत ।।
प्राग्वत्स्वाग्रे चलन्तं तमन्वगच्छद् द्विजर्षभ ।। ६९ ।।
सद्यः श्वेतं महाद्वीपं प्राप्य श्वेतान्प्रणम्य तान् ।।
निवृत्तो नारदो ब्रह्मंस्तरसा मेरुमागमत् ।। 2.9.18.७० ।।
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् ।।
निपपात च खात्तूर्णं विशालां बदरीमनु ।।७१।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवावतारादिकथनंनामाऽष्टादशोऽध्यायः ।।१८।।
___________________________________________
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २०
।। नारद उवाच ।।
भगवन्ब्रूहि मे धर्ममेकान्तं तव संमतम् ।।
प्रीयते येन विश्वात्मा वासुदेवः स सर्वदा ।। १ ।।
।।श्रीनारायण उवाच ।।
साधु पृष्टं त्वया ब्रह्मन्मतिस्ते विमला किल ।।
मयि स्निग्धाय भक्ताय तुभ्यं गुह्यमपि ब्रुवे ।। ।। २ ।।
धर्म एष मया प्रोक्तः कल्पस्यादौ विवस्वते ।।
तमेव कथये तुभ्यं सनातनमहं मुने ।।३।।
स्वधर्मज्ञानवैराग्यैः सह लक्ष्मीवदीश्वरे ।।
तस्मिन्ननन्या भक्तिर्या धर्म एकान्तिकः स वै ।। ४ ।।
तेनैवातिप्रसन्नः स्याद्गोलोकाधिपतिः स्वयम् ।।
जायते स च भक्तोपि परिपूर्णमनोरथः ।। ५ ।।
।। नारद उवाच ।।
लक्षणानि बुभुत्सामि स्वधर्मादेः पृथक्पृथक् ।।
शास्त्रयोनेरहं त्वत्तो वक्तुं तानि त्वमर्हसि ।। ६ ।।
निगमागमशास्त्राणां सर्वेषामपि सत्पते ।।
मूलं त्वमेक एवासि येषु धर्मः सनातनः ।। ७ ।।
त्वमेव साक्षाद्भगवान्वासुदेवोऽक्षरात्परः ।।
श्रेयसे सर्वभूतानां वर्तसेऽत्र दयानिधिः ।। ८ ।।
त्वत्तोऽन्ये तु स्वस्वभावगुणतन्त्रा ह्यजादयः ।।
यथावन्न विजानीयुर्द्धर्मादींस्त्वमतो वद ।। ९ ।।
।।स्कन्द उवाच ।।
इति देवर्षिणा पृष्टो भगवान्धर्मनन्दनः ।।
स्वधर्मादीन्क्रमेणैव कथयामास सर्ववित् ।2.9.20.१० ।।
।।श्रीनारायण उवाच ।।
वर्णानामाश्रमाणां च सदाचारः पृथक्पृथक् ।।
सामान्यः सविशेषश्च स्वधर्मः स उदीर्यते ।। ११ ।।
नृणां साधारणं धर्मं सर्वेषामादितः शृणु ।।
अहिंसा परमो धर्मस्तत्रादिम उदाहृतः ।। १२ ।।
स्वमुख्यधर्मवृत्योरप्यद्रोहो मनसापि यः ।।
सति गत्यन्तरे प्राणिमात्रस्यापीति सा मता ।। १३ ।।
सत्या वाग्भूतमात्रस्य द्रोहो न स्याद्यया तथा ।।
तपश्च शास्त्रविहितभोगसंकोचलक्षणम् ।। १४ ।।
बाह्यमाभ्यन्तरं चेति द्विविधं शौचकर्म च ।।
अनादानं परस्वस्य परोक्षं वा छलेन च ।। १५ ।।
यथोचितं ब्रह्मचर्यकामलोभक्रुधां जयः ।।
मुदा वित्तार्पणं पात्रे तुष्टिर्लब्धेन दैवतः ।। १६ ।।
तीर्थे क्षेत्रे च यज्ञादौ चतुर्वर्गाप्तयेपि वा ।।
आत्मनो वा परस्यापि सर्वथा घातवर्जनम् ।। १७।।
जातिभ्रंशकराणां च कर्मणां परिवर्जनम् ।।
पाणिपादोदरोपस्थवाचां संयमनं तथा ।। १८ ।।
सर्वेषां व्यसनानां च वर्जनं मद्यमांसयोः ।।
व्यभिचारान्निवृत्तिश्च कुलसद्धर्मपालनम् ।। १९ ।।
एकादशीनां सर्वासां यमैः साकमुपोषणम् ।।
हरेर्जन्मदिनानां च व्रताचरणमञ्जसा।2.9.20.२० ।।
आर्जवं साधुसेवा च विभज्याऽन्नादिभोजनम् ।।
भक्तिर्भगवतश्चेति धर्माः साधारणा नृणाम् ।। २१ ।।
ब्रह्मक्षत्रविशः शूद्रा वर्णाश्चत्वार ईरिताः ।।
तेषां पृथक्पृथग्धर्मान्विशेषान्वच्मि ते मुने ।।२२।।
शमो दमः क्षमा शौचमास्तिक्यं भक्तिरीशितुः ।।
तपो ज्ञानं च विज्ञानं विप्रधर्मः स्वभावजः ।। २३ ।।
शूरत्वं धैर्यमौदार्य बलं तेजः शरण्यता।।
गोविप्रसाधुरक्षेज्या धर्माः क्षत्रस्य कीर्त्तिताः ।। २४ ।।
राज्ञस्त्वेतेऽथ नीत्यैव प्रजानां परिपालनम् ।।
धर्मसंस्थापनं भूमौ धर्मा दण्डार्हदण्डनम् ।। २५ ।।
आस्तिक्यं दाननिष्ठा च साधुब्राह्मणसेवनम् ।।
अतुष्टिरर्थोपचये धर्मा वैश्यस्य चोद्यमः ।। २६ ।।
द्विजातीनां च देवानां सेवा निष्कपटं गवाम् ।।
विशेषधर्मः कथितः शूद्रस्य मुनिसत्तम ।। २७ ।।
अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः ।।
विप्रस्य जीविका प्रोक्ता तत्रान्त्या त्वापदि स्मृता ।। २८ ।।
याजनेऽध्यापने वापि दोषदर्शी द्विजोत्तमः ।।
यस्तस्याऽन्यापि विहिता वृत्तिरस्ति चतुर्विधा ।। २९ ।।
शिलोञ्छ नित्ययाच्ञा च शालीनं चोचिता कृषिः ।।
श्रेयसी पूर्वपूर्वाऽत्र ज्ञातव्या द्विजसत्तमैः।।2.9.20.३० ।।
विप्रो जीवेद्वैश्यवृत्त्या सत्यामापदि नारद ।।
अथ वा क्षत्रवृत्त्यापि श्ववृत्त्या न तु कर्हिचित् ।। ३१ ।।
शस्त्रेण जीवेत्क्षत्रं तु सर्वतो धर्मरक्षया ।।
आपन्नो वैश्यवृत्त्यैव विप्ररूपेण वा चरेत् ।। ३२ ।।
करादानादिनृपतेरविप्राद्वृत्तिरीरिता ।।
देशकालानुसारेण रञ्जयित्वाऽखिलाः प्रजाः ।। ३३ ।।
आपत्कालेपि क्षत्रस्य ब्राह्मणस्येव सर्वथा ।।
विगर्हिता नीचसेवा स्वतेजःक्षयकारिणी ।। ३४ ।।
कृषिवाणिज्यगोरक्षा तुरीया वृद्धिजीवनम् ।।
वैश्यस्य जीविका प्रोक्ता शूद्रवृत्तिस्तथापदि ।। ३५ ।।
शूद्रो जीवेद्द्विजातीनां सेवालब्धधनेन च ।।
आपत्काले तु कार्वादेर्जीविकावृत्तिमाश्रयेत् ।। ३६ ।।
आपन्मुक्तस्तु सर्वोपि प्रायश्चित्तं यथोचितम् ।।
विधाय स्वस्ववृत्त्यैव पुनर्वर्त्तेत मुख्यया ।। ३७ ।।
चातुर्वर्ण्यं सतां संगं कुर्यान्न त्वसतां क्वचित् ।।
मुक्तिप्रदोस्ति सत्संगः कुसंगो निरयप्रदः ।। ३८ ।।
कामं क्रोधं रसास्वादं जित्वा मानं च मत्सरम् ।।
निर्दम्भं विष्णुभक्ता ये ते सन्तः साधवो मताः ।। ३९ ।।
स्त्रियां स्त्रैणे रसास्वादे सक्ताश्च धनगृध्नवः ।।
हिंस्रा दम्भकृताटोपा भक्ताभासा ह्यसाधवः ।। 2.9.20.४० ।।
असाधुष्वासुरी संपद्दैवी संपत्तु साधुषु ।।
सहजास्तीति निश्चित्य सेव्या सन्तः सुखेप्सुभिः ।। ४१ ।।
यादृशां यस्य संगः स्याच्छास्त्राणां वा नृणामपि ।।
बुद्धिः स्यात्तादृशी तस्य कार्योऽतो नासतां हि सः ।। ४२।
ये साधुसेवारुचयः पुरुषा निजशक्तितः ।।
अप्राप्यं नास्ति तेषां वै किमप्यैश्वर्यमूर्जितम् ।। ४३ ।।
स्वधर्मस्था अपि सतां द्रोहिणो ये तु मानवाः ।।
सद्गतिं नैव ते यान्ति क्वापि केनापि कर्मणा ।। ४४ ।।
महापूजारता विष्णोर्भक्ता अपि सतां यदि ।।
द्रोहं कुर्युस्तदा तेषु न प्रसीदति स क्वचित् ।। ४५ ।।
सद्द्रोहिणस्तु देहान्ते यांयां योनिं ब्रजन्ति च ।।
तत्रतत्र क्षुधारोगैः पीड्यन्ते जीवितावधि ।। ४६ ।।
सतामतिक्रमादेव पुण्यानां महतामपि ।।
सद्यः क्षयः स्यात्सर्वेषामायुषः संपदामपि ।। ४७ ।।
तस्मात्सेवा सतां कार्या सर्वैरपि सुखेप्सुभिः ।।
पुण्यतीर्थानि सेव्यानि पूज्या विप्राश्च धेनवः ।। ४८ ।।
तीर्थानि देवप्रतिमा निन्देयुर्ये कुबुद्धयः ।।
तेषां तु जारजातानां वंशोच्छेदो भवेद्ध्रुवम् ।। ४९ ।।
एकस्मिंस्तर्पिते विप्रे सद्भोज्यैर्दक्षिणादिभिः ।।
तर्पितं स्याज्जगत्सर्वं हरिस्तुष्यति च स्वयम् ।। 2.9.20.५० ।।
एकस्मिन्ब्राह्मणे द्रुग्धे द्रुग्धं स्यात्सकलं जगत्।।
तस्माच्छक्त्या पूजनीया ब्राह्मणा विष्णुरूपिणः।।५१।।
गवामंगेषु तिष्ठन्ति सर्वे देवगणा अपि।।
तथा सर्वाणि तीर्थानि तासु तिष्ठन्ति सर्वदा ।। ५२ ।।
____________________________
गव्यर्च्चितायामेकस्यां सर्वे देवाः समर्च्चिताः ।।
कृतानि स्युश्च सर्वाणि तीर्थान्यपि च नारद ।। ५३ ।।
एकस्या अपि गोर्द्रोहे कृते क्वापि प्रमादतः ।।
द्रुग्धाः स्युर्देवताः सर्वास्तीर्थान्यपि च कृत्स्नशः ।। ५४ ।।
तस्माच्चातुर्वर्ण्य जनैर्यथोक्तविधिसंस्थितैः ।।
भवितव्यं प्रयत्नेन त्रेतव्यं च निषेधतः।।५५।।
चातुर्वर्ण्येतरे ये तु तेषां वृत्तिः कुलोचिता ।।
चौर्यहिंसाद्यधर्मेण रहितैव हितावहा ।। ५६ ।।
वर्णधर्मा इति प्रोक्ताः संक्षेपेण मया मुने ।।
चतुर्णामाश्रमाणां च धर्मानथ वदामि ते ।। ५७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये चातुर्वर्ण्यधर्मनिरूपणं नाम विंशोऽध्यायः ।।२०।।
__________________________________________
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः) वासुदेवमाहात्म्यम् अध्यायः २२
< स्कन्दपुराणम् | खण्डः २ (वैष्णवखण्डः) | वासुदेवमाहात्म्यम्
।। श्रीनारायण उवाच ।।
गृही बुभूषुर्गुरवे दक्षिणां स्वस्य शक्तितः ।। दत्त्वा तदाज्ञयैवाऽसौ समावर्त्तनमाचरेत् ।। १ ।।
ततः कुलोचितां योषां वयसोनामरोगिणीम् ।। पुँल्लक्षणेन रहितामपापां विधिनोद्वहेत् ।। २ ।।
स्वाधिकारानुसारेण कृष्णसंप्रीतयेऽन्वहम् ।।देवर्षिपितृभूतानि यजेत विधिना ततः।। ।। ३ ।।
स्नानं संध्यां जपं होमं स्वाध्यायं विष्णुपूजनम् ।। तर्पणं वैश्वदेवं च कुर्याच्चातिथ्यमन्वहम् ।। ४ ।।
कुर्यात्पुण्यं यथाशक्ति न्यायार्जितधनेन च ।। अनासक्तः पोष्यवर्गं पुष्णीयान्न तु पीडयेत् ।। ५ ।।
देहं च दैहिकान्वासावुद्दिश्य पशुवत्परैः ।। वैरं न कुर्याद्देहादावहन्तां ममतां त्यजेत् ।।६।।
कुर्याद्भागवतानां च सतां संगमतन्द्रितः ।। न स्त्रैणानां व्यसनिनां संगं कुर्यान्न लोभिनाम् ।।७।।
कामभावेन नेक्षेत परयोषां तु कर्हिचित् ।।श्राद्धपर्वव्रताहादौ नोपेयाच्च स्वयोषितम् ।। ८ ।।
प्राप्तोपि पुरुषः सांख्ये योगे च परिपक्वताम्।। पुत्र्या अपि प्रसंगेन रहःस्थाने तु मुह्यति ।। ९ ।।
अतो मात्रा भगिन्या वा दुहित्रापि रहःस्थले ।। सह नासीत मतिमान्युवत्या किमुताऽन्यया ।। 2.9.22.१० ।।
अमङ्गलानां सर्वेषां विधवा ह्यत्यमंगलम् ।। तद्दर्शनं च तत्स्पर्शो नॄणां सुकृतहृत्ततः ।।११।।
प्रयाणकाले विधवादर्शनं सन्मुखे यदि ।। स्यात्तदा नैव गन्तव्यमन्यथा मरणं धुवम् ।। १२ ।।
आशिषो विधवास्त्रीणां समाः कालाहिफूत्कृतैः ।। ततश्च बिभियात्ताभ्यो राक्षसीभ्यो यथा गृही ।। १३ ।।
मद्यं मांसं मादकं च द्यूतादीन्दूरतस्त्यजेत् ।। न द्रोहं प्राणिमात्रस्य कुर्याद्वाचापि कर्हिचित् ।। १४ ।।
अवतारचरित्राणि शृणुयादन्वहं हरेः ।। सर्वा अपि क्रियाः कुर्याद्वासुदेवार्थमास्तिकः ।। १५ ।।
ऊर्जे माघे च वैशाखे चातुर्मास्ये मलिम्लुचे ।। अन्येषु पुण्यकालेषु विशेषनियमांश्चरेत् ।। १६ ।।
पुण्यदेशे पुण्यकाले सत्पात्रे विधिना गृही।। दद्याद्दानं यथाशक्ति दयां कुर्वीत जन्तुषु ।। १७ ।।
पुण्यान्देशान्पुण्यकालान्पुण्यपात्राणि चानघ ।। कथयामि विशेषेण धर्मवृद्धिकराणि ते ।। १८ ।।
देशः सर्वोत्तमस्त्वेष भुवि यो मदधिष्ठितः ।। महामुनिगणा यत्र तपस्यन्ति महाव्रताः।। ।। १९ ।।
हरितद्भक्तमाहात्म्याद्देशानामस्ति पुण्यता ।। गंगाद्वारं मधुपुरी नैमिषारण्यमेव च ।। 2.9.22.२० ।।
कुरुक्षेत्रमयोध्या च प्रयागश्च गयाशिरः ।। पुरी वाराणसी चैव पुण्यश्च पुलहाश्रमः ।।२१ ।।
कपिलाश्रमः श्रीरंगः प्रभासश्च कुशस्थली ।। क्षेत्रं सिद्धपदाख्यं च पौष्करं च महत्सरः ।। २२ ।।
क्रीडास्थानं भगवतः सश्रियो रैवताचलः ।। तथा गोवर्द्धनगिरिः पुण्यं वृन्दावनं वनम् ।। २३ ।।
महेन्द्रमलयाद्याश्च सप्तापि कुलपर्वताः ।। भागीरथी महापुण्या यमुना च सरस्वती ।। २४ ।।
गोदावरी च सरयूः कावेरी गोमतीमुखाः ।। पुराणप्रथिताः पुण्या महानद्यो नदास्तथा ।। २५ ।।
महोत्सवैर्भवेद्यत्र भगवत्प्रतिमार्चनम् ।। प्रभोरनन्यभक्ताश्च भवेयुर्यत्रयत्र च ।। २६ ।।
अहिंस्राश्च स्वधर्मस्था यत्र स्युर्ब्राह्मणोत्तमाः ।। मृगाद्याः पशवो यत्र विचरेयुश्च निर्भयाः ।। २७ ।।
यत्रयत्रावताराश्च हरेर्वासश्च यत्र वा ।। एते पुण्यतमा देशा भुवि सन्ति विशेषतः ।। २८ ।।
अल्पोप्येषु कृतो धर्मः स्यात्सहस्रगुणो नृणाम् ।।पुण्यवृद्धिकरान्कालाञ्छृण्वथो वच्मि नारद ।। २९ ।।
अयने द्वे च विषुवं ग्रहणं सूर्यसोमयोः ।। दिनक्षयो व्यतीपातः श्रवणर्क्षाणि सर्वशः। 2.9.22.३०।
द्वादश्य एकादश्यश्च मन्वाद्याश्च युगादयः ।। पुण्याः स्युस्तिथयः सर्वा अमावास्या च वैधृतिः ।। ३१ ।।
मासर्क्षयुक्पौर्णमास्यश्चतस्रोप्यष्टकास्तथा ।। स्वजन्मर्क्षाणि च हरेर्जन्मोत्सवदिनानि च ।। ३२ ।।
स्वस्य स्त्रियाश्चार्भकाणां संस्कारोभ्युदयस्तथा ।।
सत्पात्रलब्धिश्च यदा कालाः पुण्यतमा इमे ।। ३३ ।।
देवपितृद्विजसतामेषां शक्त्या समर्चनम् ।।
स्नानदानजपादीनि स्युरनन्तफलानि हि ।। ३४ ।।
सत्पात्रं तु स्वयं साक्षाद्भगवानेव नारद ।।
शाखानामिव मूलाम्बु यद्दत्तं सर्वतुष्टिकृत् ।।३५।।
अहिंसा वेदविद्याभिस्तुष्टिः सद्धर्मभक्तिभिः ।।
हृदि विष्णुं दधीरन्ये ते सत्पात्राणि वै द्विजाः ।। ३६ ।।
एकान्तिकाश्च भगवद्भक्ता बद्धविमोचकाः ।।
सत्पात्राणीति जानीहि येष्वास्ते भगवान्स्वयम् ।। ३७ ।।
आढ्यस्तु कारयेद्विष्णोर्मन्दिराणि दृढानि च ।।
पूजाप्रवाहसिद्ध्यर्थं तद्वृत्तीश्चापि कारयेत् ।। ३८ ।।
जलाशयान्वाटिकाश्च विष्ण्वर्थमुपकल्पयेत् ।।
सदन्नैः सुरसैः साधून्ब्राह्मणांश्चैव तर्पयेत् ।। ३९ ।।
अहिंसान्वैष्णवान्यज्ञान्कुर्याच्छक्त्या यथाविधि ।।
व्रतजन्मोत्सवान्विष्णोः संभारेण च भूयसा ।। 2.9.22.४० ।।
प्रौष्ठपदासितेपक्षे क्षयाहे तीर्थपर्वसु ।।
पित्रोः श्राद्धं प्रकुर्वीत तद्बन्धूनां च शक्तितः ।। ४१ ।।
दैवे कर्मणि पित्र्ये च भक्तान्भगवतो द्विजान् ।।
पूजयेत स्वधर्मस्थान्भोजयेद्भगवद्धिया ।। ४२ ।।
दैवे द्वौ भोजयेद्विप्रौ त्रींश्च पित्र्ये यथाविधि ।।
एकैकं वोभयत्रापि नैव श्राद्धे तु विस्तरेत् ।। ४३ ।।
देशकालद्रव्यपात्रपूजोपकरणानि च ।।
विस्तरेण यथाशास्त्रं न स्यादेवेति निश्चितम् ।। ४४ ।।
न श्राद्धे क्वापि मांसं तु दद्यान्नाऽद्याच्च मानवः ।।
मुन्यन्नैः क्षीरसर्पिर्भ्यां तृप्यन्ति पितरो भृशम् ।। ४५ ।।
अहिंसा प्राणिमात्रस्य मनोवाक्तनुभिस्तु या ।।
तयैव पितरः सर्वे तृप्यन्त्यतिदयालवः ।। ४६ ।।
तस्मात्कुसङ्गतः क्वापि शास्त्रहार्दमबुध्य च ।।
श्राद्धे मांसं नैव दद्याद्वासुदेवपरः पुमान् ।। ४७ ।।
व्रतानि कुर्याद्विष्णोश्च ब्रह्मचर्यादिभिर्यमैः ।।
सहैव तत्परो नान्यत्कार्यं कुयाच्च तद्दिने ।। ४८ ।।
स्वसंबन्धिजनानां चाप्याशौचं जनिनाशयोः ।।
यथाशास्त्रं पालयेत ग्रहणे चार्कचन्द्रयोः ।। ४९ ।।
व्यावहारिककार्याणां विवादे निर्णयेपि च ।।
गृहीतरास्त्यागिनो ये ते न कार्या न चाधवाः ।। 2.9.22.५० ।।
यत्रैते स्युर्न्न तत्कार्यं सिध्येत्क्वापि द्विजोत्तम ।।
सर्वस्वनाशस्तत्र स्यादित्येवं त्वस्ति निर्णयः ।। ५१ ।।
धर्मा एते गृहस्थानां मया संक्षेपतोदिताः ।।
यदनुष्ठानतो नॄणां स्यात्स्वेष्टसुखमक्षयम् ।। ५२ ।।
शिलादिजीविकावृत्तिभेदेन गृहिणो द्विजाः ।।
चतुर्विधाः प्रकीर्त्यन्ते तत्तन्नाम्ना च नारद ।। ५३ ।।
स्त्रीणामथ प्रवक्ष्यामि धर्मान्र्धर्मवतां वर ।।
येषु स्थिताः स्त्रियः सर्वाः प्राप्नुवन्तीप्सितं सुखम् ।। ५४ ।।
सुवासिनीभिर्न्नारीभिः स्वपतिर्देववत्सदा ।।
सेवनीयोऽनुवर्त्त्यश्च जरन्रुग्णोऽधनोपि वा ।। ५५ ।।
तद्बन्धवश्चानुवर्त्याः सेवनेन यथोचितम् ।।
उज्ज्वलानि विधेयानि गृहोपकरणानि च ।। ५६ ।।
गृहं मार्जनसेकाद्यैः स्वच्छं कार्यं दिनेदिने ।।
प्रियं सत्यं च वक्तव्यं स्थेयं शुचितया सदा ।। ५७ ।।
चाञ्चल्यमतिलोभश्च क्रोधः स्तेयं च हिंसनम् ।।
अधार्मिकाणां सङ्गश्च वर्ज्यः स्त्रीणां तथा नृणाम् ।। ५८ ।।
भवितव्यं तत्पराभिर्द्धर्मकार्येषु सर्वदा ।।
त्यक्त्वौद्धत्यं विनीताभिः स्थेयं जित्वेन्द्रियाणि च ।। ५९ ।।
पातिव्रत्ये स्थिताभिश्च धर्मे ताभी रमापतेः ।।
भक्तिः कार्या स्वतन्त्राभिर्भवितव्यं न कुत्रचित् ।। 2.9.22.६० ।।
विधवा तु सदा विष्णुं सेवेत पतिभावतः ।।
कामसंबन्धिनीर्वार्त्ता न शृण्वीत न कीर्तयेत्।। ६१ ।।
आसन्नसंबन्धवतो विनान्यान्पुरुषान्क्वचित् ।।
अनापदि स्पृशेन्नैव पश्येन्नैव च कामतः ।। ६२ ।।
स्तनपस्य तु नुः स्पर्शाद्वृद्धस्य च न दुष्यति ।।
कार्य आवश्यके ताभ्यां भाषणे च विभर्तृका ।। ६३ ।।
व्यावहारिककार्ये च विवादमधिकं नरैः ।।
न कुर्वीतावश्यकार्ये तैर्भाषेत विना रहः ।। ६४ ।।
नेक्षेत मिधुनीभूतं बुद्या पश्वाद्यपि क्वचित् ।।
त्यजेच्च सकलान्भोगान्स्यात्सकृन्मितभुक्तथा ।। ६५ ।।
सधातुसूक्ष्मवासांसि नालंकारांश्च धारयेत् ।।
न दिवा शयनं कुर्यान्न खट्वायामनापदि ।। ६६ ।।
ताम्बूलभक्षणं नैव कुर्यान्नाभ्यङ्गमञ्जनम् ।।
पुम्प्रसंगाच्च बिभियात्कृष्णाहेरिव नित्यदा ।। ६७ ।।
समीक्ष्य पुरुषं नारी या न मोहमुपाव्रजेत् ।।
तादृशी तु विना लक्ष्मीमेकां नान्यास्ति कुत्रचित् ।। ६८ ।।
धर्मनिष्ठा ततो नारी स्वनिःश्रेयसमिच्छती ।।
नेक्षेत पुरुषाकारं बुद्धिपूर्वं च न स्पृशेत् ।। ६९ ।।
कृच्छ्रचान्द्रायणादीनि नैरन्तर्येण भक्तितः ।।
व्रतानि कुर्याच्च सदा भवेन्नियमतत्परा ।। 2.9.22.७० ।।
पित्रा पुत्रादिना वापि तरुणी तरुणेन च ।।
सह तिष्ठेन्न रहसि कुसङ्गं सर्वथा त्यजेत् ।। ७१ ।।
सधवा विधवा वा स्त्री स्वरजोदर्शनं क्वचित् ।।
न गोपयेत्त्रिरात्रं तु मनुष्यादींश्च न स्पृशेत् ।। ७२ ।।
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ।।
तृतीये रजकी प्रोक्ता सा चतुर्थेऽह्नि शुद्ध्यति ।। ७३ ।।
इति स्त्रीणां मया धर्माः संक्षेपात्कथितास्तव ।।
युक्ता यैर्योषितो यायुरिहामुत्र महत्सुखम् ।। ७४ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये गृहस्थधर्मनिरूपणं नाम द्वाविंशोध्यायः।।२२।।
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २३
।। श्रीनारायण उवाच ।।
वानप्रस्थस्य वक्ष्यामि नियमानथ ते मुने ।।
तृतीय आयुषो भागे तृतीयाश्रम ईरितः ।।१ ।।
अनुकूला स्वसेवायां विरक्ता च तपःप्रिया ।।
यदि पत्नी भवेत्तर्हि तया सह वनं विशेत् ।। २ ।।
अन्यथा तु सुतादिभ्यस्तस्याः पोषणरक्षणम् ।।
आदिश्य स्वयमेकाकी विरक्तो वनमाविशेत् ।। ३ ।।
निर्भयो निवसेत्तत्र तपोरुचिरतन्द्रितः ।।
कुर्यादुटजमग्न्यर्थं स्वयं तु बहिरावसेत् ।। ४ ।।
भवेत्पञ्चतपा ग्रीष्म उदवासश्च शैशिरे ।।
आसारषाट्च वर्षासु जितक्रोधो जितेन्द्रियः ।। ५ ।।
वासश्च तार्णं पार्णं वा वसीताजिनवल्कलम् ।।
भुञ्जीत ऋषिधान्यानि वन्यं कन्दफलादि वा ।। ६ ।।
अग्निपक्वं वार्कपक्वमपक्वं वापि भक्षयेत् ।।
अभावे त्वेष दन्तानामश्मोलूखलकुट्टितम् ।। ७ ।।
स्वयमेवाहरेदन्नं यथाकालं दिनेदिने ।।
काले पराहृतं वापि गृह्णीयान्नान्यदा क्वचित्।। ८ ।।
कालेपि कृष्टपच्यं तु न गृह्णीयादनापदि ।।
वन्यैरेवाग्निकार्यं च धान्यैः कुर्वीत पूर्ववत् ।। ९ ।।
रक्षेत्कमण्डलुं दण्डमग्निहोत्रपरिच्छदान्।।
केशरोमश्मश्रुनखान्धारयेन्मलिनान्दतः ।। 2.9.23.१० ।।
अंगान्यमर्दयन्स्नायाद्भूतले च शयीत सः ।।
देशकाल बलावस्थानुसारेण तपश्चरेत् ।। ११ ।।
फेनपाश्चौदुम्बराश्च वालखिल्यास्तथैव च ।।
वैखानसेति कथिताश्चतुर्द्धा वनवासिनः ।। १२ ।।
यथाशक्ति द्वादशाब्दानष्टौ वा चतुरो वने ।।
वसेद्द्वावेकमेवापि ततः संन्यासमाश्रयेत् ।। १३ ।।
यदि स्यात्तीव्रवैराग्यं तर्हि न्यासो हितावहः ।।
वसेत्तत्रैवाऽन्यथा तु यावज्जीवं वने द्विजः ।। १४ ।।
यथाविधि कृतत्यागस्तुरीयाश्रममास्थितः ।।
साच्छादनं तु कौपीनं कन्थामेकां च धारयेत्।। ।। १५ ।।
दण्डं कमण्डलुं चाम्बुगालनं बिभृयाच्च सः ।।
सदाचारद्विजगृहे काले भिक्षां समाचरेत् ।। १६ ।।
न कुर्यात्प्रत्यहं भिक्षामेकस्यैव गृहे यतिः ।।
रसलुब्धो भवेन्नेव सकृच्च मितभुग्भवेत् ।। १७ ।।
वनस्थाश्रमिणो भिक्षां प्रायो गृह्णीत भिक्षुकः ।।
तदन्धसातिशुद्धेन शुद्ध्यत्येवाऽस्य यन्मनः ।। १८ ।।
घ्राणेपि मांससुरयोः पाराकं व्रतमाचरेत् ।।
शौचाचारविशुद्धः स्याच्छूद्रादींश्चापि न स्पृशेत् ।। १९ ।।
नित्यं कुर्याद्विष्णुपूजा मद्याद्विष्णोर्न्निवेदितम्।।
द्वादशार्णं जपेद्विष्णोरष्टाक्षरमनुं च वा ।। 2.9.23.२० ।।
असद्वादं न कुर्वीत वृत्त्यर्थं नाचरेत्कथाम् ।।
असच्छास्त्रे न सक्तः स्यान्नोपजीवेच्च जीविकाम् ।। २१ ।।
सच्छास्त्रमभ्यसेच्चासौ बन्धमोक्षानुदर्शनम् ।।
मठादीन्नैव बध्नीयादहन्ताममते त्यजेत् ।। २२ ।।
चातुर्मास्यं विनैकत्र वसेन्नाऽसावनापदि ।।
आत्मनश्च हरे रूपं विद्याज्ज्ञानेन तत्त्वतः ।। २३ ।।
कामं क्रोधं भयं वैरं धनधान्यादिसंग्रहम् ।।
नैव कुर्यात्पालयेत यमांश्च नियमान्यतिः ।। २४ ।।
तीव्रज्ञानविरागाभ्यां संपन्नोपि यतिर्ध्रुवम् ।।
स्त्रीवित्तभूषासद्वस्त्रसंसर्गाद्भ्रष्टतां व्रजेत् ।। २५ ।।
पुष्प चन्दनतैलादिसुगन्धिद्रव्यवर्जनम् ।।
त्यागी कुर्वीतान्यथा तु भवेद्देहात्मधीः स वै ।। २६ ।।
आहारो यस्य यावांस्तं तावान्स्त्रीकाम आविशेत् ।।
अतो मितं नीरसं च भोजनं त्यागिनो हितम् ।। २७ ।।
न श्राव्या ग्राम्यवार्त्ता च मोक्षसिद्धिमभीप्सता ।।
नश्येद्यच्छ्रवणान्नॄणां सद्यो विष्णुकथा रुचिः ।। २८ ।।
अपि चित्रमयीं नारीं त्यागी नेक्षेत न स्पृशेत् ।।
स्त्र्याकारदर्शनादेव भ्रष्टा भूरि तपस्विनः ।। २९ ।।
कुटीचको बहूदश्च हंसः परमहंसकः ।।
एवं चतुर्द्धा कथितो यतिर्वैराग्यभेदतः ।। 2.9.23.३० ।।
काषायवाससो ये मे भविष्याः साधवश्च तैः ।।
कार्यं मदर्थपाकादि तुर्याश्रमस्थितैरपि ।। ३१ ।।
श्रीवासुदेवभक्ता ये तीव्रवैराग्यशालिनः ।।
तेषां धर्मस्तु तत्सेवा प्रोक्ताहस्सु च रात्रिषु ।। ३२ ।।
एकोपि च क्षणस्तेषां ज्ञानविज्ञानभूयसाम् ।।
भक्तिं नवविधां विष्णोर्विना व्यर्थो न वै भवेत् ।। ३३ ।।
सर्वेर्गुणैरुपेतोपि भगवद्विमुखो यदि ।।
स्वजनोपि भवेत्तं तु जह्युरेव हि वैष्णवाः ।। ३४ ।।
प्रासादिकं हरेरन्नं प्रोक्षितं तत्पदाम्बुना ।।
भुञ्जीरंस्तुलसीमिश्रं प्रत्यहं सात्वता जनाः ।। ३५ ।।
स्त्रीणां च स्त्रीषु सक्तानां प्रसंगो विष्णुचिन्तकैः ।।
सर्वथैव परित्याज्यो भवेत्तद्ध्यानमन्यथा ।। ३६ ।।
भगवन्तं वासुदेवं विनैकमितरः पुमान् ।।
कोपि नास्त्येव यो नारीं समीक्ष्य न विमुह्यति ।।३७।।
यत्र स्थित्या मुहुः स्त्रीणां स्यातां शब्दश्रुतीक्षणे ।।
त्यागी तत्र वसेन्नैव वसन्धर्मच्युतो भवेत् ।।३८।।
कामो लोभो रसास्वादः स्नेहो मानस्तथा च रुट् ।।
एते त्याज्याः प्रयत्नेन षड्दोषाः संसृतिप्रदाः ।। ३९।।
प्रोक्तेषु धर्मेष्वेतेषु यस्ययस्य च्युतिर्भवेत्।।
यथाशक्ति यथाशास्त्रं कार्या तत्तस्य निष्कृतिः।।2.9.23.४०।।
इत्थं चतुर्णां वर्णानामाश्रमाणां च नारद।।
धर्माः संक्षेपतः प्रोक्ता वैष्णवानां च ते मया।।४१।।
वर्णी यतिश्च धर्मस्थो ब्रह्मलोकमुपैति वै।।
ऋषिलोकं वनस्थश्च गृहस्थः स्वर्गमाप्नुयात् ।। ४२ ।।
भक्त्या सहैताञ्छ्रीविष्णोराचरेयुस्तु ये जनाः ।।
ते तु सर्वेपि देहान्ते विष्णुलोकमवाप्नुयुः ।। ४३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वनस्थयतिधर्मनिरूपणं नाम त्रयोविंशोऽध्यायः ।। २३ ।।
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २३
।। श्रीनारायण उवाच ।।
वानप्रस्थस्य वक्ष्यामि नियमानथ ते मुने ।।
तृतीय आयुषो भागे तृतीयाश्रम ईरितः ।।१ ।।
अनुकूला स्वसेवायां विरक्ता च तपःप्रिया ।।
यदि पत्नी भवेत्तर्हि तया सह वनं विशेत् ।। २ ।।
अन्यथा तु सुतादिभ्यस्तस्याः पोषणरक्षणम् ।।
आदिश्य स्वयमेकाकी विरक्तो वनमाविशेत् ।। ३ ।।
निर्भयो निवसेत्तत्र तपोरुचिरतन्द्रितः ।।
कुर्यादुटजमग्न्यर्थं स्वयं तु बहिरावसेत् ।। ४ ।।
भवेत्पञ्चतपा ग्रीष्म उदवासश्च शैशिरे ।।
आसारषाट्च वर्षासु जितक्रोधो जितेन्द्रियः ।। ५ ।।
वासश्च तार्णं पार्णं वा वसीताजिनवल्कलम् ।।
भुञ्जीत ऋषिधान्यानि वन्यं कन्दफलादि वा ।। ६ ।।
अग्निपक्वं वार्कपक्वमपक्वं वापि भक्षयेत् ।।
अभावे त्वेष दन्तानामश्मोलूखलकुट्टितम् ।। ७ ।।
स्वयमेवाहरेदन्नं यथाकालं दिनेदिने ।।
काले पराहृतं वापि गृह्णीयान्नान्यदा क्वचित्।। ८ ।।
कालेपि कृष्टपच्यं तु न गृह्णीयादनापदि ।।
वन्यैरेवाग्निकार्यं च धान्यैः कुर्वीत पूर्ववत् ।। ९ ।।
रक्षेत्कमण्डलुं दण्डमग्निहोत्रपरिच्छदान्।।
केशरोमश्मश्रुनखान्धारयेन्मलिनान्दतः ।। 2.9.23.१० ।।
अंगान्यमर्दयन्स्नायाद्भूतले च शयीत सः ।।
देशकाल बलावस्थानुसारेण तपश्चरेत् ।। ११ ।।
फेनपाश्चौदुम्बराश्च वालखिल्यास्तथैव च ।।
वैखानसेति कथिताश्चतुर्द्धा वनवासिनः ।। १२ ।।
यथाशक्ति द्वादशाब्दानष्टौ वा चतुरो वने ।।
वसेद्द्वावेकमेवापि ततः संन्यासमाश्रयेत् ।। १३ ।।
यदि स्यात्तीव्रवैराग्यं तर्हि न्यासो हितावहः ।।
वसेत्तत्रैवाऽन्यथा तु यावज्जीवं वने द्विजः ।। १४ ।।
यथाविधि कृतत्यागस्तुरीयाश्रममास्थितः ।।
साच्छादनं तु कौपीनं कन्थामेकां च धारयेत्।। ।। १५ ।।
दण्डं कमण्डलुं चाम्बुगालनं बिभृयाच्च सः ।।
सदाचारद्विजगृहे काले भिक्षां समाचरेत् ।। १६ ।।
न कुर्यात्प्रत्यहं भिक्षामेकस्यैव गृहे यतिः ।।
रसलुब्धो भवेन्नेव सकृच्च मितभुग्भवेत् ।। १७ ।।
वनस्थाश्रमिणो भिक्षां प्रायो गृह्णीत भिक्षुकः ।।
तदन्धसातिशुद्धेन शुद्ध्यत्येवाऽस्य यन्मनः ।। १८ ।।
घ्राणेपि मांससुरयोः पाराकं व्रतमाचरेत् ।।
शौचाचारविशुद्धः स्याच्छूद्रादींश्चापि न स्पृशेत् ।। १९ ।।
नित्यं कुर्याद्विष्णुपूजा मद्याद्विष्णोर्न्निवेदितम्।।
द्वादशार्णं जपेद्विष्णोरष्टाक्षरमनुं च वा ।। 2.9.23.२० ।।
असद्वादं न कुर्वीत वृत्त्यर्थं नाचरेत्कथाम् ।।
असच्छास्त्रे न सक्तः स्यान्नोपजीवेच्च जीविकाम् ।। २१ ।।
सच्छास्त्रमभ्यसेच्चासौ बन्धमोक्षानुदर्शनम् ।।
मठादीन्नैव बध्नीयादहन्ताममते त्यजेत् ।। २२ ।।
चातुर्मास्यं विनैकत्र वसेन्नाऽसावनापदि ।।
आत्मनश्च हरे रूपं विद्याज्ज्ञानेन तत्त्वतः ।। २३ ।।
कामं क्रोधं भयं वैरं धनधान्यादिसंग्रहम् ।।
नैव कुर्यात्पालयेत यमांश्च नियमान्यतिः ।। २४ ।।
तीव्रज्ञानविरागाभ्यां संपन्नोपि यतिर्ध्रुवम् ।।
स्त्रीवित्तभूषासद्वस्त्रसंसर्गाद्भ्रष्टतां व्रजेत् ।। २५ ।।
पुष्प चन्दनतैलादिसुगन्धिद्रव्यवर्जनम् ।।
त्यागी कुर्वीतान्यथा तु भवेद्देहात्मधीः स वै ।। २६ ।।
आहारो यस्य यावांस्तं तावान्स्त्रीकाम आविशेत् ।।
अतो मितं नीरसं च भोजनं त्यागिनो हितम् ।। २७ ।।
न श्राव्या ग्राम्यवार्त्ता च मोक्षसिद्धिमभीप्सता ।।
नश्येद्यच्छ्रवणान्नॄणां सद्यो विष्णुकथा रुचिः ।। २८ ।।
अपि चित्रमयीं नारीं त्यागी नेक्षेत न स्पृशेत् ।।
स्त्र्याकारदर्शनादेव भ्रष्टा भूरि तपस्विनः ।। २९ ।।
कुटीचको बहूदश्च हंसः परमहंसकः ।।
एवं चतुर्द्धा कथितो यतिर्वैराग्यभेदतः ।। 2.9.23.३० ।।
काषायवाससो ये मे भविष्याः साधवश्च तैः ।।
कार्यं मदर्थपाकादि तुर्याश्रमस्थितैरपि ।। ३१ ।।
श्रीवासुदेवभक्ता ये तीव्रवैराग्यशालिनः ।।
तेषां धर्मस्तु तत्सेवा प्रोक्ताहस्सु च रात्रिषु ।। ३२ ।।
एकोपि च क्षणस्तेषां ज्ञानविज्ञानभूयसाम् ।।
भक्तिं नवविधां विष्णोर्विना व्यर्थो न वै भवेत् ।। ३३ ।।
सर्वेर्गुणैरुपेतोपि भगवद्विमुखो यदि ।।
स्वजनोपि भवेत्तं तु जह्युरेव हि वैष्णवाः ।। ३४ ।।
प्रासादिकं हरेरन्नं प्रोक्षितं तत्पदाम्बुना ।।
भुञ्जीरंस्तुलसीमिश्रं प्रत्यहं सात्वता जनाः ।। ३५ ।।
स्त्रीणां च स्त्रीषु सक्तानां प्रसंगो विष्णुचिन्तकैः ।।
सर्वथैव परित्याज्यो भवेत्तद्ध्यानमन्यथा ।। ३६ ।।
भगवन्तं वासुदेवं विनैकमितरः पुमान् ।।
कोपि नास्त्येव यो नारीं समीक्ष्य न विमुह्यति ।।३७।।
यत्र स्थित्या मुहुः स्त्रीणां स्यातां शब्दश्रुतीक्षणे ।।
त्यागी तत्र वसेन्नैव वसन्धर्मच्युतो भवेत् ।।३८।।
कामो लोभो रसास्वादः स्नेहो मानस्तथा च रुट् ।।
एते त्याज्याः प्रयत्नेन षड्दोषाः संसृतिप्रदाः ।। ३९।।
प्रोक्तेषु धर्मेष्वेतेषु यस्ययस्य च्युतिर्भवेत्।।
यथाशक्ति यथाशास्त्रं कार्या तत्तस्य निष्कृतिः।।2.9.23.४०।।
इत्थं चतुर्णां वर्णानामाश्रमाणां च नारद।।
धर्माः संक्षेपतः प्रोक्ता वैष्णवानां च ते मया।।४१।।
वर्णी यतिश्च धर्मस्थो ब्रह्मलोकमुपैति वै।।
ऋषिलोकं वनस्थश्च गृहस्थः स्वर्गमाप्नुयात् ।। ४२ ।।
भक्त्या सहैताञ्छ्रीविष्णोराचरेयुस्तु ये जनाः ।।
ते तु सर्वेपि देहान्ते विष्णुलोकमवाप्नुयुः ।। ४३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वनस्थयतिधर्मनिरूपणं नाम त्रयोविंशोऽध्यायः ।। २३ ।।
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २४
< स्कन्दपुराणम् | खण्डः २ (वैष्णवखण्डः) | वासुदेवमाहात्म्यम्
।। श्रीनारायण उवाच ।।
अथ ज्ञानस्वरूपं ते वच्मि सांख्येन निश्चितम् ।।
क्षेत्रादि ज्ञायते येन तज्ज्ञानं हि निरुच्यते ।। १ ।।
वासुदेवः परं ब्रह्म बृहत्यक्षरधामनि ।।
आदावेकोऽद्वितीयोऽभून्निर्गुणो दिव्यविग्रहः ।। २ ।।
स कार्यमूलप्रकृतिः सकालाऽक्षरतेजसि ।।
प्रकाशेऽर्कस्य रात्रीव तिरोभूता तदाऽभवत् ।। ३ ।।
सिसृक्षाथाभवत्तस्य ब्रह्माण्डानां यदा तदा ।।
सकालाविर्बभूवादौ महामाया ततो हि सा ।। ४ ।।
तां कालशक्तिमादाय वासुदेवोऽक्षरात्मना ।।
सिसृक्षयैक्षत यदा सा चुक्षोभ तदैव हि ।। ५ ।।
तस्याः प्रधानपुरुषकोटयो जज्ञिरे मुने ।।
युज्यन्ते स्म प्रधानैस्ते पुरुषाश्चेच्छया प्रभोः ।। ६ ।।
पुमांसो निदधुर्गर्भांस्तेषु तेभ्यश्च जज्ञिरे ।।
ब्रह्माण्डानि ह्यसङ्ख्यानि तत्रैकं तु विविच्यते ।। ७ ।।
आदौ जज्ञे महांस्तस्मात्पुंसो वीर्याद्धिरण्मयात् ।।
अहङ्कारस्ततस्तस्माद्गुणाः सत्त्वादयस्त्रयः ।। ८ ।।
तमसः पञ्च तन्मात्रा महाभूतानि जज्ञिरे ।।
दशेन्द्रियाणि रजसो बुद्ध्या सह महानसुः ।।९।।
सत्त्वादिन्द्रियदेवाश्च जायन्ते स्म मनस्तथा ।।
सामान्यतस्तत्त्वसंज्ञा एते देवाः प्रकीर्त्तिताः ।। 2.9.24.१० ।।
प्रेरिता वासुदेवेन स्वस्वांशैरैश्वरं वपुः ।।
अजीजनन्विराट्सञ्ज्ञं ते चराचरसंश्रयम् ।। ११ ।।
स च वैराजपुरुषः स्वसृष्टास्वप्स्वशेत यत् ।।
तेन नारायण इति प्रोच्यते निगमादिभिः ।। ।। १२ ।।
तन्नाभिपद्माद्ब्रह्मासीद्राजसोऽथ हृदम्बुजात् ।।
जज्ञे विष्णुः सत्त्वगुणो ललाटात्तामसो हरः ।। १३ ।।
एतेभ्य एव स्थानेभ्यस्तिस्र आसंश्च शक्तयः ।।
तत्रासीत्तामसी दुर्गा सावित्री राजसी तथा ।।
सात्त्विकी श्रीश्चेति सर्वा वस्त्रालंकारशोभिताः ।। १४ ।।
ता वैराजाज्ञया त्रींश्च ब्रह्मादीन्प्रतिपेदिरे ।।
दुर्गा रुद्रं च सावित्री ब्रह्माणं विष्णुमन्तिमा ।। १५ ।।
चण्डिकाद्याश्च दुर्गाया अंशेनासन्सहस्रशः ।।
त्रयीमुख्याश्च सावित्र्याः शक्तयोंशेन जज्ञिरे ।।
दुस्सहाप्रमुखाश्चासन्नंशेनैव श्रियो मुने ।। १६ ।।
तत्रादितो यो ब्रह्मासीद्वैराजनाभिपद्मतः ।।
एकार्णवे तदब्जस्थः स कश्चिदपि नैक्षत ।। १७ ।।
विसर्गबुद्धिमप्राप्तो नात्मानं च विवेद सः ।।
कोहं कुत इति ध्यायन्नदिदृक्षत्कजाश्रयम् ।। १८ ।।
नालं प्रविश्याऽधो यातुस्तन्मूलं च विचिन्वतः ।।
संवत्सरशतं यातं तस्य नान्तं तु सोलभत् ।। १९ ।।
ऊर्ध्वं पुनरुपेत्याऽथ श्रान्तश्च निषसाद सः ।।
अदृश्यमूर्तिर्भगवानूचे तपतपेति तम् ।। 2.9.24.२० ।।
तच्छ्रुत्वा तत्प्रवक्तारमदृष्ट्वा च स सर्वतः ।।
गुरूपदिष्टवत्तेपे दिव्यं वर्षसहस्रकम् ।।२१।।
पद्मे तपस्यते तस्मै तपः शुद्धात्मने ततः ।।
समाधौ दर्शयामास धाम वैकुण्ठमच्युतः ।। २२ ।।
प्राधानिका गुणा यत्र त्रयोपि रजआदयः ।।
न भवन्त्यल्पमपि यत्कालमायाभयं न च।।२३।।
सहोदितार्कायुतवद्भास्वरे तत्र तेजसि ।।
वासुदेवं ददर्शाऽसौ रम्यदिव्यासिताकृतिम्।।२४।।
चतुर्भुजं गदापद्मशंखचक्रधरं विभुम् ।।
पीताम्बरं महारत्नकिरीटादिविभूषणम्।। २५ ।।
नन्दतार्क्ष्यादिभिर्ज्जुष्टं पार्षदैश्च चतुर्भुजैः ।।
सिद्धिभिश्चाष्टभिः षड्भिर्बद्धाञ्जलिपुटैर्भगैः ।।२६।।
सिंहासने श्रिया साकमुपविष्टं तमीश्वरम् ।।
प्रणम्य प्राञ्जलिस्तस्थौ विरिञ्चो हृष्टमानसः ।।२७।।
तं प्राह भगवान्ब्रह्मंस्तुष्टोहं तपसा तव ।।
वरं वरय मत्तस्त्वं स्वाभीष्टं यत्प्रियोसि मे ।। २८ ।।
इत्युक्तस्तेन तं जानंस्तपसि प्रेरकं प्रभुम् ।।
स्वं च विश्वसृजं ब्रह्मा ययाचेऽभिमतं वरम् ।। २९ ।।
प्रजाविसर्गशक्तिं मे देहि तुभ्यं नमः प्रभो ।।
तत्रापि च न बद्ध्येयं यथा कुरु तथा कृपाम् ।। 2.9.24.३० ।।
ततस्तं भगवानूचे सेत्स्यते ते मनोरथः ।।
वैराजेन मयात्मैक्यं भावयित्वा समाधिना ।।
प्रजाः सृजाऽथ स्वासाध्ये कार्ये स्मर्योहमिष्टदः ।। ३१।।
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्माप्येकसमाधिना ।।
वैराजेनाऽथ लोकान्प्राग्लीनान्सर्वान्स्व ऐक्षत ।। ३२ ।।
विसर्गशक्तिं संप्राप्य स सर्गाय मनो दधे ।।
ब्रह्मज्योतिर्मयस्तावदादित्यः प्रादुरास ह ।। ३३ ।।
स्थापयित्वाण्डमध्ये तं ततः स मनसाऽसृजत् ।।
तपोभक्तिविशुद्धेन मुनीनाद्यांश्चतुःसनान् ।। ३४ ।।
प्रजाः सृजत चेत्यूचे तांस्तदा ते तु तद्वचः ।।
न जगृहुर्न्नैष्ठिकेन्द्रास्तेभ्यश्चुक्रोध विश्वसृट् ।। ३५ ।।
क्रुद्धस्य तस्य भालाच्च रुद्र आसीत्तमोमयः ।।
मन्युं नियम्य मनसा प्रजेशान्सोऽसृजत्ततः ।। ३६ ।।
मरीचिमत्रिं पुलहं पुलस्त्यं च भृगुं क्रतुम् ।।
वसिष्ठं कर्दमं चैव दक्षमंगिरसं तथा ।। ३७ ।।
धर्मं ततः स हृदयादधर्मं पृष्ठतस्तथा ।।
मनसः काममास्याच्च वाणीं क्रोधं भ्रुवोऽसृजत् ।। ३८ ।।
शौचं तपो दया सत्यमिति धर्मपदानि च ।।
चतुर्भ्यो वदनेभ्यश्च चत्वारि ससृजे ततः ।। ३९ ।।
ऋग्वेदं वदनात्पूर्वाद्यजुर्वेदं च दक्षिणात् ।।
ससर्ज पश्चिमात्साम सौम्याच्चाथर्वसंज्ञितम्।।2.9.24.४०।।
इतिहासपुराणानि यज्ञान्विप्रशतं तथा ।।
वस्वादित्यमरुद्विश्वान्साध्यांश्च मुखतोऽसृजत् ।।४१।।
बाहुभ्यः क्षत्रियशतमूरुभ्यां च विशां शतम् ।।
पद्भ्यां शूद्रशतं चैतान्ससर्ज सह वृत्तिभिः ।। ४२ ।।
ब्रह्मचर्यं च हृदयाद्गार्हस्थ्यं जघनस्थलात् ।।
वनाश्रमं तथोरस्तः संन्यासं शिरसोऽसृजत् ।। ४३ ।।
वक्षःस्थलात्पितृगणानसुराञ्जघनस्थलात् ।।
ससर्ज च गुदान्मृत्युं निर्ऋतिं निरयांश्च सः ।। ४४ ।।
गन्धर्वांश्चारणान्सिद्धान्सर्पान्यक्षांश्च राक्षसान् ।।
नगान्मेघान्विद्युतश्च समुद्रान्सरितस्तथा ।। ४५ ।।
वृक्षान्पशून्पक्षिणश्च सर्वान्स्थावरजङ्गमान् ।।
स्वाङ्गेभ्य एव सोस्राक्षीद्ब्रह्मा नारायणात्मकः ।। ४६ ।।
सृष्टिमेतां विलोक्यापि नातिप्रीतो यदा तदा ।।
हरिं ध्यात्वा स ससृजे तपोविद्यासमाधिभिः ।।
ऋषीन्स्वायम्भुवादींश्च मनूंश्च मनुजानपि ।। ४७ ।।
ततः प्रीतः स सर्वेषां निवासाय यथोचितम्।।
स्वर्लोकं च भुवर्लोकं भूर्लोकं समकल्पयत् ।। ४८ ।।
येषां तु यादृशं कर्म प्राक्कालीनं हि तान्विधिः ।।
संस्थाप्य तादृशे स्थाने वृत्तीस्तेषामकल्पयत् ।। ४९ ।।
देवानाममृतं नॄणामृषीणां चान्नमोषधीः ।।
यक्षरक्षोसुरव्याघ्रसर्पादीनां सुरामिषम् ।।
चक्लृपे गोमृगादीनां वृत्तिं स यवसादि च ।। 2.9.24.५० ।।
स देवानां तु विश्वेषां हव्यं वृत्तिमकल्पयत् ।।
अमूर्तानां च मूर्तानां पितॄणां कव्यमेव च ।। ५१ ।।
दुर्गोद्भवानां शक्तीनां तदुपासनतत्परैः ।।
दैत्यरक्षःपिशाचाद्यैर्दत्तं मद्यामिषादि च ।। ५२ ।।
तथा सावित्र्युद्भवानां शक्तीनां तदुपासकैः ।।
दत्तमृष्यादिभिर्यज्ञे मुन्यन्नं चान्नमोषधीः ।। ५३ ।।
श्रीजातानां च शक्तीनां तदुपास्तिपरायणैः ।।
दत्तं देवासुरनरैः पायसाज्यसितादि च ।। ५४ ।।
प्रजापतीनां स पतिस्ततः प्राहाऽखिलाः प्रजाः ।।
इज्या देवाश्च पितरो हव्यकव्यात्मकैर्मखैः ।। ५५ ।।
इष्टाः संपूरयिष्यन्ति ह्येते युष्मन्मनोरथान् ।।
एतान्ये नार्चयिष्यन्ति ते वै निरयगामिनः ।। ५६ ।।
इत्थं कृता हि मर्यादा तेन नारायणात्मना ।।
दैवं पित्र्यमतो नित्यं जनैः कार्यं यथाविधि ।। ५७ ।।
ततो ब्रह्मा स सर्वेषां धर्मसेत्ववनाय च ।।
तत्तज्जातिषु ये मुख्यास्तान्मनूंश्चाप्यतिष्ठिपत् ।। ५८ ।।
वासुदेवेच्छयैवेत्थं वैराजाद्ब्रह्मरूपिणः ।।
कल्पेकल्पे भवत्येव सृष्टिर्बहुविधा मुने।।५९।।
प्राक्कल्पे यादृशी संज्ञा वेदाः शास्त्राणि च क्रियाः।।
कल्पेऽन्ये तादृशाः सर्वे धर्माः स्युश्चाऽधिकारिणः।। 2.9.24.६०।।
विष्णुर्यः कथितः सोपि वैराजपुरुषात्मकः।।
पोषयत्यखिलाँल्लोकान्मर्यादाः परिपालयन्।। ६१।।
मन्वादिभिः पाल्यमानाः सेतवस्त्वसुरैर्यदा ।।
कामरूपैर्विभिद्यन्ते वासुदेवस्तदा स्वयम् ।।
ब्रह्मादिभिः प्रार्थ्यमानः प्रादुर्भवति भूतले ।। ६२ ।।
अवतारा भगवतो भूता भाव्याश्च सन्ति ये ।।
कर्तुं न शक्यते तेषां संख्यां संख्याविशारदैः ।। ६३ ।।
सद्धर्मदेवसाधूनां गुप्त्यै तद्द्रोहिमृत्यवे ।।
श्रेयसे सर्वभूतानामाविर्भावोस्ति सत्पतेः ।। ६४ ।।
स वासुदेवः प्रकृतौ पुंसि कार्येषु चैतयोः ।।
अन्वितश्च पृथक्चास्ते सर्वाधीशः स्वधामनि ।। ६५ ।।
व्याप्य स्वांशैरिमाँल्लोकान्यथाग्निवरुणादयः ।।
स्वस्त्यासते स्वस्वलोके तथैष भगवान्मुने ।। ६६ ।।
सर्गात्प्राक्सच्चिदानन्दः शुद्ध एकश्च निर्गुणः ।।
यथासीत्तादृगेवासावन्वितोप्यस्ति निर्मलः ।। ६७ ।।
वायुतेजोजलक्ष्मासु तत्तत्कार्येषु खं यथा ।।
अन्वीयाप्यस्ति निर्लेपं यथा पूर्वं तथैष हि ।। ६८ ।।
सर्वोपास्यो नियन्ता च व्यापकश्चैष कीर्तितः ।।
आत्यन्तिके लयेऽथैष भवत्येव यथा पुरा ।। ६९ ।।
वैराजः पुरुषो योऽत्र प्रोक्तोऽसावीश्वराभिधः ।।
ज्ञेयः स्वतन्त्रः सर्वज्ञो वश्यमायश्च नारद ।। 2.9.24.७० ।।
एतस्यैव स्वरूपाणि ब्रह्मविष्णुशिवास्त्रयः ।।
रजआदिगुणोपेताः स्वगुणानुगुणक्रियाः ।। ७१ ।।
ब्रह्मणो ये समुत्पन्ना देवासुरनरादयः ।।
ते जीवसंज्ञा ह्यल्पज्ञाः परतन्त्रा भवन्ति च ।। ७२ ।।
जीवानामीश्वराणां च तनवः क्षेत्रसञ्ज्ञकाः ।।
महदादितत्त्वमय्यः क्षेत्रज्ञाख्यास्तु तद्विदः ।। ७३ ।।
क्षेत्राणां च क्षेत्रविदां प्रधानपुरुषस्य च ।।
मायायाः कालशक्तेश्चाऽक्षरस्य च परात्मनः ।।
पृथक्पृथग्लक्षणैर्यज्ज्ञानं तज्ज्ञानमुच्यते ।। ७४ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ज्ञानस्वरूपनिरूपणं नाम चतुर्विशोऽध्यायः ।। २४
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २८
।। श्रीनारायण उवाच ।।
आचम्य प्राणानायम्य ततोसौ स्वस्थमानसः ।।
नमस्कृत्येष्टदेवादीन्देशकालौ च कीर्तयेत् ।। १ ।।
एकान्तधर्मसिद्यर्थं वासुदेवस्य पूजनम् ।।
करिष्य इति संकल्प्य कुर्यान्न्यासविधिं ततः ।। २ ।।
न्यासे मन्त्रा द्वादशार्णो गायत्री वैष्णवी तथा।।
नारायणाष्टाक्षरश्च ज्ञेया विष्णुषडक्षरः ।। ३ ।।
एते द्विजानां विहितास्तदन्येषां त्विह त्रयः ।।
वासुदेवाष्टाक्षरश्च हरिपञ्चाक्षरस्तथा ।।
षडर्णः केशवस्येति न्यासे होमे च संमताः ।। ४ ।।
श्रीविष्णुप्रतिमांगेषु स्वांगेष्विव ततोऽखिलान् ।।
कुर्यान्यासांश्च तैर्मन्त्रैस्ततोर्चां वाससाऽऽमृजेत्।।५।।
कलशं वामभागे स्वे संस्थाप्यावाह्य तत्र च।।
तीर्थानि गन्धपुष्पाद्यैरुपचारैस्तमर्चयेत्।।६।।
पूजाद्रव्याणि चात्मानं प्रोक्षयित्वा तदम्बुना।।
शंखं घण्टां च संपूज्य भूतशुद्धिं समाचरेत्।।७।।
आभ्यन्तराग्निवायुभ्यां दग्ध्वा पापात्मकं वपुः ।।
शुद्धस्य स्वात्मनस्त्वैक्यं भावयेद्ब्रह्मणा स्थिरः।।८।।
ततोऽक्षरब्रह्मरूपो राधाकृष्णं हृदि प्रभुम् ।।
ध्यायेदव्यग्रमनसा प्राणायामं समाचरन्।।९।।
अधोमुखं नाभिपद्मं कदलीपुष्पवत्स्थितम्।।
विभाव्यापानपवनं प्राणेनैक्यमुपानयेत्।।2.9.28.१०।।
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/भागवतमाहात्म्यम्/अध्यायः ०१
< स्कन्दपुराणम् | खण्डः २ (वैष्णवखण्डः) | भागवतमाहात्म्यम्
अथ श्रीमद्भागवतमाहात्म्यं प्रारभ्यते ।।
।। व्यास उवाच ।। ।।
श्रीसच्चिदानन्दघनस्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे ।।
विश्वोद्भवस्थाननिरोधहेतवे नुमो वयं भक्तिरसाप्तयेऽनिशम् ।। १ ।।
नैमिषे सूतमासीनमभिवाद्य महामतिम् ।।
कथामृतरसास्वादकुशला ऋषयोऽब्रुवन् ।। २ ।।
।। ऋषय ऊचुः ।। ।।
वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ।।
अभिषिच्य गते राज्ञि तौ कथं किं च चक्रतुः ।। ३ ।।
।। सूत उवाच ।। ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। ४ ।।
महापथं गते राज्ञि परीक्षित्पृथिवीपतिः ।।
जगाम मथुरां विप्रा वज्रनाभदिदृक्षया ।। ५ ।।
पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः ।।
अभिगम्याभिवाद्याथ निनाय निजमन्दिरम् ।। ६ ।।
परिष्वज्य स तं वीरः कृष्णैकगतमानसः ।।
रोहिण्याद्या हरेः पत्नीर्ववन्दायतनागतः ।। ७ ।।
ताभिः सम्मानितोऽत्यर्थं परीक्षित्पृथिवीपतिः ।।
विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह ।। ८ ।।
।। श्रीपरीक्षिदुवाच ।। ।।
तात त्वत्पितृभिर्नूनमस्मत्पितृपितामहाः ।।
उद्धृता भूरिदुःखौघादहं च परिरक्षितः ।। ९ ।।
न पारयाम्यहं तात साधु कृत्वोपकारतः।।
त्वामतः प्रार्थयाम्यङ्ग सुखं राज्येऽनुयुज्यताम् ।। 2.6.1.१० ।।
कोशसैन्यादिजा चिन्ता तथारिदमनादिजा ।।
मनागपि न कार्या ते सुसेव्याः किन्तु मातरः ।। ११ ।।
निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्ज्जनम् ।।
श्रुत्वैतत्परमप्रीतो वज्रस्तं प्रत्युवाच ह ।। १२ ।।
।। श्रीवज्रनाभ उवाच ।। ।।
राजन्नुचितमेतत्ते यदस्मासु प्रभाषते ।।
त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ।। १३ ।।
तस्मान्नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः ।।
किन्त्वेका परमा चिन्ता तत्र किञ्चिद्विचार्य्यताम् ।। १४ ।।
माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ।।
क्व गता वै प्रजाऽत्रत्या यत्र राज्यं प्ररोचते ।। १५ ।।
इत्युक्तो विष्णुरातस्तु नन्दादीनां पुरोहितम् ।।
शांडिल्यमाजुहावाशु वज्रसंदेहनुत्तये ।। १६ ।।
अथोटजं विहायाशु शांडिल्यः समुपागतः ।।
पूजितो वज्रनाभेन निषसादासनोत्तमे ।। १७ ।।
उपोद्घातं विष्णुरातश्चकाराशु ततस्त्वसौ ।।
उवाच परमप्रीतस्तावुभौ परिसान्त्वयन् ।। १८ ।।
।। श्रीशांडिल्य उवाच ।। ।।
शृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ।।
व्रजनं व्याप्तिरित्युक्त्या व्यापनाद्व्रज उच्यते ।। १९ ।।
गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ।।
सदानन्दं परं ज्योतिर्मुक्तानां पदमव्ययम् ।। 2.6.1.२० ।।
तस्मिन्नन्दात्मजः कृष्णः सदानन्दांगविग्रहः ।।
आत्मारामश्चाप्तकामः प्रेमाक्तैरनुभूयते ।। २१ ।।
आत्मा तु राधिका तस्य तयैव रमणादसौ ।।
आत्मारामतया प्राज्ञैः प्रोच्यते गूढवेदिभिः ।। २२ ।।
कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ।।
नित्याः सर्वे विहाराद्या आप्तकामस्ततस्त्वयम् ।। २३ ।।
रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ।।
प्रकृत्या खेलतस्तस्य लीलाऽन्यैरनुभूयते ।। २४ ।।
213b
सर्गस्थित्यप्यया यत्र रजःसत्त्वतमोगुणैः ।।
लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी ।। २५ ।।
वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ।।
आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित् ।। २६ ।।
आवयोर्गोचरेयं तु तल्लीला व्यावहारिकी ।।
यत्र भूरादयो लोका भुवि माथुरमण्डलम् ।। २७ ।।
अत्रैव व्रजभूमिः सा यत्र तत्त्वं सुगोपितम् ।।
भासते प्रेमपूर्णानां कदाचिदपि सर्वतः ।। ।। २८ ।।
कदाचिद्द्वापरस्यान्ते रहोलीलाधिकारिणः ।।
समवेता यदाऽत्र स्युर्यथेदानीं तदा हरिः ।। २९ ।।
स्वैः सहावतरेत्स्वेषु समावेशार्थमीप्सिताः ।।
तदा देवादयोऽप्यन्येऽवतरन्ति समन्ततः ।। 2.6.1.३० ।।
सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् ।।
तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः ।। ३१ ।।
नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ।।
देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा ।। ३२ ।।
पुनर्मौशलमार्गेण स्वाधिकारेषु चापिताः ।।
तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः ।। ३३ ।।
विधाय स्वीयनित्येषु समावेशितवांस्तदा ।।
नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः ।। ३४ ।।
व्यावहारिकलीलास्थास्तत्र यन्नाधिकारिणः ।।
पश्यन्त्यत्रागतास्तस्मान्निर्ज्जनत्वं समन्ततः ।। ३५ ।।
तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया ।।
वासयात्र बहून्ग्रामान्संसिद्धिस्ते भविष्यति ।। ३६ ।।
कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः ।।
त्वया वासय ता ग्रामान्संसेव्या भूरियं परा ।। ३७ ।।
गोवर्द्धने दीर्घपुरे मथुरायां महावने ।।
नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया ।। ३८ ।।
नद्यद्रिद्रोणिकुण्डादिकुञ्जान्संसेवतस्तव ।।
राज्ये प्रजाः सुसंपन्नास्त्वं च प्रीतो भविष्यसि ।। ३९ ।।
सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्नतः ।।
तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात् ।। 2.6.1.४० ।।
वज्र संसेवनादस्या उद्धवस्त्वां मिलिष्यति ।।
ततो रहस्यमेतस्मात्प्राप्स्यसि त्वं समातृकः ।।४१।।
एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् ।।
विष्णुरातोऽथ वज्रश्च परां प्रीतिमवापतुः ।। ४२ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये शाडिल्योपदिष्टव्रजभूमिमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ।। १ ।।
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/भागवतमाहात्म्यम्/अध्यायः ०२
।। श्रीऋषय ऊचुः ।। ।।
शांडिल्ये तौ समादिश्य परावृत्ते स्वमाश्रमम् ।।
कि कथं चक्रतुस्तौ तु राजानौ सूत तद्वद ।। १ ।। ।।
।। श्रीसूत उवाच ।। ।।
ततस्तु विष्णुरातेन श्रेणीमुख्वाः सहस्रशः ।।
इन्द्रप्रस्थात्समानाय्य मथुरास्थानमापिताः ।। २ ।।
माथुरान्ब्राह्मणांस्तत्र वानरांश्च पुरातनान् ।।
विज्ञाय माननीयत्वं तेषु स्थापितवान्स्वरादट् ।। ३ ।।
वज्रस्तु तत्सहायेन शाण्डिल्यस्याऽप्यनुग्रहात् ।।
गोविन्दगोपगोपीनां लीलास्थानान्यनुक्रमात् ।। ४ ।।
विज्ञायाऽभिधयाऽऽस्थाप्य ग्रामानावासयद्बहून् ।।
कुण्डकूपादिपूर्तेन शिवादिस्थापनेन च ।। ५ ।।
गोविन्दहरिदेवादिस्वरूपाऽऽरोपणेन च ।।
कृष्णैकभक्तिं स्वे राज्यं ततान च मुमोद ह ।। ६ ।।
प्रजास्तु मुदितास्तस्य कृष्णकीर्तनतत्पराः।।
परमानन्दसम्पन्ना राज्यं तस्यैव तुष्टुवुः ।। ७ ।।
एकदा कृष्णपत्न्यस्तु श्रीकृष्णविरहातुराः ।।
कालिन्दीं मुदिता वीक्ष्य पप्रच्छुर्गतमत्सराः ।। ८ ।।।।
।। श्रीकृष्णपत्न्य ऊचुः ।। ।।
यथा वयं कृष्णपत्न्यस्तथा त्वमपि शोभने ।।
वयं विरहदुःखार्तास्त्वं न कालिन्दि तद्वद ।। ९ ।।
तच्छ्रुत्वा स्मयमाना सा कालिन्दी वाक्यमब्रवीत् ।।
सापत्न्यं वीक्ष्य तत्तासां करुणापरमानसा ।। 2.6.2.१० ।। ।।
श्रीकालिन्द्युवाच ।। ।।
आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका ।।
तस्या दास्यप्रभावेण विरहोऽस्मान्न संस्पृशेत् ।। ११ ।।
तस्या एवांशविस्ताराः सर्वाः श्रीकृष्णनायिकाः ।।
नित्यसंभोग एवास्ति तस्याः साम्मुख्ययोगतः ।। १२ ।।
स एव सा स सैवास्ति वशी तत्प्रेमरूपिका ।।
श्रीकृष्णनखचन्द्रालिसंगाच्चन्द्रावली स्मृता ।। १३ ।।
रूपान्तरं च गृह्णाना तयोः सेवातिलालसा ।।
रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः ।। १४ ।।
युष्माकमपि कृष्णेन विरहो नैव सर्वतः ।।
किन्तु एवं न जानीथ तस्माद्व्याकुलतामिताः ।। १५ ।।
एवमेवात्र गोपीनामक्रूरावसरे पुरा ।।
विरहाभास एवासीदुद्धवेन समाहितः ।। १६ ।।
तेनैव भवतीनां चेद्भवेदत्र समागमः ।।
तर्हि नित्यं स्वकान्तेन विहारमपि लप्स्यथ ।। १७ ।।
।। श्रीसूत उवाच ।। ।।
एवमुक्तास्तु ताः पत्न्यः प्रसन्नां पुनरब्रुवन् ।।
उद्धवालोकनेनात्मप्रेष्ठसंगमलालसाः ।। १८ ।।
।। श्रीकृष्णपत्न्य ऊचुः ।। ।।
धन्यासि सखि कान्तेन यस्या नैवास्ति विच्युतिः ।।
यतस्ते स्वार्थसंसिद्धिस्तस्या दास्यो बभूविम ।। १९ ।।
परन्तूद्धवलाभे स्यादस्मत्सर्वार्थसाधनम् ।।
तथा वदस्व कालिन्दि तल्लाभोऽपि यथा भवेत् ।। 2.6.2.२० ।।
।। श्रीसूत उवाच ।। ।।
एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा ।।
स्मरन्ती कृष्णचन्द्रस्य कलाषोडशरूपिणी ।। २१ ।।
साधनभूमिर्बदरी व्रजता कृष्णेन मंत्रिणे प्रोक्ता ।।
तत्रास्ते स तु साक्षात्तद्वयुनं ग्राहयँल्लोकान् ।। २२ ।।
फलभूमिर्व्रजभूमिर्दत्ता तस्मै पुरैव सरहस्यम् ।।
फलमिह तिरोहितं सत्तदिहेदानीं स उद्धवोऽलक्ष्यः ।। २३ ।।
गोवर्द्धनगिरिनिकटे सखीस्थले तद्रजःकामः ।।
तत्रत्याङ्कुरवल्लीरूपेणास्ते स उद्धवो नूनम् ।। २४ ।।
आत्मोत्सवरूपत्वं हरिणा तस्मै समर्पितं नियतम् ।।
तस्मात्तत्र स्थित्वा कुसुमसरःपरिसरे सवज्राभिः ।। २५ ।।
वीणावेणुमृदंगैः कीर्तनकाव्यादिसरससंगीतैः ।।
उत्सव आरब्धव्यो हरिरतलोकान्समानाय्य ।। २६ ।।
तत्रोद्धवावलोको भविता नियतं महोत्सवे वितते ।।
यौष्माकीणामभिमतसिद्धिं सविता स एव सवितानाम् ।। २७ ।।
।। श्रीसूत उवाच ।। ।।
इति श्रुत्वा प्रसन्नास्ताः कालिन्दीमभिवन्द्य तत् ।।
कथयामासुरागत्य वज्रं प्रति परीक्षितम् ।। २८ ।।
विष्णुरातस्तु तच्छ्रुत्वा प्रसन्नस्तद्युतस्तदा ।।
तत्रैवागत्य तत्सर्वं कारयामास सत्वरम् ।। २९ ।।
गोवर्धनाददूरेण वृन्दारण्ये सखीस्थले ।।
प्रवृत्तः कुसुमाम्भोधौ कृष्णसंकीर्तनोत्सवः ।। 2.6.2.३० ।।
वृषभानुसुताकान्तविहारे कीर्तनश्रिया ।।
साक्षादिव समावृत्ते सर्वेऽनन्यदृशोऽभवन् ।। ३१ ।।
ततः पश्यत्सु सर्वेषु तृणगुल्मलताचयात् ।।
आजगामोद्धवः स्रग्वी श्यामः पीताम्बरावृतः ।। ३२ ।।
गुञ्जामालाधरो गायन्बल्लवीवल्लभं मुहुः ।।
तदागमनतो रेजे भृशं संकीर्तनोत्सवः ।। ३३ ।।
चन्द्रिकागमतो यद्वत्स्फाटिकाट्टालभूमणिः ।।
अथ सर्वे सुखाम्भोधौ मग्नाः सर्वं विसस्मरुः ।। ३४ ।।
क्षणेनागतविज्ञाना दृष्ट्वा श्रीकृष्णरूपिणम् ।।
उद्धवं पूजयांचक्रुः प्रतिलब्धमनोरथाः ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये गोवर्द्धनपर्वतसमीपे परीक्षिदादीनामुद्धवदर्शनवर्णनोनाम द्वितीयोऽध्यायः ।। २ ।।
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/भागवतमाहात्म्यम्/अध्यायः ०३
< स्कन्दपुराणम् | खण्डः २ (वैष्णवखण्डः) | भागवतमाहात्म्यम्
।। श्रीसूत उवाच ।।
अथोद्धवस्तु तान्दृष्ट्वा कृष्णकीर्तनतत्परान् ।।
सत्कृत्याथ परिष्वज्य परीक्षितमुवाच ह ।। १ ।।
।। उद्धव उवाच ।।
धन्योऽसि राजन्कृष्णैकभक्त्या पूर्णोऽसि नित्यदा ।।
यस्त्वं निमग्नचित्तोऽसि कृष्णसंकीर्तनोत्सवे ।। २ ।।
कृष्णपत्नीषु वज्रे च दिष्ट्या प्रीतिः प्रवर्तिता ।।
तवोचितमिदं तात कृष्णदत्तांग वैभव ।। ३ ।।
द्वारकास्थेषु सर्वेषु धन्या एते न संशयः ।।
येषां व्रजनिवासाय पार्थमादिष्टवान्प्रभुः ।। ४ ।।
श्रीकृष्णस्य मनश्चंद्रो राधास्यप्रभयान्वितः ।।
तद्विहारवनं गोभिर्मण्डयन्रोचते सदा ।। ५ ।।
कृष्णचन्द्रः सदा पूर्णस्तस्य षोडश याः कलाः ।।
चित्सहस्रप्रभाभिन्ना अत्रास्ते तत्स्वरूपता ।। ६ ।।
एवं वज्रस्तु राजेन्द्र प्रपन्नभयभञ्जकः ।।
श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते ।। ७ ।।
अवतारेऽत्र कृष्णेन योगमायाऽति भाविता ।।
तद्बलेनात्मविस्मृत्या सीदन्त्येते न संशयः ।। ८ ।।
ऋते कृष्णप्रकाशं तु स्वात्मबोधो न कस्यचित् ।।
तत्प्रकाशस्तु जीवानां मायया पिहितः सदा ।। ९ ।।
अष्टाविंशे द्वापरान्ते स्वयमेव यदा हरिः ।।
उत्सारयेन्निजां मायां तत्प्रकाशो भवेत्तदा ।।2.6.3.१० ।।
स तु कालो व्यतिक्रांतस्तेनेदमपरं शृणु ।।
अन्यदा तत्प्रकाशस्तु श्रीमद्भागवताद्भवेत् ।। ११ ।।
श्रीमद्भागवतं शास्त्रं यत्र भागवतैर्यदा ।।
कीर्त्यते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम् ।। १२ ।।
श्रीमद्भागवतं यत्र श्लोकं श्लोकार्द्धमेव च ।।
तत्रापि भगवान्कृष्णो बल्लवीभिर्विराजते ।। १३ ।।
भारते मानवं जन्म प्राप्य भागवतं न यैः ।।
श्रुतं पापपराधीनैरात्मघातस्तु तैः कृतः ।। १४ ।।
श्रीमद्भागवतं शास्त्रं नित्यं यैः परिसेवितम् ।।
पितुर्मातुश्च भार्यायाः कुलपंक्तिः सुतारिता ।। १५ ।।
विद्याप्रकाशो विप्राणां राजां शत्रुजयो विशाम् ।।
धनं स्वास्थ्यं च शूद्राणां श्रीमद्भागवताद्भवेत् ।। १६ ।।
योषितामपरेषां च सर्ववांछितपूरणम् ।।
अतो भागवतं नित्यं को न सेवेत भाग्यवान् ।। १७ ।।
अनेकजन्मसंसिद्धः श्रीमद्भागवतं लभेत् ।।
प्रकाशो भगवद्भक्तेरुद्भवस्तत्र जायते ।। १८ ।।
सांख्यायनप्रसादाप्तं श्रीमद्भागवतं पुरा ।।
बृहस्पतिर्दत्तवान्मे तेनाहं कृष्णवल्लभः ।। १९ ।।
आख्यायिका च तेनोक्ता विष्णुरात निबोध ताम् ।।
ज्ञायते संप्रदायोऽपि यत्र भागवतश्रुतेः ।। 2.6.3.२० ।। ।।
।।श्रीबृहस्पतिरुवाच ।।
ईक्षांचक्रे यदा कृष्णो मायापुरुषरूपधृक् ।।
ब्रह्मा विष्णुः शिवश्चापि रजःसत्त्वतमोगुणैः ।।२१।।
पुरुषास्त्रय उत्तस्थुरधिकारांस्तदादिशत् ।।
उत्पत्तौ पालने चैव संहारे प्रक्रमेण तान् ।। २२ ।।
ब्रह्मा तु नाभिकमलादुत्पन्नस्तं व्यजिज्ञपत् ।।
।। श्रीब्रह्मोवाच ।। ।।
नारायणादिपुरुष परमात्मन्नमोऽस्तु ते ।। २३ ।।
त्वया सर्गे नियुक्तोऽस्मि पापीयान्मां रजोगुणः ।।
त्वत्स्मृतौ नैव बाधेत तथैव कृपया प्रभो ।। २४ ।।
।। श्रीबृहस्पतिरुवाच ।। ।।
यदा तु भगवांस्तस्मै श्रीमद्भागवतं पुरा ।।
उपदिश्याब्रवीद्ब्रह्मन्सेवस्वैनत्स्वसिद्धये ।। २५ ।।
ब्रह्मा तु परमप्रीतस्तेन कृष्णाप्तयेऽनिशम् ।।
सप्तावरणभंगाय सप्ताहं समवर्तयत् ।। २६ ।।
श्रीभागवतसप्ताहसेवनाप्तमनोरथः ।।
सृष्टिं वितनुते नित्यं ससप्ताहः पुनःपुनः ।।२७।।
विष्णुरप्यर्थयामास पुमांसं स्वार्थसिद्धये ।।
प्रजानां पालने पुंसा यदनेनापि कल्पितः ।। २८ ।।
।। श्रीविष्णुरुवाच ।। ।।
प्रजानां पालनं देव करिष्यामि यथोचितम् ।।
प्रवृत्त्या च निवृत्त्या च कर्मज्ञानप्रयोजनात् ।।२९।।
यदायदैव कालेन धर्मग्लानिर्भविष्यति ।।
धर्मं संस्थापयिष्यामि ह्यवतारैस्तदा तदा ।। 2.6.3.३० ।।
भोगार्थिभ्यस्तु यज्ञादिफलं दास्यामि निश्चितम् ।।
मोक्षार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा ।। ३१ ।।
येऽपि मोक्षं न वाञ्छन्ति तान्कथं पालयाम्यहम् ।।
आत्मानं च श्रियं चापि पालयामि कथं वद ।। ३२ ।।
तस्मा अपि पुमानाद्यः श्रीभागवतमादिशत् ।।
उवाच च पठस्वैनत्तव सर्वार्थसिद्धये ।। ।। ३३ ।।
ततो विष्णुः प्रसन्नात्मा परमार्थकपालने ।।
समर्थोऽभूच्छ्रिया मासिमासि भागवतं स्मरन् ।। ३४ ।।
यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रता ।।
तदा भागवतश्रावो मासेनैव पुनःपुनः ।। ३५ ।।
यदा लक्ष्मीः स्वयं वक्त्री विष्णुश्च श्रवणे रतः ।।
मासद्वयं रसास्वादस्तदातीव सुशोभते ।। ३६ ।।
अधिकारे स्थितो विष्णुर्लक्ष्मीर्निश्चिन्तमानसा ।।
तेन भागवतास्वादस्तस्या भूरि प्रकाशते ।। ३७ ।।
अथ रुद्रोऽपि तं देवं संहाराधिकृतः पुरा ।।
पुमांसं प्रार्थयामास स्वसामर्थ्यविवृद्धये ।। ३८ ।।
।। श्रीरुद्र उवाच ।। ।।
नित्ये नैमित्तिके चैव संहारे प्राकृते तथा ।।
शक्तयो मम विद्यन्ते देवदेव मम प्रभो ।। ३९ ।।
आत्यंतिके तु संहारे मम शक्तिर्न विद्यते ।।
महद्दुःखं ममैतत्तु तेन त्वां प्रार्थयाम्यहम् ।। 2.6.3.४० ।। ।।
श्रीबृहस्पतिरुवाच ।। ।।
श्रीमद्भागवतं तस्मा अपि नारायणो ददौ ।।
स तु संसेवनादस्य जिग्ये चापि तमोगुणम् ।। ४१ ।।
कथा भागवती तेन सेविता वर्षमात्रतः ।।
लये त्वात्यंतिके तेनावाप शक्तिं सदाशिवः ।। ४२ ।।
।। उद्धव उवाच ।। ।।
श्रीभागवतमाहात्म्य इमामाख्यायिकां गुरोः ।।
श्रुत्वा भागवतं लब्ध्वा मुमुदेऽहं प्रणम्य तम् ।। ४३ ।।
ततस्तु वैष्णवीं रीतिं गृहीत्वा मासमात्रतः ।।
श्रीमद्भागवतास्वादो मया सम्यङ्निषेवितः ।। ४४ ।।
तावतैव बभूवाहं कृष्णस्य दयितः सखा ।।
कृष्णेनाथ नियुक्तोऽहं व्रजे स्वप्रेयसीगणे ।।४५।।
विरहार्त्तासु गोपीषु स्वयं नित्यविहारिणा ।।
श्रीभागवतसंदेशो मन्मुखेन प्रयोजितः ।। ४६ ।।
तं यथामति लब्ध्वा ता आसन्विरहवर्ज्जिताः ।।
नाज्ञासिषं रहस्यं तच्चमत्कारस्तु लोकितः ।। ४७ ।।
स्वर्वासं प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे ।।
श्रीमद्भागवते कृष्णस्तद्रहस्यं स्वयं ददौ ।।४८।।
पुरतोऽश्वत्थमूलस्य चकार मयि तद्दृढम् ।।
तेनात्र व्रजवल्लीषु वसामि बदरीं गतः ।। ४९ ।।
तस्मान्नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा ।।
कृष्णप्रकाशो भक्तानां श्रीमद्भागवताद्भवेत् ।।2.6.3.५०।।
तदेषामपि कार्य्यार्थं श्रीमद्भागवतं त्वहम् ।।
प्रवक्ष्यामि सहायोऽत्र त्वयैवानुष्ठितो भवेत् ।।५१।।
।। श्रीसूत उवाच ।। ।।
विष्णुरातस्तु श्रुत्वा तदुद्धवं प्रणतोऽब्रवीत्।। ।।
।। श्रीपरीक्षिदुवाच ।। ।।
हरिदास त्वया कार्य्यं श्रीभागवतकीर्तनम् ।।५२।।
आज्ञाप्योऽहं यथाकार्य्यं सहायोऽत्र मया तथा ।।
।।श्रीसूत उवाच ।।
श्रुत्वैतदुद्धवो वाक्यमुवाच प्रीतमानसः ।। ५३ ।।
।। उद्धव उवाच ।। ।।
श्रीकृष्णेन परित्यक्ते भूतले बलवान्कलिः ।।
करिष्यति परं विघ्नं सत्कार्ये समुपस्थिते ।। ५४ ।।
तस्माद्दिग्विजयं याहि कलिनिग्रहमाचर ।।
अहं तु मासमात्रेण वैष्णवीं रीतिमास्थितः ।। ५५ ।।
श्रीमद्भागवतास्वादं प्रचार्य त्वत्सहायतः ।।
एतान्सम्प्रापयिष्यामि नित्यधाम्नि मधुद्विषः ।। ५६ ।।
।। श्रीसूत उवाच ।। ।।
श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयातुरः ।।
तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम् ।। ५७ ।।
।। श्रीपरीक्षिदुवाच ।। ।।
कलिं तु निग्रहीष्यामि तात ते वचसि स्थितः ।।
श्रीभागवतसंप्राप्तिः कथं मम भविष्यति ।। ५८ ।।
अहं तु समनुग्राह्यस्तव पादतले श्रितः ।।
।। श्रीसूत उवाच ।। ।।
श्रुत्वैतद्वचनं भूयोऽप्युद्धवस्तमुवाच ह ।। ५९ ।।
।। ।। उद्धव उवाच ।। ।।
राजंश्चिन्ता तु ते काऽपि नैव कार्य्या कथंचन ।।
तवैव भगवच्छास्त्रे यतो मुख्याधिकारिता ।। 2.6.3.६० ।।
एतावत्कालपर्य्यन्तं प्रायो भागवतश्रुतेः ।।
वार्तामपि न जानन्ति मनुष्याः कर्मतत्पराः ।। ६१ ।।
त्वत्प्रसादेन बहवो मनुष्या भारताजिरे ।।
श्रीमद्भागवतप्राप्तौ सुखं प्राप्स्यन्ति शाश्वतम् ।। ६२ ।।
नन्दनन्दनरूपस्तु श्रीशुको भगवानृषिः ।।
श्रीमद्भागवतं तुभ्यं श्रावयिष्यत्यसंशयः ।।६३।।
तेन प्राप्स्यसि राजंस्त्वं नित्यं धाम व्रजेशितुः ।।
श्रीभागवतसंचारस्ततो भुवि भविष्यति ।। ६४ ।।
तस्मात्त्वं गच्छ राजेन्द्र कलिनिग्रहमाचर ।।
।। श्रीसूत उवाच ।। ।।
इत्युक्तस्तं परिक्रम्य गतो राजा दिशां जये ।।६५।।
वज्रस्तु निजराज्येशं प्रतिबाहुं विधाय च ।।
तत्रैव मातृभिः साकं तस्थौ भागवताशया ।।६६।।
अथ वृन्दावने मासं गोवर्द्धनसमीपतः ।।
श्रीमद्भागवतास्वादस्तूद्धवेन प्रवर्तितः ।। ६७।।
तस्मिन्नास्वाद्यमाने तु सच्चिदानन्दरूपिणी ।।
प्रचकाशे हरेर्लीला सर्वतः कृष्ण एव च ।। ६८ ।।
आत्मानं च तदन्तःस्थं सर्वेऽपि ददृशुस्तदा ।।
वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोरुहे ।। ६९ ।।
स्वात्मानं कृष्णवैधुर्य्यान्मुक्तस्तद्भुव्यशोभत ।।
ताश्च तन्मातरः कृष्णे रासरात्रिप्रकाशिनि ।। 2.6.3.७० ।।
चंद्रे कलाप्रभारूपमात्मानं वीक्ष्य विस्मिताः ।।
स्वप्रेष्ठ विरहव्याधिविमुक्ताः स्वपदं ययुः ।। ७१ ।।
येऽन्ये च तत्र ते सर्वे नित्यलीलान्तरं गताः ।।
व्यावहारिकलोकेभ्यः सद्योऽदर्शनमागताः ।। ७२ ।।
गोवर्द्धननिकुञ्जेषु गोषु वृन्दावनादिषु ।।
नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेमतत्परैः ।। ७३ ।।
।। श्रीसूत उवाच ।। ।।
य एतां भगवत्प्राप्तिं शृणुयाच्चापि कीर्तयेत् ।।
तस्य वै भगवत्प्राप्तिर्दुःखहानिश्च जायते ।। ७४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे परीक्षिदुद्धवसंवादे श्रीभागवतमाहात्म्ये तृतीयोऽध्यायः ।। ३ ।।
॥ ऋषय ऊचुः॥
राज्यं प्राप्तो हि देवेंद्रः कथितस्ते गुरुं विना॥
गुरोरवज्ञया जातो राज्यभ्रंशो हि तस्य तु॥ १५.१ ॥
केन प्रणोदितश्चेंद्रो बभूव चिरमासने॥
तत्सर्वं कथयाशु त्वं परं कौतूहलं हि नः॥ १५.२ ॥
॥लोमश उवाच॥
गुरुणापि विना राज्यं कृतवान्स शचीपतिः॥
विश्वरूपोक्तविधिना इंद्रो राज्ये स्थितो महान्॥ १५.३ ॥
विश्वकर्मसुतो विप्रा विश्वरूपो महानृपः॥
पुरोहितोऽथ शक्रस्य याजकश्चाभवत्तदा॥ १५.४ ॥
तस्मिन्यज्ञेऽवदानैश्च यजने असुरान्सुरान्॥
मनुष्यांश्चैव त्रिशिरा अपरोक्षं शचीपतेः॥ १५.५ ॥
देवान्ददाति साक्रोशं दैत्यांस्तूष्णीमथाददात्॥
मनुष्यान्मध्यपातेन प्रत्यहं स ग्रहान्द्विजः॥ १५.६ ॥
एकदा तु महेंद्रेण सूचितो गुरुलाघवात्॥
अलक्ष्यमाणेन तदा ज्ञातं तस्य चिकीर्षितम्॥ १५.७ ॥
दैत्यानां कार्यसिद्ध्यर्थमवदानं प्रयच्छति॥
असौ पुरोहितोऽस्माकं परेषां च फलप्रदः॥ १५.८ ॥
इति मत्वा तदा शक्रो वज्रेण शतपर्वणा॥
चिच्छेद तच्छिरांस्येव तत्क्षणादभवद्वधः॥ १५.९ ॥
येनाकरोत्सोमपानमजायंत कपिंजलाः॥
ततोन्येन सुरापानात्कलविंका भवन्मुखात्॥ १५.१० ॥
अन्याननादजायंत तित्तिरा विश्वरूपिणः॥
एवं हतो विश्वरूपः शक्रेण मंदभागिना॥ १५.११ ॥
ब्रह्महत्या तदोद्भूता दुर्धर्षा च भयावहा॥
दुर्धर्षा दुर्मुखा दुष्टा चण्डालरजसान्विता॥ १५.१२ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः॥
इत्येषामप्यघवतामिदमेव च निष्कृतिः॥ १५.१३ ॥
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः॥
त्रिशिरा धूम्रहस्ता सा शक्रं ग्रस्तुमुपाययौ॥ १५.१४ ॥
ततो भयेन महता पलायनपरोऽभवत्॥
पलायमानं तं दृष्ट्वा ह्यनुयाता भयावहा॥ १५.१५ ॥
यतो धावति साऽधावत्तिष्ठंतमनुतिष्ठति॥
अंगकृता यथा छाया शक्रस्यपरिवेष्टितुम्॥
आयाति तावत्सहसा इंद्रोऽप्यप्सु न्यमज्जत॥ १५.१६ ॥
शीघ्रत्वेन यथा विप्राश्चिरंतनजलेचरः॥ १५.१७ ॥
एवं दिव्यशतं पूर्णं वर्षाणां च शचीपतेः॥
वसतस्तस्य दुःखेन तथा चैव शतद्वयम्॥
अराजकं तदा जातं नाकपृष्ठे भयावहम्॥ १५.१८ ॥
तदा चिंतान्विता देवा ऋषयोऽपि तपस्विनः॥
त्रैलोक्यं चाऽऽपदा ग्रस्तं बभूव च तदा द्विजाः॥ १५.१९ ॥
एकोऽपि ब्रह्महा यत्र राष्ट्रे वसति निर्भयः॥
अकालमरणं तत्र साधूनामुपजायते॥ १५.२० ॥
राजा पापयुतो यस्मिन्राष्ट्रे वसति तत्र वै॥
दुर्भिक्षं चैव मरणं तथैवोपद्रवा द्विजाः॥ १५.२१ ॥
भवंति बहवोऽनर्थाः प्रजानां नाशहेतवे॥
तस्माद्राज्ञा तु कर्तव्यो धर्म्मः श्रद्धापरेण हि॥ १५.२२ ॥
तथा प्रकृतयो राज्ञः शुचजित्वेन प्रतिष्ठिताः॥
इन्द्रेण च कृतं पापं तेन पापेन वै द्विजाः॥
नानाविधैर्महातापैः सोपद्रवमभूज्जगत्॥ १५.२३ ॥
॥शौनक उवाच॥
अश्वमेधशतेनैव प्राप्तं राज्यं महत्तरम्॥
देवानामखिलं सूत कस्माद्विघ्रमजायत॥
शक्रस्य च महाभाग यथावत्कथयस्व न॥ १५.२४ ॥
॥सूत उवाच॥
देवानां दानवानां च मनुष्याणां विशेषतः॥
कर्म्मैव सुखदुःखानां हेतुभूतं न संशयः॥ १५.२५ ॥
इन्द्रेण च कृतं विप्रा महद्भूतं जुगुप्सितम्॥
गुरोरवज्ञा च कृता विश्वरूपवधः कृतः॥ १५.२६ ॥
गौतमस्य गुरोः पत्नी सेविता तस्य तत्फलम्॥
प्राप्तं महेंद्रेण चिरं यस्य नास्ति प्रतिक्रिया॥ १५.२७ ॥
ये हि दृष्कटतकर्म्माणो न कुर्वंति च निष्कृतिम्॥
दुर्दशां प्रप्नुवन्त्येते यथैवेन्द्रः शतक्रतुः॥ १५.२८ ॥
दुष्कृतोपार्जितस्या तः प्रायाश्चित्तं हि तत्क्षणात्॥
कर्तव्यं विधिवद्विप्राः सर्वपापोपशांतये॥ १५.२९ ॥
उपपातकमध्यस्तं महापातकतां व्रजेत्॥ १५.३० ॥
ततः स्वधर्मनिष्ठां च ये कुर्वंति सदा नराः॥
प्रातर्मध्याह्नसायाह्ने तेषां पापं विनश्यति॥ १५.३१ ॥
प्राप्नुवंत्युत्तमं लोकं नात्र कार्या विचारणा॥
तस्मादसौ दुराचारः प्राप्ते वै कर्मणः फलम्॥ १५.३२ ॥
स प्रधार्य तदा सर्वे लोकपालास्त्वरान्विताः॥
बृहस्पतिमुपागम्य सर्वमात्मनि धिष्ठितम्॥
कथयामासुरव्यग्रा इंद्रस्य च गुरुं प्रति॥ १५.३३ ॥
देवैरुक्तं वचो विप्रा निशम्य च बृहस्पतिः॥
अराजकं च संप्राप्तं चिंतयामास बुद्धिमान्॥ १५.३४ ॥
किं कार्यं चाद्य कर्तव्यं कथं श्रेयो भविष्यति॥
देवानां चाद्य लोकानामृषीणां भावितात्मनाम्॥ १५.३५ ॥
मनसैव च तत्सर्वं कार्याकार्यं विचार्य च॥
जगाम शक्रं त्वरितो देवैः सह महायशाः॥ १५.३६ ॥
प्राप्तो जलाशयं तं च यत्रास्ते हि पुरंदरः॥
यस्य तीरे स्थिता हत्या चंडालीव भयावहा॥ १५.३७ ॥
तत्रोविष्टास्ते सर्वे देवा ऋषिगणान्विताः॥
आह्वानं च कृतं तस्य शक्रस्य गुरुणा स्वयम्॥ १५.३८ ॥
समुत्थितस्ततः शक्रो ददर्श स्वगुरुं तदा॥
बाष्पपूरितवक्त्रो हि बृहस्पतिमभाषत॥ १५.३९ ॥
प्रणिपत्य च तत्रत्यान्कृताञ्जलिरभाषत॥
तदा दीनमुखो भूत्वा मनसा संविमृश्य च॥ १५.४० ॥
स्वयमेव कृतं पूर्वमज्ञानलक्षणं महत्॥
अधुनैव मया कार्यं किं कर्तव्यं वद प्रभो॥ १५.४१ ॥
प्रहस्योवाच भगवान्बृहस्पति रुदारधीः॥
पुरा त्वया कृतं यच्च तस्येदं कर्मणः फलम्॥ १५.४२ ॥
मां च उद्दिश्य भो इंद्र तद्भोगादेव संक्षयः॥
प्रायश्चितं हि हत्याया न दृष्टं स्मृतिकारिभिः॥ १५.४३ ॥
अज्ञानतो हि यज्जातं पापं तस्य प्रतिक्रिया॥
कथिता धर्म्मशास्त्रज्ञैः सकामस्य न विद्यते॥ १५.४४ ॥
सकामेन कृतं पापमकामं नैव जायते॥
ताभ्यां विषयभेदेन प्रायश्चित्तं विधीयते॥ १५.४५ ॥
मरणांतो विधिः कार्यो कामेन हि कृतेन हि॥
अज्ञानजनिते पापे प्रायश्चित्तं विधीयते॥ १५.४६ ॥
तस्मात्त्वया कृतं यच्च स्वयमेव हतो द्विजः॥
पुरोहितश्च विद्वांश्च तस्मान्नास्ति प्रतिक्रिया॥ १५.४७ ॥
यावन्मरणमप्येति तावदप्सु स्थिरो भव॥ १५.४८ ॥
शताश्वमेधसंज्ञं च यत्फलं तव दुर्मते॥
तन्नष्टं तत्क्षणादेव घातितो हि द्विजो यदा॥ १५.४९ ॥
सच्छिद्रे च यथा तोयं न तिष्ठति घटेऽण्वपि॥
तथैव सुकृतं पापे हीयते च प्रदक्षिणम्॥ १५.५० ॥
तस्माच्च दैवसंयोगात्प्राप्तं स्वर्गादिकं च यैः॥
यथोक्तं तद्भवेत्तेषां धर्मिष्ठानां न संशयः॥ १५.५१ ॥
एतच्छ्रुत्वा वचस्तस्य शक्रो वचनमब्रवीत्॥
कुकर्मणा मदीयेन प्राप्तमेतन्न संशयः॥ १५.५२ ॥
अमरावती माशु त्वं गच्छ देवर्षिबिः सह॥
लोकानां कार्यसिद्ध्यर्थे देवानां च बृहस्पते॥
इंद्रं कुरु महाभाग यस्ते मनसि रोचते॥ १५.५३ ॥
यथा मृतस्तथा हं वै ब्रह्महत्यावृतो महान्॥
रागद्वेषसमुत्थेन पापेनास्मि परिप्लुतः॥ १५.५४ ॥
तस्मात्त्वरान्विता यूयं देवराजानमाशुः वै॥
कुर्वतु मदनुज्ञाताः सत्यं प्रतिवदामि वः॥ १५.५५ ॥
एवमुक्तास्तदा सर्वे बृहस्पतिपुरोगमाः॥
एत्यामरावतीं तूर्णं पुरंदरविचेष्टितम्॥
कथयामासुरव्यग्रा शचीं प्रति यथा तथा॥ १५.५६ ॥
राज्यस्य हेतोः किं कार्यं विमृशंतः परस्परम्॥ १५.५७ ॥
एवं विमृश्यमानानां देवानां तत्र नारदः॥
यदृच्छयागतस्तत्र देवर्षिरमितद्युतिः॥ १५.५८ ॥
उवाच पूजितो देवान्कस्माद्यूयं विचेतसः॥
तेनोक्ताः कथयामासुः सर्वं शक्रस्य चेष्टितम्॥ १५.५९ ॥
गतमिंद्रस्य चेंद्रत्वमेनसा परमेण तु॥
ततः प्रोवाच तान्देवान्देवर्षिर्नारदो वचः॥ १५.६० ॥
यूयं देवाश्च सर्वज्ञास्तपसा विक्रमेण च॥
तस्मादिंद्रो हि कर्तव्यो नहुषः सोमवंशजः॥ १५.६१ ॥
सोऽस्मिन्राष्ट्रे प्रतिष्ठाप्यस्त्वरितेनैव निर्जराः॥
एकोनमश्वमेधानां शतं तेन महात्मना॥
कृतमस्ति महाभागा नहुषेण च यज्वना॥ १५.६२ ॥
शच्या श्रुतं च तद्वाक्यं नारदस्य मुखोद्गतम्॥
गतांतःपुरमव्यग्रा बाष्पपूरितलोचना॥ १५.६३ ॥
नारदस्य वचः श्रुत्वा सर्वे देवान्वमोदयन्॥ १५.६४ ॥
नहुषं राज्यमारोढुमैकपद्येन ते यदा॥
आनीतो हि तदा राजा नहुषो ह्यमरावतीम्॥ १५.६५ ॥
राज्यं दत्तं महेंद्रस्य सुरैः सर्वैर्महर्षिभिः॥
तदागस्त्यादयः सर्वे नहुषं पर्युपासत॥ १५.६६ ॥
गंधर्वाप्सरसो यक्षा विद्याधरमहोरगाः॥
यक्षाः सुपर्णाः पतगा ये चान्ये स्वर्गवासिनः॥ १५.६७ ॥
तदा महोत्सवो जातो देवपुर्यां निरंतरः॥
शंखतूर्यमृदंगानि नेदुर्दुंदुभयः समम्॥ १५.६८ ॥
गायकाश्च जगुस्तत्र तथा वाद्यानि वादकाः॥
नर्तका ननृतुस्तत्र तथा राज्यमहोत्सवे॥ १५.६९ ॥
अभिषिक्तस्तदा तत्र बृहस्पतिपुरोगमैः॥ १५.७० ॥
अर्चितो देवसूक्तैश्च यथा वद्ग्रहपूजनम्॥
कृतवांश्चैव ऋषिभिर्विद्वद्भिर्भावितात्मभिः॥ १५.७१ ॥
तथा च सर्वैः परिपूजितो महान्राजा सुराणां नहुषस्तदानीम्॥
इंद्रासने चेंद् समानरूपः संस्तूयमानः परमेण वर्चसा॥ १५.७२ ॥
सुगंधदीपैश्च सुवाससा युतोऽलंकारभोगैः सुविराजितांगः॥
बभौ तदानीं नहुषो मुनीद्रैः संस्तूयमानो हि तथाऽमरेंद्रैः॥ १५.७३ ॥
इति परमकलान्वितोऽसौ सुरमुनिवरगणैश्च पूज्यमानः॥
नहुषनृपवरोऽभवत्तदानीं हृदि महता हृच्छयेनतप्तः॥ १५.७४ ॥
॥नहुष उवाच॥
इंद्राणी कथमद्यैव नायाति मम सन्निधौ॥
तां चाह्वयत शीघ्रं भो मा विलंबितुमर्हथ॥ १५.७५ ॥
नहुपस्य वचः श्रुत्वा बृहस्पतिरुदारधीः॥
शचीभवनमासाद्य उवाच च सविस्तरम्॥ १५.७६ ॥
शक्रस्य दुर्निमित्तेन ह्यनीतो नहुषोऽत्र वै॥
राज्यार्ते भामिनि त्वं च अर्द्धासनगता भव॥ १५.७७ ॥
शची प्रहस्य चोवाच बृहस्पतिमकल्मषम्॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः॥
एकोनमश्वमेधानां शतं कृतमनेन वै॥ १५.७८ ॥
तस्मान्न योग्यो प्रहस्य चोवाच बृहस्पतिमकल्पणषम्॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः॥
अवाह्यवाहनेनैव अत्रागत्य लभेत माम्॥ १५.७९ ॥
तथेति गत्वा त्वरितो बृहस्पतिरुवाच तम्॥
नहुषं कामसंतप्तं शच्योक्तं च यथातथम्॥ १५.८० ॥
तथेति मत्वा राजासौ नहुषः काममोहितः॥
विमृश्य परया बुद्ध्या अवाह्यं किं प्रशस्यते॥ १५.८१ ॥
स बुद्ध्या च चिरं स्मृत्वा ब्राह्मणाश्चतपस्विनः॥
अवाह्याश्च भवंत्यस्मादात्मानं वाहयाम्यहम्॥ १५.८२ ॥
द्वाभ्यां च तस्याः प्राप्त्यर्थमिति मे हृदि वर्तते॥
शिबिकां च ददौ ताभ्यां द्विजाभ्यां काममोहितः॥ १५.८३ ॥
उपविश्य तदा तस्यां शिवबिकायां समाहितः॥
सर्पसर्पेति वचनान्नोदयामास तौ तदा॥ १५.८४ ॥
अगस्त्यः शिबिकावाही ततः क्रुद्धोऽशपन्नृपम्॥
विप्राणामवमंता त्वमुन्मत्तोऽजगरो भव॥ १५.८५ ॥
शापोक्तिमात्रतो राजा पतितो ब्राह्मणस्य हि॥
तत्रैवाजगरो भूत्वा विप्रशापो दुरत्ययः॥ १५.८६ ॥
यथा हि नहुषो जातस्तथा सर्वेऽपि तादृशाः॥
विप्राणामवमानेन पतिन्ति निरयेऽशुचौ॥ १५.८७ ॥
तस्मासर्वप्रयत्नेन पदं प्राप्य विचक्षणैः॥
अप्रमत्तैर्नरैर्भाव्यमिहामुत्र च लब्धये॥ १५.८८ ॥
तथैव नहुषः सर्प्पो जातोरण्ये महाभये॥
एवं चैवाभवत्तत्र देवलोके ह्यराजकम्॥ १५.८९ ॥
तथैव ते सुराः सर्वे विस्मयाविष्टचेतसः॥
अहो बत महत्कष्टं प्राप्तं राज्ञा ह्यनेन वै॥ १५.९० ॥
न मर्त्य लोको न स्वर्गो जातो ह्यस्य दुरात्मनः॥
सतामवज्ञया सद्यः सुकृतं दग्धमेव हि॥ १५.९१ ॥
याज्ञिको ह्यपरो लोके कथ्यतां च महामुने॥
तदोवाच महातेजा नारदो मुनिसत्तमः॥ १५.९२ ॥
ययातिं च महाभागा आनयध्वं त्वरान्विताः॥
देवदूतास्तु वै तूर्णं ययातिं द्रुतमानयन्॥ १५.९३ ॥
विमानमारुह्य तदा महात्मा ययौ दिवं देवदूतैः समेतः॥
पुरस्कृतो देववरैस्तदानीं तथोरगैर्यक्षगंधर्वसिद्धैः॥ १५.९४ ॥
आयातः सोऽमरावत्यां त्रिदशैरभितोषितः॥
इंद्रासने चोपविष्टो बभाषे च स सत्वरम्॥ १५.९५ ॥
नारदेनैवमुक्तस्तु त्वं राजा याज्ञिको ह्यसि॥
सतामवज्ञया प्राप्तो नहुषो दंदशूकताम्॥ १५.९६ ॥
ये प्राप्नुवंति धर्मिष्ठा दैवेन परमं पदम्॥
प्राक्तनेनैव मूढास्ते न पश्यंति शुभाशुभम्॥ १५.९७ ॥
पतंति नरके घोरे स्तब्धा वै नात्र संशयः॥ १५.९८ ॥
॥ययातिरुवाच॥
यैः कृतं पुण्यं तेषां विघ्नः प्रजायते॥
अल्पकत्वेन देवर्षे विद्धि सर्वं परं मम॥ १५.९९ ॥
महादानानि दत्तानि अन्नदानयुतानि च॥
गोदानानि बहून्येव भूमिदानयुतानि च॥ १५.१०० ॥
तथैव सर्वाण्यपि चोत्तमानि दानानि चोक्तानि मनीषिभिर्यदा॥
एतानि सर्वाणि मया तदैव दत्तानि काले च महाविधानतः॥ १५.१०१ ॥
यज्ञैरिष्टं वाजपेयातिरात्रैर्ज्योतिष्टोमै राजसूयादिभिश्च॥
शास्त्रप्रोक्तैरश्वमेधादिभिश्च यूपैरेषालंकृता भूः समंतात्॥ १५.१०२ ॥
देवदेवो जगन्नाथ इष्टो यज्ञैरनेकशः॥
गालवाय पुरे दत्ता कन्या त्वेषा च माधवी। १५.१०३।
पत्नीत्वेन चतुर्भ्यश्च दत्ताः कन्या मुने तदा॥
गालवस्य गुरोरर्थे विश्वामित्रस्य धीमतः।१५.१०४।
एवं भूतान्यनेकानि सुकृतानि मया पुरा॥
महांति च बहून्येव तानि वक्तुं न पार्यते।१५.१०५।
भूयः पृष्टः सर्वदेवैः स राजा कृतं सर्वं गुप्तमेव यथार्थम्॥
विज्ञातुमिच्छाम यथार्थतोपि सर्वे वयं श्रोतुकामा ययाते॥१५.१०६॥
वचो निशम्य देवानां ययातिरमितद्युतिः॥
कथयामास तत्सर्वं पुण्यशेषं यथार्थतः।१५.१०७।
कथितं सर्वमेतच्च निःशेषं व्यासवत्तदा॥
स्वपुण्यकथनेनैव ययातिरपतद्भुवि॥ १५.१०८ ॥
तत्क्षणादेव सर्वेषां सुराणां तत्र पश्यताम्॥
एवमेव तथा जातमराजकमतंद्रितम्॥ १५.१०९ ॥
अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै॥
शक्रासनेऽभिषे कार्यं श्रूयतां हि द्विजोत्तमाः॥ १५.११० ॥
सर्वे सुराश्च ऋषयोऽथ महाफणींद्रा गन्धर्वयक्षखगचारणकिंनराश्च॥
विद्याधराः सुरगणाप्सरसां गणाश्च चिंतापराः समभवन्मनुजास्तथैव॥ १५.१११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे देवेन्द्रस्वाराज्याभिषेकवृत्तान्ते देवेन्द्रस्य ब्रह्महत्ययोपद्रुतौ नहुषशापययातिभूषण्यवृत्तान्तवर्णनंनाम पंचदशोऽध्यायः॥ १५ ॥
॥ ऋषय ऊचुः॥
राज्यं प्राप्तो हि देवेंद्रः कथितस्ते गुरुं विना॥
गुरोरवज्ञया जातो राज्यभ्रंशो हि तस्य तु॥१५.१॥
केन प्रणोदितश्चेंद्रो बभूव चिरमासने॥ तत्सर्वं कथयाशु त्वं परं कौतूहलं हि नः॥१५.२ ॥
॥लोमश उवाच॥
गुरुणापि विना राज्यं कृतवान्स शचीपतिः॥
विश्वरूपोक्तविधिना इंद्रो राज्ये स्थितो महान्॥ १५.३ ॥
विश्वकर्मसुतो विप्रा विश्वरूपो महानृपः॥
पुरोहितोऽथ शक्रस्य याजकश्चाभवत्तदा॥१५.४ ॥
तस्मिन्यज्ञेऽवदानैश्च यजने असुरान्सुरान्॥
मनुष्यांश्चैव त्रिशिरा अपरोक्षं शचीपतेः॥१५.५॥
देवान्ददाति साक्रोशं दैत्यांस्तूष्णीमथाददात्॥
मनुष्यान्मध्यपातेन प्रत्यहं स ग्रहान्द्विजः॥१५.६॥
एकदा तु महेंद्रेण सूचितो गुरुलाघवात्॥
अलक्ष्यमाणेन तदा ज्ञातं तस्य चिकीर्षितम्॥ १५.७ ॥
दैत्यानां कार्यसिद्ध्यर्थमवदानं प्रयच्छति॥
असौ पुरोहितोऽस्माकं परेषां च फलप्रदः॥१५.८॥
इति मत्वा तदा शक्रो वज्रेण शतपर्वणा॥
चिच्छेद तच्छिरांस्येव तत्क्षणादभवद्वधः॥१५.९ ॥
येनाकरोत्सोमपानमजायंत कपिंजलाः॥
ततोन्येन सुरापानात्कलविंका भवन्मुखात्॥ १५.१०॥
अन्याननादजायंत तित्तिरा विश्वरूपिणः॥
एवं हतो विश्वरूपः शक्रेण मंदभागिना॥१५.११॥
ब्रह्महत्या तदोद्भूता दुर्धर्षा च भयावहा॥
दुर्धर्षा दुर्मुखा दुष्टा चण्डालरजसान्विता॥१५.१२॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः॥
इत्येषामप्यघवतामिदमेव च निष्कृतिः॥१५.१३ ॥
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः॥
त्रिशिरा धूम्रहस्ता सा शक्रं ग्रस्तुमुपाययौ॥ १५.१४ ॥
ततो भयेन महता पलायनपरोऽभवत्॥
पलायमानं तं दृष्ट्वा ह्यनुयाता भयावहा॥१५.१५॥
यतो धावति साऽधावत्तिष्ठंतमनुतिष्ठति॥
अंगकृता यथा छाया शक्रस्यपरिवेष्टितुम्॥
आयाति तावत्सहसा इंद्रोऽप्यप्सु न्यमज्जत॥ १५.१६ ॥
शीघ्रत्वेन यथा विप्राश्चिरंतनजलेचरः॥१५.१७ ॥
एवं दिव्यशतं पूर्णं वर्षाणां च शचीपतेः॥
वसतस्तस्य दुःखेन तथा चैव शतद्वयम्॥
अराजकं तदा जातं नाकपृष्ठे भयावहम्॥१५.१८॥
तदा चिंतान्विता देवा ऋषयोऽपि तपस्विनः॥
त्रैलोक्यं चाऽऽपदा ग्रस्तं बभूव च तदा द्विजाः॥ १५.१९ ॥
एकोऽपि ब्रह्महा यत्र राष्ट्रे वसति निर्भयः॥
अकालमरणं तत्र साधूनामुपजायते॥ १५.२० ॥
राजा पापयुतो यस्मिन्राष्ट्रे वसति तत्र वै॥
दुर्भिक्षं चैव मरणं तथैवोपद्रवा द्विजाः॥ १५.२१ ॥
भवंति बहवोऽनर्थाः प्रजानां नाशहेतवे॥
तस्माद्राज्ञा तु कर्तव्यो धर्म्मः श्रद्धापरेण हि॥ १५.२२ ॥
तथा प्रकृतयो राज्ञः शुचजित्वेन प्रतिष्ठिताः॥
इन्द्रेण च कृतं पापं तेन पापेन वै द्विजाः॥
नानाविधैर्महातापैः सोपद्रवमभूज्जगत्॥१५.२३॥
॥शौनक उवाच॥
अश्वमेधशतेनैव प्राप्तं राज्यं महत्तरम्॥
देवानामखिलं सूत कस्माद्विघ्रमजायत॥
शक्रस्य च महाभाग यथावत्कथयस्व न॥१५.२४॥
॥सूत उवाच॥
देवानां दानवानां च मनुष्याणां विशेषतः॥
कर्म्मैव सुखदुःखानां हेतुभूतं न संशयः॥१५.२५ ॥
इन्द्रेण च कृतं विप्रा महद्भूतं जुगुप्सितम्॥
गुरोरवज्ञा च कृता विश्वरूपवधः कृतः॥ १५.२६ ॥
गौतमस्य गुरोः पत्नी सेविता तस्य तत्फलम्॥
प्राप्तं महेंद्रेण चिरं यस्य नास्ति प्रतिक्रिया॥ १५.२७ ॥
ये हि दृष्कटतकर्म्माणो न कुर्वंति च निष्कृतिम्॥
दुर्दशां प्रप्नुवन्त्येते यथैवेन्द्रः शतक्रतुः॥ १५.२८ ॥
दुष्कृतोपार्जितस्या तः प्रायाश्चित्तं हि तत्क्षणात्॥
कर्तव्यं विधिवद्विप्राः सर्वपापोपशांतये॥१५.२९ ॥
उपपातकमध्यस्तं महापातकतां व्रजेत्॥१५.३०॥
ततः स्वधर्मनिष्ठां च ये कुर्वंति सदा नराः॥
प्रातर्मध्याह्नसायाह्ने तेषां पापं विनश्यति॥१५.३१॥
प्राप्नुवंत्युत्तमं लोकं नात्र कार्या विचारणा॥
तस्मादसौ दुराचारः प्राप्ते वै कर्मणः फलम्॥ १५.३२ ॥
स प्रधार्य तदा सर्वे लोकपालास्त्वरान्विताः॥
बृहस्पतिमुपागम्य सर्वमात्मनि धिष्ठितम्॥
कथयामासुरव्यग्रा इंद्रस्य च गुरुं प्रति॥ १५.३३ ॥
देवैरुक्तं वचो विप्रा निशम्य च बृहस्पतिः॥
अराजकं च संप्राप्तं चिंतयामास बुद्धिमान्॥ १५.३४ ॥
किं कार्यं चाद्य कर्तव्यं कथं श्रेयो भविष्यति॥
देवानां चाद्य लोकानामृषीणां भावितात्मनाम्॥ १५.३५ ॥
मनसैव च तत्सर्वं कार्याकार्यं विचार्य च॥
जगाम शक्रं त्वरितो देवैः सह महायशाः॥१५.३६॥
प्राप्तो जलाशयं तं च यत्रास्ते हि पुरंदरः॥
यस्य तीरे स्थिता हत्या चंडालीव भयावहा॥ १५.३७ ॥
तत्रोविष्टास्ते सर्वे देवा ऋषिगणान्विताः॥
आह्वानं च कृतं तस्य शक्रस्य गुरुणा स्वयम्॥ १५.३८ ॥
समुत्थितस्ततः शक्रो ददर्श स्वगुरुं तदा॥
बाष्पपूरितवक्त्रो हि बृहस्पतिमभाषत॥१५.३९ ॥
प्रणिपत्य च तत्रत्यान्कृताञ्जलिरभाषत॥
तदा दीनमुखो भूत्वा मनसा संविमृश्य च॥ १५.४०॥
स्वयमेव कृतं पूर्वमज्ञानलक्षणं महत्॥
अधुनैव मया कार्यं किं कर्तव्यं वद प्रभो॥१५.४१॥
प्रहस्योवाच भगवान्बृहस्पति रुदारधीः॥
पुरा त्वया कृतं यच्च तस्येदं कर्मणः फलम्॥ १५.४२ ॥
मां च उद्दिश्य भो इंद्र तद्भोगादेव संक्षयः॥
प्रायश्चितं हि हत्याया न दृष्टं स्मृतिकारिभिः॥ १५.४३ ॥
अज्ञानतो हि यज्जातं पापं तस्य प्रतिक्रिया॥
कथिता धर्म्मशास्त्रज्ञैः सकामस्य न विद्यते॥ १५.४४ ॥
सकामेन कृतं पापमकामं नैव जायते॥
ताभ्यां विषयभेदेन प्रायश्चित्तं विधीयते॥१५.४५ ॥
मरणांतो विधिः कार्यो कामेन हि कृतेन हि॥
अज्ञानजनिते पापे प्रायश्चित्तं विधीयते॥१५.४६ ॥
तस्मात्त्वया कृतं यच्च स्वयमेव हतो द्विजः॥
पुरोहितश्च विद्वांश्च तस्मान्नास्ति प्रतिक्रिया॥ १५.४७ ॥
यावन्मरणमप्येति तावदप्सु स्थिरो भव॥१५.४८॥
शताश्वमेधसंज्ञं च यत्फलं तव दुर्मते॥
तन्नष्टं तत्क्षणादेव घातितो हि द्विजो यदा॥ १५.४९ ॥
सच्छिद्रे च यथा तोयं न तिष्ठति घटेऽण्वपि॥
तथैव सुकृतं पापे हीयते च प्रदक्षिणम्॥१५.५० ॥
तस्माच्च दैवसंयोगात्प्राप्तं स्वर्गादिकं च यैः॥
यथोक्तं तद्भवेत्तेषां धर्मिष्ठानां न संशयः॥१५.५१॥
एतच्छ्रुत्वा वचस्तस्य शक्रो वचनमब्रवीत्॥
कुकर्मणा मदीयेन प्राप्तमेतन्न संशयः॥ १५.५२ ॥
अमरावती माशु त्वं गच्छ देवर्षिबिः सह॥
लोकानां कार्यसिद्ध्यर्थे देवानां च बृहस्पते॥
इंद्रं कुरु महाभाग यस्ते मनसि रोचते॥ १५.५३ ॥
यथा मृतस्तथा हं वै ब्रह्महत्यावृतो महान्॥
रागद्वेषसमुत्थेन पापेनास्मि परिप्लुतः॥१५.५४ ॥
तस्मात्त्वरान्विता यूयं देवराजानमाशुः वै॥
कुर्वतु मदनुज्ञाताः सत्यं प्रतिवदामि वः॥१५.५५॥
एवमुक्तास्तदा सर्वे बृहस्पतिपुरोगमाः॥
एत्यामरावतीं तूर्णं पुरंदरविचेष्टितम्॥
कथयामासुरव्यग्रा शचीं प्रति यथा तथा॥ १५.५६॥
राज्यस्य हेतोः किं कार्यं विमृशंतः परस्परम्॥ १५.५७ ॥
एवं विमृश्यमानानां देवानां तत्र नारदः॥
यदृच्छयागतस्तत्र देवर्षिरमितद्युतिः॥ १५.५८ ॥
उवाच पूजितो देवान्कस्माद्यूयं विचेतसः॥
तेनोक्ताः कथयामासुः सर्वं शक्रस्य चेष्टितम्॥ १५.५९ ॥
गतमिंद्रस्य चेंद्रत्वमेनसा परमेण तु॥
ततः प्रोवाच तान्देवान्देवर्षिर्नारदो वचः॥१५.६०॥
यूयं देवाश्च सर्वज्ञास्तपसा विक्रमेण च॥
तस्मादिंद्रो हि कर्तव्यो नहुषः सोमवंशजः॥ १५.६१ ॥
सोऽस्मिन्राष्ट्रे प्रतिष्ठाप्यस्त्वरितेनैव निर्जराः॥
एकोनमश्वमेधानां शतं तेन महात्मना॥
कृतमस्ति महाभागा नहुषेण च यज्वना॥१५.६२॥
शच्या श्रुतं च तद्वाक्यं नारदस्य मुखोद्गतम्॥
गतांतःपुरमव्यग्रा बाष्पपूरितलोचना॥१५.६३ ॥
नारदस्य वचः श्रुत्वा सर्वे देवान्वमोदयन्॥१५.६४॥
नहुषं राज्यमारोढुमैकपद्येन ते यदा॥
आनीतो हि तदा राजा नहुषो ह्यमरावतीम्॥ १५.६५ ॥
राज्यं दत्तं महेंद्रस्य सुरैः सर्वैर्महर्षिभिः॥
तदागस्त्यादयः सर्वे नहुषं पर्युपासत॥ १५.६६ ॥
गंधर्वाप्सरसो यक्षा विद्याधरमहोरगाः॥
यक्षाः सुपर्णाः पतगा ये चान्ये स्वर्गवासिनः॥ १५.६७ ॥
तदा महोत्सवो जातो देवपुर्यां निरंतरः॥
शंखतूर्यमृदंगानि नेदुर्दुंदुभयः समम्॥१५.६८॥
गायकाश्च जगुस्तत्र तथा वाद्यानि वादकाः॥
नर्तका ननृतुस्तत्र तथा राज्यमहोत्सवे॥१५.६९ ॥
अभिषिक्तस्तदा तत्र बृहस्पतिपुरोगमैः॥१५.७०॥
अर्चितो देवसूक्तैश्च यथा वद्ग्रहपूजनम्॥
कृतवांश्चैव ऋषिभिर्विद्वद्भिर्भावितात्मभिः॥ १५.७१ ॥
तथा च सर्वैः परिपूजितो महान्राजा सुराणां नहुषस्तदानीम्॥
इंद्रासने चेंद् समानरूपः संस्तूयमानः परमेण वर्चसा॥ १५.७२ ॥
सुगंधदीपैश्च सुवाससा युतोऽलंकारभोगैः सुविराजितांगः॥
बभौ तदानीं नहुषो मुनीद्रैः संस्तूयमानो हि तथाऽमरेंद्रैः॥ १५.७३ ॥
इति परमकलान्वितोऽसौ सुरमुनिवरगणैश्च पूज्यमानः॥
नहुषनृपवरोऽभवत्तदानीं हृदि महता हृच्छयेनतप्तः॥ १५.७४ ॥
॥नहुष उवाच॥
इंद्राणी कथमद्यैव नायाति मम सन्निधौ॥
तां चाह्वयत शीघ्रं भो मा विलंबितुमर्हथ।१५.७५॥
नहुपस्य वचः श्रुत्वा बृहस्पतिरुदारधीः॥
शचीभवनमासाद्य उवाच च सविस्तरम्।१५.७६॥
शक्रस्य दुर्निमित्तेन ह्यनीतो नहुषोऽत्र वै॥
राज्यार्ते भामिनि त्वं च अर्द्धासनगता भव॥ १५.७७ ॥
शची प्रहस्य चोवाच बृहस्पतिमकल्मषम्॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः॥
एकोनमश्वमेधानां शतं कृतमनेन वै॥ १५.७८ ॥
तस्मान्न योग्यो प्रहस्य चोवाच बृहस्पतिमकल्पणषम्॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः॥
अवाह्यवाहनेनैव अत्रागत्य लभेत माम्॥१५.७९ ।
तथेति गत्वा त्वरितो बृहस्पतिरुवाच तम्॥
नहुषं कामसंतप्तं शच्योक्तं च यथातथम्॥ १५.८० ॥
तथेति मत्वा राजासौ नहुषः काममोहितः॥
विमृश्य परया बुद्ध्या अवाह्यं किं प्रशस्यते॥ १५.८१ ॥
स बुद्ध्या च चिरं स्मृत्वा ब्राह्मणाश्चतपस्विनः॥
अवाह्याश्च भवंत्यस्मादात्मानं वाहयाम्यहम्॥ १५.८२ ॥
द्वाभ्यां च तस्याः प्राप्त्यर्थमिति मे हृदि वर्तते॥
शिबिकां च ददौ ताभ्यां द्विजाभ्यां काममोहितः॥१५.८३॥
उपविश्य तदा तस्यां शिवबिकायां समाहितः॥
सर्पसर्पेति वचनान्नोदयामास तौ तदा॥ १५.८४ ॥
अगस्त्यः शिबिकावाही ततः क्रुद्धोऽशपन्नृपम्॥
विप्राणामवमंता त्वमुन्मत्तोऽजगरो भव॥१५.८५॥
शापोक्तिमात्रतो राजा पतितो ब्राह्मणस्य हि॥
तत्रैवाजगरो भूत्वा विप्रशापो दुरत्ययः॥१५.८६॥
यथा हि नहुषो जातस्तथा सर्वेऽपि तादृशाः॥
विप्राणामवमानेन पतिन्ति निरयेऽशुचौ॥१५.८७।
तस्मासर्वप्रयत्नेन पदं प्राप्य विचक्षणैः॥
अप्रमत्तैर्नरैर्भाव्यमिहामुत्र च लब्धये॥ १५.८८॥
तथैव नहुषः सर्प्पो जातोरण्ये महाभये॥
एवं चैवाभवत्तत्र देवलोके ह्यराजकम्॥१५.८९॥
तथैव ते सुराः सर्वे विस्मयाविष्टचेतसः॥
अहो बत महत्कष्टं प्राप्तं राज्ञा ह्यनेन वै।१५.९०॥
न मर्त्य लोको न स्वर्गो जातो ह्यस्य दुरात्मनः॥
सतामवज्ञया सद्यः सुकृतं दग्धमेव हि॥ १५.९१ ॥
याज्ञिको ह्यपरो लोके कथ्यतां च महामुने॥
तदोवाच महातेजा नारदो मुनिसत्तमः॥ १५.९२ ॥
ययातिं च महाभागा आनयध्वं त्वरान्विताः॥
देवदूतास्तु वै तूर्णं ययातिं द्रुतमानयन्॥ १५.९३ ॥
विमानमारुह्य तदा महात्मा ययौ दिवं देवदूतैः समेतः॥
पुरस्कृतो देववरैस्तदानीं तथोरगैर्यक्षगंधर्वसिद्धैः॥१५.९४॥
आयातः सोऽमरावत्यां त्रिदशैरभितोषितः॥
इंद्रासने चोपविष्टो बभाषे च स सत्वरम्॥१५.९५।
नारदेनैवमुक्तस्तु त्वं राजा याज्ञिको ह्यसि॥
सतामवज्ञया प्राप्तो नहुषो दंदशूकताम्।१५.९६॥
ये प्राप्नुवंति धर्मिष्ठा दैवेन परमं पदम्॥
प्राक्तनेनैव मूढास्ते न पश्यंति शुभाशुभम्॥ १५.९७ ॥
पतंति नरके घोरे स्तब्धा वै नात्र संशयः॥१५.९८ ॥
॥ययातिरुवाच॥
यैः कृतं पुण्यं तेषां विघ्नः प्रजायते॥
अल्पकत्वेन देवर्षे विद्धि सर्वं परं मम॥ १५.९९ ॥
महादानानि दत्तानि अन्नदानयुतानि च॥
गोदानानि बहून्येव भूमिदानयुतानि च।१५.१००॥
तथैव सर्वाण्यपि चोत्तमानि दानानि चोक्तानि ।। मनीषिभिर्यदा॥
एतानि सर्वाणि मया तदैव दत्तानि काले च महाविधानतः॥ १५.१०१ ॥
यज्ञैरिष्टं वाजपेयातिरात्रैर्ज्योतिष्टोमै राजसूयादिभिश्च॥
शास्त्रप्रोक्तैरश्वमेधादिभिश्च यूपैरेषालंकृता भूः समंतात्॥ १५.१०२ ॥
देवदेवो जगन्नाथ इष्टो यज्ञैरनेकशः॥
गालवाय पुरे दत्ता कन्या त्वेषा च माधवी॥ १५.१०३ ॥
पत्नीत्वेन चतुर्भ्यश्च दत्ताः कन्या मुने तदा॥
गालवस्य गुरोरर्थे विश्वामित्रस्य धीमतः।१५.१०४।
एवं भूतान्यनेकानि सुकृतानि मया पुरा॥
महांति च बहून्येव तानि वक्तुं न पार्यते।१५.१०५।
भूयः पृष्टः सर्वदेवैः स राजा कृतं सर्वं गुप्तमेव यथार्थम्॥
विज्ञातुमिच्छाम यथार्थतोपि सर्वे वयं श्रोतुकामा ययाते॥ १५.१०६ ॥
वचो निशम्य देवानां ययातिरमितद्युतिः॥
कथयामास तत्सर्वं पुण्यशेषं यथार्थतः।१५.१०७।
कथितं सर्वमेतच्च निःशेषं व्यासवत्तदा॥
स्वपुण्यकथनेनैव ययातिरपतद्भुवि॥ १५.१०८ ॥
तत्क्षणादेव सर्वेषां सुराणां तत्र पश्यताम्॥
एवमेव तथा जातमराजकमतंद्रितम्॥ १५.१०९ ॥
अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै॥
शक्रासनेऽभिषे कार्यं श्रूयतां हि द्विजोत्तमाः॥ १५.११० ॥
सर्वे सुराश्च ऋषयोऽथ महाफणींद्रा गन्धर्वयक्षखगचारणकिंनराश्च॥
विद्याधराः सुरगणाप्सरसां गणाश्च चिंतापराः समभवन्मनुजास्तथैव॥ १५.१११ ॥
______________________________________
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे देवेन्द्रस्वाराज्याभिषेकवृत्तान्ते देवेन्द्रस्य ब्रह्महत्ययोपद्रुतौ नहुषशापययातिभूषण्यवृत्तान्तवर्णनंनाम पंचदशोऽध्यायः॥ १५॥
न देवी न च गंधर्वी नासुरी न च किंनरी ॥
यादृशी सा तदा जाता तीर्थभावेन सुन्दरी ॥ ३१ ॥
परिणीता तु सा तेन भोजराजेन सुन्दरी ॥
मृगीमुखीति विख्याता देवी सा भुवनेश्वरी ॥ ३२ ॥
न जानाति पुनः किंचिद्यद्वृत्तं राजमन्दिरे ॥
कृता सा पट्टमहिषी भोजराजेन धीमता ॥ ३३ ॥
॥ ईश्वर उवाच ॥ ॥
देशानां प्रवरो देशो गिरीणां प्रवरो गिरिः ॥
क्षेत्राणामुत्तमं क्षेत्रं वनानामुत्तमं वनम् ॥ ३४ ॥
गंगा सरस्वती तापी स्वर्णरेखाजले स्थिता ॥
ब्रह्मा विष्णुश्च सूर्यश्च सर्व इन्द्रादयः सुराः ॥ ३५ ॥
नागा यक्षाश्च गन्धर्वा अस्मिन्क्षेत्रे व्यवस्थिताः ॥
ब्रह्मांडं निर्मितं येन त्रैलोक्यं सचराचरम् ॥ ३६ ॥
देवा ब्रह्मादयो जाताः स भवोऽत्र व्यवस्थितः ॥
शिवो भवेति विख्यातः स्वयं देवस्त्रिलोचनः ॥ ३७ ॥
वेवेति स्कन्दरचनाद्भवानी चात्र संस्थिता ॥
अतो यन्नाधिकं प्रोक्तं तीर्थं देवि मया तव ॥ ३८ ॥
तस्मिञ्जले स्नानपरो नरो यदि संध्यां विधायानु करोति तर्पणम् ॥
श्राद्धं पितॄणां च ददाति दक्षिणां भवोद्भवं पश्यति मुच्यते भवात् ॥ ३९ ॥
अथ यदि भवपूजां दिव्यपुष्पैः करोति तदनु शिवशिवेति स्तोत्रपाठं च गीतम् ॥
सुरवर गणवृन्दैः स्तूयमानो विमानैः सुरवरशिवरूपो मानवो याति नाकम् ॥ 7.2.7.४० ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें