"प्रस्तावना" 👇
कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ।३८.१।
।सूत उवाच।
पुरा दारुवने रम्ये देवसिद्धनिषेविते ।
सपुत्रदारतनयास्तपश्चेरुः सहस्रशः ।। ३८.२
प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ।। ३८.३
तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।
व्याख्यापयन् स महादोषं ययौ दारुवनं हरः ।। ३८.४
कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।
ययौ निवृत्तविज्ञानस्थापनार्थं च शंकरः ।। ३८.५
आस्थाय विपुलञ्चैष जनं विंशतिवत्सरम् ।
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ।। ३८.६
चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ।। ३८.७
कुशेशयमयीं मालां सर्वरत्नैरलंकृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः। ३८.८
योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ।। ३८.९
सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ।।३८.१०
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ।।३८.११
एवं स भगवानीशो देवदारुवने हरः।
चचार हरिणा सार्द्धं मायया मोहयन् जगत्।। ३८.१२
दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।
मायया मोहिता नार्यो देवदेवं समन्वयुः।३८.१३
विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः।
सहैव तेन कामार्त्ता विलासिन्यश्चरन्तिहि।३८.१४
ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः।
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः। ३८.१५
गायन्ति नृत्यन्ति विलासयुक्ता
नारीगणा नायिकमेकमीशम् ।
दृष्ट्वा सपत्नीकमतीवकान्त-
मिच्छन्त्यथालिङ्गनमाचरन्ति।३८.१६
पार्श्वे निपेतुः स्मितमाचरन्ति
गायन्ति गीतानि मुनीशपुत्राः।
आलोक्य पद्मापतिमादिदेवं
भ्रूभङ्गमन्ये विचरन्ति तेन ।३८.१७
आसामथैषामपि वासुदेवो
मायी मुरारिर्मनसि प्रविष्टः ।
करोति भोगान् मनसि प्रवृत्तिं
मायानुभूयन्त इतिव सम्यक्।३८.१८
विभाति विश्वामरभूतभर्त्ता
स माधवः स्त्रीगणमध्यविष्टः।
अशेषशक्त्यासनसंनिविष्टो
यथैकशक्त्या सह देवदेवः ।३८.१९
करोति नृत्यं परमम् प्रधानं।
तदा विरूढः पुनरेव भूयः ।
ययौ समारुह्य हरिः स्वभावं
तदीशवृत्तामृतमादिदेवः।३८.२०
दृष्ट्वा नारीकुलं रुद्रं पुत्रानपि च केशवम् ।
मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम् ।३८.२१
अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।
शेपुश्च र्विविधै र्वाक्यै र्मायया तस्य मोहिताः। ३८.२२
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शंकरे।
यथादित्यप्रकाशेन तारका नभसि स्थिताः।३८.२३
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः। ३८.२४
सोऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः।
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः।३८.२५
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुंगवाः।
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर।३८.२६
अथोवाच विहस्येशः पिनाकी नीललोहितः।
संप्रेक्ष्य जगतां योनिं पार्श्वस्थं च जनार्दनम् । ३८.२७
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः। ३८.२८
।ऋषय ऊचुः ।
व्यभिचाररता भार्याः संत्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ।। ३८.२९
।महादेव उवाच ।
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ।। ३८.३०
।ऋषय ऊचुः ।
दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ।। ३८.३१
एवमुक्ते महादेवः सत्यमेव मयेरितम् ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ।। ३८.३२
सोऽगच्छद्धरिणा सार्द्धं मुनिन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ।। ३८.३३
दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ।। ३८.३४
प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् ।
संप्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
संधयामास भैषज्यैर्विषण्ण वदना सती ।। ३८.३५
चकार महतीं पूजां प्रार्थयामास भार्यया ।
को भवान् कुत आयातः किमाचारो भवानिति ।
उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ।। ३८.३६
यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।
एषैव देवता मह्यं धारयामि सदैव तत् ।। ३८.३७
हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ।। ३८.३८
दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।
प्रोचुरेतद् भवाँल्लिङ्गमुत्पाटयतु दुर्मते ।। ३८.३९
तानब्रवीन्महायोगी करिष्यामीति शंकरः ।
युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ।। ३८.४०
इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ।। ३८.४१
तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः ।
न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ।। ३८.४२
अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ।। ३८.४३
तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।
भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ।। ३८.४४
तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम् ।। ३८.४५
उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ।। ३८.४६
आसीनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ।। ३८.४७
विभ्राजमानं वपुषा सस्मितं शुभ्रलोचनम् ।
चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ।। ३८.४८
विलोक्य देवपुरुषं प्रसन्नवदनं शुभम् ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ।। ३८.४९
तान् प्रसन्नमना देवश्चतुर्मूर्त्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ।। ३८.५०
तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ।। ३८.५१
।ऋषय ऊचुः।
कश्चिद् दारुवनं पुण्यं पुरुषोऽतीवशोभनः ।
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ।। ३८.५२
मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ।। ३८.५३
अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।
ताडितोऽस्माभिरत्यर्थं लिङ्गंतु विनिपातितम् ।। ३८.५४
अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।
उत्पाताश्चाभवन् घोराः सर्वभूतभयंकराः ।। ३८.५५
क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ।। ३८.५६
त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।
अनुग्रहेण विश्वेश तदस्माननुपालय ।। ३८.५७
विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ।। ३८.५८
।ब्रह्मोवाच ।
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ।। ३८.५९
संप्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।
उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ।। ३८.६०
काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ।। ३८.६१
यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः ।
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ।। ३८.६२
यं समासाद्य देवानैमैश्वर्यमखिलं जगत् ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ।
यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ।३८.६३
यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ।। ३८.६४
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित् पदं समधिगम्यते ।। ३८.६५
देवतानामृषीणां च पितॄणां चापि शाश्वतः ।
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ।३८.६६
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ।
एष चैव प्रजाः सर्वाः सृजत्येषः स्वतेजसा ।३८.६७
एष चक्री चक्रवर्ती श्रीवत्सकृतलक्षणः ।
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ।। ३८.६८
रुद्रस्य मूर्त्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ।। ३८.६९
मूर्त्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ।। ३८.७०
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ।। ३८.७१
तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।
स एष मोचयेत् कृत्स्नं स एष परमा गतिः ।। ३८.७२
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
एकश्रृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ।। ३८.७३
चतुर्वेदश्चतुर्मूर्त्तिस्त्रिमूर्त्तिस्त्रिगुणः परः ।
एकमूर्त्तिरमेयात्मा नारायण इति श्रुतिः ।
रेतोऽस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्मोक्षकांक्षिभिः ।। ३८.७४
संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ।। ३८.७५
न जायते न म्रियते वर्द्धते न च विश्वसृक् ।
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ।। ३८.७६
ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ।। ३८.७७
तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ।। ३८.७८
न तं जानीथ जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरं हरम् ।। ३८.७९
एष देवो महादेवो ह्यनादिर्भगवान् हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ।। ३८.८०
न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् ।
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ।। ३८.८१
स मायी मायया सर्वं करोति विकरोति च ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ।। ३८.८२
इतीरिता भगवता मरीचिप्रमुखा विभुम् ।
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुःखिताः ।। ३८.८३
।।इति अष्टाचत्वारिंशोध्यायः॥
यूँ तो कहने के लिये 'पुराण' धर्मग्रंथ ही होते हैं, पर उसमे कुछ कथाऐं ऐसी लिखी हैं जिसका वर्णन चाहकर भी आप अपने परिजनों के सामने नही कर सकते! ऐसी ही एक कथा कूर्मपुराण अध्याय-37 मे लिखी है, जो निम्न है-
"एक बार भगवान शिव खुद भी नंग-धड़ंग होकर और साथ मे भगवान विष्णु को भी एक सुन्दर महिला बनाकर उन्हे भी नग्न-अवस्था मे लेकर देवदारू नामक वन मे विचरण करने लगे। उसी वन मे कई ऋषियों के आश्रम भी थे तथा उन ऋषियों की पत्नियाँ और उनके युवा पुत्र तथा पुत्रबधुऐं निवास करती थी।
वन मे विचरण करते-करते शिव और स्त्री-रूपधारी विष्णु नंगे बदन ही उन ऋषियों के आश्रम के पास पहुँच गये।
दोनो को नग्न अवस्था मे देखकर ऋषियों के पुत्र और बहुऐ स्तब्ध हो गयी! शिव नग्न-स्थिति मे भी इतने सुन्दर दिख रहे थे कि ऋषियों की जवान पुत्रबधुऐं कामातुर हो उनसे जाकर लिपट गयी और उनका आलिंगन करने लगी।
विष्णु भी स्त्रीरूप मे अपना जलवा बिखेर रहे थे, उनके गदराऐ हुस्न को देखकर तमाम ऋषिपुत्र भी विष्णु के चरणों मे जाकर गिर गये और उनसे प्रणय की याचना कर लगे।
अभी यह खेल चल ही रहा था कि अचानक दूसरे वरिष्ठ ऋषिगण भी वहाँ आ गये और उन्होने जब अपने पुत्रों और बहुओं को इस तरह वासनाग्रस्त स्थिति मे देखा तो अत्यन्त क्रोध किया। क्रोध मे आकर उन ऋषियों ने विष्णु और शिव दोनो को अनेक प्रकार के श्राप दिये पर उनके सारे श्राप निष्फल होकर रह गये। अतः क्रोध मे आकर उन ऋषियों ने नग्न शिव और स्त्री-रूपधारी विष्णु को मारकर उस वन से भगा दिया।
अब दोनो देवदारू वन से घायल (ऋषियों की मार से) होकर वशिष्ठ के आश्रम मे आ गये! वशिष्ठ की पत्नि अरुन्धती ने दोनों देवों का बहुत स्वागत किया तथा उनके घावों पर औषधि भी लगायी। अभी घायल विष्णु और शिव का वशिष्ठ के आश्रम मे उपचार चल ही रहा था कि अचानक वशिष्ठ के शिष्यगण कहीं से आ गये और आश्रम मे नग्न महिला-पुरुष के जोड़े को देखकर उन्हे डंडे, ढ़ेलों तथा मुक्कों से मारने लगे।
उन मुनियों ने क्रोध मे आकर शिव से कहा 'हे दुर्मते! तुम अपने इस लिंग को उखाड़ फेंको'
शिवजी ने कहा कि यदि आप लोगों को मेरे लिंग के प्रति द्वेष उत्पन्न हो गया है तो मै वैसा ही करता हूँ।
ऐसा कहकर शिव ने अपना लिंग उखाड़कर फेंक दिया! उनके लिंग फेंकते ही सबकुछ अदृश्य हो गया और चारो तरफ अंधेरा छा गया! सूर्य का तेज मंद हो गया, समुद्र सूखने लगे और धरती कांपने।
____________________________________
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें