बुधवार, 20 अक्तूबर 2021

श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायण कथा

              ।अथ कथा ॥
              ।।व्यास उवाच ॥ 

एकदा नैमिषारण्ये ऋषय: शौनकादय: ॥ पप्रच्छुर्मुनय: सर्वे सूतं पौराणिकं खलु ॥१॥

             ।ऋषय ऊचु: । 

व्रतेन तपसा किंवा प्राप्यते वाञ्छितं फलम् ॥ तत्सर्वं श्रोतुमिच्छाम: कथयस्व महामुने ॥२॥
सूत उवाच ॥ 

नारदेनैव सम्पृष्टो भगवान् कमलापित: ॥       सुरर्षये यथैवाह तच्छृणुध्वं समाहिता: ॥३॥

एकदा नारदो योगी परानुग्रहकाङक्षया ॥       पर्यटन् विविधान् लोकान मर्त्यलोकमुपागत:॥४॥

ततो द्दष्टवा जनान्सर्वान्नानाक्लेशसमन्वितान् ॥ नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभि:॥५॥
केनोपायेन चैतेषां दुःखनाशो भवेद ध्रुवम् ।     इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥६॥

तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शङखचक्रगदापद्मवनमालाविभूषितम् ॥७॥

द्दष्टवा तं देवदेवेशं स्तोतुं समुपचक्रमे ॥         नारद उवाच ॥                                        नमो वाङमनसातीतरूपायानन्तशक्तये ॥८॥

आदिमध्यान्तहीनाय निर्गुणाय गुणत्मने ॥ सर्वेषामादिभूताय भक्तानामार्तिनाशिने ॥९॥

श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ श्रीभगवानुवाच ॥ किमर्थमागतोऽसि त्वं कि ते मनसि वर्तते ॥१०॥

कथयस्व महाभाग तत्सर्वं कथयामि ते ॥        नारद उवाच ॥

 मर्त्यलोके जना: सर्वे नानाक्लेशसमन्विता: ॥ नानायोनिसमुत्पन्ना: पच्यन्ते पापकर्मभि: ॥११॥


तत्कथं शमयेन्नाथ लघूपायेन तद्वद ॥ श्रीतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥१२॥
श्रीभगवानुवाच ॥ 

साधु पृष्टं त्वया वत्स लोकानुग्रहकाङ्क्षया ॥ यत्कृत्वा मुच्यते मोहात्तच्छृणुष्व वदामि ते ॥१३॥

व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ॥       तव स्नेहान्मया वत्स प्रकाश: क्रियतेऽधुना ॥१४॥

सत्यनारायणस्यैव व्रतं सम्यग्विधानत: ॥        कृत्वा सद्य: सुखं भुक्त्त्वा परत्र मोक्षमाप्नुयात् ॥१५॥

तच्छुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥      नारद उवाच ॥ किं फलं किं विधानं च कृतं केनैव तद् व्रतम् ॥१६॥

तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं हि तद व्रतम् ॥ दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥१७॥

सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् ॥      यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वित: ॥१८॥

सत्यनारायणं देवं यजेच्चैव निशामुखे ॥ ब्राह्मणैर्बान्धबैश्चैव सहितो धर्मतत्पर: ॥१९॥

नैवेद्यं भक्तितो दद्यात्सपादं भक्तिसंयुतम् ॥ रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णाकम् ॥२०॥

अभावे शालिचूर्णं वा शर्करा च गुडस्तथा ।    सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥२१॥

विप्राय दक्षिणां दद्यात्कथां श्रुत्वा जनै: सह ॥ ततश्च बन्धुभि: सार्धं विप्रांश्च प्रतिभोजयेत् ॥२२॥

प्रसादं भक्षयेद्भक्त्या नृत्यगीतादिकं चरेत् ॥    ततश्च स्वगृहं गच्छेत्सत्यनारायणं स्मरन् ॥२३॥


एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम् ॥ विशेषत: कलियुगे लघूपायोऽस्ति भूतले ॥२४॥

     ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां प्रथमोऽध्याय: ॥१॥


_________________________________
सूत उवाच ॥ 

अथान्यत्सम्प्रवक्ष्यामि कृतं येन पुरा द्विज ॥ कश्चित्काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धन: ॥१॥


क्षुतृडभ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले ॥ दू:खितं ब्राह्मणं द्दष्टवा भगवान् ब्राह्मणप्रिय: ॥२॥


वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात् ॥     किमर्थं अमसे विप्र महीं नित्यं सुदु:खित: ॥३॥


तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम ॥          ब्राह्मण उवाच ॥ 

ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम् ॥४॥
उपायं यदि जानासि कृपया कथय प्रभो । वृद्धब्राह्मण उवाच । 

सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रद: ॥५॥


तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम् ॥    यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानव: ॥६॥


विधानं च व्रतस्यापि विप्रायाभाष्य यत्नत: ॥ सत्यनारायणो वद्धस्तत्रैवान्तरधीयत ॥७॥


तदव्रतं सङ्करिष्यामि यदुक्तं ब्राह्मणेन वै ॥      इति सञ्चिन्त्य विप्रोऽसौ रात्रौ निद्रांन लब्धवान् ॥८॥
तत प्रात: समुत्थाय सत्यनारायणव्रतम् ॥    करिष्य इति सङ्कल्प्य भिक्षार्थमगमद् द्विज: ॥९॥
तस्मिन्नेव दिने विप्र: प्रचुरं द्रव्यमाप्तवान ।       तेनैव बन्धुभि: सार्द्धं सत्यस्य व्रतमाचरत् ॥१०॥

सर्वदूःखविनिर्मुक्त: सर्वसम्पत्समन्वित: ॥       बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावत: ॥११॥

तत:प्रभृति कालं च मासि मासि व्रतं कृतम् ॥     एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तम: ॥१२॥

सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् ।     व्रतमस्य यदा विप्रा: पृथिव्यां सङ्करिष्यति ॥१३॥
तदैव सर्वदुःखं च मनुजस्य विनश्यति ।             एवं नारायणेनोक्तं नारदाय महात्मने ॥१४॥

मया तत्कथितं विप्रा: किमन्यत्कथयामि व: ॥ ऋषय ऊचु: । तस्माद्विप्राच्छुतं केन पृथिव्यां चरितं मुने ॥ तत्सर्वं श्रोतुमिच्छाम: श्रद्धास्माकं प्रजायते ॥१५॥
सूत उवाच ॥ 

श्रृणुध्वं मुनय: सर्वे व्रतं येन कृतं भुवि ॥              एकदा स द्विजवरो यथाविभवविस्तरै: ॥१६॥

बन्धुभि:अ स्वजनै: सार्धं व्रतं व्रतं कर्तुं समु द्यत: ॥ एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥१७॥

बहि: काष्ठं च संस्थ्याप्य विप्रस्य गृहमाययौ ॥ तृष्णया पीडितात्मा च द्दष्टवा विप्रं कृतव्रतम् ॥१८॥
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया ॥ कृते किं फलमाप्नोति विस्तराद्वाद मे प्रभो ॥१९॥
विप्र उवाच ॥ सत्यनारायणस्येदं व्रतं सर्वेप्सितप्रदम् ॥ तस्प प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥२०॥
तस्मादेतद् व्रतं ज्ञात्वा काष्ठकेतातिहर्षित: ॥      पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ ॥२१॥


सत्यनारायणं देवं मनसा इत्यचिन्तयत् ॥         काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद्‌धनम् ॥२२॥
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ॥           इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके ॥२३॥
जगाम नगरे रम्ये धनिनां यत्र संस्थिति: ॥       तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥२४॥

तत: प्रसन्नहृदय: सुपक्वं कदलीफलम् ॥ शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम् ॥२५॥

कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ ॥         ततो बन्धून्समाहूय चकार विधिना व्रतम् ॥२६॥

तदवतस्य प्रभावेण धनपुत्रान्वितोऽभवत् । इहलोके सुखं भुंक्त्वा चान्ते सत्यपुरं ययौ ॥२७॥

॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां द्वितीयोऽध्याय: ॥२॥

सूत उवाच ॥ पुनरग्रे प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमा: ॥ पुरा चोल्कामुखो नाम नृपश्चासी:महामति: ॥१॥
जितेन्द्रिय: सत्यवादी ययौ देवालयं प्रति ॥ दिने दिने धनं दत्वा द्विजान्सन्तोषयत्सुधी: ॥२॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती ॥ भद्रशीला नदीतीरे सत्यस्य व्रतमाचरत् ॥३॥
एतस्मिन्नन्तरे तत्र साधुरेक: समागत: ॥ वाणिज्यार्थं बहुधनैरनेकै: परिवारित: ॥४॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति ॥ द्दष्टवा स व्रतिनं भूपं पप्रच्छ विनयान्वित: ॥५॥
साधुरुवाच ॥ किमिदं कुरुषे राजन्भक्तियुक्तन चेतसा ॥ प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥६॥
राजोवाच ॥ पूजनं क्रियते साधो विष्णोरतुलतेजस: ॥ व्रतं च स्वजनै: सार्वं पुत्राद्यावाप्तिकाम्यया ॥७॥
भूपस्य वचनं श्रुत्वा साधु: प्रोवाच सादरम् ॥ सर्वं कथय मे राज्यन्करिष्येऽहं तवोदितम् ॥८॥
ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् ॥ ततो निवृत्य वाणिज्यात्सानन्दो गृहमागत: ॥९॥
भार्यायै कथितं सर्वं व्रतं सन्ततिदायकम् ॥ तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत् ॥१०॥
इति लीलावतीं प्राह पत्नीं साधु: स सत्तम: ॥ एकस्मिन्दिवसे तस्य भार्या लीलावती सती ॥११॥
भर्तृयुक्ताऽऽनन्दचित्ताऽभवद्धर्मपरायणा ॥ गर्भिणी साऽभवत्तस्य भार्या सत्यप्रसादत: ॥१२॥
दशमे मासि वै तस्या: कन्यारत्नमजायत ॥ दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥१३॥
सम्ना कलावति चेति तन्नामकरण कृतम् ॥ ततो लीलावती प्राह स्वामिनं मधुरं वच: ॥१४॥
न करोषि किमर्यं वै पुरा सङ्कल्पितं व्रतं ॥ साधुरुवाच ॥ विवाहसमये त्वस्या: करिष्यामि व्रतं प्रिये ॥१५॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति ॥ तत: कलावती कन्या ववृधे पितृवेश्मनि ॥१६॥
द्दष्ट्वा कन्यां तत: साधुर्नगरे सखिभि: सह ॥ मन्त्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् ॥१७॥
विवाहार्थे च कन्याया: वरं श्रेष्ठं विचारय ॥ तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ ॥१८॥
तस्मादेकं वणिक्पुत्रं समादायागतो हि स: ॥ द्दष्ट्वा तु सुन्दरं बालं वणिक्पुत्रं गुणान्वितम् ॥१९॥
ज्ञातिभिर्बन्धुभि: सार्धं परितुष्टेन चेतसा ॥ दत्तवान् साधु: पुत्राय कन्यां विधिविधानत: ॥२०॥
ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम् ॥ विवाहसमये तस्यास्तेन रुष्टेऽभवत्प्रभु: ॥२१॥
तत: कालेन नियतो निजकर्मविशारद: ॥ वाणिज्यार्थं तत: शीघ्रं जामातृसहितो वणिक् ॥२२॥
रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपत: ॥ वाणिज्यमकरोत्साधुर्जामात्रा श्रीमता सह ॥२३॥
तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च ॥ एतस्मि:नेव काले तु सत्यनारायण: प्रभु: ॥२४॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ॥ दारुणं कठिनं चास्य महद दुःखं भविष्यति ॥२५॥
एकस्मिन्दिवसे राज्ञो धनमादाय तस्कर: ॥ तत्रैव चागतश्चौरो वणिजौ यत्र संस्थितौ ॥२६॥
तत्पश्चाद्धावकान् दूतान्‌द्दष्ट्वा भीतेन चेतसा ॥ धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षित: ॥२७॥
ततो दूता: समायाता: यत्रास्ते सज्जनो वणिक ॥ द्दष्ट्वा नृपधनं तत्र बदध्वाऽऽनीतौ वणिक्सुतौ ॥२८॥
हर्षेण धावमानाश्च ऊचुर्नृपसमीपत: ॥ तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥२९॥
राज्ञाऽऽज्ञप्तास्तत: शीघ्रं द्दढं बदध्वा तु तावुभौ ॥ स्थापितौ द्वौमहादुर्गे कारागारेऽविचारत: ॥३०॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वच: ॥ अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना ॥३१॥
तच्छापाच्च तयोर्गेहे भार्या चैवातिदुःखिता ॥ चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥३२॥
आधिव्याधिसमायुक्ता क्षुत्पिपासातिदुःखिता ॥ अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे ॥ कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥३३॥
एकस्मिन्दिवसे जाता क्षुधार्ता द्विजमन्दिरम् ॥ गत्वाऽपश्यद व्रतं तत्र सत्यनारायणस्य च ॥३४॥
उपविश्य कथां श्रुत्वा वरं प्रार्थितवत्यपि । प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥३५॥
माता कलावतीं कन्यां कथयामास प्रेमत: ॥ पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते ॥३६॥
कन्या कलावती प्राह मातरं प्रति सत्वरम् ॥ द्विजालये व्रतं मातर्द्दष्टं वाञ्छितसिद्धिदम् ॥३७॥
तच्छत्वा कन्यकावाक्यं व्रतं कर्तुं समुद्यता ॥ सा तदा तु वणिग्भार्या सत्यनारायणस्य च ॥३८॥
व्रतं चक्रे सैव साध्वी बन्धुभि: स्वजनै: सह ॥ भर्तृजामातरौ क्षिप्रमागच्छेतांस्वमाश्रमम् ॥३९॥
अपराधं च मे भर्तुर्जामातु: क्षन्तुमर्हसि । व्रतेनानेन तुष्टोऽसौ सत्यनारायण: पुन: ॥४०॥
दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम् ॥ बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥४१॥
देयं धनं च तत्सर्वं गृहीतं यत्त्वयाधुना ॥ नो चेत्त्वां नाशयिष्यामि सराज्यं धनपुत्रकम् ॥४२॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत्प्रभु: ॥ तत: प्रभातसमये राजा च स्वजनै: सह ॥४३॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति ॥ वद्धौ महाजनौ शीघ्रं मोचयद्वौ वणिक्सुतौ ॥४४॥
इति राज्ञो वच: श्रुत्वा मोचयित्वा महाजनौ ॥ समानीय नृपस्याग्रे प्राहुस्ते विनयान्विता: ॥४५॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तो निगडबन्धनात् ॥ ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ॥४६॥
स्मरन्तौ पूर्ववृत्तान्तं नोचतुर्भयविव्हलौ ॥ राजा वणिक्सुतौ वीक्ष्य वच: प्रोवाच सादरम् ॥४७॥
दैवात्प्राप्तं महददुःखमिदानीं नास्ति वै भयम् ॥ तदा निगडसंत्यागं क्षौरकर्माद्यकारयत् ॥४८॥
वस्त्रालङ्कारकं दत्वा परितोष्य नृपश्च तौ ॥ पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद् भृशम ॥४९॥
पुराऽऽनीतं तु यद द्रव्यं द्विगुणीकृत्य दत्तवान् । प्रोवाच तौ ततो राजा गच्छ साधो निजाश्रमम् ॥५०॥
राजानं प्रणिपत्याह ग:तव्यं त्वत्प्रसादत: ॥ इत्युक्त्वा तौ महावैश्यौ जग्मतु: स्वगृहं प्रति ॥५१॥

॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां तृतीयोऽध्याय: ॥३॥

सूत उवाच ॥ यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् । ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥१॥
कियद दूरे गते साधौ सत्यनारायण: प्रभु: ॥ जिज्ञासां कृतवान् साधो किमस्ति तव नौ स्थितम् ॥२॥
ततो महाजतौ मत्तौ हेलया च प्रहस्य वै  ॥ कथं पृच्छसि भो दण्डिन् मुद्रां नेतुं किमिच्छसि ॥३॥
लतापत्रादिकं चैव वर्तने तरणौ मम ॥ निष्ठुरं च वच: श्रुत्वा सत्यं भवतु ते वच: ॥४॥
एवमुक्त्वा गत: शीघ्रं दण्डी तस्य समीपत: ॥ कियद दूरे ततो गत्वा स्थित: सिन्धुसमीपत: ॥५॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ॥ उत्थितां तरणिं द्दष्ट्वा विस्मयं परमं ययौ ॥६॥
द्दष्ट्वा लतादिकं चैव मूर्छितो न्यपतद भुवि ॥ लब्धसंज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितोऽभवत् ॥७॥
तदा तु दुहितु:कान्तो वचनं चेदमब्रवीत् ॥ किमथ क्रियते शोक: शापो दत्तश्च दण्डिना ॥८॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशय: । अतस्तच्छरणं यामो वाञ्छितार्थो भविष्यति ॥९॥
जामातुर्वचनं श्रत्वा तत्सकाशं गतस्तदा ॥ द्दष्ट्वा च दण्डिनं भक्तया नत्वा प्रोवाच सादरम् ॥१०॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ ॥ एवं पुन: पुनर्नत्वा महाशोकाकुलोऽभेवत् ॥११॥
प्रोवाच बचनं दण्डी विलपन्तं विलोक्य च ॥ मा रोदी: श्रृणु मद्वाक्यं मम पूजाबहिर्मुख: ॥१२॥
ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहु: ॥ तच्छुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यत: ॥१३॥
साधुरुवाच ॥ त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस: ॥ न जानन्ति गुणान् रूपं तवाश्चर्यमिदं प्रभो ॥१४॥
मूढोऽहं त्वां कथं जाने मोहितस्तव मायया ॥ प्रसीद पूजयिष्यामि यथाविभवविस्तरै: ॥१५॥
पुरा वित्तं च तत्सर्वं त्राहि मां शरणागतम् ॥ श्रत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दन: ॥१६॥
वरं च वाञ्छितं दत्त्वा तत्रैवान्तर्दधे हरि: ॥ ततो नौकां समारुह्य द्दष्ट्वा वित्तप्रपूरिताम् ॥१७॥
कृपया सत्यदेवस्य सफलं वाञ्छितं ममा ॥ इत्युक्त्वा स्वजनै: सार्द्धं पूजां कृत्वा यथाविधि ॥१८॥
हर्षेण चाभवत्पूर्ण: सत्यदेवप्रसादत: । नावं संयोज्य यत्नेन स्वदेशगमनं कृतम् ॥१९॥
साधुर्जामातरं प्राह पश्य रत्नपुरी मम ॥ दुतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥२०॥
दूतोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च ॥ प्रोवाच वाञ्छितं वाक्यं नत्वा बद्धाञ्जलिस्तदा ॥२१॥
निकटे नगरस्यैव जामात्रा सहितो वणिक् ॥ आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युत: ॥२२॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ॥ सत्यपूजां तत: कृत्वा प्रोवाच तनुजां प्रति ॥२३॥
व्रजामि शीधमागच्छ साधुसंदर्शनाय च ॥ इति मातृवच: श्रुत्वा व्रतं कृत्वा समाप्य च ॥२४॥
प्रसादं च परित्यज्य गता सापि पतिं प्रति । तेन रुष्ट: सत्यदेवो भर्तारं तरर्णि तथा ॥२५॥
संहृत्य च धनै: सार्द्धं जले तस्यावमज्जयत् ॥ तत: कलावती कन्या न विलोक्य निजं पतिम् ॥२६॥
शोकेन महता तत्र रुदती चापतद भुवि ॥ द्दष्ट्वा तथाविधां नावं कन्यां च बहुदु:खिताम् ॥२७॥
भीतेन मनसा साधु: किमाश्चर्यमिदं भवेत् ॥ चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहका: ॥२८॥
ततो लीलावती कन्यां द्दष्ट्वा सा विव्हलाभवत् ॥ विललापातिदुःखेन भर्तारं चेदमब्रवीत् ॥२९॥
इदानीं नौकया सार्द्धं कथं सोऽभूदलक्षित: ॥ न जाने कस्य देवस्य हेलया चैव सा हृता ॥३०॥
सत्यदैवस्य माहात्म्यं ज्ञातुं वा केन शक्यते ॥ इत्युक्त्वा विललापैव ततश्व स्वजनै: सह ॥३१॥
ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद ह ॥ तत: कलावती कन्या नष्टे स्वामिनि दुःखिता ॥३२॥
गृहीत्वा पादुकां तस्यानुगन्तुं च मनो दधे ॥ कन्यायाश्चरितं द्दष्ट्वा सभार्य: सज्जनो वणिक ॥३३॥
अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् ॥      हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया ॥३४॥
सत्यपूजां करिष्यामि यथाविभवविस्तरै: ॥        इति सर्वान्समाहूय कथयित्वा मनोरथम् ॥३५॥
नत्वा च दण्डवद भूमौ सत्यदेवं पुन: पुन: ॥ ततस्तुष्ट: सत्यदेवो दिनानां परिपालक: ॥३६॥
जगाद वचनं चैनं कृपया भक्तवत्सल: ॥ त्यक्त्वा प्रसादं ते कन्या पर्ति द्रष्टुं समागता ॥३७॥
अतोऽद्दष्टोऽभवत्तस्या: कन्यकाया: पतिर्ध्रुवम् ॥ गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुन: ॥३८॥
लब्धभर्त्री सुता साधो भविष्यति न संशय: ॥ कन्यका ताद्दशं वाक्यं श्रुत्वा गगनमण्डलात् ॥३९॥
क्षिप्रं तदा गृहं गत्वा प्रसादं च वुभोज सा ॥       सा पश्चात्पुनरागत्य ददर्श स्वजनं पतिम् ॥४०॥


तत: कलावती कन्या जगाद पितरं प्रति ॥      इदानीं च गृहं याहि विलम्बं कुरुषे कथम् ॥४१॥

तच्छुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद्वणिक्सुत: ॥ पूजनं सत्यदेवस्य कृत्वा विधिविधानत: ॥४२॥

धनैर्बन्धुगणै: सार्धं जगाम निजमन्दिरम् ॥ पौर्णमास्यां च सङ्क्रा:तौ कृतवा:सत्यपूजनम् ॥४३॥
इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥४४॥

॥ इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां चतुर्थोऽध्याय: ॥४॥

                 ।सूत उवाच ॥ 

अथान्यच्च प्रवक्ष्यामि श्रृणुध्बं मुनिसत्तमा: ॥ आसीत्तुङ्गध्वजो राजा प्रजापालनतत्पर: ॥१॥

___________________________________
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप स: ॥ एकदा स वनं गत्वा हत्वा बहुविधान्पशून् ॥२॥
आगत्य वटमूलं च द्दष्ट्वा सत्यस्य पूजनम् ॥ गोपा: कुर्वन्ति सन्तुष्टा भक्तियुक्ता:सबान्धवा:।३॥


राजा द्दष्ट्वा तु दर्पेण न गतो न ननाम स: ॥
    ततो गोपगणा: सर्वे प्रसादं नृपसन्निधौ ॥४॥

संस्थाप्य पुनरागत्य भुक्त्या सर्वे यथेप्सितम् ॥ तत: प्रसादं सन्त्यज्य राजा दुःखमवाप स:॥५॥

तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् ॥ सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥६॥

अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ॥      मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥७॥

ततोऽसौ सत्यदेवस्य पूजां गोपगणै: सह ॥ भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृप:॥८॥

सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् ॥      इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥९॥

य इदं कुरुने सत्यव्रतं परमदुर्लभम् ॥            श्रुणोति च कथां पुण्यां भक्तियुक्तांफलप्रदाम्।१०॥

धनधान्यादिकं तस्य भवेत्सत्यप्रसादत: ॥      दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ॥११॥

भीतो भयात्प्रसुच्येत सत्यमेव न संशय: ॥    ईप्सितं च फलं भुक्त्त्वा चान्ते सत्यपुरं व्रजेत् ॥१२॥

इति व: कथितं विप्रा; सत्यनारायणव्रतम् ॥ यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानव: ॥१३॥

विशेषत: कलियुगे सत्यपूजा फलप्रदा ॥ केचित्कालं वदिष्यन्ति सत्यमीशं तमेव च ॥१४॥

सत्यनारायणं केचित्सत्यदेवं तथापरे ॥ नानारूपधरो भूत्वा सर्वेषामीप्सितप्रद: ॥१५॥

भविष्यति कलौ सत्यव्रतरूपी सनातन: ॥ श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥१६॥

य इदं पठते नित्यं श्रृणोति मुनिसत्तमा: ॥        तस्य नश्यन्ति पापानि सत्यदेवप्रसादत: ॥१७॥

व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च ॥          तेषां त्वपरजन्मानि कथयामि मुनीश्वरा: ॥१८॥

शतानन्दो महाप्राज्ञ: सुदामा ब्राह्मणो ह्मभूत ॥ तम्मिञ्जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥१९॥

काष्ठभारवहो भिल्लो गुहराजो बभूव ह ॥ तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्षं जगाम वै॥२०॥

उल्कामुखो महाराजो नृपो दशरथोऽभवत् ॥ श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठं तदागमत् ॥२१॥

धार्मिक: सत्यसन्धश्च साधुर्मोरध्वजोऽभवत् ॥ देहार्धं क्रकचैश्छित्वा दत्वा मोक्षमवाप ह ॥२२॥

तङ्गध्वजो महाराज: स्वायम्भुरभवत्किल ॥     सर्वान् भागवतान् कृत्वा श्रीवैकुण्ठं तदाऽगमत् ॥२३॥

    ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे। सत्यनारायणव्रतकथायां पञ्चमोऽध्याय: ॥५॥

  ॥ इति श्रीसत्यनारायणकथा समाप्ता ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें