गरुडपुराणम् आचारकाण्डःअध्यायः (१०८) गरुङ पुराण से उद्धृत नीति परक श्लोक-
← | श्रीगरुडमहापुराणम् १०८ |
।सूत उवाच।
नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम् ।
राजादिभ्यो हितं पुण्यमायुः स्वर्गादिदायकम् ॥ १,१०८.१॥
सद्भिः सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः।
नासद्भिरिहलोकाय परलोकाय वा हितम् ॥ १,१०८.२ ॥
वर्जयेत्क्षुद्रसंवादमदुष्टस्य तु दर्शनम् ।
विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना ।१,१०८.३॥
( काल परक नीति श्लोक-)
__________
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च ।
दुष्टानां संप्रयोगेण पण्डितोऽप्यवसीदति॥ १,१०८.४॥
_____________
ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् ।
शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥१,१०८.५॥
____________
कालेन रिपुणासन्धिः काले मित्रेण विग्रहः।
कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः॥ १,१०८.६॥
______________
कालः पचति भूतानि कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ १,१०८.७॥
कालेषु हरते वीर्यं काले गर्भे च वर्तते ।
कालो जनयते सृष्टिं पुनः कालोऽपि संहरेत्॥ १,१०८.८॥
कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते ।
स्थूलसंग्रहचारेण सूक्ष्मचारान्तरेण च॥१,१०८.९॥
_________________________________
नीतिसारं सुरेन्द्राय इममूच बृहस्पतिः ।
सर्वज्ञो येन चेन्द्रोऽभूद्दैत्यान्हत्वाप्नुयाद्दिवम्॥ १,१०८.१०॥
राजर्षिब्राह्मणैः कार्यं देवविप्रादिपूजनम् ।
अश्वमेधेन यष्टब्यं महापातकनाशनम् ॥ १,१०८.११ ॥
उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम् ।
अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ १,१०८.१२॥
_____________________________
परीवादं परार्थं च परिहासं परस्त्रियम् ।
परवेश्मनि वासं च न कुर्वीत कदाचन॥ १,१०८.१३॥
_____________________
परोऽपि हितवाबन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधम्॥ १,१०८.१४॥
____________________________
स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ १,१०८.१५॥
स भृत्यो यो विधेयस्तु तद्बीजं यत्प्ररोहति ।
सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥ १,१०८.१६ ॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति ।
गुणधर्मविहीनो यो निष्फल तस्य जीवनम् ॥ १,१०८.१७॥
सा भार्या या गृहे दक्षा सा भार्याया प्रियंवदा ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥ १,१०८.१८॥
नित्य स्नाता सुगन्धा च नित्यं च प्रियवादिनी ।
अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता॥ १,१०८.१९॥
सततं धर्मबहुला सततं च पतिप्रिया ।
सततं प्रियवक्री च सततं त्वृतुकामिनी॥ १,१०८.२०॥
एतदादिक्रियायुक्ता सर्वसौ भाग्यवर्धिनी ।
यस्येदृशी भवेद्भाय्या स देवेन्द्रोन मानुषः॥ १,१०८.२१॥
__________ भार्या परक श्लोक_________
यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया ।
उत्तरोत्तरवादा स्या सा जरा न जरा जरा॥ १,१०८.२२॥
_______________________
यस्य भार्या श्रितान्यञ्च परवेश्माभिकाङ्क्षिणी ।
कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा॥ १,१०८.२३॥
________________________
यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी ।
अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥ १,१०८.२४॥
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासोमृत्युरेव न संशयः॥ १,१०८.२५॥
________________________
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्र स्मर नित्यमनित्यताम्॥ १,१०८.२६॥
_________________________________
व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा या च रौद्री या कृष्णा व्याकुलागी रुधिरनयनसंव्याकुला व्याघ्रकल्पा।
क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विराक्त॥१,१०८.२७ ॥
सक्तिः सुतोके सुकृतं कृतघ्ने शतिं च वह्नौ (सीतापहौ ह्यतपयैव)? हैमे ।
उत्पद्यते दैववशात्कदाचिद्वेश्यासु रागो न भवेत्कदाचित् ॥१,१०८.२८॥
भुजङ्गमे वेश्मनि दृष्टिदृष्टे व्याधौ चिकित्साविनिवर्तिते च ।
देहे च बाल्यादिवयोऽन्विते च काला वृतोऽसौ लभते धृतिं कः ॥१,१०८.२९॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पतिप्रोक्तनीतिसारनिरूपणं नामाष्टोत्तरशततमोऽध्याायः
गरुडपुराणम् आचारकाण्डः अध्यायः (१०९)
।सूत उवाच।
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १,१०९.१ ॥
_______________
त्यजेदकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १,१०९.२ ॥
वरं हि नरके वासो न तु दुश्चरिते गृहे।
नरकात्क्षीयते पाप कुगृहान्न निवर्तते॥१,१०९.३।
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १,१०९.४॥
त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत् ।
त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत्॥ १,१०९.५॥
अर्थेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसंकुलेन ।
रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १,१०९.६ ॥
अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति मित्राः ।
अर्थैर्विहीनस्य पदच्युतस्य भवत्यकाले स्वजनोऽपि शत्रुः ॥ १,१०९.७ ॥
आपत्सु मित्रं जानी याद्रणे शूरं रहः शुचिम् ।
मार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ १,१०९.८ ॥
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसानिर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ।
पुष्पं पर्युषितं त्यजन्ति मधुपाः दर्ग्ध वनान्तं मृगाः सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥ १,१०९.९ ॥
लुब्धमर्थप्रदानेन श्लाध्यमञ्जलिकर्मणा।
मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम्॥ १,१०९.१०॥
_____________
सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः।
इतरेः खाद्यपानेन मानदानेन पण्डिताः॥ १,१०९.११॥
उत्तमं प्रणिपातेन शठं भेदेन योजयेत्।
नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः॥ १,१०९.१२॥
________________________________
यस्ययस्य हि यो भावस्तस्यतस्य हितं वदन् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्॥ १,१०९.१३ ॥
_________________________________
नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव गन्तव्यः स्त्रिषु राजकुलेषु च ॥ १,१०९.१४ ॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चाप मानं च मतिमान्न प्रिकाशयेत् ॥ १,१०९.१५ ॥
हीनदुर्जनसंसर्ग अत्यन्तविरहादरः ।
स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥ १,१०९.१६ ॥
कस्य दोषः कुले नास्ति व्याधिना को पीडितः ।
केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥ १,१०९.१७ ॥
कोर्ऽथं प्राप्य न गर्वितो भुवि नरः कस्यापदोनागताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोर्ऽथो गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ १,१०९.१८ ॥
सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न चात्मनि ।
यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः ।
विपत्तौ च महद्दुःखं तद्वुधः कथमाचरेत् ॥ १,१०९.१९ ॥
यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १,१०९.२० ॥
धनस्य यस्य राजतो भयं न चास्ति चौरतः ।
मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥ १,१०९.२१ ॥
यदर्जितं प्राणहरैः परिश्रमैर्मृतस्य तं वै विभजन्तिरिक्थिनः ।
कृतं च यद्दुष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥ १,१०९.२२ ॥
सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः ।
आखोरिव कदर्यस्य धनं दुः खाय केवलम् ॥ १,१०९.२३ ॥
नग्ना व्यसनिनो रूक्षाः कपालाङ्कितपाणयः ।
दर्शयन्तीह लोकस्य अदातुः फलमीदृशम् ॥ १,१०९.२४ ॥
शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः ।
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥ १,१०९.२५ ॥
सञ्चितं क्रतुशतैर्न युज्यते याचितं गुणवते न दीयते ।
तत्कदर्यपरिरक्षितं धनं चोरपार्थिवगृहे प्रयुज्यते ॥ १,१०९.२६ ॥
न देवेभ्यो न विप्रोभ्यो बन्धुभ्यो नैव चात्मने ।
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ १,१०९.२७ ॥
अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च ।
अरेर्वा प्रणिपातेन मा भूतस्ते कदाचन ॥ १,१०९.२८ ॥
__________________________
विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता ।
व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रपञ्चता ॥ १,१०९.२९ ॥
__________________________________
तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् ।
पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥ १,१०९.३० ॥
___________________________________
-ढोल गंवार शूद्र पशु नारी -
नारी स्वभाव परक नीति श्लोक-
दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः ।
ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥ १,१०९.३१ ॥
_____________________
जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे ।
मित्रमापदि काले च भार्याञ्च विभवक्षये ॥ १,१०९.३२ ॥
_________________________
स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १,१०९.३३ ॥
__________________________
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
न चेन्धनैर्जयेद्वह्निं न मद्येन तृषां जयेत् ॥ १,१०९.३४ ॥
___________________________
समांसैर्भोजनैः स्निग्धैर्मद्यैर्गन्धविलेपनैः ।
वस्त्रैर्मनोरमैर्माल्यैः कामः स्त्रीषु विजृम्भते ॥ १,१०९.३५ ॥
____________
ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम् ।
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥ १,१०९.३६ ॥
___________________
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
योनिः क्लिद्यति नारीणां सत्यंसत्यं हि शौनक ! ॥ १,१०९.३७ ॥
___________________________________
नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिकेच ।
तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुला नि नार्यः ॥ १,१०९.३८ ॥
__________________
नदी पातयते कूलं नारी पातयते कुलम् ।
नारीणाञ्च नदीनां च स्वच्छन्दा ललिता गतिः ॥ १,१०९.३९ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १,१०९.४० ॥
न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम् ।
सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥ १,१०९.४१ ॥
_________
राजा न तप्तो धनसंचयेन न सागरस्तृप्तिमगाज्जलेन ।
न पण्डितस्तृप्यति भाषितेन तृप्तं न चक्षुर्नृपदर्शनेन ॥ १,१०९.४२ ॥
________
स्वकर्म धर्मार्जितजीवितानां शास्त्रेषु दारेषु सदा रतानाम् ।
जितेन्द्रियाणामतिथिप्रियाणां गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥१,१०९.४३॥
मनोऽनुकूलाः प्रमदारूपवत्यः स्वलङ्कृताः।
वसः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः॥ १,१०९.४४॥
________________________________
न दानेन न मानेन नार्जवेन न सवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः॥ १,१०९.४५॥
शनैर्विद्या शनैर्थाः शनैः पर्वतमारुहेत् ।
शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः॥ १,१०९.४६॥
शाश्वतं देवपूजादि विप्रदानं च शाश्वतम् ।
शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥ १,१०९.४७॥
_______________________________
ये बालभावान्न पठन्ति विद्यां ये यौवनस्था ह्यधनात्मदाराः ।
ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥१,१०९.४८॥
पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः ।
सुदूरमपि विद्यार्थो व्रजेद्गरुडवेगवान् ॥१,१०९.४९॥
ये बालभावे न पठन्ति विद्यां कामातुरा यौवननष्टवित्ताः ।
ते वृद्धबावे परिभूयमानाः संदह्यमानाः शिशिरे यथाब्जम् ॥१,१०९.५०॥
__________________________________
तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १,१०९.५१ ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ १,१०९.५२ ॥
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ।
उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥ १,१०९.५३ ॥
अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च ।
योगाद्भ्रष्टः सत्यधृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ १,१०९.५४ ॥
______________________________________
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे नवोत्तरशततमोऽध्यायः।
गरुडपुराणम् आचारकाण्डः अध्यायः (१११)
।सूत उवाच।
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् ।सर्वाणि हि महीपालः सम्यङ्नित्यं परीक्षयेत् ॥ १,१११.१ ॥
राज्यं पालयते नित्यं सत्यधर्मपरायणः । निर्जित्य परसैन्यानि क्षितं धर्मेण पालयेत् ॥ १,१११.२ ॥
पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।मालाकार इवारण्ये न यथाङ्गारकारकः ॥ १,१११.३ ॥
दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते ।परराष्ट्रं महीपालैर्भोक्तव्यं न च दूषयेत्॥१,१११.४॥
नोधश्छिन्द्यात्तु यो धेन्वाः क्षारार्थो लभते पयः । एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते॥१,१११.५॥
तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेन् । पालकस्य भवेद्भूमिः कीर्तिरायुर्यशो बलम् ॥ १,१११.६ ॥
आभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः ।प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः ॥ १,१११.७ ॥
ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मतिञ्चरेत् । क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ॥ १,१११.८ ॥
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु वै वनितापाङ्गभङ्गिलोलं हि जीवितम् ॥ १,१११.९ ॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रभवन्ति गात्रे ।
आयुः परिस्त्रवति भिन्नघटादिवाम्भो लोको न चात्महितमाचरतीह कश्चित् ॥ १,१११.१० ॥
निःशङ्कं किं मनुष्याः कुरुत परहितं युक्तमग्रे हितं यन्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्ट्या ।
मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव आयुर्निः शेषमेति स्खलति जलघटीभूतमृत्युच्छलेन ॥ १,१११.११ ॥
______________________
मातृवत्परदारेषु परद्रव्येषु लोष्टवत् ।आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १,१११.१२ ॥
एतदर्थं हि विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः । यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ १,१११.१३ ॥
एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम् ।रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ॥ १,१११.१४ ॥
ओङ्कारशब्दो विप्राणां येन राष्ट्रं प्रवर्धते । स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते ॥ १,१११.१५ ॥
असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम् । किं पुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः ॥ १,१११.१६ ॥
_______________
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।यस्यार्थाः स मुमांल्लाके यस्यार्थाः स च पण्डितः ॥ १,१११.१७ ॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । ते चार्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १,१११.१८ ॥
अन्धा हि राजा भवति यस्तु सास्त्रविवर्जितः ।अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १,१११.१९ ॥
___________
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः ।इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि ॥ १,१११.२० ॥
येनार्जितास्त्रयोऽप्योऽप्येते पुत्रा भृत्याश्च बान्धवाः ।जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा ॥ १,१११.२१ ॥
लङ्घयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च । सहि नश्यति वै राजा इह लोके परत्र च ॥ १,१११.२२ ॥
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः ।समबुद्धिः प्रसन्नात्मा प्रसन्नात्मा सुखदुःखे समो भवेत् ॥ १,१११.२३ ॥
धीराः कष्टमनुप्राप्य न भवन्ति विषादिनः । प्रविश्य वदनं राहोः किं नोदति पुनः शशी ॥ १,१११.२४ ॥
धिग्धिक्शरीरसुखलालितमानवेषु मा खेदयेद्धनकृशं हि शरीरमेव ।
सद्दारका ह्यधनपाण्डुसुताः श्रुता हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः ॥ १,१११.२५ ॥
_______________________________
गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान् ।धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः ॥ १,१११.२६ ॥
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः । स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम् ॥ १,१११.२७ ॥
चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेत् । मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ १,१११.२८ ॥
लीलां करोति यो राजा भृत्यस्वजनगर्वितः । शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते ॥ १,१११.२९ ॥
हुङ्कारे भृकुटीं नैव सदा कुर्वीत पार्थिवः । विना दोषेण यो भृत्यान्राजाधमण शास्ति च ।लीलासुखानि भोग्यानि त्यजेदिह महीपतिः ॥ १,१११.३० ॥
सुखप्रवृत्तैः साध्यन्तै शत्रवो विग्रहे स्थितैः ॥ १,१११.३१ ॥
उद्योगः साहसंधैर्यं बुद्धिः शक्तिः पराक्रमः ।षड्विधो यस्य उत्साहस्तस्य देवोऽपि शङ्कते ॥ १,१११.३२ ॥
उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते । दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥ १,१११.३३॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे एकादशोत्तरशततमोऽध्याय
गरुडपुराणम् आचारकाण्डः अध्यायः (१०)
( श्रीगरुडमहापुराणम् १०९)
।सूत उवाच ।
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १,१०९.१ ॥
___________________
त्यजेदकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १,१०९.२ ॥
वरं हि नरके वासो न तु दुश्चरिते गृहे ।
नरकात्क्षीयते पाप कुगृहान्न निवर्तते॥१,१०९.३॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १,१०९.४ ॥
त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत् ।
त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत् ॥ १,१०९.५ ॥
________________________________
अर्थेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसंकुलेन ।
रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १,१०९.६ ॥
अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति मित्राः ।
अर्थैर्विहीनस्य पदच्युतस्य भवत्यकाले स्वजनोऽपि शत्रुः ॥ १,१०९.७ ॥
_________________________________
आपत्सु मित्रं जानी याद्रणे शूरं रहः शुचिम् ।
मार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ १,१०९.८ ॥
______________________
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः।
पुष्पं पर्युषितं त्यजन्ति मधुपाः दर्ग्ध वनान्तं मृगाः सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥ १,१०९.९ ॥
लुब्धमर्थप्रदानेन श्लाध्यमञ्जलिकर्मणा ।
मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम् ॥ १,१०९.१० ॥
सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः ।
इतरेः खाद्यपानेन मानदानेन पण्डिताः ॥ १,१०९.११ ॥
उत्तमं प्रणिपातेन शठं भेदेन योजयेत् ।
नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः ॥ १,१०९.१२ ॥
यस्ययस्य हि यो भावस्तस्यतस्य हितं वदन् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ १,१०९.१३ ॥
नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव गन्तव्यः स्त्रिषु राजकुलेषु च ॥ १,१०९.१४ ॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चाप मानं च मतिमान्न प्रिकाशयेत् ॥ १,१०९.१५ ॥
हीनदुर्जनसंसर्ग अत्यन्तविरहादरः ।
स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥ १,१०९.१६ ॥
कस्य दोषः कुले नास्ति व्याधिना को पीडितः ।
केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥ १,१०९.१७ ॥
कोर्ऽथं प्राप्य न गर्वितो भुवि नरः कस्यापदोनागताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोर्ऽथो गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ १,१०९.१८ ॥
सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न चात्मनि ।
यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः ।
विपत्तौ च महद्दुःखं तद्वुधः कथमाचरेत् ॥ १,१०९.१९ ॥
यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १,१०९.२० ॥
धनस्य यस्य राजतो भयं न चास्ति चौरतः ।
मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥ १,१०९.२१ ॥
यदर्जितं प्राणहरैः परिश्रमैर्मृतस्य तं वै विभजन्तिरिक्थिनः ।
कृतं च यद्दुष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥ १,१०९.२२ ॥
सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः ।
आखोरिव कदर्यस्य धनं दुः खाय केवलम् ॥ १,१०९.२३ ॥
नग्ना व्यसनिनो रूक्षाः कपालाङ्कितपाणयः ।
दर्शयन्तीह लोकस्य अदातुः फलमीदृशम् ॥ १,१०९.२४ ॥
शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः ।
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥ १,१०९.२५ ॥
सञ्चितं क्रतुशतैर्न युज्यते याचितं गुणवते न दीयते ।
तत्कदर्यपरिरक्षितं धनं चोरपार्थिवगृहे प्रयुज्यते ॥ १,१०९.२६ ॥
न देवेभ्यो न विप्रोभ्यो बन्धुभ्यो नैव चात्मने ।
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ १,१०९.२७ ॥
अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च ।
अरेर्वा प्रणिपातेन मा भूतस्ते कदाचन ॥ १,१०९.२८ ॥
विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता ।
व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रपञ्चता ॥ १,१०९.२९ ॥
तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् ।
पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥ १,१०९.३० ॥
दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः ।
ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥ १,१०९.३१ ॥
जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे ।
मित्रमापदि काले च भार्याञ्च विभवक्षये ॥ १,१०९.३२ ॥
स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १,१०९.३३ ॥
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
न चेन्धनैर्जयेद्वह्निं न मद्येन तृषां जयेत् ॥ १,१०९.३४ ॥
समांसैर्भोजनैः स्निग्धैर्मद्यैर्गन्धविलेपनैः ।
वस्त्रैर्मनोरमैर्माल्यैः कामः स्त्रीषु विजृम्भते ॥ १,१०९.३५ ॥
ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम् ।
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥ १,१०९.३६ ॥
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
योनिः क्लिद्यति नारीणां सत्यंसत्यं हि शौनक ! ॥ १,१०९.३७ ॥
नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिकेच ।
तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुला नि नार्यः ॥ १,१०९.३८ ॥
नदी पातयते कूलं नारी पातयते कुलम् ।
नारीणाञ्च नदीनां च स्वच्छन्दा ललिता गतिः ॥ १,१०९.३९ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १,१०९.४० ॥
न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम् ।
सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥ १,१०९.४१ ॥
राजा न तप्तो धनसंचयेन न सागरस्तृप्तिमगाज्जलेन ।
न पण्डितस्तृप्यति भाषितेन तृप्तं न चक्षुर्नृपदर्शनेन ॥१,१०९.४२ ॥
स्वकर्म धर्मार्जितजीवितानां शास्त्रेषु दारेषु सदा रतानाम् ।
जितेन्द्रियाणामतिथिप्रियाणां गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥ १,१०९.४३ ॥
मनोऽनुकूलाः प्रमदारूपवत्यः स्वलङ्कृताः ।
वसः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः ॥ १,१०९.४४ ॥
न दानेन न मानेन नार्जवेन न सवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः ॥ १,१०९.४५ ॥
शनैर्विद्या शनैर्थाः शनैः पर्वतमारुहेत् ।
शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः ॥ १,१०९.४६ ॥
शाश्वतं देवपूजादि विप्रदानं च शाश्वतम् ।
शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥ १,१०९.४७ ॥
ये बालभावान्न पठन्ति विद्यां ये यौवनस्था ह्यधनात्मदाराः ।
ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥ १,१०९.४८ ॥
पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः ।
सुदूरमपि विद्यार्थो व्रजेद्गरुडवेगवान्॥१,१०९.४९॥
ये बालभावे न पठन्ति विद्यां कामातुरा यौवननष्टवित्ताः ।
ते वृद्धबावे परिभूयमानाः संदह्यमानाः शिशिरे यथाब्जम् ॥ १,१०९.५० ॥
तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १,१०९.५१ ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ १,१०९.५२ ॥
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ।
उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥ १,१०९.५३ ॥
अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च ।
योगाद्भ्रष्टः सत्यधृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ १,१०९.५४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे नवोत्तरशततमोऽध्यायः
________________________________
गरुडपुराणम्/आचारकाण्डः/अध्यायः ११३
< गरुडपुराणम् | आचारकाण्डः
← आचारकाण्डः, अध्यायः ११२ गरुडपुराणम्
।सूत उवाच।
गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् ।पण्डितस्य गुणाः सर्वे मूर्वे दोषाश्च केवलाः॥ १,११३.१॥
सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गतिम् ।सद्भिर्विवादं मैत्रीञ्च नासद्भिः किञ्चिदाचरेत् ॥ १,११३.२ ॥
पण्डितैश्च विर्नातैश्च धर्मशैः सत्यवादिभिः ।बन्ध्स्थोऽपि तिष्ठेच्च न तु राज्ये खलैः सह ॥ १,११३.३ ॥
सावशेषाणि कार्याणि कुवत्रर्थे युज्यते ।तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १,११३.४ ॥
मधुहेव दुहेत्सारं कुसुमञ्च न घातयेत् । वत्सापेक्षी दुहेत्क्षीरं भूमिं गाञ्चैव पार्थिपः ॥ १,११३.५ ॥
यथाक्रमेण पुष्पेभ्यश्चिनुते मधु षट्पदः । तथा वित्तमु पादाय राजा कुर्वीत सञ्चयम् ॥ १,११३.६ ॥
वल्मीकं मधुजालञ्च शुक्लण्क्षे तु चन्द्रमाः ।राजद्रव्यञ्च भैक्ष्यञ्च स्तोकंस्तोकं प्रवर्धते ॥ १,११३.७ ॥
अर्जितस्य क्षयं दृष्टा संप्रदत्तस्य सञ्चयम् । अवन्ध्यं दिवसं कुर्याद्दानध्ययनकर्मसु॥१,११३.८॥
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ १,११३.९ ॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते पात्रं कुलं शलिन रक्ष्यते ॥ १,११३.१० ॥
वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं वरं सर्पाकीर्णे शयनमथ कूपे निपतनम् ।
वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥ १,११३.११ ॥
भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः । पूर्वार्जिते हि सुकृते न नश्यन्ति कदाचन ॥ १,११३.१२ ॥
विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः । नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥ १,११३.१३ ॥
एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शुराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः ।
ते वै दुष्टग्रहस्थाः कृपणवशगता भैक्ष्यचर्यां प्रयाताः को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥ १,११३.१४ ॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रोयेन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तरमै नमः कर्णणे ॥ १,११३.१५ ॥
दाता बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये ।
दत्त्वा फलं बन्धनमेव लब्धं नमोऽस्तु ते दैव यथेष्टकारिणे ॥ १,११३.१६ ॥
माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः ।कुबुद्धौ प्रतिपत्तिश्चैत्तस्मिन्दण्डः पतेत्सदा ॥ १,११३.१७ ॥
येनयेन यथा यद्वत्पुरा कर्म सुनिश्चितम् ।तत्तदेवान्तरा भुङ्क्ते स्वयमाहितमात्मना ॥ १,११३.१८ ॥
आत्मना विहितं दुः खमात्मना विहितं सखम् ।गर्भशय्यामुपादाय भुङ्क्ते वै पौर्वदैहिकम् ॥ १,११३.१९ ॥
न चान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रवेशे न मातृमूर्ध्नि प्रधृतस्तथाङ्के त्यक्तुं क्षमः कर्म कृतं नरो हि ॥ १,११३.२० ॥
दुगस्त्रिकूटः परिखा समुद्रो रक्षांसि योधाः परमा च वृत्तिः ।
शास्त्रञ्च वै तूशनसा प्रदिष्टं स रावणः कालवशाद्विनष्टः ॥ १,११३.२१ ॥
यस्मिन्वयसि यत्काले यद्दिवा यच्च वा निशि ।यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥ १,११३.२२ ॥
गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महीतले ।धारयन्ति दिशः सर्वा नादत्तमुपलभ्यते ॥ १,११३.२३ ॥
पुराधीता च या विद्या पुरा दत्तञ्च यद्धनम् । पुरा कृतानि कर्माणि ह्यग्रे धावन्ति धावतः ॥ १,११३.२४ ॥
कर्माण्यत्र प्रधानानि सम्यगृक्षे शुभग्रहे ।वसिष्ठकृतलग्नापि जानकी दुः खभाजनम् ॥ १,११३.२५ ॥
स्थूलजङ्घो यदा रामः शब्दगामी च लक्ष्मणः ।घनकेशी यदा सीता त्रयस्ते दुः खभाजनम् ॥ १,११३.२६ ॥
न पितुः कर्मणा पुत्रः पिता वा पुत्रकर्मणा । स्वयं कृतेन गच्छन्ति स्वयं बद्धाः स्वकर्मणा ॥ १,११३.२७ ॥
कर्मजन्यशरीरेषु रोगाः शरीरमानसाः । शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ १,११३.२८ ॥
अन्यथा शास्त्रगार्भिण्या धिया धीरोर्ऽथमीहते ।स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥ १,११३.२९ ॥
बालो युवा च वृद्धश्च यः करोति शुभाशुभम् ।तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १,११३.३० ॥
अनीक्षमाणोऽपि नरो विदेशस्थोऽपि मानवः ।स्वकर्मपातवातेन नीयते यत्र तत्फलम् ॥ १,११३.३१ ॥
प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः ।
अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति (यदस्मदीयं न तु तत्परेषाम् ॥ १,११३.३२॥
सर्पः कूपे गजः स्कन्धे बिल आखुश्च धावति । नरः शीघ्रतरादेव कर्मणः कः पलायते ॥ १,११३.३३ ॥
नाल्पा भवति सद्विद्या दीयमानापि वर्धते ।कूपस्थमिव पानीयं भवत्येव बहूदकम् ॥ १,११३.३४ ॥
येर्ऽथा धर्मेण ते सत्या येऽधर्मेण गताः श्रियः ।धर्मार्थो च महांल्लोके तत्स्मृत्वा ह्यर्थकारणात् ॥ १,११३.३५ ॥
अन्नार्थो यानि दुः खानि करोति कृपणो जनः ।तान्येव यदि धर्मार्थो न भूयः क्लेशभाजनम् ॥ १,११३.३६ ॥
सर्वेषामेव शौचानामन्नशौचं विशिष्यते । योऽन्नार्थैः शुचिः शौचान्न मृदा वारिणा शुचिः ॥ १,११३.३७ ॥
सत्यं शौचं मनः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूते दया शौचं जलशौचञ्च पञ्चमम् ॥ १,११३.३८ ॥
यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ।सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥ १,११३.३९ ॥
मृत्तिकानां सहस्रेण चोदकानां शतेन हि । न शुध्यति दुराचारो भावोपहतचेतनः ॥ १,११३.४० ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १,११३.४१ ॥
न प्रहृष्यति संमानैर्नावमानैः प्रकुप्यति । न क्रुद्धः परुषं ब्रूयादेतत्साधोस्तु लक्षणम् ॥ १,११३.४२ ॥
दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च । काले श्रुत्वा हितं वाक्यं न कश्चित्परितुष्यति ॥ १,११३.४३ ॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च । अलभ्यं लभ्यते मर्त्यैस्तत्र का परिवेदना ॥ १,११३.४४ ॥
अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गतः।यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ १,११३.४५॥
एकवृक्षे सदा रात्रौ नानापक्षिसमागमः ।प्रभातेऽन्यदिशो यान्ति का तत्र परिवेदना ॥ १,११३.४६ ॥
एकसार्थप्रयाताना सर्वेषान्तत्र गामिनाम् ।यस्त्वेकस्त्वरितो याति का तत्र परिवेदना ॥ १,११३.४७ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक ।अव्यक्तनिधनान्येनव का तत्र परिवेदना ॥ १,११३.४८ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । कुशाग्रेण तु संस्पृष्टं प्राप्तकालो न जीवति ॥ १,११३.४९ ॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।प्राप्तव्यान्येव प्राप्नाति दुः खानि च सुखानि च ॥ १,११३.५० ॥
तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति ।आचोद्यमानानि यथा पुष्पाणि च फलानि च ।स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १,११३.५१ ॥
शीलं कुलं नैव न चैव विद्या ज्ञानं गुणा नैव न बीजशुद्धिः ।
भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः ॥ १,११३.५२ ॥
तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः । तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥ १,११३.५३ ॥
भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति । यथा धेनुसहस्रेषु वत्सो विन्दन्ति मातरम् ॥ १,११३.५४ ॥
एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठाति । सुकृतं भुङ्क्ष्व चात्मीयं मूढ किं परितप्यसे ॥ १,११३.५५ ॥
यथा पूर्वकृतं कर्म शुभं वा यदि वाशुभम् । तथा जन्मान्तरे तद्वै कर्ता रमनुगच्छति ॥ १,११३.५६ ॥
नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति ।आत्मनो बलिवमात्राणि पश्यन्नपि न पश्यति ॥ १,११३.५७ ॥
रागद्वेषादियुक्तानां न सुखं कुत्रचिद्द्विज । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १,११३.५८ ॥
यत्र स्नेहो भयं तत्र स्नेहो दुः खस्य भाजनम् ।स्नेहमूलानि दुः खानि तस्मिस्त्यक्ते महत्सुखम् ॥ १,११३.५९ ॥
शरीरमेवायतनं दुः खस्य च सुखस्य च । जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥ १,११३.६० ॥
सर्वं परवशं दुः खं सर्व मात्मवशं सुखम् ।एतद्विद्यात्समासेन लक्षणं सुखदुः खयोः ॥ १,११३.६१ ॥
सुखस्यानन्तरं दुः खं दुः खस्यानन्तरं सुखम् । शुखं दुः खं मनुष्याणां चक्रवत्परिवर्तते ॥ १,११३.६२ ॥
यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः । वर्तमानेन वर्तेत न स शोकेन बाध्यते ॥ १,११३.६३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे त्रयोशोत्तरशततमोऽध्यायः
गरुडपुराणम् आचारकाण्डः अध्यायः (११४)
नश्रीगरुडमहापुराणम् ११४
।सूत उवाच।
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ १,११४.१ ॥
शोकत्राणं भयत्राणं प्रीतिविश्वासभाजनम् ।
केन रत्नांमदं सृष्टं मित्रमित्यक्षरद्वयम् ।१,११४.२॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥१,११४.३॥
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १,११४.४ ॥
यदिच्छेच्छाश्वतीं प्रीतिं त्रीन्दोषान्परिवर्जयेत् ।
द्युतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥१,११४.५॥
मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो वसेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १,११४.६ ॥
विपरीतरतिः कामः स्वायतेषु न विद्यते ।
यथोपायो वधो दण्डस्तथैव ह्यनु वर्तते ॥ १,११४.७ ॥
अपि कल्पानिलस्यैव तुरगस्य महोदधेः ।
शक्यते प्रसरो बोद्धुं न ह्यरक्तस्ये चतसः ॥ १,११४.८ ॥
क्षणो नास्ति रहो नास्ति न स्ति प्रार्थयिता जनः।
तेन शौनक नारीणां सतीत्वमुपजायते॥१,११४.९॥
एक वै सेवते नित्यमन्यश्चेतपि रोचते ।
पुरुषाणामलाभेन नारी चैव पतिव्रता॥१,११४.१०॥
जननी यानि कुरुते रहस्यं मदनातुरा ।
सुतैस्तानि न चिन्त्यानि शीलविप्रतिपत्तिभिः॥ १,११४.११॥
पराधीना निद्रा परदृदयकृत्यानुसरणं सदा हेला हास्यं नियतमपि शोकेन रहितम्।
पणे न्यस्तः कायो विटजनखुरैर्दारितगलो बहूत्कण्ठवृतिर्जगति गणिक्राया बहुमतः॥ १,११४.१२॥
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं परोपसेव्यानि सद्यः प्राणहराणि षट्॥ १,११४.१३॥
___________________________
किं चित्रं यदि वेद (शब्द) शास्त्रकुशलो विप्रो भवेत्पण्डितः किं चित्रं यदि दण्डनीतिकुशलो राजा भवेद्धार्मिकः ।
किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात्क्रचित् ॥ १,११४.१४ ॥
नात्मच्छिद्रं परे दद्याद्विद्याच्छिद्रं परस्य च ।
गूहेत्कूर्म इवाङ्गानि परभावञ्च लक्षयेत् ॥ १,११४.१५ ॥
पातालतलवा सिन्य उच्चप्राकारसंस्थिताः ।
यदि नो चिकुरोद्भेदाल्लभ्यन्ते कैः स्त्रियो न हि ॥ १,११४.१६ ॥
समधर्मा हि मर्मज्ञस्तीक्ष्णः स्वजनकण्टकः ।
न तथा बाधते शत्रुः कृतवैरो बहिः स्थितः ॥ १,११४.१७ ॥
स पण्डितो यो ह्यनुञ्जयेद्वै मिष्टेन बालं विनियेन शिष्टम् ।
अर्थेन नारीं तपसा हि देवान्सर्वांश्च लोकांश्च सुसंग्रहेण ॥ १,११४.१८ ॥
छलेन मित्रं कलुषेण धर्मं परोपतापेन समृद्धिभावनम् ।
सुखेन विद्यां पुरुषेण नारीं वाञ्छन्ति वै ये न च पण्डितास्ते ॥ १,११४.१९ ॥
फलार्थो फलिनं वृक्षं यश्छिन्द्याद्दुर्मतिर्नरः ।
निष्फलं तस्य वै कार्यां महादोषमवाप्नुयात् ॥ १,११४.२०॥
सधनो हि तपस्वी च दूरतो वै कृतश्रमः ।
मद्यप स्त्री सतीत्येवं विप्र न श्रद्दधाम्यहम् ॥ १,११४.२१ ॥
न विश्वसेदविश्वस्ते मित्रस्यापि न विश्वसेत् ।
कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ १,११४.२२ ॥
सर्वभूतेषु विश्वासः सर्वभूतेषु सात्त्विकः ।
स्वबावमात्मना गूहेदेतत्साधोर्हि लक्षणम् ॥ १,११४.२३ ॥
यस्मिन्कस्मिन्कृते कार्ये कर्तारमनुवर्तते ।
सर्वथा वर्तमानोऽपि धैर्यबुद्धिन्तु कारयेत् ॥ १,११४.२४ ॥
वृद्धाः स्त्रियो नवं मद्यं शुष्कं मांसं त्रिमूलकम् ।
रात्रौ दधि दिवा स्वप्नं विद्वान्षट्परिवर्जयेत् ॥ १,११४.२५ ॥
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ।
विषं कुशिक्षिता विद्या अजीर्णे भोजनं विषम् ॥ १,११४.२६ ॥
प्रियं गानमकुण्ठस्य नीचस्योच्चासनं प्रियम् ।
प्रियं दानं दरिद्रस्य भूनश्चतरुणी प्रिया ॥ १,११४.२७ ॥
अत्यम्बुपानं कठिनाशनञ्च धातुक्षयोवेगविधारणञ्च ।
दिवाशयो जागरणञ्च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥ १,११४.२८ ॥
बालातपश्चाप्यतिमैथुनञ्च श्मशानधूमः करतापनञ्च ।
रजस्वलावत्क्रनिरीक्षणञ्च सुदीर्घमायुर्ननु कर्षयेच्च ॥ १,११४.२९ ॥
शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ १,११४.३० ॥
सद्यः पक्रघृतं द्राक्षा बाला स्त्री क्षीरभोजनम् ।
उष्णोदकं तरुच्छाया सद्यः प्राणहराणि षट् ॥ १,११४.३१ ॥
_________________
ज्ञान प्रदेश श्लोक-
कूपादकं वटच्छाया नारीणाञ्च पयोधरः ।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥ १,११४.३२ ॥
त्रयो बलकराः सद्यो बालाभ्यङ्गसुभोजनम् ।
त्रयो बलहराः सद्यो ह्यध्वा वे मैथुनं ज्वरः ॥ १,११४.३३ ॥
शुष्कं मांसं पयो नित्यं भार्यामित्रैः सहैव तु ।
न भाक्तव्यं नृपैः सार्धं वियोगं कुरुते क्षणात् ॥ १,११४.३४ ॥
_______________
कुचेलिन दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् ।
सूर्योदये ह्यस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥ १,११४.३५ ॥
नित्यं छेदस्तृणानं धरणिविलखनं पादयोश्चापमार्ष्टिः दन्तानामप्यशौचं मलिनवसनता रूक्षता मूर्धजानाम् ।
द्वे सध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्गे पीठे च वाद्यं निधनमुपनयेत्केशवस्यापि लक्ष्मीम्॥१,११४.३६॥
शिरः सुधौतं चरणौ सुमार्जितौ वराङ्गनासेवनमल्पभोजनम् ।
अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥ १,११४.३७ ॥
यस्य कस्य तु पुष्पस्य पाणाडरस्य विशेषतः ।
शिरसा धार्यमाणस्य ह्यलक्ष्मीः प्रतिहन्यते ॥ १,११४.३८ ॥
दीपस्य पश्चिमा छाया छाया शय्यासनस्य च ।
रजकस्य तु यत्तीर्थलक्ष्मीस्तत्र तिष्ठति ॥ १,११४.३९ ॥
_________________________
बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि ।
आयुष्कामो न सेवेत तथा संमार्जनीरजः ॥ १,११४.४० ॥
गजाश्वरथधान्यानां गवाञ्चैव रजः शुभम् ।
अशुभं च विजानीयात्खरोष्ट्रजाविकेषु च ॥ १,११४.४१ ॥
गवां रजो धान्यरजः पुत्रस्याङ्गभवं रजः ।
एतद्रजो महाशस्तं महापातकनाशनम् ॥ १,११४.४२ ॥
अजारजः खररजो यत्तु संमार्जनीरजः ।
एतद्रजो महापापं महाकिल्बिषकारकम् ॥ १,११४.४३ ॥
शूर्पवातो नखाग्राम्बु स्नानवस्त्रमृजोदकम् ।
केशाम्बु मार्जनीरेणुर्हन्ति पुण्यं पुरा कृतम् ॥ १,११४.४४ ॥
विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिनोस्तथा ।
अन्तरेण न गन्तव्यं हयस्य वृषभस्य च ॥ १,११४.४५ ॥
स्त्रीषु राजाग्निसर्पेषु स्वाध्याये शत्रुसेवने ।
भोगास्वादेषु विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ १,११४.४६ ॥
न विश्वसेदविश्वस्तं विश्वस्तं विश्वस्तं नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥ १,११४.४७ ॥
वैरिणा सह सन्धाय विश्वस्तो यदि तिष्ठति ।
स वृक्षाग्रे प्रसुप्तो हि पतितः प्रतिबुध्यते ॥ १,११४.४८ ॥
नात्यन्तं मृदुना भाव्यं नात्यन्तं कूरकर्मणा ।
मृदुनैव मृदुं हन्ति दारुणेनैव दारुणम् ॥ १,११४.४९ ॥
नात्यन्तं सरलैर्भाव्यं नात्यन्तं मृदुना तथा ।
सरलास्तत्र छिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥ १,११४.५० ॥
नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः ।
शुष्कवृक्षाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ १,११४.५१ ॥
अप्रार्थितानि दुः खानि यथैवायान्ति यान्ति च ।
मार्जार इव लुम्पेत तथा प्रार्थयितार नरः ॥ १,११४.५२ ॥
पूर्वं पश्चाच्चरन्त्यार्ये सदैव बहुसम्पदः ।
विपरीतमनार्ये च यथेच्छसि तथा चर ॥ १,११४.५३ ॥
षट्कर्णो भिद्यते मन्त्रश्चतुः कर्णश्चधार्यते ।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्त न बुध्यते ॥ १,११४.५४ ॥
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
कोर्ऽथ पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ १,११४.५५ ॥
___________________
एकेनापि सुपुत्रेण विद्यायुक्तेन धीमता ।
कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा॥१,११४.५६॥
____________________
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वनं सुवासितं सर्वं सुपुत्रेण कुलं यथा ॥ १,११४.५७ ॥
__________________
एको हि गुणवान्पुत्रो निर्गुणेन शतेन किम् ।
चन्द्रो हन्ति तमांस्येको न च ज्योतिः सहस्रकम् ॥ १,११४.५८ ॥
_______________________
लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ १,११४.५९ ॥
____________________________
जायमानो हरेद्दारान् वर्धमानो हरेद्धनम् ।
म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥ १,११४.६० ॥
केचिन्मृगमुखा व्याघ्राः केचिद्व्याघ्रमुखा मृगाः ।
तत्स्वरूपपहिज्ञाने ह्यविश्वासः पदेपदे ॥ १,११४.६१ ॥
____________________
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ १,११४.६२ ॥
एतदेवानुमन्येत भोगा हि क्षणभङ्गिनः ।
स्निग्धेषु च विदग्धस्य मतयो वै ह्यनाकुलाः ॥ १,११४.६३ ॥
ज्येष्ठः पितृसमो भ्राता मृते पितरि शौनक ।
सर्वेषां स पिता हि स्यात्सर्वेषामनुपालकः ॥ १,११४.६४ ॥
कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते ।
समापभोगजीवेषु यथैवं तनयेषु च॥१,११४.६५ ॥
बहूनामल्पसाराणां समवायो हि दारुणः ।
तृणैरावेष्टिता रज्जुस्तया नागोऽपि बध्यते ॥ १,११४.६६ ॥
अपहृत्य परस्वं हि यस्तु दानं प्रयच्छति ।
स दाता नरकं याति यस्यार्थास्तस्य तत्फलम् ॥ १,११४.६७ ॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १,११४.६८ ॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १,११४.६९ ॥
नाश्रन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः ।
भार्याजितस्य नाश्रन्ति यस्याश्चोपपतिर्गृहे ॥ १,११४.७० ॥
अकृजज्ञमनार्यञ्च दीर्धरोषमनार्जवम् ।
चतुरो विद्धि चाण्डालाञ्जात्या जायेत पञ्चमः ॥ १,११४.७१ ॥
नोपेक्षितव्यो दुर्बद्धि शत्रुरल्पोऽप्यवज्ञया ।
वह्निरल्पोऽप्यसंहार्यः कुरुते भस्मसाज्जगत् ॥ १,११४.७२ ॥
नवे वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १,११४.७३ ॥
पन्थान इव विप्रेन्द्र सर्वसाधारणाः श्रियः ।
मदीया इति मत्वा वै न हि हर्षयुतो भवेत् ॥ १,११४.७४ ॥
चित्तायत्तं धातुवश्यं शरीरं चित्ते नष्टे धातवो यान्ति नाशम् ।
तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते धातवः सम्भवन्ति ॥ १,११४.७५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे चतुर्दशोत्तरशततमोऽध्यायः।
गरुडपुराणम् आचारकाण्डः अध्यायः (११५)
।सूत उवाच।
कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम् । कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥ १,११५.१ ॥
_______________________
धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥ १,११५.२ ॥
धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ।परचित्तगतान् दारान्पुत्रं कुव्यसने स्थितम् ॥ १,११५.३ ॥
कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः । सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥ १,११५.४ ॥
परान्नं च परस्वं च परशय्याः परस्त्रियः । परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥ १,११५.५ ॥
आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात् ।आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥ १,११५.६ ॥
_____________________________
स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति । गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः॥१,११५.७॥
आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात् ।ततः संक्रमते पापं घटाद्धट इवोदकम् ॥१,११५.८॥
लालने बहवो दोषास्ताडने बहवो गुणाः ।तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥ १,११५.९ ॥
______________
अध्वा जरा देहवतां पर्वतानां जलं जरा ।असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥ १,११५.१० ॥
_________________________
अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः ।उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.११ ॥
मानो हि मूलमर्थस्य माने सति धनेन किम् ।प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ १,११५.१२ ॥
अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.१३ ॥
वनेऽपि सिंहा न नमन्ति कं च बुभुक्षिता मांसनिरीक्षणं च ।
धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥ १,११५.१४ ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १,११५.१५ ॥
वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी । वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥ १,११५.१६ ॥
दाता दरिद्रः कृपणोर्ऽथयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा । परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥ १,११५.१७ ॥
कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा । दारिद्रयाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥ १,११५.१८ ॥
चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः ।
नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥ १,११५.१९ ॥
वश्यश्च पुर्त्रेर्ऽथ करी च विद्या अरोगिता सज्जनसङ्गतिश्च ।
इष्टा च भार्या वशवर्तिनी च दुः खस्य मूलोद्धरणानि पञ्च ॥ १,११५.२० ॥
कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥ १,११५.२१ ॥
______________________
अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः । पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥ १,११५.२२ ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च ।पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ १,११५.२३ ॥
पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे । पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥ १,११५.२४ ॥
अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः । पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ १,११५.२५ ॥
अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् ।अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥ १,११५.२६ ॥
शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी ।व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥ १,११५.२७ ॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् ।
किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥ १,११५.२८ ॥
अहोरात्रमयो लोके जरारूपेण संचरेत् । मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १,११५.२९ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् ।सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥ १,११५.३० ॥
अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य ।
उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥ १,११५.३१ ॥
शौर्ये तपसि दाने च यस्य न प्रथितं यशः ।विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ १,११५.३२ ॥
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः ।
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३३ ॥
किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन ।
सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३४ ॥
यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च मित्रकार्ये ।
किं तस्य जीवितफलेनमनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३५ ॥
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च। स लौहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १,११५.३६ ॥
स्वाधीनवृत्तेः साफल्यं न पराधीनवर्तिता । ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥ १,११५.३७ ॥
सु(स्व) पूरा वै कापुरुषाः सु(स्व) पूरो मूषिकाञ्जलिः । असन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १,११५.३८ ॥
अभ्रच्छाया तृणादग्निर्नोचसेवा पथो जलम् ।वेश्यारागः खले प्रीतिः षडेते बुद्वुदोपमाः ॥ १,११५.३९ ॥
वाचा विहितसार्थेन लोको न च सुखायते । जीवितं मानमूलं हि माने म्लाने कुतः सुखम्? ॥ १,११५.४० ॥
_________________
अबलस्य बलं राजा बालस्य रुदितं बलम् । बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥ १,११५.४१ ॥
यथायथा हि पुरुषः शास्त्रं समधिगच्छति ।तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥ १,११५.४२ ॥
यथायथा हि पुरुषः कल्याणे कुरुते मतिम् ।तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥ १,११५.४३ ॥
लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः ।तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥ १,११५.४४ ॥
तावद्भयस्य भेतव्यं यावद्भयमनागतम् । उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥ १,११५.४५ ॥
ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १,११५.४६ ॥
कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥ १,११५.४७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥ १,११५.४८ ॥
दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति ।प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥ १,११५.४९ ॥
स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् ।तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥ १,११५.५० ॥
तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान्यो न करोति पापम् ।
तत्सौहृदं यक्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्मः ॥ १,११५.५१ ॥
न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यमस्ति नैतत्सत्यं यच्छलेनानुविद्धम् ॥ १,११५.५२ ॥
ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥ १,११५.५३ ॥
तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा ।
तदर्जितं यत्स्वजनेन भुक्तं तद्गर्जितं यत्समरे रिपूणाम् ॥ १,११५.५४ ॥
सा स्त्रीया न मदं कुर्यात्स सुखी तृष्णयोज्झितः ।तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥ १,११५.५५ ॥
तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम् । तदेव केवलं श्लघ्यं यस्यात्मा क्रियते स्तुतौ ॥ १,११५.५६ ॥
नदीनामग्निहोत्राणां भारतस्य कलस्य च ।मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥ १,११५.५७ ॥
लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम् । पैशुन्यं जनवार्तान्तं वित्तं दुःखत्रयान्तकम् ॥ १,११५.५८ ॥
राज्यश्रीर्ब्रह्मशापान्ता पापान्तं ब्रह्मवर्चसम् ।आचान्तं घोषवासान्तं कुलस्यान्तं स्त्रिया प्रभो (भुः) ॥ १,११५.५९ ॥
सर्वे क्षयान्ता निलयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १,११५.६० ॥
यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् ।उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥ १,११५.६१ ॥
अनायके न वस्तव्यं न चैव बहुनायके । स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ १,११५.६२ ॥
पिता रक्षति कौमारे भत्ता रक्षति यौवने । पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥ १,११५.६३ ॥
त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम् ।एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥ १,११५.६४ ॥
अनर्थित्वान्मनुष्याणां भिया परिजनस्य च ।अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥ १,११५.६५ ॥
अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः । अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥ १,११५.६६ ॥
अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥ १,११५.६७ ॥
कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च ।परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥ १,११५.६८॥
सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः ।सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥ १,११५.६९ ॥
अम्भसः परिमाणे उन्नतं कमलं भवेत् । स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ १,११५.७० ॥
स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥ १,११५.७१ ॥
ये पदस्थस्य मित्त्राणि ते तस्य रिपुतां गताः ।भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥ १,११५.७२ ॥
स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः ।स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥ १,११५.७३ ॥
____________________
आचारः कुलमाख्यति देशमाख्याति भाषितम् ।सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ १,११५.७४ ॥
वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् । वृथा दानं समृद्धस्य नीचस्य सुकृतं वथा ॥ १,११५.७५ ॥
दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः ।हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥ १,११५.७६ ॥
मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १,११५.७७ ॥
कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च ।शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ १,११५.७८ ॥
जगत्पतिर्हि याचित्वा विष्णुर्वामनतां यतः ।कान्योऽधिकतरस्तस्य योर्ऽथो याति न लाघवम् ॥ १,११५.७९ ॥
_____________________________________
माता शत्रुः पिता वैरी बाला येन न पाठिताः ।सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥ १,११५.८० ॥
विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥ १,११५.८१ ॥
गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते । अशेषं हरणीयं च विद्या न ह्रियते परैः ॥ १,११५.८२ ॥
शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च ।कथयामास वैपूर्वं तत्र शुश्राव शङ्करः ।शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥ १,११५.८३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः
________________________________________
भविष्यपुराणम्पर्व(१) (ब्राह्मपर्व)अध्याय(४४)
वर्णविभागविवेकवर्णनम्
।ब्रह्मोवाच।
हेयोपादेयतत्त्वज्ञास्त्यक्तान्यायपथागमाः ।
जितेन्द्रियमनोवाचः सदाचारपरायणाः ।१।
नियमाचारवृत्तस्था हितान्वेषणतत्पराः ।
संसाररक्षणोपायक्रियायुक्तमनोरथाः । २।
सम्यग्दर्शनसम्पन्नाः समाधिस्था हतक्रुधः ।
स्वाध्यायभक्तहृदयास्त्यक्तसङ्गा विमत्सराः ।३।
विशोका विमदाः शान्ता सर्वप्राणिहितैषिणः।
सुखदुःखसमालोका विविक्तस्थानवासिनः ।४।
व्रतोपयुक्तसर्वाङ्गा धार्मिकाः पापभीरवः ।
निर्ममा निरहङ्कारा दानशूरा दयापराः ।५।
सत्यब्रह्मविदः शान्ता सर्वशास्त्रेषु निष्ठिताः ।
सर्वलोकहितोपायप्रवृत्तेन स्वयंभुवा ।६।
वागीश्वरेण देवेन नाभेयेन भवच्छिदा ।
ब्रह्मणा कृतमर्यादास्त एवं ब्राह्मणाः स्मृताः ।७।
____________
महातपोधनैरार्यैः सर्वसत्त्वाभयप्रदैः ।
सर्वलोकहितार्थाय निपुणं सुप्रतिष्ठितम् ।८।
वृहत्त्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः।
भक्त्यासक्ताः प्रपन्नाश्च ब्राह्मणास्ते प्रकीर्तिताः।९।
_______________________________________ शूद्र शब्द की व्युत्पत्ति-
क्षत्रियास्तु क्षतत्राणाद्वैश्या वार्ताप्रवेशनात् ।
ये तु श्रुतेर्द्रुतिं प्राप्ताः शूद्रास्तेनेह कीर्तिताः।(1/44/10 भविष्यपुराण )
ये चाचाररताः प्राहुर्ब्राह्मण्यं ब्रह्मवादिनः ।
ते तु फलं प्रशंसन्ति यत्सदा मनसेप्सितम् ।११।
क्षमा दमो दया दानं सत्यं शौचं धृतिर्घृणा ।
मार्दवार्जवसन्तोषानहङ्कारतपःशमाः. ।१२।
धर्मो ज्ञानमपैशुन्यं ब्रह्मचर्यममूढता ।
ध्यानमास्तिक्यमद्वेषो वैराग्यं च शमात्मता।१३।
पापभीरुत्वमस्तेयममात्सर्यमतृष्णता ।
नैःसङ्ग्यं गुरुशुश्रूषा मनोवाक्काय संयमः ।१४।
य एवम्भूतमाचारमनुतिष्ठन्ति मानवाः।
ब्राह्मण्यं पुष्कलं तेषां नित्यमेव प्रवर्धते ।१५।
ते स्वमतास्वादलब्धवर्णाचारा महौजसः ।
सर्वशास्त्राविरोधेन पवित्रीकृतमानसाः ।१६।
सज्जनाभिमताः प्राज्ञाः पुराणागमपण्डिताः ।
गीतगीतागमाचाराः स्मृतिकाराः पठन्ति च ।१७।
मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः ।
वर्णाश्रमाचारकृतं कर्म सिद्ध्यत्यनुत्तमम् ।१८।
संसिद्धायां तु वार्तायां ततस्तेषां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथारब्धं परस्परम् ।१९।
ये वै परिगृहीतारस्तेषां सत्त्वबलाधिकाः ।
इतरेषां क्षतत्राणान्स्थापयामास क्षत्रियान्। 1.44.२०
उपतिष्ठन्ति ये तान्वै याचन्तो नर्मदाः सदा ।
सत्यब्रह्म सदाभूतं वदन्तो ब्राह्मणास्तु ते ।२१।
ये चान्येप्यबलास्तेषां वैश्यकर्मणि संस्थिताः ।
कीलानि नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः।
वैश्यानेव तु तानाह कीनाशान्वृत्तिमाश्रितान् ।२२।
___________________
( शूद्र शब्द की व्युत्पत्ति-)
शोचन्तश्व द्रवन्तश्च परिचर्यासु ये नराः ।
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः।२३।
_________________________________
ब्राह्मणक्षत्रियविशां शूद्राणां च परस्परम् ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।२४।
शमस्तपो दमः शौचं क्षांतिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म (ब्राह्मण) स्वभावजम् ।२५।
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म (क्षत्रिय) स्वभावजम् ।२६।
कृषिगोरक्षवाणिज्यं वैश्यकर्म (वैश्य) स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि ( शूद्र:) स्वभावजम् ।२७।
________________________________
योगस्तपो दया दानं सत्यं धर्मश्रुतिर्घृणा ।
ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ।२८।
शिखा ज्ञानमयी यस्य पवित्रं च तपोमयम् ।
ब्राह्मण्यं पुष्कलं तस्य मनुः स्वायम्भुवोऽब्रवीत्।२९।
____________________________________
यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः ।
निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३०
______________________________________
शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् ।
ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् ।३१।
न सुरां सन्धयेद्यस्तु आपणेषु गृहेषु च ।
न विक्रीणाति च तथा सच्छूद्रो हि स उच्यते । । ।३२।
यद्येका स्फुटमेव जातिरपरा कृत्यात्परं भेदिनी ।
यद्वा व्याहृतिरेकतामधिगता यच्चान्यधर्मं ययौ । ।
एकैकाखिलभावभेदनिधनोत्पत्तिस्थितिव्यापिनी ।
किं नासौ प्रतिपत्तिगोचरपथं यायाद्विभक्त्या नृणाम् ।३३।
इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णविभागविवेकवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ( ४४ )
_______________________________________
ब्राह्मणः सर्ववर्णानां ज्येष्ठः श्रेष्ठस्तथोत्तमः ।
एवमस्मिन्पुराणे तु संस्कारान्ब्राह्मणस्य तु ।१७१।
शृणोति यश्च जानाति यश्चापि पठते सदा।
ऋद्धिं वृद्धिं तथा कीर्तिं प्राप्येह श्रियमुत्तमाम् ।१७२।
धनं धान्यं यशश्चापि पुत्रान्बन्धून्सुरूपताम् ।
सावित्रं लोकमासाद्य ब्रह्मलोकमवाप्नुयात् ।१७३।
इति श्रीभविष्य महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयोऽध्यायः । २।
__________________________________
"ब्राह्मण होने का तात्पर्य"
परन्तु मनुस्मृति ब्राह्मण के विषय में क्या सत्य कहती है ;अथवा प्रक्षेपण करती है ?
एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु। सर्वथा ब्राह्मणा: पूज्या: परमं दैवतं हि तत।। ( मनुस्मृति 1-319)
अन्वय- एवं यद्यपि ब्राह्मणा: अनिष्टेषु सर्वकर्मसु प्रवर्तन्ते सर्वथा पूज्या: हि तत परमं दैवतं।
अर्थ- यद्यपि ब्राह्मण लोग सभी बुरे कामों में प्रवृत्त होते हैं, तो भी वे सदैव पूज्य ही हैं क्योकि वह (ब्राह्मण) सर्वश्रेष्ठ देवता है।
_______________________________________
जबकि भविष्य पुराण के ब्रह्म पर्व के (४४) वें अध्याय में वर्णित है
यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः ।
निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३०
अर्थ- अथवा वहीँ अपने पाप कर्मो की न्यूनाधिकता के तारतम्य से ब्राह्मण उत्तम मध्यम और अधम भेद से तीन प्रका के कहे गये हैं ।
______________________________________
शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् ।
ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् ।३१।
अर्थ- शूद्र भी शीलसम्पन्न होकर ब्राह्मण से अधिक अधिक मान्य होना चाहिए ब्राह्मण जो आचरण हीन हो गया है शूद्र से भी हीन माना जाना चाहिए ।
(भविष्य पुराण ब्रह्मपर्व का (४४) वाँ अध्याय का ३१ वाँ श्लोक-)
____________
_______
वज्रसुचिकोपनिषद् ( वज्रसूचि उपनिषद् ) जो कि सामवेद से सम्बद्ध है !
इसमें श्लोक संख्या कुल (९) हैं ।
सर्वप्रथम चारों वर्णों में से ब्राह्मणकी प्रधानता का उल्लेख किया गया है ब्राह्मण, क्षत्रिय, वैश्य और शूद्र ये चार वर्ण हैं ।
इन वर्णों में ब्राह्मण ही प्रधान है, ऐसा वेद वचन है और स्मृति में भी वर्णित है ।
परन्तु केवल जन्म के आधार पर अथवा गुणों के आधार पर ?
जो आत्मा के द्वैत भाव से युक्त ना हो; जाति गुण और क्रिया से भी युक्त न हो; षड ऊर्मियोंविशेष—ये छह हैं । जैसे; — एक मत से सर्दी, गर्मी, लोभ, मोह, भूख, प्यास । दूसरे मत से भूख, प्यास, जरा मृत्यु, शोक, मोह । और इन षड् दोषभावों आदि समस्त से मुक्त हो; सत्य, ज्ञान, आनंद स्वरुप, स्वयं निर्विकल्प स्थिति में रहने वाला ,अशेष कल्पों का आधार रूप , समस्त प्राणियों के अंतस में निवास करने वाला , अन्दर-बाहर आकाशवत् संव्याप्त ; अखंड आनंद युक्त ,अप्रमेय, अनुभवगम्य , अप्रत्येक्ष भासित होने वाले आत्मा काकरतल आमलकवत् परोक्ष का भी साक्षात्कार करने वाला; काम-रागद्वेष आदि दोषों से रहित होकर कृतार्थ हो जाने वाला ; शम-दमआदि से संपन्न ; मात्सर्य , तृष्णा , आशा,मोह आदि भावों से रहित;दंभ, अहंकार आदि दोषों से चित्त को सर्वथा अलग रखने वाला हो,वही ब्राह्मण है; ऐसा श्रुति, स्मृति-पूरण और इतिहास का अभिप्राय है ।
इस (अभिप्राय) के अतिरिक्त अन्य किसी भी प्रकार से ब्राह्मणत्वसिद्ध नहीं हो सकता ।
आत्मा सत्-चित और आनंद स्वरुप तथा अद्वितीय है ! इस प्रकार ब्रह्मभाव से संपन्न मनुष्यों को ही ब्राह्मण माना जा सकता है ! जैसा कि उपनिषद का उद्घोष है !
(2)यास्क मुनि के अनुसार
ब्राह्मण कौन ?
"श्रीराजोवा जनमना जायते शूद्र: संस्काराद् भवेद् द्विज:। वेदपाठनाद् भवेद्विप्र: ब्रह्म जा नीति इति ब्राह्मण: "
-अर्थात् –व्यक्ति जन्म से शूद्र है। संस्कार से वह द्विज बन सकता है। वेदों के पठन-पाठन से विप्र हो सकता है। किंतु जो ब्रह्म को जान ले,वही ब्राह्मण कहलाने का सच्चा अधिकारी है।
_________
– योग सूत्र व भाष्य के रचनाकार पतञ्जलि के अनुसार
" विद्या तपश्चयोनिश्च एतद् ब्राह्मणकारकम्।विद्यातपोभ्यां यो हीनो जाति ब्राह्मण एव स:॥ अर्थात्- ”विद्या, तप और ब्राह्मण-ब्राह्मणी से जन्म ये तीन बातेंजिसमें पाई जायँ वही पक्का ब्राह्मण है, पर जो विद्या तथा तप से शून्य है वह जातिमात्र के लिए ब्राह्मण है, पूज्य नहीं हो सकता”
(पतंजलि महाभाष्य -51-115)।
(४) महाभारत के कर्ता वेदव्यास और नारदमुनि के अनुसार “जो जन्म से ब्राह्मण हे किन्तु कर्म से ब्राह्मण नहीं हे वह शूद्र (मजदूरी अथवा शिल्पकर्म) में नियुक्त हो ”
(5) भविष्य पुराण के अनुसारः निवृत्तः पापकर्मेभ्योः ब्राह्मणः से विधीयते ।शूद्रोऽपिशीलसम्पन्नो ब्राह्मणदधिकोभवेत् ॥ भविष्य पुराण . अ. 44।
जो पापकर्म से बचा हुआ है, वही सच्चे अर्थों में ब्राह्मण है । सदाचार सम्पन्न शूद्र भी ब्राह्मण से अधिक है । आचारहीन ब्राह्मण शूद्र से भी गया बीता है । विवेक, सदाचार, स्वाध्याय और परमार्थ ब्राह्मणत्व की कसौटी है । जो इस कसौटी पर खरा उतरता है, वही सम्पूर्ण अर्थों में सच्चा ब्राह्मण है ।
(6)वृहद्धर्ग पुराणके अनुसारः ब्रह्मणस्य तू देहो यं न सुखाय कदाचन । तपः क्लेशाय धर्माय प्रेत्य मोक्षाय सर्वदा ॥ वृहद्धर्ग पुराण 2/44॥
ब्राह्मण की देह विषयोपभोग के लिये कदापि नहीं है । यह तो सर्वथा तपस्या का क्लेश सहने और धर्म का पालन करने और अंत मे मुक्ति के लिये हि उत्पन्न होती है । ब्राह्मण का अर्थ है विचारणा और चरित्रनिष्ठा का उत्त्कृष्ट होना ।
(7)मनुस्मृति के अनुसारः सम्मनादि ब्राह्मणो नित्यभुद्विजेत् विषादिव । अमृतस्य चाकांक्षे दव मानस्य सर्वदा ॥ मनुस्मृति 1/162॥
ब्राह्मण को चाहिये कि वह सम्मान से डरता रहे और अपमान की अमृत के समान इच्छा करता रहे । वर्ण व्यवस्था की सुरुचिपूर्ण व्यवस्था में ब्राह्मण को समाज में सर्वोपरि स्थान दिया गया है । साथ ही साथ समाज की महान जिम्मेदारियाँ भी ब्राह्मणों को दी गयीं हैं । राष्ट्र एवं समाज के नैतिक स्तर को कायम रखना , उन्हें प्रगतिशीलता एवं विकास की ओर अग्रसर करना , जनजागरण एवं अपने त्यागी तपस्वी जीवन में महान आदर्श उपस्थित कर लोगों को सत्पथ का प्रदर्शन करना, ब्राह्मण जीवन का आधार बनाया गया । इसमें कोई संदेह नहीं कि राष्ट्र की जागृति, प्रगतिशीलता एवं महनता उसके ब्राह्मणों पर आधारित होती हैं । ब्राह्मण राष्ट्र निर्माता होते हैं , मानव हृदयों में जनजागरण का गीत सुनाता है , समाज का कर्णधार होता है । देश, काल, पात्र के अनुसार सामाजिक व्यवस्था में परिवर्तन करता है और नवीन प्रकाश चेतना प्रदान करता है । त्याग और बलिदान ही ब्राह्मणत्व की कसौटी होती है । राष्ट्र संरक्षण का दायित्व सच्चे ब्राह्मणों पर ही हैं । राष्ट्र को जागृत और जीवंत बनाने का भार इनपर ही है
(9)ऋग्वेद के अनुसारः ब्राह्मणासः सोमिनो वाचमक्रत , ब्रह्म कृण्वन्तः परिवत्सरीणम् । अध्वर्यवो घर्मिणः सिष्विदाना, आविर्भवन्ति गुह्या न केचित् ॥ ऋग्वेद 7/103/8 ॥
सूक्तं ७.१०२ | ऋग्वेदः - मण्डल ७ सूक्तं ७.१०३ मैत्रावरुणिर्वसिष्ठः। | सूक्तं ७.१०४ → |
दे. मण्डूकाः (पर्जन्यः)। त्रिष्टुप्, १ अनुष्टुप्। |
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥१॥
दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् ।
गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥२॥
यदीमेनाँ उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम् ।
अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ॥३॥
अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् ।
मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥४॥
यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः ।
सर्वं तदेषां समृधेव पर्व यत्सुवाचो वदथनाध्यप्सु ॥५॥
गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम् ।
समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ॥६॥
ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः ।
संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥७॥
ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् ।
अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥८॥
देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते
संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥९॥
गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि ।
गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥१०॥
सायणभाष्यम्-
' संवत्सरम् ' इति दशर्चं चतुर्दशं सूक्त वसिष्ठस्यार्षं त्रैष्टुभम् । आद्या त्वनुष्टुप् । मण्डूका देवता । तथा चानुक्रान्तं- संवत्सरं दश पर्जन्यस्तुतिः संहृष्टान्मण्डूकांस्तुष्टावाद्यानुष्टुप् ' इति । वृष्टिकामेनैतत्सूक्तं जप्यम् ।।
सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ । वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥१।।
अत्र निरुक्तं-' वसिष्ठो वर्षकामः पर्जन्यं तुष्टाव तं मण्डूका अन्वमोदन्त स मण्डूकाननुमोदमानान् दृष्ट्वा तुष्टाव ' (निरु. ९.६) इति। '
( निरु. ९. ५) इति । व्रतचारिणः व्रतं संवत्सरसत्रात्मकं कर्माचरन्तः ब्राह्मणाः । लुप्तोपममेतत् । एवंभूता ब्राह्मणा इव संवत्सरं शरत्प्रभृति आ वर्षतोरेकं संवत्सरं शशयानाः शिश्याना वर्षणार्थं तपश्चरन्त इव बिल एव सन्त एते मण्डूकाः पर्जन्यजिन्वितां पर्जन्येन प्रीतां यया वाचा पर्जन्यः प्रीतो भवति तादृशीं वाचं प्र अवादिषुः प्रवदन्ति ।।
दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न्दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् ।
गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां म॒ण्डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥२
दि॒व्याः । आपः॑ । अ॒भि । यत् । ए॒न॒म् । आय॑न् । दृति॑म् । न । शुष्क॑म् । स॒र॒सी इति॑ । शया॑नम् ।
गवा॑म् । अह॑ । न । मा॒युः । व॒त्सिनी॑नाम् । म॒ण्डूका॑नाम् । व॒ग्नुः । अत्र॑ । सम् । ए॒ति॒ ॥२
दिव्याः । आपः । अभि । यत् । एनम् । आयन् । दृतिम् । न । शुष्कम् । सरसी इति । शयानम् ।
गवाम् । अह । न । मायुः । वत्सिनीनाम् । मण्डूकानाम् । वग्नुः । अत्र । सम् । एति ।। २ ।।
दिव्याः दिवि भवाः आपः दृतिं न दृतिमिव शुष्कं नीरसं सरसी । महत्सरः सरसी । गौरादिलक्षणो ङीष् । सरस्याम् । ' सुपां सुलुक् ' इति सप्तम्या लुक् । ' ईदूतौ च सप्तम्यर्थे ' इति प्रगृह्यसंज्ञा । महति सरसि निर्जले घर्मकाले शयानं निवसन्तम् -एनं मण्डूकगणं यत् यदा आयन् अभिगच्छन्ति तदा अत्र अस्मिन् वर्षणे पर्जन्ये वा सति वत्सिनीनां वत्सयुक्तानां गवां न मायुः गवां शब्द इव मण्डूकानां वग्नुः शब्दः समेति संगच्छते । यथा वत्सैः संगतासु गोषु महान् घोषो जायते तद्वद्वृष्टे पर्जन्ये महान् कलकलशब्दो जायत इत्यर्थः । अह इति पूरकः ।।
यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् ।
अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद॑न्तमेति ॥३
यत् । ई॒म् । ए॒ना॒न् । उ॒श॒तः । अ॒भि । अव॑र्षीत् । तृ॒ष्याऽव॑तः । प्रा॒वृषि॑ । आऽग॑तायाम् ।
अ॒ख्ख॒ली॒कृत्य॑ । पि॒तर॑म् । न । पु॒त्रः । अ॒न्यः । अ॒न्यम् । उप॑ । वद॑न्तम् । ए॒ति॒ ॥३
यत् । ईम् । एनान् । उशतः । अभि । अवर्षीत् । तृष्याऽवतः । प्रावृषि । आऽगतायाम्।
अख्खलीकृत्य । पितरम् । न । पुत्रः । अन्यः । अन्यम् । उप । वदन्तम् । एति ।। ३ ।।
उशतः कामयमानान् तृष्यावतः तृष्णावतः एनान् मण्डूकान् प्रावृषि वर्षर्तौ आगतायाम् आगते सति यत् यदा अभ्यवर्षीत् पर्जन्यो जलैरभिषिञ्चति । ईम् इति पूरणः । तदानीम् अख्खलीकृत्य । अख्खल इति शब्दानुकरणम् । अख्खलशब्दं कृत्वा पुत्रः पितरं न पितरमिव अन्यः मण्डूकः वदन्तं शब्दयन्तम् अन्यं मण्डूकम् उप एति प्राप्नोति ।।
अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम॑न्दिषाताम् ।
म॒ण्डूको॒ यद॒भिवृ॑ष्ट॒ः कनि॑ष्क॒न्पृश्निः॑ सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच॑म् ॥४
अ॒न्यः । अ॒न्यम् । अनु॑ । गृ॒भ्णा॒ति॒ । ए॒नोः॒ । अ॒पाम् । प्र॒ऽस॒र्गे । यत् । अम॑न्दिषाताम् ।
म॒ण्डूकः॑ । यत् । अ॒भिऽवृ॑ष्टः । कनि॑स्कन् । पृश्निः॑ । स॒म्ऽपृ॒ङ्क्ते । हरि॑तेन । वाच॑म् ॥४
अन्यः । अन्यम् । अनु । गृभ्णाति । एनोः । अपाम् । प्रऽसर्गे । यत् । अमन्दिषाताम् ।
मण्डूकः । यत् । अभिऽवृष्टः । कनिस्कन् । पृश्निः । सम्ऽपृड्क्ते । हरितेन । वाचम्।। ४ ।।
एनोः एनयोर्द्वयोर्मण्डूकयोः अन्यः मण्डूकः अन्यं मण्डूकमनुगम्य गृभ्णाति गृह्णाति । अपाम् उदकानां प्रसर्गे प्रसर्जने वर्षणे सति यत् यदा अमन्दिषातां हृष्टावभूताम् । यत् यदा च अभिवृष्टः पर्जन्येनाभिषिक्तः कनिष्कन् । स्कन्दतेर्यङ्लुगन्तस्य रूपम् । भृशं स्कन्दन्नुत्प्लवं कुर्वन् पृश्निः पृश्निवर्णः मण्डूकः हरितेन हरितवर्णेनान्येन मण्डूकेन वाचं संपृङ्क्ते संयोजयति । उभावप्येकविधं शब्दं कुर्वाते । तदानीमन्योऽन्यमनु गृभ्णातीत्यन्वयः ।।
यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः ।
सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥५
यत् । ए॒षा॒म् । अ॒न्यः । अ॒न्यस्य॑ । वाच॑म् । शा॒क्तस्य॑ऽइव । वद॑ति । शिक्ष॑माणः ।
सर्व॑म् । तत् । ए॒षा॒म् । स॒मृधा॑ऽइव । पर्व॑ । यत् । सु॒ऽवाचः॑ । वद॑थन । अधि॑ । अ॒प्ऽसु ॥५
यत् । एषाम् । अन्यः । अन्यस्य । वाचम् । शाक्तस्यऽइव । वदति । शिक्षमाणः ।
सर्वम् । तत् । एषाम् । समृधाऽइव । पर्व । यत् । सुऽवाचः । वदथन । अधि । अप्ऽसु ।। ५ । ।
हे मण्डूकाः यत् यदा एषां युष्माकं मध्ये अन्यः मण्डूकः अन्यस्य मण्डूकस्य वाचं वदति अनुवदति अनुकरोति प्रशिक्षमाणः शिक्ष्यमाणः शिष्यः शाक्तस्येव शक्तिमतः शिक्षकस्य वाचं यथानुवदति तद्वत् । यत् यदा च सुवाचः शोभनवाचो यूयं सर्वे अप्सु वृष्टेषूदकेषु अधि उपरि प्लवन्त वदथन वदत शब्दं कुरुत । तत् तदा एषां युष्माकं सर्वं पर्व परुष्मच्छरीरं समृधेव समृद्धमेवाविकलावयवमेव भवति । इवशब्दोऽवधारणे । घर्मकाले मृद्भावमापन्ना मण्डूकाः पुनर्वर्षणे सत्यविकलाङ्गाः प्रादुर्भवन्तीत्यर्थः ।। ।। ३ ।।
गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेक॒ः पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् ।
स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू॑पाः पुरु॒त्रा वाचं॑ पिपिशु॒र्वद॑न्तः ॥६
गोऽमा॑युः । एकः॑ । अ॒जऽमा॑युः । एकः॑ । पृश्निः॑ । एकः॑ । हरि॑तः । एकः॑ । ए॒षा॒म् ।
स॒मा॒नम् । नाम॑ । बिभ्र॑तः । विऽरू॑पाः । पु॒रु॒ऽत्रा । वाच॑म् । पि॒पि॒शुः॒ । वद॑न्तः ॥६
गोऽमायुः । एकः । अजऽमायुः । एकः । पृश्निः । एकः । हरितः । एकः । एषाम् ।
समानम् । नाम । बिभ्रतः । विऽरूपाः । पुरुऽत्रा । वाचम् । पिपिशुः । वदन्तः । । ६ ।।
एषां मण्डूकानां मध्ये एकः मण्डूकः गोमायुः गोर्मायुरिव मायुः शब्दो यस्य तादृशो भवति । एकः अन्यो मण्डूकः अजमायुः अजस्य मायुरिव मायुर्यस्य तादृशो भवति । एकः पृश्निः पृश्निवर्णः । 'एकः अपरः हरितः हरितवर्णः । एवं विरूपाः नानारूपा अपि समानम् एकं मण्डूका इति नाम बिभ्रतः धारयन्तः पुरुत्रा बहुषु देशेषु वाचं वदन्तः शब्दं कुर्वन्तः पिपिशुः अवयवीभवन्ति प्रादुर्भवन्ति । ' पिश अवयवे ' । पुरुशब्दात् ' देवमनुष्य ' इत्यादिना त्राप्रत्ययः ।।
ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद॑न्तः ।
सं॒व॒त्स॒रस्य॒ तदह॒ः परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥७
ब्रा॒ह्म॒णासः॑ । अ॒ति॒ऽरा॒त्रे । न । सोमे॑ । सरः॑ । न । पू॒र्णम् । अ॒भितः॑ । वद॑न्तः ।
सं॒व॒त्स॒रस्य॑ । तत् । अह॒रिति॑ । परि॑ । स्थ॒ । यत् । म॒ण्डू॒काः॒ । प्रा॒वृ॒षीण॑म् । ब॒भूव॑ ॥७
ब्राह्मणासः । अतिऽरात्रे । न । सोमे । सरः । न । पूर्णम् । अभितः । वदन्तः ।
संवत्सरस्य । तत् । अहरिति । परि । स्थ । यत् । मण्डूकाः । प्रावृषीणम् । बभूव ।। ७ ।।
रात्रिमतीत्य वर्तत इत्यतिरात्रः । अतिरात्रे न सोमे । यथातिरात्राख्ये सोमयागे ब्राह्मणासः ब्राह्मणा रात्रौ स्तुतशस्त्राणि पर्यायेण शंसन्ति हे मण्डूकाः । द्वितीयो नशब्दः संप्रत्यर्थे । न संप्रति पूर्णं सरः अभितः सर्वतः वदन्तः रात्रौ शब्दं कुर्वाणा यूयं तदहः तद्दिनं परि ष्ठ परितः सर्वतो भवथ । यत् अहः प्रावृषीणं प्रावृषेण्यं प्रावृषि भवं बभूव तस्मिन्नहनि सर्वतो वर्तमाना भवथेत्यर्थः ।।
ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
अ॒ध्व॒र्यवो॑ घ॒र्मिणः॑ सिष्विदा॒ना आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ॥८
ब्रा॒ह्म॒णासः॑ । सो॒मिनः॑ । वाच॑म् । अ॒क्र॒त॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । प॒रि॒व॒त्स॒रीण॑म् ।
अ॒ध्व॒र्यवः॑ । घ॒र्मिणः॑ । सि॒स्वि॒दा॒नाः । आ॒विः । भ॒व॒न्ति॒ । गुह्याः॑ । न । के । चि॒त् ॥८
ब्राह्मणासः । सोमिनः । वाचम् । अक्रत । ब्रह्म । कृण्वन्तः । परिवत्सरीणम् ।
अध्वर्यवः । घर्मिणः । सिस्विदानाः । आविः । भवन्ति । गुह्याः । न । के । चित् । । ८ । ।
सोमिनः सोमयुक्ताः परिवत्सरीणं सांवत्सरिकं गवामयनिकं ब्रह्म स्तुतशस्त्रात्मकं कृण्वन्तः कुर्वन्तः ब्राह्मणासः । लुप्तोपममेतत् । ब्राह्मणा इव वाचं शब्दम् अक्रत अकृषतेमे मण्डूकाः । अपि च घर्मिणः घर्मेण प्रवर्ग्येण चरन्तः अध्वर्यवः अध्वरस्य नेतार ऋत्विज इव सिष्विदानाः स्विद्यद्गात्राः गुह्याः घर्मकाले बिलेऽभिगूढाः के चित् केचन मण्डूकाः न संप्रति वृष्टौ सत्याम् आविर्भवन्ति जायन्ते ।।
ब्राह्मण वह है जो शांत, तपस्वी और यजनशील हो । जैसे वर्षपर्यंत चलनेवाले सोमयुक्त यज्ञ में स्तोता मंत्र-ध्वनि करते हैं वैसे ही मेढक भी करते हैं । जो स्वयम् ज्ञानवान हो और संसार को भी ज्ञान देकर भूले भटको को सन्मार्ग पर ले जाता हो, ऐसों को ही ब्राह्मण कहते हैं । उन्हें संसार के समक्ष आकर लोगों का उपकार करना चाहिये ।
________________
दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नन्त्ये॒ते ।
सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा अ॑श्नुवते विस॒र्गम् ॥९
दे॒वऽहि॑तिम् । जु॒गु॒पुः॒ । द्वा॒द॒शस्य॑ । ऋ॒तुम् । नरः॑ । न । प्र । मि॒न॒न्ति॒ । ए॒ते ।
सं॒व॒त्स॒रे । प्रा॒वृषि॑ । आऽग॑तायाम् । त॒प्ताः । घ॒र्माः । अ॒श्नु॒व॒ते॒ । वि॒ऽस॒र्गम् ॥९
देवऽहितिम् । जुगुपुः । द्वादशस्य । ऋतुम् । नरः । न । प्र । मिनन्ति । एते । - संवत्सरे । प्रावृषि । आऽगतायाम् । तप्ताः । घर्माः । अश्नुवते । विऽसर्गम् । । ९ ।।
नरः नेतारः एते मण्डूकाः देवहितिं देवैः कृतं विधानम् अस्यर्तोरयं धर्म इत्येवंरूपं जुगुपुः गोपायन्ति । काले काले रक्षन्ति । अत एव द्वादशस्य द्वादशमासात्मकस्य संवत्सरस्य ऋतुं तं तं वसन्तादिकं न प्र मिनन्ति न हिंसन्ति । पर्जन्यस्तुतेरनुमोदनेन तत्तत्काले वृष्टिहेतवो भवन्तीत्यर्थः । संवत्सरे संपूर्णे प्रावृषि वर्षर्तौ आगतायाम् आगते सति घर्माः पूर्वं घर्मकाले वर्तमानाः तप्ताः तापेन पीडिताः संप्रति विसर्गं विसर्जनं बिलान्मोचनम् अश्नुवते प्राप्नुवन्ति ।।
गोमा॑युरदाद॒जमा॑युरदा॒त्पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू॑नि ।
गवां॑ म॒ण्डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ॥१०
गोऽमा॑युः । अ॒दा॒त् । अ॒जऽमा॑युः । अ॒दा॒त् । पृश्निः॑ । अ॒दा॒त् । हरि॑तः । नः॒ । वसू॑नि ।
गवा॑म् । म॒ण्डूकाः॑ । दद॑तः । श॒तानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥१०
गोऽमायुः । अदात् । अजऽमायुः । अदात् । पृश्निः । अदात् । हरितः । नः । वसूनि ।
गवाम् । मण्डूकाः । ददतः । शतानि । सहस्रऽसावे । प्र । तिरन्ते । आयुः ।। १० ।।
गोमायुः गोरिव मायुः शब्दो यस्य तादृशो मण्डूकः वसूनि धनानि नः अस्मभ्यम् अदात् ददातु । अजमायुः च अदात् ददातु । हरितः हरितवर्णश्च अदात् ददातु । पृश्निः पृश्निवर्णश्च अदात् ददातु । तथा सहस्रसावे सहस्रसंख्याका ओषधयः सूयन्त उत्पद्यन्त इति वर्षर्तुः सहस्रसावः । तस्मिन् सति सर्वे मण्डूकाः गवां शतानि अपरिमिता गाः ददतः अस्मभ्यं प्रयच्छन्तः आयुः जीवनं प्र तिरन्ते प्रवर्धयन्तु ।। ।। ४ ।।
तर्हि को वा ब्राह्मणो नाम ! यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडूर्मीषडभावेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयं निर्विकल्पमशेषकल्पाधारमशेषभूतान्तर्यामित्वेन वर्तमानमन्तर्बहीश्चाकाशवदनुस्यूतमखंडानन्द स्वभावमप्रमेयमनुभवैकवेद्यमापरोक्षतया भासमानं करतलामलकवत्साक्षादपरोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसम्पन्नो भावमात्सर्यतृष्णाशामोहादिरहितो दंभाहंकारादिभिरसंस्पृष्टचेता वर्तत एवमुक्तलक्षणो यः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायः ! अन्यथा हि ब्राह्मणत्वसिद्धिर्नासत्येव ! सच्चिदानंदमात्मानमद्वितीयं ब्रह्म भावयेदात्मानं सच्चिदानंद ब्रह्म भावयेदि त्युपनिषत !! वज्रसूची उपनिषद ९!!
तब ब्राह्मण किसे माना जाये ? (इसका उत्तर देते हुए उपनिषत्कार कहते हैं – ) जो आत्मा के द्वैत भाव से युक्त ना हो; जाति गुण और क्रिया से भी युक्त ण हो; षड उर्मियों और षड भावों आदि समस्त दोषों से मुक्त हो; सत्य, ज्ञान, आनंद स्वरुप, स्वयं निर्विकल्प स्थिति में रहने वाला , अशेष कल्पों का आधार रूप , समस्त प्राणियों के अंतस में निवास करने वाला , अन्दर-बाहर आकाशवत संव्याप्त ; अखंड आनंद्वान , अप्रमेय, अनुभवगम्य , अप्रत्येक्ष भासित होने वाले आत्मा का करतल आमलकवत परोक्ष का भी साक्षात्कार करने वाला; काम-रागद्वेष आदि दोषों से रहित होकर कृतार्थ हो जाने वाला ; शम-दम आदि से संपन्न ; मात्सर्य , तृष्णा , आशा,मोह आदि भावों से रहित; दंभ, अहंकार आदि दोषों से चित्त को सर्वथा अलग रखने वाला हो, वही ब्राह्मण है; ऐसा श्रुति, स्मृति-पूरण और इतिहास का अभिप्राय है ! इस (अभिप्राय) के अतिरिक्त एनी किसी भी प्रकार से ब्राह्मणत्व सिद्ध नहीं हो सकता । आत्मा सत्त-चित और आनंद स्वरुप तथा अद्वितीय है ! इस प्रकार ब्रह्मभाव से संपन्न मनुष्यों को ही ब्राह्मण माना जा सकता है । यही उपनिषद का मत है।
सुविख्यात मनिषी पं. श्रीराम शर्मा आचार्य जी के शब्दों मे ब्राह्मणत्व की गरिमा निम्नरूपेण परिभाषित की गयी है:
” चिंतन और चरित्र की एकता होने पर ही दूसरों को प्रभावित करने की क्षमता उपलब्ध होती है । कथनी और करनी के बीच का अंतर हट जाये तो व्यक्ति निश्चितरूप से प्रभावशाली हो जाता है । भलाई सिखाई जाये या बुराई यह आगे की बात है , पर चिंतन और चरित्र की एकता तो नितांत आवश्यक है, विशेषतया कुसंसकारों से घिरे हुए लोगों को सुसंस्कारी बनाने के लिये । ऐसे व्यक्तित्व अब क्रमशः घटते जा रहे हैं जो निजी जीवन में आदर्शों की सभी कसौटियों पर खरे उतरें । साथ ही उस विशिष्टता का उपयोग लोकमंगल के लिये जनमानस का परिष्कार करने के निमित्त करने में भावनापूर्ण समग्र तत्परता और तन्मयता के साथ संलग्न रहें । जहाँ यह दोनो बातें मिलती हैं , वहीं ब्राह्मणत्व की क्षमता परिपक्व होती है ।
ब्राह्मण को परमार्थ परायण होना चाहिये तथा लोकसेवा में निरत रहना चाहिये । यदि आदर्शों के अपनाने में निजी जीवन मे तो प्रयोग किया गया, व्रत, उपवास, ब्रह्मचर्य, मृदुल व्यवहार आदि का अभ्यास करने में अन्तः संघर्ष तो किया गया , पर उसका मूलभूत उद्देश्य स्वार्थ साधन ही रहा तब भी बात नहीं बनेगी । स्वर्ग , मुक्ति , सिद्धि, चमत्कार, यश, सम्मान , जैसे सवार्थ यदि छूटे नहीं और घूम-फिरकर उसी मलीनता में लिपटा रहा तो प्रयत्न की गरिमा चली जाती है । जिसके भी हृदय मे दया, करुणा का भाव होगा, वह स्नेह की, आत्मीयता की अभिव्यक्ति किये बिना रह नहीं सकेगा । सेवा धर्म अपनाये बिना अध्यात्म क्षेत्र में प्रवेश या श्रेय प्राप्त करने की कुछ उपयोगिता नहीं रह जाती । स्वार्थसिद्धि में निरत रहना संकीर्णता ही नहीं, क्षुद्रता भी है ।”
कुछ पौराणिक ग्रंथों में भी इन्हीं विचारणा को प्रधान माना गया है:
निवृत्तः पापकर्मेभ्योः ब्राह्मणः से विधीयते ।
शूद्रोSपिशीलसम्पन्नो ब्राह्मणदधिकोभवेत् ॥ भविष्य पुराण . अ. 44।
जो पापकर्म से बचा हुआ है, वही सच्चे अर्थों में ब्राह्मण है । सदाचार सम्पन्न शूद्र भी ब्राह्मण से अधिक है । आचारहीन ब्राह्मण शूद्र से भी गया बीता है । विवेक, सदाचार, स्वाध्याय और परमार्थ ब्राह्मणत्व की कसौटी है । जो इस कसौटी पर खरा उतरता है, वही सम्पूर्ण अर्थों में सच्चा ब्राह्मण है ।
ब्रह्मणस्य तू देहो यं न सुखाय कदाचन ।
तपः क्लेशाय धर्माय प्रेत्य मोक्षाय सर्वदा ॥ वृहद्धर्ग पुराण 2/44॥
ब्राह्मण की देह विषयोपभोग के लिये कदापि नहीं है । यह तो सर्वथा तपस्या का क्लेश सहने और धर्म का पालन करने और अंत मे मुक्ति के लिये हि उत्पन्न होती है ।
ब्राह्मण का अर्थ है विचारणा और चरित्रनिष्ठा का उत्त्कृष्ट होना ।
तपस्वी का अर्थ है- आदर्शों के निर्वाह में जो संयम बरतना और कष्ट सहना पडता है, उसे दुखी होकर नहीं बल्कि प्रसन्नतापूर्वक सहन करना । ब्राहमण को तपस्वी होना चाहिये, इसका तात्पर्य संयमशीलता से है । संयम की मूलतः चार दिशायें हैं –
1. इंद्रियसंयम 2. अर्थसंयम 3. समयसंयम 4. विचारसंयम । इन्हें साधना अत्यंत आवश्यक है ।
सम्मनादि ब्राह्मणो नित्यभुद्विजेत् विषादिव ।
अमृतस्य चाकांक्षे दव मानस्य सर्वदा ॥ मनुस्मृति 1/162॥
ब्राह्मण को चाहिये कि वह सम्मान से डरता रहे और अपमान की अमृत के समान इच्छा करता रहे ।
वर्ण व्यवस्था की सुरुचिपूर्ण व्यवस्था में ब्राह्मण को समाज में सर्वोपरि स्थान दिया गया है । साथ ही साथ समाज की महान जिम्मेदारियाँ भी ब्राह्मणों को दी गयीं हैं । राष्ट्र एवं समाज के नैतिक स्तर को कायम रखना , उन्हें प्रगतिशीलता एवं विकास की ओर अग्रसर करना , जनजागरण एवं अपने त्यागी तपस्वी जीवन में महान आदर्श उपस्थित कर लोगों को सत्पथ का प्रदर्शन करना, ब्राह्मण जीवन का आधार बनाया गया ।
इसमें कोई संदेह नहीं कि राष्ट्र की जागृति, प्रगतिशीलता एवं महनता उसके ब्राह्मणों पर आधारित होती हैं । ब्राह्मण राष्ट्र निर्माता होते हैं , मानव हृदयों में जनजागरण का गीत सुनाता है , समाज का कर्णधार होता है । देश, काल, पात्र के अनुसार सामाजिक व्यवस्था में परिवर्तन करता है और नवीन प्रकाश चेतना प्रदान करता है । त्याग और बलिदान ही ब्राह्मणत्व की कसौटी होती है ।
राष्ट्र संरक्षण का दायित्व सच्चे ब्राह्मणों पर ही हैं । राष्ट्र को जागृत और जीवंत बनाने का भार इनपर ही है ।
वयं राष्ट्रे जागृयाम पुरोहिताः । यजुर्वेद
ब्राह्मणत्व एक उपलब्धि है जिसे प्रखर प्रज्ञा, भाव-सम्वेदना, और प्रचण्ड साधना से और समाज की निःस्वार्थ अराधना से प्राप्त किया जा सकता है । ब्राह्मण एक अलग वर्ग तो है ही, जिसमे कोई भी प्रवेश कर सकता है, बुद्ध क्षत्रिय थे, स्वामि विवेकानंद कायस्थ थे, पर ये सभी अति उत्त्कृष्ट स्तर के ब्रह्मवेत्ता ब्राह्मण थे । “ब्राह्मण” शब्द उन्हीं के लिये प्रयुक्त होना चाहिये, जिनमें ब्रह्मचेतना और धर्मधारणा जीवित और जाग्रत हो , भले ही वो किसी भी वंश में क्युं ना उत्पन्न हुये हों ।
ब्राह्मणासः सोमिनो वाचमक्रत , ब्रह्म कृण्वन्तः परिवत्सरीणम् ।
अध्वर्यवो घर्मिणः सिष्विदाना, आविर्भवन्ति गुह्या न केचित् ॥ ऋग्वेद 7/103/8 ॥
ब्राह्मण वह है जो शांत, तपस्वी और यजनशील हो । जैसे वर्षपर्यंत चलनेवाले सोमयुक्त यज्ञ में स्तोता मंत्र-ध्वनि करते हैं वैसे ही मेढक भी करते हैं । जो स्वयम् ज्ञानवान हो और संसार को भी ज्ञान देकर भूले भटको को सन्मार्ग पर ले जाता हो, ऐसों को ही ब्राह्मण कहते हैं । उन्हें संसार के समक्ष आकर लोगों का उपकार करना चाहिये ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें