रविवार, 4 जुलाई 2021

अभीरीं मूर्तिमासाद्य स्वामिनं प्रति सा ययौ

इत्युक्त्वा सा शुकी भूत्वा कृष्णांशेन समन्विता ।।
यत्रास्ते तत्पतिर्बद्धस्तत्र सा कामिनी ययौ ।१२१।।
__________________________________

कृष्णांशोऽपि हयारूढो नभोमार्गेण चाप्तवान्।।
अभीरीं मूर्तिमासाद्य स्वामिनं प्रति सा ययौ।१२२।

आश्वास्य तं यथायोग्यं कृष्णांशं प्रत्यवर्णयत् ।।
कृष्णांशस्तत्र बलवान्हत्वा दुर्ग निवासिनः।१२३।।

रक्षकाञ्छतसाहस्रान्हत्वा भ्रातरमाययौ।
पौर्णिमां मधुयुक्तां च ज्ञात्वा सर्वे त्वरान्विताः।१२४।

अयोध्यां शीघ्रमागम्य स्नात्वा वै सरयूं नदीम्।
होलिकादाहसमये शीघ्रं वेण्यां समागताः।।१२५।

स्नानध्यानादिका निष्ठाः कृत्वा गेहमुपाययुः ।।
सागरस्य तटं प्राप्य कृत्वा ते च महोत्सवम् ।
चैत्रस्य कृष्णपञ्चम्यां स्वगेहं पुनराययुः।।१२६।।

दूता उष्ट्रसमारूढास्तत्क्षेमकरणोत्सुकाः । ।
वैशाखे शुक्लपंचम्यां स्वगेहं पुनराययुः।१२७।
मलना भूपतिश्चैव गेहेगेहे महोत्सवम्।
कारयित्वा विधानेन ब्राह्मणेभ्यो ददौ धनम्।१२८।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोदशोऽध्यायः ।। १३ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें