सोमवार, 19 जुलाई 2021

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् (२०५)
कुमार उवाच ।

अथ व्याकरणं वक्ष्ये कात्यायन समासतः।
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे॥ १,२०५.१॥

सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके॥ १,२०५.२॥

सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम्॥१,२०५.३॥

अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत्।
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते॥ १,२०५.४॥

टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता।
येन क्रियते करणं तत्कर्ता यः करोति सः॥ १,२०५.५॥

ङेभ्यांभ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके।
यस्मै दित्सा धारयते रोचते सम्प्रदानकम्॥ १,२०५.६॥

पञ्चमी स्यान्ङसिभ्यांभ्योह्यपादाने च कारके।
यतोऽपैति समादत्ते उपादत्ते भयं यतः॥१,२०५.७॥

ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके ।
ङयोः सुपो वै सप्तमी स्यात्सा चाधिकरणे भवेत्॥ १,२०५.८ ॥

आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम्॥ १,२०५.९॥

पञ्चमी पर्युपाङ्योगे इतरर्तेऽन्यदिङ्मुखे।
एनयोगे द्वितीया स्यात्कर्मप्रवचनीयकैः॥ १,२०५.१०॥

वीप्सेत्थम्भावचिह्नेऽभिर्भागेनैव परिप्रती।
अनुरेषु सहार्थे च हीनेऽनूपश्च कथ्यते॥ १,२०५.११॥

द्वितीया च चतुर्थो स्याच्चेष्टायां गतिकर्मणि।
अप्राणे हि विभक्ती द्बे मन्यकर्मण्यनादरे॥ १,२०५.१२॥

नमः स्वस्तिस्वधास्वाहालंवषड्योग ईरिता।
चतुर्थो चैव तादर्थ्ये तुमर्थाद्भाववाचिनः॥ १,२०५.१३॥

तृतीया सहयोगे स्यात्कुत्सितेङ्गे विशेषणे।
काले भावे सप्तमी स्यादेतैर्योगेऽपिषष्ठ्यति॥ १,२०५.१४॥

स्वामीश्वराधिपतिभिः साक्षिदायादप्रसूतैः।
निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके॥ १,२०५.१५॥

स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके।
हिंसार्थानां प्रयोगे च कृति कर्मणि कर्तरि॥ १,२०५.१६॥

न कर्तृकर्मणोः षष्ठी निष्ठयोः प्रातिपदिके।
द्विविधं प्रातिपदिकं नाम धातुस्तथैव च॥ १,२०५.१७॥

भूवान्दिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः।
तिप्तसूझि प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः॥ १,२०५.१८॥

मिब्वस्मस्तु परस्मै हि पदानां चात्मनेपदम् ।
ताताञ्झ प्रथमो मध्य स्थासाथान्ध्वमथोत्तमः॥ १,२०५.१९॥

आदेशा इड्बहिमहि धातुतोथ णिजादिवत्।
नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत्॥ १,२०५.२०॥

मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि।
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः॥ १,२०५.२१॥

लडीरितो वर्तमाने स्मेनातीते च धातुतः।
भूतेऽनद्यतने लङ्वा लोडाद्याशिषि धातुतः॥ १,२०५.२२॥

विध्यादावेवानुमतो लोड्वाच्यो मन्त्रणे भवेत्।
निमन्त्रणाधीष्टसंप्रश्रे प्रार्थनेषु तथाशिषि॥ १,२०५.२३॥

लिङतीते परोक्षे स्याल्लिड्भूते ळड्भविष्यति।
स्यादनद्यतने तद्वद्भविष्यति तु धातुतः॥ १,२०५.२४॥

दातोरॢङ्क्रियातिपत्तौ लिङर्थे लेट्प्रकीर्तितः।
कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि॥ १,२०५.२५॥

सदृशास्तव्यता ण्यद्यदनीयाश्च तृजादयः॥ १,२०५.२६॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः
__________________________________

गरुडपुराणम्/आचारकाण्डः/अध्यायः २०६


श्रीगरुडमहापुराणम् (२०६)
सूत उवाच ।
सिद्धोदाहरणं वक्ष्ये संहितादिपुरः सरम् ।
विप्राः स्वसागता वीदं सुत्तमं स्यात्पितॄषभः॥ १,२०६.१॥

ळकारो विश्रुता सेवं लाङ्गलीषा मनीपया।
गङ्गोदकं तवल्कार ऋणार्णं प्रार्णमित्यपि॥ १,२०६.२॥

शीतार्तश्च तवल्कारः सैन्द्री सौकार इत्यपि।
वध्वासनञ्च पित्रर्थो लनुबन्धो नये जयेत्॥ १,२०६.३॥

नायको लवणं गावस्त एते न त ईश्वराः।
देवीगृहमथो अत्र अ अवेहि पटू इमौ ॥१,२०६.४॥

अमी अश्वाः षडस्येति तन्न वाक्षड्दलानि च।
तच्चरेत्तल्लु नातीति तज्जलं तच्छ्मशानकम्॥ १,२०६.५॥

सुगन्नत्र पचन्नत्र भवांश्छादयतीति च।
भवाज्झनत्करश्चैव भवांस्तरति संस्मृतम्॥ १,२०६.६॥

भवांल्लिखति ताञ्चक्रे भवाञ्शेतेऽप्यनीदृशः।
भवाण्डीनं त्वन्तरसि त्वङ्करोषि सदार्चनम् ॥ १,२०६.७॥

कश्चरेत्कष्टकारेण क कुर्यात्क फले स्थितः।
कःशेते चैव कःषण्डः कस्को याति च गौरवम्॥ १,२०६.८॥

क इहात्र क एवाहुर्देवा आहुश्च भो व्रज।
स्वभूर्विष्णुर्व्रजति च गीष्पतिश्चैव धूर्पतिः॥ १,२०६.९॥

अस्मानेष व्रजेत्सस्यादृक्साम स च गच्छति ।
कुटीच्छाया तथा छाया सन्धयोऽन्ये तथेदृशाः॥ १,२०६.१०॥

समासाः षट्समाख्याताः स द्विजः कर्मधारयः ।
द्विगुस्त्रिवेदी ग्रामश्च अयं तत्पुरुषः स्मृतः॥ १,२०६.११॥

तत्कृतश्च तदर्थश्च वृकभीतिश्च यद्धनम् ।
ज्ञानदक्षेण तत्त्वज्ञो बहुव्रीहिरथाव्ययी॥ १,२०६.१२॥

भावोऽधिस्त्रि यथोक्तं तु द्वन्द्वो देवर्षिमानवाः ।
तद्धिताः पाण्डवः शैवो ब्राहयं च ब्रह्मतादयः॥ १,२०६.१३॥

देवाग्निसखिपत्यंशुक्रोष्टुस्वायम्भुवः पिता।
ना प्रशस्ताश्चरा गौर्ग्लौरबजन्ताश्च पुंस्यपि॥ १,२०६.१४॥

हलन्तश्चाश्वयुक्क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः।
आत्मा राजा युवा पन्थाः पूषब्रह्महणौ हली॥ १,२०६.१५॥

विड्वे धा उशनानड्वान्मधुलिट्काष्ठतट्तथा।
बनवार्यस्थिवस्तूनि जगत्सामाहनी तथा॥ १,२०६.१६॥

कर्मसर्पिर्वपुस्तेज अज्झलन्ता नपुंसके।
जाया जरा नदी लक्ष्मीः श्रीस्त्रीभूमिर्वधूरपि॥ १,२०६.१७॥

भ्रूः पुनर्भूस्तथा धेनुः स्वसा माता च नौ स्त्रियः।
वाक्स्रग्दिङ्मुत्क्रुधः प्रायो युवतिः कुकुभस्तथा॥ १,२०६.१८॥

द्योदिवौ प्रावृषश्चैव सुमान उष्णिगस्त्रियाम्।
गुणद्रव्यक्रियायोगात्स्त्रीलिङ्गांश्च वदामि ते॥ १,२०६.१९॥

शुक्लकीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः।
पटुः कमलभूः कर्ता सुमतो बहवः सुनौः॥ १,२०६.२०॥

सत्या नाग्न्यस्तथा पुंसो ह्यभक्षयत दीर्घपात्।
सर्वविश्वोभ ये चोभौ एकोन्यान्यतराणि च॥ १,२०६.२१॥

डतरो डतमो नेमस्त्वः समोऽथ सिमेतरौ ।
पूर्वश्चैवाधरश्चैव दक्षिणश्चोत्तरावरौ ॥१,२०६.२२॥

परश्चान्तरमप्येतद्यत्त्यत्किमदसस्त्विदम्।
युष्मदस्मत्तत्प्रथमचरमाल्पतयार्धकाः॥ १,२०६.२३॥

तथा कतिपयो द्वौ चेत्येवं सर्वादयस्तथा ।
शृणोत्याद्या जुहोतिश्च जहातिश्च दधात्यपि॥ १,२०६.२४॥

दीप्यतिः स्तूयतिश्चैव पुत्त्रीयति धनीयति ।
त्रुट्यति म्रियते चैव चिचीषति निनीषति॥ १,२०६.२५॥

सर्वे तिष्ठन्ति सर्वस्मै सर्वस्मात्सर्वन्तो गतः ।
सर्वेषां चैव सर्वस्मिन्नेवं विश्वादयस्तथा॥ १,२०६.२६॥

पूर्वे पूर्वाश्च पूर्वस्मात्पूर्वस्मिन्पूर्व ईरितः।
सूत उवाच।
सुप्तिङन्तुं सिद्धरूपं नाममात्रेण दर्शितम् ।
कात्यायनः कुमारात्तु श्रुत्वा विस्तरमब्रवीत्॥ १,२०६.२७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमानाचारदृ नाम षडुत्तरद्विशततमोऽध्यायः


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें