सोमवार, 19 जुलाई 2021

गरुड पुराण जनजाति प्रकरण-

गरुडपुराणम्/आचारकाण्डः/अध्यायः ५५

← आचारकाण्डः, अध्यायः ५४गरुडपुराणम्
अध्यायः ५५
वेदव्यासः
आचारकाण्डः, अध्यायः ५६ →


              ॥हरिरुवाच ॥
मध्ये त्विलावृतो वर्षो भद्राश्वः पूर्वतोऽद्भुतः ॥
पूर्वदक्षिणतो वर्षो हिरण्वान्वृषभध्वज ॥ 55.1 ॥

ततः किम्पुरुषो वर्षो मेरोर्दक्षिणतः स्मृतः ॥
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपश्चिमे ॥ 55.2 ॥

पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे ॥
उत्तरे च कुरोर्वर्षः कल्पवृक्षसमावृतः ॥ 55.3 ॥

सिद्धिः स्वाभाविकी रुद्र ! वर्जयित्वा तु भारतम् ॥
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तितमान् ॥ 55.4 ॥

नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ॥
अयं तुनवमस्तेषां द्वीपः सागरसंवृतः ॥ 55.5 ॥

पूर्वे किरातास्तस्यास्ते पश्चिमे यवनाः स्थिताः ॥
अन्ध्रा दक्षिणतो रुद्र ! तुरष्कास्त्वपि चोत्तरे ॥ 55.6 ॥

ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्तरवासिनः ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ 55.7 ॥

विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥
वेदस्मृति र्नर्मदा च वरदा सुरसा शिवा ॥ 55.8 ॥

तापी पयोष्णी सरयूः कावेरी गोमती तथा ॥
गोदावरी भीमरथी कृष्णवेणी महानदी ॥ 55.9 ॥

केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती ॥
ऋषिकुल्या च कावेरी मृत्तगङ्गा पयस्विनी ॥ 55.10 ॥

विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः ॥
आसां पिबन्ति सलिलं मध्यदेशादयो जनाः ॥ 55.11 ॥

पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः ॥
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ॥ 55.12 ॥

वृषध्वज ! जनाः पाद्माः सूतमागधचेदयः ॥
काशय (षाया) श्च विदेहाश्च पूर्वस्यां कोशलास्तथा ॥ 55.13 ॥

कलिंगवंगपुण्ड्रांगा वैदर्भा मूलकास्तथा ॥
विन्ध्यान्तर्निलया देशाः पूर्वदक्षिणतः स्मृताः ॥ 55.14 ॥

पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः ॥
कर्णा(र्ना)टकम्बोजघणा दक्षिणापथवासिनः ॥ 55.15 ॥

अम्बष्ठद्रविडा लाटाः काम्बोजाः स्त्रीमुखाः शकाः ॥
आनर्त्तवासिनश्चैव ज्ञेया यक्षिणपश्चिमे ॥ 55.16 ॥

स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा ॥
पश्चिमेन च विज्ञेया माथुरा नैषधैः सह ॥ 55.17 ॥

माण्डव्याश्च तुषाराश्च मूलिकाश्वमुखाः खशाः ॥
महाकेशा महानादा देशास्तूत्तरपश्चिमे ॥ 55.18 ॥

लम्ब (म्पा) का स्तननागाश्च माद्रगान्धारबाह्लिकाः ॥
हिमाचलालया म्लेच्छा उदीचीं दिशमाश्रिताः ॥ 55.19 ॥

त्रिगर्त्तनीलकोलात (भ) ब्रह्मपुत्राः सटङ्कणाः ॥
अभीषाहाः सकाश्मीरा उदक्पर्वेण कीर्त्तिताः ॥ 55.20 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥


गरुडपुराणम्/आचारकाण्डः/अध्यायः ९६

किसी अन्य भाषा में पढ़ें

डाउनलोड करें

निरीक्षताम्

संपादित करें

< गरुडपुराणम्‎ | आचारकाण्डः

← आचारकाण्डः, अध्यायः ९५ गरुडपुराणम्

अध्यायः ९६

वेदव्यासः आचारकाण्डः, अध्यायः ९७ →

             ॥ याज्ञवल्क्य उवाच ॥

वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम् ॥

विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम् ॥ 96.1 ॥


जातोऽम्बष्ठस्तु शूद्रायां निषादः पर्वतोऽपि वा ॥

माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः ॥ 96.2 ॥


शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः ॥

ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा ॥ 96.3 ॥


शूद्राज्जातस्तु चांडालः सर्ववर्णविगर्हितः ॥

क्षत्त्रिया मागधं वैश्याच्छूद्रा क्षेत्रावमेव च ॥ 96.4 ॥


शूद्रादयोगवं वैश्या जनयामास वै सुतम् ॥

माहिष्येण करण्यां तु रथकारः प्रजायते ॥ 96.5 ॥


असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः ॥

जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा ॥ 96.6 ॥


व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम् ॥

कर्म स्मार्त्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ॥ 96.7 ॥


दायकालादृते वापि श्रौतं वैतानिकाग्निषु ॥

शरीरचिन्तां निर्वर्त्त्य कृतशौचविधिर्द्विजः ॥ 96.8 ॥


प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् ॥

हुत्वाग्नौ सूर्य्यदेवत्याञ्जपेन्मन्त्रान्समाहितः ॥ 96.9 ॥


वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥

योगक्षोमादिसिद्ध्यर्थमुपेयादीश्वरं गृही ॥ 96.10 ॥


स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥

वेदानथ पुराणानि सेतिहासानि शक्तितः ॥ 96.11 ॥


जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥

बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः ॥ 96.12 ॥


भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥

देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत् ॥ 96.13 ॥


अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत् ॥

अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ॥ 96.14 ॥


स्वाध्यायमन्वहं कुर्य्यान्न पचेच्चान्नमात्मने ॥

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ॥ 96.15 ॥


संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥

प्राणाग्निहोत्रविधिनाश्रीयादन्नमकुत्सयन् ॥ 96.16 ॥


मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् ॥

आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते ॥ 96.17 ॥


अनग्नममृतं चैव कार्य्यमन्नं द्विजन्मना ॥

अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्याऽनुपूर्वशः ॥ 96.18 ॥


अप्रणोद्योऽतिथिः सायमपि नात्र विचारणा ॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ॥ 96.19 ॥


आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च ॥

प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्य्यपार्थिवाः ॥ 96.20 ॥


प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः ॥

अध्वनीनोऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः ॥ 96.21 ॥


मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥

परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ॥ 96.22 ॥


वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम् ॥

श्रोत्रियं वातिथिं तृप्तमासीमान्तादनुव्रजेत् ॥ 96.23 ॥


अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥

उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः ॥ 96.24 ॥


कुर्य्याद्भृत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम् ॥

ब्राह्मे मुहूर्त्ते चोत्थाय मान्यो विप्रो धनादिभिः ॥ 96.25 ॥


वृद्धार्त्तानां समादेयः पन्था वै भारवाहिनाम् ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च ॥ 96.26 ॥


प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥

प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम् ॥ 96.27 ॥


कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् ॥

शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत् ॥ 96.28 ॥


अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ॥

दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् ॥ 96.29 ॥


आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥

त्रैवार्षिका धिकान्नो यः स सोमं पातुमर्हति ॥ 96.30 ॥


स्यादन्नं वार्षिकं यस्य कुर्य्यात्प्राकसौमिकीं क्रियाम् ॥

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ॥ 96.31 ॥


कर्त्तव्याऽऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः ॥

एषामसम्भवे कुर्य्यादिष्टिं वैश्वानरीं द्विजः ॥ 96.32 ॥


हीनकल्पं न कुर्वोत सति द्रव्ये फलप्रदम् ॥

चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात ॥ 96.33 ॥


यज्ञार्थलब्धं नादद्याद्भासः काकोऽपि वा भवेत् ॥

कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनोऽपि वा ॥ 96.34 ॥


जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥

न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ॥ 96.35 ॥


राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ॥

दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत् ॥ 96.36 ॥


शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ॥

न भार्य्यादर्शनेऽश्रीयान्नैकवासा न संस्थितः ॥ 96.37 ॥


अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान् ॥

देवप्रदक्षिणाङ्कुर्य्याद्यष्टिमान्सकमण्डलुः ॥ 96.38 ॥


न तु मेहेन्नदीच्छायाभस्मगोष्टाम्बुवर्त्मसु ॥

न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम् ॥ 96.39 ॥


नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम् ॥

न च मूत्रं पुरीषं वा स्वपेत्प्रत्यकूशिरा न च ॥ 96.40 ॥


ष्टीवनासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ॥

पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ 96.41 ॥


पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत् ॥

नाक्षैः क्रीडेच्च कितवैर्व्याधितैश्च न संविशेत् ॥ 96.42 ॥


विरुद्धं वर्जयेत्कम प्रेतधूमं नदीतटम् ॥

केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ 96.43 ॥


नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत्क्वचित् ॥

न राज्ञः प्रतिगृह्णायाल्लुब्धस्योच्छास्त्रवर्त्तिनः ॥ 96.44 ॥


अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ॥

हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च ॥ 96.45 ॥


पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥

जलान्ते छन्दसां कुर्य्यादुत्सर्गं विधिवद्वहिः ॥ 96.46 ॥


अनध्यायस्त्र्यहं प्रेते शिष्यर्त्त्विग्गुरुबन्धुषु ॥

उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते ॥ 96.47 ॥


सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ॥

समाप्य वेदं त्वनिशमारण्यकमधीत्य च ॥ 96.48 ॥


पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥

ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ 96.49 ॥


पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः ॥

कृतेऽन्तरे त्वहोरात्रं शुक्रपाते तथोच्छ्रये ॥ 96.50 ॥


श्वक्रोष्टुगर्दभोलूकसामबाणार्त्तनिः स्वने ॥

अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ 96.51 ॥


देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ॥

भुक्त्वार्द्रपाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते ॥ 96.52 ॥


दिग्दाहे पांशुवर्षेषु सन्ध्यानी हारभीतिषु ॥

धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ 96.53 ॥


खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे ॥

सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ 96.54 ॥


वेददिष्टं तथाचार्य्यं राजच्छायां परस्त्रियम् ॥

नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्त्तनानि च ॥ 96.55 ॥


विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन ॥

दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ॥ 96.56 ॥


श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्मणि न स्पृशेत् ॥

न निन्दाताडने कुर्य्यात्सुतं शिष्यं च ताडयेत् ॥ 96.57 ॥


आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् ॥

मातापित्रतिथीभ्याढ्यैर्विवादं नाचरेद्गृही ॥ 96.58 ॥


पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ॥

स्नायान्नदीप्रस्रवणदेवखातह्रदेषु च ॥ 96.59 ॥


वर्जयेत्परशय्यादि न चाश्रीयादनापदि ॥

कदर्य्यबद्धचो (वै) राणां तथा चानम्निकस्य च ॥ 96.60 ॥


वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम् ॥

चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम् ॥ 96.61 ॥


क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥

शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम् ॥ 96.62 ॥


नृशंसराजरजककृतघ्नवधजीविनाम् ॥

पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा ॥ 96.63 ॥


वन्दिनां स्वर्णकाराणामन्नमेषां कदाचन ॥

न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम् ॥ 96.64 ॥


भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम् ॥

उदक्यास्पृष्टसंघुष्टमपर्य्याप्तं च वर्जयेत् ॥ 96.65 ॥


गोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः ॥

शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणः ॥ 96.66 ॥


भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् ॥

अन्नं पर्य्युषितं भोज्यं स्नेहाक्तं चिरसंभृ (स्थि) तम् ॥ 96.67 ॥


अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥

औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत् ॥ 96.68 ॥


क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् ॥

सारसैकशफान्हंसान्बलाकबकटिट्टिभान् ॥ 96.69 ॥


वृथा कृसरसंयाव पायसापूपशष्कुलीः ॥

कुररं जालपादं च खञ्जरीटमृगद्विजान् ॥ 96.70 ॥


चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः ॥

बन्धुरं कामतो जग्द्ध्वा सोप वासस्त्र्यहं भवेत् ॥ 96.71 ॥


पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत् ॥

श्राद्धे देवान्पितॄन्प्रार्च्य खादन्मांसं न दोषभाक् ॥ 96.72 ॥


वसेत्स नरके घोर दिनानि पशुरोमतः ॥

सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥

मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥ 96.73 ॥


इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः ॥ 96 ॥







गरुडपुराणम्/आचारकाण्डः/अध्यायः ७९

किसी अन्य भाषा में पढ़ें

डाउनलोड करें

निरीक्षताम्

संपादित करें

< गरुडपुराणम्‎ | आचारकाण्डः

← आचारकाण्डः, अध्यायः ७८ गरुडपुराणम्

अध्यायः ७९

वेदव्यासः आचारकाण्डः, अध्यायः ८० →

                   ॥ सूत उवाच ॥

कावेरविन्ध्ययवनचीननेपालभूमिषु ॥

लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥ 79.1 ॥


आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः ॥

मृणालशङ्खधवलं किञ्चिद्वर्णान्तरन्वितम् ॥ 79.2 ॥


न त्तुल्यं हि रत्नानामथवा पापनाशनम् ॥

संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः (दा) ॥ 79.3 ॥


इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्फटिकपरीक्षणं नामैकोनाशीतितमोऽध्यायः ॥ 79 ॥



गरुडपुराणम्/आचारकाण्डः/अध्यायः १३८

← आचारकाण्डः, अध्यायः १३७गरुडपुराणम्
अध्यायः १३८
वेदव्यासः
आचारकाण्डः, अध्यायः १३९ →

श्रीगरुडमहापुराणम् १३८
(इति व्रतानि समाप्तानि) ।
हरिरुवाच ।
राज्ञां वंशान्प्रवक्ष्यामि वंशानुचरितानि च ।
विष्णुनाभ्यब्जतो ब्रह्मा दक्षोऽङ्गुष्ठाच्च तस्य वै ॥ १,१३८.१ ॥

ततोऽपितर्विवस्वांश्च ततः सूनुर्विवस्वतः मनुरिक्ष्वाकुशर्याती नृगो धृष्टः प्रषध्रकः ॥ १,१३८.२ ॥

नरिष्यन्तश्च नाभागो दिष्टः शशक एव च ।
मनोरासीदिला कन्या सुद्युम्नोऽस्य सुतोऽभवत् ॥ १,१३८.३ ॥

इलायां तु बुधाज्जातो राजा रुद्र पुरूरवाः ।
सुतास्त्रयश्च सुद्युम्नादुत्कलो विनतो गयः ॥ १,१३८.४ ॥

अभृच्छ्रद्रो गोवधात्तु पृषध्रस्तु मनोः सुतः ।
करूषात्क्षत्त्रिया जाता कारूषा इति विश्रुताः ॥ १,१३८.५ ॥

दिष्टपुत्रस्तु नाभागो वैश्यातामगमत्स च ।
तस्माद्भलन्दनः पुत्रो वत्सप्रीतिर्भलन्दनात् ॥ १,१३८.६ ॥

ततः पांशुः खनित्रोऽभूद्भूपस्तस्मात्ततः क्षुपः ।
क्षुपाद्विंशोऽभवत्पुत्रो विंशाज्जातो विविंशकः ॥ १,१३८.७ ॥

विविंशाच्च खनीनेत्रो विभूतिस्तत्सुतः स्मृतः ।
करन्धमो विभूतेस्तु ततो जातोऽप्यविक्षितः ॥ १,१३८.८ ॥

मरुत्तोऽविक्षितस्यापि नरिष्यन्तस्ततः स्मृतः ।
नरिष्यन्तात्तमो जातस्ततोभूद्राजवर्धनः ॥ १,१३८.९ ॥

राजवर्धात्सुधृतिश्च नरोऽभूत्सुधृतेः सुतः ।
नराच्च केवलः पुत्रः केवलाद्धुन्धुमानपि ॥ १,१३८.१० ॥

धुन्धुमतो वेगवांश्च बुधो वेगवतः सुतः ।
तृणबिन्दुर्बुधाज्जातः कान्या चैलविला तथा ॥ १,१३८.११ ॥

विशालं जनयामास तृणबिन्दोस्त्वलम्बुसा ।
विशालाद्धेमचन्द्रोऽभूद्धेम चन्द्राच्च चन्द्रकः ॥ १,१३८.१२ ॥

धूम्राश्वश्चैव चन्द्रात्तु धूम्राश्वात्सृञ्जयस्तथा ।
सञ्जयात्सहदेवोऽभूत्कृशाश्वस्तत्सुतोऽभवत् ॥ १,१३८.१३ ॥

कृशाश्वात्सोमदत्तस्तुततोऽभूज्जनमेजयः ।
तत्पुत्रश्च सुमन्तिश्च एते वैशालका नृपाः ॥ १,१३८.१४ ॥

शर्यातेस्तु सुकन्याबूत्सा भार्या च्यवनस्य तु ।
अनन्तो नाम शार्यते रनन्ताद्रेवतोऽभवत् ॥ १,१३८.१५ ॥

रैवतो रेवतस्यापि रैवताद्रेवती सुता ।
धृष्टस्य धार्ष्टर्(त) कं क्षेत्रं वैष्णवं (श्यकं) तद्वभूव ह ॥ १,१३८.१६ ॥

नाभागपुत्रो नेष्ठो ह्यम्बरीषोऽपि तत्सुतः ।
अम्बरीषाद्विरूपोऽभूत्पृषदश्वो विरूपतः ॥ १,१३८.१७ ॥

रथीनरश्च तत्पुत्रो वासुदेवपरायणः ।
इक्ष्वाकोस्तु त्रयः पुत्राः विकुक्षिनिमिदण्डकाः ॥ १,१३८.१८ ॥

इक्ष्वाकुजो विकुक्षिस्तु शशादः शशभक्षणात् ।
पुरञ्जयः शशादाच्च ककुत्स्थाख्योऽभवत्सुतः ॥ १,१३८.१९ ॥

अनेनास्तु ककुत्सथाच्च पृथुः पुत्रस्त्वनेनसः ।
विश्वरातः पृथोः पुत्र आर्द्रेऽभूद्विश्वराततः ॥ १,१३८.२० ॥

युवनाश्वोऽभवच्चार्द्राच्छावस्तो युवनाश्वतः ।
बृहदश्वस्तुशावस्तात्तत्पुत्रः कुवलाश्वकः ॥ १,१३८.२१ ॥

धुन्धुमारो हि विक्यातो दृढश्वश्चततोऽभवत् ।
चन्द्राश्वः कपिलाश्वश्च हर्यश्वश्च दृढश्वतः ॥ १,१३८.२२ ॥

हर्यश्वाच्च निकुम्बोऽभूद्धिताश्वश्च निकुम्भतः ।
पूजाश्वश्च हिताश्वाच्च तत्सतो युवनाश्वकः ॥ १,१३८.२३ ॥

युवनाश्वाच्च मान्धाता बिन्दुमत्यास्ततोऽभवत् ।
मुचुकुन्दोऽम्बरीषश्च पुरुकुत्सस्त्रयः सुताः ॥ १,१३८.२४ ॥

पञ्चाशत्कन्यकाश्चैव भार्यास्ताः सौभरेर्मुनेः ।
युवनाश्वोऽम्बरीषाच्च हरितो युवनाश्वतः ॥ १,१३८.२५ ॥

पुरुकुत्सान्नर्मदायां त्रसदस्युरबूत्सुतः ।
अनरण्यस्ततो जातो हर्यश्वोऽप्यनरण्यतः ॥ १,१३८.२६ ॥

तत्पुत्रोऽभूद्वसुमनास्त्रिधन्वा तस्य चात्मजः ।
त्रय्यारुणस्तस्य पुत्रस्तस्त सत्यरतः सुतः ॥ १,१३८.२७ ॥

यस्त्रिशङ्कुः समाख्यातो हरिश्चन्द्रोऽभवत्ततः ।
हरिश्चन्द्राद्रोहिताश्वो हरितो रोहिताश्वतः ॥ १,१३८.२८ ॥

हरितस्य सुतश्चञ्चुश्चञ्चोश्च विजयः सुतः ।
विजयाद्रुरुको जज्ञे रुरुकात्तु वृकः सुतः ॥ १,१३८.२९ ॥

वृकाद्बाहुर्नृपोऽभूच्च बाहोस्तु सगरः स्मृतः ।
षष्टिः पुत्र सहस्राणि सुमत्यां सगराद्धर ॥ १,१३८.३० ॥

केशिन्यामेक एवासावसमञ्जससंज्ञकः ॥ १,१३८.३१ ॥

तस्यांशुमान्सुतो विद्वान्दिलीपस्तत्सुतोऽभवत् ।
भगीरथो दिलीपाच्च यो गङ्गामानयद्भुवम् ॥ १,१३८.३२ ॥

श्रुतो भगीरथसुतो नाभगश्च श्रुतात्किल ।
नाभागादम्बरीषोऽभूत्सिन्दुद्वीपोऽम्बरीषतः ॥ १,१३८.३३ ॥

सिन्दुद्वीपस्यायुतायुरृतुपर्णस्तदात्मजः ।
ऋतुषर्णात्सर्वकामः सुदासोऽभूत्तदात्मजः ॥ १,१३८.३४ ॥

सुदासस्य च सौदासो नाम्ना मित्रसहः स्मृतः ।
कल्माष पादसंज्ञश्च दमयन्त्यां तदात्मजः ॥ १,१३८.३५ ॥

अश्वकाख्योऽभवत्पुत्रो ह्यश्वकान्मूल(न्मृच्छ) कोऽभवत् ।
ततो दशरथो राजा तस्य चैलविलः सुतः ॥ १,१३८.३६ ॥

तस्य विश्वसहः पुत्रः खट्वाङ्गश्च तदात्मजः ।
खट्वाङ्गद्दीर्घबाहुश्च दीर्घबाहोर्ह्यजः सुतः ॥ १,१३८.३७ ॥

तस्य पुत्त्रो दशरथश्चत्वारस्तत्सुताः स्मृताः ।
रामलक्ष्मणशत्रुघ्नभरताश्च महाबलाः ॥ १,१३८.३८ ॥

रामात्कुशलवौ जातौ भरतात्तार्क्षपुष्करौ ।
चित्राङ्गदश्चन्द्रकेतुर्लक्ष्मणात्संबभूवतुः ॥ १,१३८.३९ ॥

सुबाहुशूरसेनौ च शत्रुघ्नात्संबभूवतुः ।
कुशस्य चातिथिः पुत्रो निषधो ह्यतिथेः सुतः ॥ १,१३८.४० ॥

निषधस्य नलः पुत्रो नलस्य च नभाः स्मृतः ।
नभसः पुण्डरीकस्तुक्षेमधन्वा तदात्मजः ॥ १,१३८.४१ ॥

देवानीकस्तस्य पुत्रो देवानीकादहीनकः ।
अहीनकाद्रुरुर्यज्ञे पारियात्रो रुरोः सुतः ॥ १,१३८.४२ ॥

पारियात्राद्दलो यज्ञे दल पुत्रश्छलः स्मृतः ।
छलादुक्थस्ततो ह्युक्थाद्वज्रनाभस्ततो गणः ॥ १,१३८.४३ ॥

उषिताश्वो गणाज्जज्ञे ततो विश्वसहोऽभवत् ।
हिरण्यनाभस्तत्पुत्रस्तत्पुत्रः पुष्पकः स्मृतः ॥ १,१३८.४४ ॥

ध्रुवसन्धिरभूत्पुष्पाद्ध्रुवसन्धेः सुदर्शनः ।
सुदर्शनादग्निवर्णः पद्मवणोऽग्निवर्णतः ॥ १,१३८.४५ ॥

शीघ्रस्तु पद्मवर्णात्तु शीघ्रात्पुत्रो मरुस्त्वभूत् ।
मरोः प्रसुश्रुतः पुत्रस्तस्य चोदावसुः सुतः ॥ १,१३८.४६ ॥

उदावसोर्नन्दिवर्धनः सुकेतुर्नन्दिवर्धनात् ।
सुकेतोर्देवरातोऽभूद्वृहदुक्थस्ततः सुतः ॥ १,१३८.४७ ॥

बृहदुक्थान्महावीर्यः सुधृतिस्तस्य चात्मजः ।
सुधृतेर्धृष्टकेतुश्च हर्यश्वो धृष्टकेतुतः ॥ १,१३८.४८ ॥

हर्यश्वात्तु मरुर्जातो मरोः प्रतीन्धकोऽभवत् ।
प्रतीन्धकात्कृतिरथो देवमीढस्तदात्मजः ॥ १,१३८.४९ ॥

विबुधो देवमीढात्तु विबुधात्तु महाधृतिः ।
महाधृतेः कीर्तिरातो महारोमा तदात्मजः ॥ १,१३८.५० ॥

महारोम्णः स्वर्णरोमा ह्रस्वरोमा तदात्मजः ।
सीरध्वजो ह्रस्वरोम्णः तस्य सीताभवत्सुता ॥ १,१३८.५१ ॥

भ्राता कुशध्वजस्तस्य सीरध्वजात्तु भानुमान् ।
शतद्युम्नो भानुमतः शतद्युम्नाच्छुचिः स्मृतः ॥ १,१३८.५२ ॥

ऊर्जनामा शुचेः पुत्रः सनद्वाजस्तदात्मजः ।
सनद्वाजात्कुलिर्जातोऽनञ्जनस्तु कुलेः सुतः ॥ १,१३८.५३ ॥

अनञ्जनाच्च कुलजित्तस्यापि चाधिनेमिकः ।
श्रुतायुस्तस्य पुत्रोऽभूत्सुपार्श्वश्च तदात्मजः ॥ १,१३८.५४ ॥

सुपार्श्वात्सृंजयो जातः क्षेमारिः सृजयात्समृतः ।
क्षेमारि तस्त्वनेनाश्च तस्य रामरथः स्मृतः ॥ १,१३८.५५ ॥

सत्यरथो रामरथात्तस्मादुपगुरुः स्मृतः ।
उपगुरोरुपगुप्तः स्वागतश्चोपगुप्ततः ॥ १,१३८.५६ ॥

स्वनरः स्वागताज्जज्ञे सुवर्चास्तस्य चात्मजः ।
सुवर्चसः सुपार्श्वस्तु सुश्रुतश्च सुपार्श्वतः ॥ १,१३८.५७ ॥

जयस्तु सुश्रुताज्जज्ञे जयात्तु विजयोऽभवत् ।
विजयस्य ऋतः पुत्रः ऋतस्य सुनयः सुतः ॥ १,१३८.५८ ॥

सुनयाद्वीतहव्यस्तु वीतहव्याद्धतिः स्मृतः ।
बहुलाश्वो धृतेः पुत्रो बहुलाश्वात्कृतिः स्मृतः ॥ १,१३८.५९ ॥

जनकस्य द्वये वंशे उक्तो योगसमाश्रयः ॥ १,१३८.६० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यवंशवर्णनं नामाष्टत्रिंशदुत्तरशततमोऽध्यायः




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें