बुधवार, 7 फ़रवरी 2024

ययाति लक्ष्मी नारायण संहिता

आतिथ्यं सर्वदा चक्रे नूत्नधान्यादिभिः सदा ।
विष्णुर्विप्रस्वरूपेण ययौ कुरोः कृषिं प्रति ।८१।




नहुषस्याऽऽत्मजेनापि ययातिना महीतले।
वैष्णवेन कृताः सर्वे वैष्णवा धार्मिकाः खलु।७४।
अनुवाद:-विष्णु के भक्त नहुष के कुलीन पुत्र ने पृथ्वी पर रहने वाले सभी मनुष्यों को विष्णु का भक्त बना दिया है। ७४।


वैकुण्ठतुल्यरूपं वै राजते भूमिमण्डलम् ।
मानवा अमरा जाता जरारोगविवर्जिताः ।७५।
अनुवाद:-
उन्होंने नश्वर संसार का स्वरूप वैकुण्ठ जैसा बना दिया है । मनुष्य अमर हो गया है और बुढ़ापे तथा रोगों से मुक्त हो गया है।७५।

अपापाः सत्यशीलाश्च क्रोधादिदोषवर्जिताः।
भक्तिशीला धर्मपराः समर्चन्ति नरायणम् ।७६।
अनुवाद:-
न तो कोई पाप करते हैं और न ही झूठ बोलते हैं। वे काम और क्रोध से मुक्त हैं, और लोभ और भ्रम से रहित हैं।७६।

दूर्वा वटा यथा भूमौ विस्तारं यान्ति वंशगाः।
तथा प्रजा विस्तृताश्च पुत्रपौत्रैः प्रपौत्रकैः।७७।
अनुवाद:-
 जिस प्रकार दूर्वा (घास) और वट के वृक्ष पृथ्वी पर फैलते हैं, उसी प्रकार वे  वैष्णव अपने पुत्र, पौत्र और प्रपौत्रों के कारण विस्तार (अर्थात संख्या में वृद्धि) कर चुके हैं।७७।

यममार्गे न चाऽऽयान्ति यान्ति वैकुण्ठमेव ताः।
कार्यहीनोऽस्मि सञ्जातो व्यापारेण विवर्जितः।७८।
अनुवाद:-
यम के नरक में कोई नहीं आता है सभी वैकुण्ठ में ही जाते हैं। मैं इस समय कार्यहीन अपने व्यापार से रहित हो गया हूँ।७८।

एतज्ज्ञात्वा महेन्द्र त्वं प्रजाया मेऽपि वै हितम् ।
समाचार प्रवाहस्य वेधः सर्गस्य वै गतिम् ।७९।
अनुवाद:-
हे इन्द्र ! यह जानकर तुम मेरी प्रजा के हित मे कुछ करो।इस प्रकार मैंने तुम्हें वह सब कुछ बता दिया है जो मेरे कार्य को समाप्त कर देता है। हे इन्द्र ऐसा जानकर वही करो जो इस संसार के लिए हितकर हो। जैसा कि आपने मुझसे पूछा था, मैंने यह सब आपको बता दिया है। इसी कारण से, हे इंद्र, मैं आपके समीप आया हूं।

इत्युक्त्वा प्रययौ धर्मराजः स्वस्याऽऽलयं ततः।
महेन्द्रो मातलिं चाह सारथिं याहि भूतलम् ।3.72.८०।
अनुवाद:-
इस प्रकार कहकर यमराज अपने लोक को चले गये तब इन्द्र ने  अपने सारथि मात ल
 को बुलाकर कहा!  तु पृथ्वी लोक में जाओ!

नाहुषं नृपतिं भक्तं ययातिं वद मद्वचः।
अर्धासनं महेन्द्रो वै भवते दास्यते निजम् ।८१।
हे मातलि ! 
ययाति से जाकर मेरे वचन कहो मैं अपना स्वर्ग का अपना  आधा पद ययाति को दुँगा।८१।

याहि स्वर्गं सुखं भुङ्क्ष्व कल्पान्तं दिवि भूपते।
वर्षाणां तु सहस्राणि राज्यं भुक्तं त्वया नृप ।८२।
वह राजा ययाति स्वर्ग के सुख भोगे एक कल्प तक उसके द्वारा हजारों वर्षों तक स्वर्ग राज्य को भोगा जाये ।८२।

स्वर्गं भुङ्क्ष्व पुनः श्रेष्ठं शाश्वतं च ततः पदम् ।
पुत्रास्ते सन्ति चत्वारो रुरुः पुरुः कुरुर्यदुः ।८३।
हे ययाति तुम इस लम्बे समय तक इस पद को भोगो और तुम्हारे चारों पुत्र भी इस पद के भोगे।

तेभ्यो राज्यं समर्प्यैव विमानेनैहि च दिवम् ।
इलः पुरूरवा विप्रचितिः शिविर्मनुस्तथा ।८४।

सगरो नहुषस्तेऽपि पिताऽन्ये च नरेश्वराः ।
स्वर्गे तत्र प्रमोदन्ते चायाहि त्वं तथाविधः ।८५।

शक्रेण सह मोदस्व स्वर्गधर्मेषु संस्थितः।
नृपाऽशीतिसहस्राणि वर्षाणि भूतले तव ।८६।

दानयज्ञवृषभक्तिभिर्गतानि शुभानि ह ।
पञ्चात्मकशरीरस्य भूमौ त्यागं विधाय वै ।८७।

दिव्यं रूपं समगृह्य भुङ्क्ष्व स्वर्गसुखानि तु ।
श्रुत्वोवाच ययातिश्च मातले! शृणु मद्वचः ।८८।

येन कायेन संसिद्ध्येत् सुकृतं मुक्तिसाधनम् ।
भक्तिश्च जायते कृष्णे कथं त्याज्यं कलेवरम् ।।८९।

सत्यधर्मात्मकं पुण्यं येन कायेन मानवः ।
समर्जयति मुक्तिं च तत् कस्मात् संविसर्जयेत् ।3.72.९०।


त्वया लोका निर्जिताश्च विष्णुभक्त्या हि भूतले ।
नृपे धर्मयुते तस्य प्रजा भवति धार्मिकी ।२७।

नृपे भक्ते भक्तियुक्ता दुष्टे दुष्टा भवत्यपि ।
भूतलं वैष्णवं धाम त्वया कृतं शुभं खलु ।२८।

किन्तु राजन् यममार्गः स्वर्गमार्गोऽपि साऽर्गलः।
इदानीं वर्तते भक्त्या वैकुण्ठं यान्ति मानवाः ।२९।

दिक्पालानां च ये लोका निर्जना वै भवन्ति यत् ।
ब्रह्मणा च कृतः सृष्टेः प्रवाहोऽपि निरुद्ध्यते ।।3.73.३०।

देवानां चापि पितॄणामाशा लुप्ता भवत्यपि ।
वंशविस्तारभावाश्च प्रवर्धन्ते हि वैष्णवाः ।।३ १ ।।

सर्वे यास्यन्ति वैकुण्ठं न स्वर्गं न यमालयम् ।
न जनं न तपश्चापि न सत्यं ब्रह्मणो गृहम् ।।३२।।

एवं वै वर्तमाने तु ऋणानुबन्धिता नृप ।
लुप्तैव स्यात्ततो राजन् प्रवाहो न यथा क्षयेत् ।।३३।।

बिन्दुमती रतिपुत्री चाऽप्सरोगणमध्यगा ।
राजपत्नी हि राजानं मोहे चिक्षेप सर्वदा ।।५६।।

कामभोगैश्च वार्धक्यं ह्यवाप नृप एव सः ।
सतृष्णस्याऽन्तिकाद् बिन्दुमती चाऽदृश्यतां ययौ।५७।

राजा शोकं चकाराऽस्याः कृते चापि दिवानिशम् ।
अथ सा ददृशे रात्रौ राजानं प्रति भावुकी ।।५८।।

वृद्धस्त्वं दृश्यसे राजन् नैव योग्योऽसि मत्कृते ।
यौवनं प्राप्य वर्तेथास्त्वां सेविष्ये तदा नृप ।।५९।।

राजा कामातुरः पुत्रानाहूय वाक्यमाह तत् ।
तुरुं यदुं कुरुं पुरुं स्पष्टमाह नृपस्तदा ।।3.73.६०।।

एकोऽपि गृह्यतां पुत्रा जरा मेऽशक्तिकारिणी ।
धीरो भूत्वा ततो नैजं तारुण्यं मम दीयताम् ।६१।

मानसं मेऽतिसन्तप्तं स्त्र्यासक्तं बहुचञ्चलम् ।
जरायाश्चोपग्रहणं करिष्यति सुतस्तु यः ।।६२।।

स भुनक्ति तु मे राज्यं भुवं सन्धारयिष्यति ।
विपुला सन्ततिस्तस्य यशः कीर्तिर्भविष्यति ।।६३।।

श्रुत्वा पुत्रास्तमूचुर्वै भवान् धर्मपरो नृप ।
कस्मात्ते चाऽप्सरोयोगादीदृशी भावनाऽधमा ।।६४।।

ययातिः प्राह मोहान्मे भावना चेदृशी सुताः ।
अवश्यंभाविनो भावा भवन्ति प्रकृतेर्वशाः ।।६५।।


अथ बिन्दुमती प्राह शृणु त्वद्दूषणं नृप ।
शर्मिष्ठा देवयानी च तव भार्ये ह्युभे ह्यपि ।।९६।।

अन्याश्च राजकन्यास्ते भार्याशतं भवत्यपि ।
सापत्नकेन भावेन भवान् भर्ता प्रतिष्ठितः ।।९७।।

ससर्पोऽसि महाराज चन्दनस्य द्रुमो यथा ।
वरमग्निप्रवेशं च शिखरात्पतनं वरम् ।।९८।।

तं वरं नैव पश्यामि सपत्नीविषसंयुतम् ।
अहं राजन् प्रभोक्त्री स्यां तव कायस्य भूपते ।९९।

इत्यर्थे प्रत्ययं देहि मम वै स्वकरे नृप ।
यत्र क्वापि निवासेन नाऽत्र सपत्निकागृहे । 3.73.१००।

राजा ददौ प्रत्ययं च ततो वनादिषु स्वयम् ।
ययौ सार्धं बिन्दुमत्या पर्वतेषु दिगन्तरे ।। १०१ ।।

वै विंशतिसहस्राणि वर्षाण्यस्य गतानि हि ।
अथाऽप्सरोऽभवद् गर्भवती चैच्छद् दिवं प्रति।१ ०२।

गन्तुमिन्द्रगृहं कामगृहं पितुर्निवेशनम् ।
राजानं चापि नेतुं सा महाग्रहं चकार ह । १०३ ।

देवानां दर्शनं राजन् करिष्यसि दिवं व्रज ।
इत्युक्तः स तु राजर्षिः शुशोच वै क्षणं हृदि ।१०४।

स्वर्गं गत्वा च तत्रैव बिन्दुमतीं रतिगृहे ।
निधाय वैष्णवैः साकं विष्णुना चाऽनुमोदितः। 3.73.११०।

ययातिः प्रययौ विष्णोर्वैकुण्ठं वैष्णवैः सह ।
ब्रह्मलोकं ययुः सर्वे पूजिताश्चाऽमरादिभिः ।१११।

एवं भक्तिप्रभावोऽस्ति लक्ष्मि निर्बन्धकृत् सदा 
अहं नयामि वैकुण्ठं गोलोकं चाऽक्षरं परम् ।१ १२।

यौवनप्रप्तिश्चान्ते वैकुण्ठगमन चेत्यादिभक्तिप्रभाववर्णननामा त्रिसप्ततितमोऽध्यायः ।७३।





अत्रेर्वशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः॥२,८.७३॥  सन्दर्भ-ब्रह्माण्डपुराण-मध्यभाग- अध्याय (8)
मैं तीसरे प्रजापति अत्रि के वंश का वर्णन करूँगा।७३।
तस्य पत्न्यस्तु सुन्दर्यों दशैवासन्पतिव्रताः।
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः॥ २,८.७४॥

उन अत्रि की दस सुन्दर पत्नियाँ थीं जो  पतिव्रता थीं। वे सभी दस दिव्य कन्याऐं भी घृताची अप्सरा में उत्पन्न भद्राश्व की संतान थे ।७४।

भद्रा शूद्रा च मद्रा च शालभा मलदा तथा ।
बला, हला च सप्तैता या च गोचपलाः स्मृताः।७५।

भद्रा , शूद्रा , मद्रा , शलभा , मलदा , बाला और हला ।  सात ये  और  इनके अतिरिक्त, गोचपला  (ताम्ररसा और रत्नकुटा  ये तीन और थीं)। 
 
तथा तामरसा चैव रत्नकूटा च तादृशः ।
तत्र यो वंशकृच्चासौ तस्य नाम प्रभाकरः ॥२,८.७६ ॥

"अनुवाद"- ताम्ररसा और रत्नकुटा  ये तीन और थीं।  उनके वंश को कायम रखने वाले उनके पुत्रों में प्रभाकर नाम का एक वंशज था ।


भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ २,८.७७ ॥
 की पत्नी भद्रा  में सोम उत्पन्न हुआ। ****** 

__________________
तमोऽभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्त्तिता ।
स्वस्ति तेस्त्विति चोक्तो वै पतन्निह दिवाकरः ॥ २,८.७८ ॥

ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ २,८.७९ ॥

सन्दर्भ:-
ब्रह्माण्ड पुराण अध्याय ब्रह्माण्ड महापुराण वायुप्रोक्त मध्यभाग तृतीय उपोद्धातपाद के अन्तर्गत ऋषिवंशवर्णनं नामक -
अष्टमोऽध्यायः॥ ८॥


📚
अनसूया प्रजापति कर्दम और देवहूति की नौ(9) कन्याओं में से एक तथा अत्रि मुनि की पत्नी थीं।  जबकि अत्रि ऋषि की भद्रा नामकी पत्नी घृताची अप्सरा में उत्पन्न भद्राश्व की पुत्री थी।

अनुसूयाऔर भद्रा दोनों अलग अलग महिलाओ
हैं। दोनों के माता पिता भी अलग अलग हैं।
और दोनो से सोम(चन्द्रमा) का उत्पन्न होना प्रक्षेप के अतिरिक्त कुछ नहीं है।

क्योंकि दो महिलाओं से एक ही व्यक्ति का उत्पन्न होना शास्त्रीय सिद्धान्तों के विपरीत है।

पुराणों में कालान्तर में कुछ बातें इन पुराणों को का पूर्ण अध्ययन किए विना जोड़ी और तोड़ी गयीं। पुराण लिखने वाला कोई अन्य पुरुष था और इन्हें प्रकाशित कराने वाला कोई ओर -
सोम (चन्द्रमा की उत्पत्ति स्वराट् विष्णु के मन अथवा हृदय से उत्पन्न होने का सन्दर्भ वैदिक है।
जबकि बाद में अत्रि ऋषि से उत्पन्न करने का प्रकरण नकली है। पुराणों में अत्रि ऋषि से चन्द्रमा के उत्पन्न होने का प्रकरण भिन्न भिन्न तरीके से है । जो की विना सिद्धान्त के जोड़ना ही है।

अग्नि पुराण में कहा गया है कि
विष्णु की नाभि कमल से ब्रह्मा, हुए और ब्रह्मा से अत्रि, अत्रि से सोम हुआ उत्पन्न हुआ 
(अग्नि-पुराण ,अध्याय 12)।
अनुवाद:-
अत्रि और  अनसूया से, सोम, दुर्वासा और दत्तात्रेय योगी का जन्म हुआ । 
(अग्नि पुराण, अध्याय 20)

सहस्रशिरसः पुंसो नाभिह्रद सरोरुहात् ।
 जातस्यासीत् सुतो धातुः अत्रिः पितृसमो गुणैः॥२॥
 
भागवत पुराण में सोम अत्रि ऋषि के नेत्रों से उत्पन्न कर दिया है।

तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल।
 विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ॥३॥
(भागवत पुराण 9/14/2-3)
अनुवाद:-
अनसूया  - वह पत्नी अत्रि की हैं। अत्रि के आंसुओं से वह गर्भवती हो गईं और उनके सोम, दुर्वासा और दत्तात्रेय नामक तीन पुत्र हुए। ( भागवत पुराण 9.14.3 देखें )


 "अत्रेरनसूयाप्यजीजनत्।
सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ।। १२ ।।
अनुवाद:- अत्रि से अनुसूया में सोम दुर्वासा, और दत्तात्रेय का जन्म हुआ।१२।
(अग्निपुराण- अध्याय- 20)


___________  

वसिष्ठ उवाच
अथ कृष्णोऽप्यनुज्ञाप्य शिवं च नगनन्दिनीम् ।
गोलोकं प्रययौ युक्तः श्रीदाम्ना चापि राधया ॥ २,४३.२९ ॥

अथ रामोऽपि धर्मात्मा भवानीं च भवं तथा ।
संपूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत् ॥ २,४३.३० ॥

गणेशं कार्त्तिकेयं च नत्वापृच्छ्य च भूपते ।
अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात् ॥ २,४३.३१ ॥

निष्क्रम्यमाणो रामस्तु नन्दीश्वरमुखैर्गणैः ।
नमस्कृतो ययौ राजन्स्वगृहं परया मुदा ॥ २,४३.३२ ॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३॥

[2/6, 9:56 AM] yogeshrohi📚: 






रक्षणाय च संसादेर्भीतेनैव हि गोकुले।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ।। १५ ।।

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ।। १६ ।।

यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ।
परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ।। १७ ।।

पूतना स्तनपानेन सा हता हन्तुमुद्यता।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ।। १८ ।।

जित्वा निः सार्य चाब्धिस्थञ्चकार बलसंस्तुतः।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम् ।। १९ ।।

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम्।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ।। २० ।।

पर्वतं घारयित्वा च शक्राद् वृप्टिर्निवारिता।
नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ।। २१ ।।

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ।। २२ ।।
  अग्निपुराण-अध्याय 12




आत्रेयवंशप्रभवा स्तासां भर्ता प्रभाकरः।।
स्वर्भानुपिहिते सूर्ये पतितेस्मिन्दिवो महीम्।। ६३.७१ ।।

तमोऽभिभूते लोकेस्मिन्प्रभा येन प्रवर्तिता।।
स्वस्त्यस्तु हि तवेत्युक्ते पतन्निह दिवाकरः।। ६३.७२ ।।

ब्रह्मर्षेर्वचनात्तस्य पपात न विभुर्दिवः।।
ततः प्रभाकरेत्युक्तः प्रभुरत्रिर्महर्षिभिः।। ६३.७३ ।।

भद्रायां जनयामास सोमं पुत्रं यशस्विनम्।।
स तासु जनयामास पुनः पुत्रांस्तपोधनः।। ६३.७४ ।।

स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः।।
तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ च महौजसौ।। ६३.७५ ।।

दत्तो ह्यत्रिवरो ज्येष्ठो दुर्वासास्तस्य चानुजः।।
यवीयसी स्वसा तेषाममला ब्रह्मवादिनी।। ६३.७६ ।।

तस्य गोत्रद्वये जाताश्चत्वारः प्रथिता भुवि।।
श्यावश्च प्रत्वसश्चैव ववल्गुश्चाथ गह्वरः।। ६३.७७ ।।

आत्रेयाणां च चत्वारः स्मृताः पक्षा महात्मनाम्।।
काश्यपो नारदश्चैव पर्वतानुद्धतस्तथा।। ६३.७८ ।।

श्रीलिंगमहापुराणे पूर्वभागे देवादिसृष्टिकथनं नाम त्रिषष्टितमोऽध्यायः।। ६३।।



अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः।
तस्य पत्न्यश्च सुन्दर्यो दशैवासन्पतिव्रताः ।। ९.६७ ।।
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः।
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ।। ९.६८ ।।
वेला खला च सप्तैता या च गोचपला स्मृता ।
तथा मानरसा चैव रत्नकृटा च ता दश ।। ९.६९ ।।
आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः।
भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।। ९.७० ।।
स्वर्भानुना हते सूर्ये पतमानो दिवो महीम्।
तमोऽभिभूते लोकेऽस्मिन् प्रभा येन प्रवर्त्तिता ।। ९.७१ ।।
स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः।
ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।। ९.७२ ।।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रिघनश्चैव सुरैर्यश्च प्रवर्त्तितः ।। ९.७३ ।।
स तास्वजनयत् पुत्रानात्मतुल्याननामकान्।
दश तास्वेव महता तपसा भावितप्रभा ।। ९.७४ ।।
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ।
तेषां विख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ।। ९.७५ ।।
दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः ।
यवीयसी सुता तस्या मबला ब्रह्मवादिनी।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ।। ९.७६ ।।
अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम्।
दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ।। ९.७७ ।।
तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि।
श्यामाश्च मुद्गलाश्चैव बलारकगविष्ठिराः।
एते नृणान्तु चत्वारः स्मृताः पक्षा महौजसाम् ।। ९.७८ ।।
श्रीमहापुराणे वायुप्रोक्ते ऋषिवंशानुकीर्त्तनं नाम नवमोऽध्यायः ।। ९ ।। *


भद्रा शूद्रा च मद्रा च शलदा तथा।
खलदा च ततो विप्रा नलदा सुरसापि च॥ १३.७ ॥

तथा गोचपला च स्त्रीरत्नकूटा च ता दश।
ऋषिर्जातोऽत्रिवंशे च तासां भर्त्ता प्रभाकरः॥ १३.८ ॥

भद्रायां जनयामास सुतं सोमं यशस्विनम्।
स्वर्भानुना हते सूर्य्ये पतमाने दिवो महीम्॥ १३.९ ॥

तमोऽभिभूते लोके च प्रभा येन प्रवर्त्तिता।
स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः॥ १३.१० ॥

वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम्।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः॥ १३.११ ॥

यज्ञेष्वत्रेर्बलञ्चैव देवैर्यस्य प्रतिष्ठितम्।
स तासु जनयामास पुत्रिकास्वात्मकामजान्॥ १३.१२ ॥

दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा।
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः॥ १३.१३ ॥

सन्दर्भ:-ब्रह्मपुराण-अध्यायः(१३)



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें