शनिवार, 4 दिसंबर 2021

वेदों में सूर्यग्रहण का वर्णन आसुरीय घटना के रूप में -

'पाँचवें मण्डल के चालीसवें सूक्त की ऋचा संख्या 5 से 9 तक में सूर्यग्रहण से सम्बन्धित उल्लेख मिलता है ।👇

यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।

अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥५)

यत् । त्वा॒ । सू॒र्य॒ । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।

अक्षे॑त्रऽवित् । यथा॑ । मु॒ग्धः । भुव॑नानि । अ॒दी॒ध॒युः॒ ॥५।

(भाष्य★-)

इदमादिचतुर्भिर्मन्त्रैः         अत्रीणां कर्म कीर्त्यते ।         हे “सूर्य प्रेरक देव “त्वा त्वां “यत् यदा "आसुरः असुरस्य प्राणापहर्तुरसुर्या वा पुत्रः “स्वर्भानुः स्वर्भानुसंज्ञकः “तमसा मायानिर्मितेन “अविध्यत् आवृणोदित्यर्थः । तदा “भुवनानि सर्वाणि "अदीधयुः दृश्यन्ते । “यथा तत्रत्यः सर्वो जनः “अक्षेत्रवित् स्वस्वस्थानमजानन् “मुग्धः मूढो भवति तथा ॥ 

स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।

गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑॥६।।

स्वः॑ऽभानोः । अध॑ । यत् । इ॒न्द्र॒ । मा॒या । अ॒वः । दि॒वः । वर्त॑मानाः । अ॒व॒ऽअह॑न् ।

गू॒ळ्हम् । सूर्य॑म् । तम॑सा । अप॑ऽव्रतेन । तु॒रीये॑ण । ब्रह्म॑णा । अ॒वि॒न्द॒त् । अत्रिः॑ ॥६।

भाष्य-★

__________________________

“अध अथ जगन्मौढ्यानन्तरं “स्वर्भानोः असुरस्य “यत् याः “मायाः सन्ति । कीदृश्यस्ताः ।। “दिवः द्योतमानादादित्यात् “अवः अवस्तात् वर्तमानाः । तदुपरितिरोधानासामर्थ्यादिति भावः । हे "इन्द्र ताः सर्वाः "अवाहन अवहंसि । अथात्रेरेव परोक्षवादः । "तमसा अन्धकारेण "अपव्रतेन अपगतकर्मणा "गूळ्हं "सूर्यम् । अन्धकारस्यावरणरूपत्वादपव्रतत्वम् । तथाविधं "तुरीयेण “ब्रह्मणा ‘ग्राव्णो ब्रह्मा' इत्यनेन "अत्रिः "अविन्दत् लब्धवान् । आवरणापगमोपायं निरावरणं शुद्धं वा सूर्यमिति । पूर्वमन्त्रापेक्षया अस्य तुरीयत्वम् । एकैकं मायांशमेकैकेन मन्त्रेणापनोद्य चतुर्थेन मन्त्रेण निलीनं तमोऽप्यनुददित्यर्थः ॥

★-अर्थ- हे सूर्य्य ! जब स्वर्भानु नामक असुर ने तुम्हें माया निर्मित अन्धकार से ढक लिया था, तब सभी लोक अंधकार पूर्ण हो गए थे। वहाँ के निवासी मूढ़ होकर अपने-अपने स्थान को भी नहीं जा पा रहे थे।

अर्थ- हे इन्द्र! जब तुमने सूर्य के नीचे वाले स्थान में फैली हुई स्वर्भानु की दिव्य माया को दूर भगा दिया था, तब अन्धकार में ढके सूर्य को अत्रि ऋषि ने चार ऋचाएँ बोलकर प्राप्त किया था।

मा । माम् । इमम् । तव । सन्तम् । अत्रे । इरस्या। द्रुग्धः । भियसा । नि । गारीत् ।

त्वम् । मित्रः । असि । सत्यऽराधाः । तौ । मा । इह । अवतम् । वरुणः । च । राजा ॥७॥

इदं सूर्यवाक्यम् । हे "अत्रे मामिमम् ईदृगवस्थं मां “तव "सन्तं तव स्वभूतम् “इरस्या अन्नेच्छया "द्रुग्धः द्रोग्धासुरः "भियसा भयजनकेन तमसा “मा “नि “गारीत् मा गिरतु । किंच हे मित्र “त्वं “मित्रः असि । प्रमीतेः सकाशात् त्राता भवसि । "सत्यराधाः सत्यधनश्च । "तौ “राजा “वरुणश्च त्वं च तौ युवां “मा माम् "इहावतं रक्षतम् । यद्वा । अत्रिरेव मित्र उच्यते । स च वरुणश्च युवाम् ॥

अर्थ- सूर्य ने अत्रि से कहा- "हे अत्रि! इस प्रकार की अवस्था में पड़ा हुआ मै तुम्हारा सेवक हूँ। इस अन्न की इच्छा वाले असुर भयजनक अन्धकार द्वारा मुझे न निगल लें। तुम मेरे मित्र और सत्य का पालन करने वाले हो। तुम मेरी रक्षा करो।
__________"

ग्राव्णः॑ । ब्र॒ह्मा । यु॒यु॒जा॒नः । स॒प॒र्यन् । की॒रिणा॑ । दे॒वान् । नम॑सा । उ॒प॒ऽशिक्ष॑न् ।

अत्रिः॑ । सूर्य॑स्य । दि॒वि । चक्षुः॑ । आ । अ॒धा॒त् । स्वः॑ऽभानोः । अप॑ । मा॒याः । अ॒घु॒क्ष॒त् ॥८

____   

"ब्रह्मा ब्राह्मणः "अत्रिः “ग्राव्णः अभिषवसाधनानि "युयुजानः युञ्जन् । इन्द्रार्थं सोममभिषुण्वन्नित्यर्थः। तथा "कीरिणा । कीर्यते विक्षिप्यते इति कीरि स्तोत्रम् । तेन "देवान् "सपर्यन् पूजयन् किंच "नमसा अनेन हविर्लक्षणेन नमस्कारेण वा “उपशिक्षन् । शिक्षतिर्दानार्थोऽत्र प्रसाधने वर्तते । प्रसाधयन् एवमुक्तैः साधनैः "सूर्यस्य सर्वप्रेरकस्य "चक्षुः सर्वस्य ख्यापकं मण्डलं "दिवि अन्तरिक्षे “आधात् । निस्तमस्कं कृतवानित्यर्थः । तदेव स्पष्टयति । "स्वर्भानोः एतन्नामकस्यासुरस्य "मायाः । स्वाश्रयमव्यामोहयन्ती परांस्तु तथा कुर्वती मायेत्युच्यते । तादृशीर्मायाः। यत्तुरीयेण ब्रह्मणेत्युक्तम् । तदेतदुक्तं तुरीयं ब्रह्म । तेनात्रिसहाय इन्द्रः "अप "अघुक्षत् अपजुगोप न्यवारयदित्यर्थः । अथवा तृतीयपाद एवं व्याख्येयः । सूर्यस्य दिवि पूर्वमावृते प्रकाशे तदपनोद्य स्वकीयं चक्षुराधात् । निरावरणं तेजःसंस्त्यायं दृष्टवानित्यर्थः । स्वर्भानुमायया सूर्यस्यावृतिर्हारिद्रविके समाम्नाता--- ‘स्वर्भानुश्चासुरः सूर्यं तमसाविध्यत्तस्मै देवाः प्रायश्चित्तमैच्छन् तस्य यत्प्रथमं तमोऽपाघ्नन् सा कृष्णाविरभवत् यद् द्वितीयं सा फाल्गुनी यत्तृतीयं सा वलक्षी यदध्यस्थादपाकृन्तन्' इत्यादि ।


अर्थ- ब्राह्मण अत्रि ने सूर्य को उपदेश दिया। इन्द्र के निमित्त सोम निचोड़ने हेतु पत्थरों को आपस में रगड़ा। स्तोत्रों द्वारा देवों की सेवा एवं अपने मन्त्रों के बल से सूर्य रूपी नेत्र को अंतरिक्ष में स्थापित किया। अत्रि ने स्वर्भानु की माया को दूर कर दिया।

__________

यम् । वै । सूर्य॑म् । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।

अत्र॑यः । तम् । अनु॑ । अ॒वि॒न्द॒न् । न॒हि । अ॒न्ये । अश॑क्नुवन् ॥९

अत्रिकृतं सामर्थ्यमनुवदति “यं "वै "सूर्यम् इति । निगदव्याख्यैषा । "अत्रयस्तं सूर्यम् “अन्वविन्दन् इन्द्रार्थं सोमयागदेवतास्तुतिनमस्कारैरनुक्रमेणेषदीषत् तमोऽवरुध्य लब्धवन्त इत्यर्थः । “अन्ये "नहि "अशक्नुवन् न लब्धवन्तः खलु ॥ ॥ १२ ॥

अर्थ- स्वर्भानु नामक असुर ने जिस सूर्य को अन्धकार द्वारा जकड़ लिया था, अत्रि ने उसे स्वतन्त्र किया। अन्य किसी में इतनी शक्ति नहीं थी।
____________
-उपर्युक्त ऋचाओं में निसन्देह सूर्यग्रहण का ही उल्लेख है। जिसे तब खगोलीय ज्ञान के अभाव में दैवीय असुर का प्रकोप माना गया है। और जिसका निवारण भी तंत्र-मंत्र में ही तलाशा गया है। सूर्य से हटती छाया को अनुष्ठानिक प्रभाव का प्रतिफल माना जाता रहा होगा। आज भी वैदिक मान्यताओं का पोषक समाज, समस्याओं के निदान हेतु यज्ञादि अनुष्ठानों में दैवीय शक्ति व दैवीय चमत्कार में विस्वास रखता है। जबकि हक़ीक़त में ऐसा कुछ भी नहीं होता.

____________


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें