शुक्रवार, 29 जनवरी 2021

इति श्रीमन्महाभारते विराटपर्वणिपाण्डवप्रवेशपर्वणि तृतीयोऽध्यायः ।। यशोदागर्भसंभूतां नारायणवरप्रियाम् ।नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ।। 2 ।।

 __________________________________________

चतुर्थ विराटपर्व के तृतीय अध्याय का अष्टम श्लोक से विंशति पर्यन्त -

                     ।भीम उवाच।


सूदोऽहं वललो नाम्ना सूपकारो नराधिप।
उपस्थास्यामि राजानं विराटमिति रोचये।4-3-8।


रसान्नानाविधांश्चापिस्वादूंश्च मधुरांस्तथा।
सूपांश्चापि करिष्यामि कुशलोस्मिमहानसे|4-3-9।



कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः।
तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम्।4-3-10।


पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् ।
स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति|4-3-11|


आहरिष्यामि दारूणां पाटितानां शतंशतम्।
राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति।।4-3-12।



ये च तस्य महामल्लाः समरेष्वपराजिताः ।
कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले ।।4-3-13।



रङ्गोपजीविनः सर्वे परेषां च भयावहाः ।
तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् ।।4-3-14।



न च तान्युध्यमानोऽहं नयिष्ये यमसादनम्।
तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः।4-3-15।



वृषो वा महिषो वापि नागो वा षाष्टिहायनः ।
सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयःः।4-3-16।



तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान्।
बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः।4-3-17।



आरालिका वा सूदा वा येऽस्य युक्ता महानसे।
तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा।4-3-18।



आरालिको गोविकर्ता सूपकर्ता नियोधकः।
आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् ।4-3-19।



आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते ।
इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा।
विराटनगरे च्छन्नो विराटस्य समीपतः ।4-3-20।




________________________________________

  चतुर्थ विराटपर्व के अष्टम अध्याय के प्रथम श्लोक से षड्त्रिंशत् (36) श्लोक पर्यन्त -

विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः स्तवनम् । 1। ।। विराट नगर को जाते हुए युधिष्ठिर के द्वारा का दुर्गा स्तवन-

________________________________________

                ।वैशंपायन उवाच।


विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ।।1।


यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ।। 2।


कंसविद्रावणकरीमसुराणां क्षयंकरीम्।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ।3 ।


वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्।
दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ।। 4 ।।


भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् । 5 ।


स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः।6।


नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ।। 7 ।


चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे।
मयूरपिच्छवलये केयूराङ्गदधारिणि ।। 8 ।।


भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ।। 9 ।।


कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ।। 10 ।।


पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ।। 11।


कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ।।12 ।।


मुकुटेन विचित्रेण केशबन्धेन शोभिना।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ।। 13।।


विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ।।14 ।।


कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ।।15 ।।


त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ।।16 ।।


जया त्वं विजया चैव संग्रामे च जयप्रदा।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ।।17 ।।


विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्।
कालि कालि महाकालि शीधुमांसपशुप्रिये ।।18 ।।


कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः।19 ।।


प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ।।20 ।।


दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्रानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्। 21 ।।


जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ।। 22 ।।


त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया ।23 ।


नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ।। 24 ।।


सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ।। 25 ।।


त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ।। 26 ।।


एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानमिदं वचनमब्रवीत् ।। 27 ।।


                      ।देव्युवाच ।


शृणु राजन्महाबाहो मदीयं वचनं प्रभो।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ।। 28 ।।


मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः। 29 ।।


भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ।30।।


ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ।।31।।


प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ।। 32।।


ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ।।33 ।।


इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः।34।


मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ।। 35 ।।


इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ।।36 ।।



। इति श्रीमन्महाभारते अन्तर्गते चतुर्थ विराटपर्वणि
पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः ।। 8 ।।

________________________________________

                 ।नरेन्द्र शूद्रोस्मि ।

चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत्।
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् ।
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ।।4-10-13।।


                   ।वैशंपायन उवाच ।


तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत्।
न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ।। 14 ।।


हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे ।
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ।। 15 ।।


अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः।
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ।। 16 ।।


                       भीम उवाच 


चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम्।
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ।। 17 ।।


युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः।
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ।। 18 ।।


त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् ।
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ।। 19 ।।


गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम्।
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ।। 20 ।।


स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि।
ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ।। 21 ।।


             वैशंपायन उवाच।


तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत्।
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ।। 22 ।।


त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे।
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः ।
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ।। 23 ।।


तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः।
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन 24|

______________________

सूदः, पुंल्लिग (सूदयति रसानिति  सूद् क्षरणे + णिच् + अच् ) सूपकारः 

 (यथा, महाभारते । १ । १३४ । २१ ।

 “तं दृष्ट्वानित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् आहूय वचनं द्रोणो रहः सूदमभाषत ”) 

व्यञ्जनम् । इत्यमरः । ३ । ३ । ९० ॥ (यथा, महाभारते । १ । १२८ । ३४ । “भक्ष्यं भोज्यञ्च पेयञ्च चोष्यं लेह्यमथापि वा । उपाकृतं नरैस्तत्र कुशलैः सूदकर्म्मणि ॥”) सूपः । इति विश्वः ॥

 सारथ्यम् । अपराधः । लोध्रः । पापम् । इत्यजयपालः ॥

अमरकोशः

सूद वि।

व्यञ्जनम्

समानार्थक:सूद

3।3।91।1।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

वैशिष्ट्यवत् : स्निग्धम्

: दध्यादिव्यञ्जनम्, पाकेन_संस्कृतव्यञ्जनादिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्

'''सूद''- पु॰ सूदयति पशून् पाकार्थं सूद--अच्।

१ सूपकारके

२ व्यञ्जनभेदे सूपे अमरः।

३ सारथ्ये

४ अपराधे

५ लोध्रे

६ पापे च अजयः।

शब्दसागरः

सूदः, पुं, (सूदयति रसानिति । सूद क्षरणे + णिच् + अच् ।) सूपकारः । (यथा, महाभारते । १ । १३४ । २१ । “तं दृष्ट्वानित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् आहूय वचनं द्रोणो रहः सूदमभाषत ॥”) व्यञ्जनम् । इत्यमरः । ३ । ३ । ९० ॥ (यथा, महाभारते । १ । १२८ । ३४ । “भक्ष्यं भोज्यञ्च पेयञ्च चोष्यं लेह्यमथापि वा । उपाकृतं नरैस्तत्र कुशलैः सूदकर्म्मणि ॥”) सूपः । इति विश्वः ॥ सारथ्यम् । अपराधः । लोध्रः । पापम् । इत्यजयपालः ॥

अमरकोशः

सूद वि।

व्यञ्जनम्

समानार्थक:सूद

3।3।91।1।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

वैशिष्ट्यवत् : स्निग्धम्

: दध्यादिव्यञ्जनम्, पाकेन_संस्कृतव्यञ्जनादिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्

'''सूद'''¦ पु॰ सूदयति पशून् पाकार्थं सूद--अच्।

१ सूपकारके

२ व्यञ्जनभेदे सूपे अमरः।

३ सारथ्ये

४ अपराधे

५ लोध्रे

६ पापे च अजयः।

शब्दसागरः


वैशंपायन उवाच।


संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै।
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ।। 22 ।।


सहदेवेन गोपालवेषधारणेन विराटंप्रति गमनम् ।। 1 ।।
विराटेन सहदेवस्य गोपालने नियोजनम् ।। 2 ।।


वैशंपायन उवाच।


अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी।
तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ।। 1 ।।


तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत।
प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम्।
युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ।। 2 ।।


यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः।
मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् ।। 3 ।।


स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम्।
मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः ।। 4 ।।


न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम्।
पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ।। 5 ।।


निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत्।
उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ।। 6 ।


धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा।
नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् ।। 7 ।।


प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान्।
बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः ।। 8 ।।


अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ।। 9 ।


वैशंपायन उवाच।


विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च।
उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम् ।। 10 ।।


बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता ।
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ ।। 11 ।।


वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ।
वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ।। 12 ।।


न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो ।। 13 ।।


विराट उवाच।


त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि।
आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् ।। 14 ।।


कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम्।
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ।। 15 ।।


सहदेव उवाच।


पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः।
तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ।। 16


अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे।
तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ।। 17 ।।


भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित्।
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ।। 18 ।।


गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः।
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ।। 19 ।।


अनेन गणिता गावो दुर्विज्ञेया महत्तराः।
बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ।। 20 ।।


क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित्।
तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ।। 21 ।।


ऋषभानपि जानामि राजन्पूजितलक्षणान्।
येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ।। 22 ।।


वैशंपायन उवाच।


मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत।
नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ।। 23 ।।


अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम्।
त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ।। 24 ।।


शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम्।
ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति ।। 25 ।।


वैशंपायन उवाच।


एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः।
अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ।। 26 ।।



एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः ।
अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः।।4-3-27 ।।



।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि त्रयोदशोऽध्यायः ।। 13 ।।

___________________________________
अथ समयपलनपर्व ।। 2 ।।

पाण्डवैः स्वस्वव्यापारैर्विराटपरितोपणम् ।। 1 ।।
भीमेन शङ्करोत्सवे महामल्लमारणम् ।। 2 ।।

जनमेजय उवाच।


एवं विराटनगरे वसन्तः सत्यविक्रमाः।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ।। 1 ।।


वैशंपायन उवाच।


एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानां यदकुर्वत तच्छृणु ।। 2 ।।


युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशांपते ।। 3 ।।


स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः।
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ।। 4 ।।


अज्ञातं च विराटस्य विजित्य वसु धर्मराट्।
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ।। 5 ।।


भीमसेनोपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ।। 6 ।।


वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ।। 7 ।।


नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ।। 8 ।।


सहदेवोपि गोपानां वेषमास्थाय पाण्डवः।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ।। 9 ।।


कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ।। 10 ।।


एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः।
विराटनगरे चेरुः पुनर्गर्भधृता इव ।। 11 


साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ।। 12 ।।


अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः।
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ।। 13 ।।


तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ।। 14 ।।


महाकाया महावीर्याः कालकेया इवासुराः।
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ।। 15 ।।


सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ।। 16 ।।


तेषामेको महानासीत्सर्वमल्लानथाह्वयत्।
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ।। 17 ।।


वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः ।
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ।। 18 ।।


व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः।
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ।। 19 ।।


त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः ।
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ।। 20 ।।


मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते।
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ।। 21 ।।


आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले ।
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ।। 22 ।।


मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् ।
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ।। 23 ।।


अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ।। 24 ।।


इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते ।
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ।। 25 ।।


ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम्।
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ।। 26 ।।


अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे।
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ।। 27 ।।


योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे।
सोयं मल्लो वसत्येप राजंस्तव महानसे ।। 28 ।।


वैशंपायन उवाच।


युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः।
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ।। 29 ।।


भीमसेनो विराटेन आहूतश्चोदितस्तथा।
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ।। 30 ।।


नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात्।
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ।। 31 ।।


युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते।
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ।। 32 ।।


वैशंपायन उवाच।


चोदितो भीमसेनस्तु मल्लमाहूय मण्डले।
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः।
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ।। 33 ।।


अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ।। 34 ।।


नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम्।
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ।। 35 ।।


ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्।
प्रविवेश महारङ्गं विराटमभिहर्षयन् ।। 36 ।।


बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ।। 37 ।।


जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् ।
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ।। 38 ।।


तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ।
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ।। 39 ।।


ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ।। 40 ।।


उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ।। 41 ।।


कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ।। 42 ।।


क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।। 43 ।।


शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ।। 44 ।।


तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ।। 45 ।।


अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ।। 46 ।।


प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः।
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ।। 47 ।।


ततः शब्देन महता भर्त्सयन्तौ परस्परम्।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ।। 48 ।।


उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान्।
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ।। 49 ।।


चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा।
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ।। 50 ।।


समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ।। 51 ।।


भ्रामयित्वा शतगुणं गतसत्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः।। 52 ।।


तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते 
विराटः परमं हर्षमगच्छद्वान्धवैः सह ।। 53 ।।


प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः।
वललाय महारङ्गे यथा वैश्रवणस्तथा ।। 54 ।।


एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ।। 55 ।।


यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ।। 56 ।।


विराटेन प्रदत्तानि चित्राणि विविधानि च।
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ।। 57 ।।


पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः।
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ।। 58 ।।


बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ।। 59 ।।


अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः।
तोपयामास राजानं नकुलो नृपसत्तमम्।
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ।। 60 ।।


विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः।
धनं ददौ बहुविधं विराटः पुरुषर्षभः ।। 61 ।।




द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ।। 62 ।


एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ।। 63 ।।


।। इति श्रीमन्महाभारते विराटपर्वणि
समयपालनपर्वणि पञ्चदशोऽध्यायः ।। 15 ।।

।। समाप्तं चेदं समयपालनपर्व ।। 2 ।



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें