गुरुवार, 28 जनवरी 2021

दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम्।बलादादत्तवान्वीरः साम्बो जाम्बवतीसुतः।। २०८.४


व्यास उवाच
श्रृणुध्वं मुनयः कर्म यद्रामेणाभवत्कृतम्।
अनन्तेनाप्रमेयेन शेषेण धरणीभृता।। २०८.३ ।।

दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम्।
बलादादत्तवान्वीरः साम्बो जाम्बवतीसुतः।। २०८.४ ।।

ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः।
भीष्मद्रोणादयश्चैव बबन्धुर्युधि निजितम्।। २०८.५ ।।

तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु।
मुनयः प्रतिचक्रुश्च तान्विहन्तुं महोद्यमम्।। २०८.६ ।।

तान्निवार्य बलः प्राह मदलोलाकुलाक्षरम्।
मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान्।। २०८.७ ।।

बलदेवस्ततो गत्वा नगरं नागसाह्वयम्।
बाह्योपवनमध्येऽभून्न विवेश च तत्पुरम्।। २०८.८ ।।

बलमागतमाज्ञाय तदा दुर्योधनादयः।
गामर्घमुदकं चैव रामाय प्रत्यवेदयन्।।
गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान्।। २०८.९ ।।

बलदेव उवाच
आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत।। २०८.१० ।।

व्यास उवाच
ततस्तद्वजनं श्रुत्वा भीष्मद्रोणादयो द्विजाः।
कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तमाः।। २०८.११ ।।

ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च भूमिपाः।
अराजार्हं यदोर्वंशमवेक्ष्य मुशलायुधम्।। २०८.१२ ।।

कौरवा ऊचुः
भो भोः किमेतद्भवता बलभद्रेरितं वचः।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति।। २०८.१३ ।।

उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति।
तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैरलंकृतैः।। २०८.१४ ।।

तद्‌गच्छ बलभद्र त्वं साम्बमन्यायचेष्टितम्।
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात्।। २०८.१५ ।।

प्रणतिर्या कृताऽस्माकं मान्यानां कुकुरान्धकैः।
न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः।। २०८.१६ ।।

गर्वमारोपिता यूयं समानासनभोजनैः।
को दोषो भवतां नीतिर्यत्प्रीणात्यनपेक्षिता।। २०८.१७ ।।

अस्माभिर्च्यो भवता योऽयं बल निवेदितः।
प्रेम्णैव न तदस्माकं कुलाद्युष्मत्कुलोचितम्।। २०८.१८ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें