बुधवार, 20 जनवरी 2021

पद्म पुराण सृष्टि खण्ड यदुवंशवर्णन और ब्रह्माण्ड पुराण मध्यम भाग विष्णु पुराण और अग्निपुराण में यदुवंश का वर्णन-

पद्मपुराणम्- खण्डः(१ )(सृष्टिखण्डम्)अध्याय:(१२)

_____________________________________

                    (भीष्म उवाच)
सोमवंशः कथं जातः कथयात्र विशारद
तद्वंशे केतुराजानो बभूवुः कीर्तिवर्द्धनाः।।१।


                   (पुलस्त्य उवाच)
आदिष्टो ब्रह्मणा पूर्वमत्रिःसर्गविधौ पुरा
अनंतरं नाम तपः सृष्ट्यर्थं तप्तवान्विभुः ।।२।


यदानंदकरं ब्रह्म भगवन्क्लेशनाशनं
ब्रह्मममरुद्रेन्द्रसूर्याणामभ्यंतरमतींद्रियं।३।


शान्तिं कृत्वात्ममनसा तदत्रिः संयमे स्थितः
माहात्म्यं तपसो वापि परमानंदकारकं ।४।


यस्माद्वंशपतिः सार्द्धं समये तदधिष्ठितः
तं दृष्ट्वाचष्ट सोमेन तस्मात्सोमोभवद्विभुः।५।


अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसंभवम्
द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम् ।६।


तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः
गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसंभवः।७।


आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः ।८।‌


युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्
स्यंदनेथ सहस्तेन वेदशक्तिमये प्रभुः।९।।


आरोप्य लोकमनयदात्मीयं स पितामहः
ततो ब्रह्मर्षिभिःप्रोक्तं ह्यस्मत्स्वामीभवत्वयम्।१०।।


ऋषिभिर्देवगंधर्वैरप्सरोभिस्तथैव च
स्तूयमानस्य तस्याभूदधिकं महदंतरम्।११।।


तेजोवितानादभवद्भुवि दिव्यौषधीगणः
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदाा।।१२।


तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते
वेदधामा रसश्चायं यदिदं मंडलं शुभम्।१३।।


क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा
विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ।१४।।


रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः
ततःशक्तिसहस्राणां सहस्राणि दशैव तु।१५।


तपश्चकार शीतांशुर्विष्णुध्यानैकतत्परः
ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः१६।


वरं वृणीष्व चोवाच परमात्मा जनार्दनः
ततो वव्रे वरं सोमः शक्रलोके यजाम्यहम्।१७।


प्रत्यक्षमेव भोक्तारो भवंतु मम मंदिरे
राजसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः।१८।


रक्षपालः सुरोस्माकमास्तां शूलधरो हरः
तथेत्युक्तः समाजह्रे राजसूयं तु विष्णुना।१९।


होतात्रिर्भृगुरध्वर्युरुद्गाता च चतुर्मुखः
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्।२०।


सदस्याः सर्वदेवास्तु राजसूयविधिः स्मृतः
वसवोध्वर्यवस्तद्वद्विश्वेदेवास्तथैव च।।२१।


त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादिता
सोमः प्राप्याथदुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतं।।२२।


सप्तलोकैकनाथत्वं प्राप्तस्स्वतपसा तदा
कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणोपशोभाम्।२३।


बृहन्नितंबस्तनभारखेदां पुष्पावभंगेप्यतिदुर्बलांगीं
भार्यां च तां देवगुरोरनंगबाणाभिरामायत चारुनेत्रां।२४।


तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ
सापि स्मरार्ता सहते न रेमे तद्रूपकांत्याहृतमानसैव।२५।


चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि
न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु।२६।


बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव
शशाक शापं न च दातुमस्मै न मंत्रशस्त्राग्निविषैरनेकैः।२७।


तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः
स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनंगतप्तः।२८।


स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन                               मोहितः
महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः।२९।


ददौ यदा तां न कथंचिदिंदुस्तदा शिवः क्रोधपरो बभूव
यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः।३०।


ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः
धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः३१।


युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः
सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः।३२।


यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यंदनसंस्थितानां
वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्।३३।


लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः
शनैश्चरांगारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः।३४।


जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः।ससोममेवाभ्यगमत्पिनाकीगृहीतदीप्तास्त्रविशालवह्निः।३५।

अथाभवद्भीषण भीम सोम सैन्यद्वयस्याथ महाहवोसौ
अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः३६


शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः
पतंति शस्त्राणि तथोज्वलानि स्वर्भूमिपातालमलं दहंति३७।


रुद्रः क्रोधाद्ब्रह्मशिरो मुमोच सोमोपि सोमास्त्रममोघवीर्यं
तयोर्निपातेन समुद्रभूम्योरथांतरिक्षस्य च भीतिरासीत्३८।


तदा सुयुद्धं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोपि
ततः प्रविश्याथ कथंचिदेव निवारयामास सुरैः सहैव३९।


अकारणं किं क्षयकृज्जनानां सोम त्वयापीदमकार्यकार्यं
यस्मात्परस्त्रीहरणाय सोम त्वया कृतंयुद्धमतीवभीमम्४०।


पापग्रहस्त्वं भविता जनेषु पापोस्यलं वह्निमुखाशिनां त्वं
भार्यामिमामर्पय वाक्पतेस्त्वं प्रमाणयन्नेव मदीय वाचम्४१।।

तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशांतः
बृहस्पतिस्तामथ गृह्य तारां हृष्टो जगाम स्वगृहं च रुद्रः ४२।


                (पुलस्त्य उवाच)
ततः संवत्सरस्यांते द्वादशादित्यसन्निभः
दिव्यपीताम्बरधरो दिव्याभरणभूषितः४३।


तारोदरविनिष्क्रान्तः कुमारस्सूर्यसन्निभः
सर्वार्थशास्त्र
नामयद्राजपुत्रोयं विश्रुतो राजवैद्यकः ४४।


राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः।४५।


जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली
ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह ।४६।


बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा
पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः४७।


ततः सा लज्जिता तेषां न किंचिदवदत्तदा
पुनः पुनस्तदा पृष्टा लज्जयंती वरांगना४८।


सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं
बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले४९।


अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः
ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः५० 1.12.50


पश्यतां सर्वभूतानां तत्रैवांतरधीयत
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्५१।


अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः५२।


हिमवच्छिखरे रम्ये समाराध्य पितामहं
लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा५३।


केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता५४।


सप्तद्वीपावसुमती सशैलवनकानना
धर्मेण पालिता तेन सर्वलोकहितैषिणा५५।


चामरग्रहणाकीर्तिः स्वयं चैवांगवाहिका
ब्रह्मप्रसादाद्देवेंद्रो ददावर्द्धासनं तदा५६।


धर्मार्थकामान्धर्मेण समवेतोभ्यपालयत्
धर्मार्थकामास्तं द्रष्टुमाजग्मुःकौतुकान्विताः५७।


जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्
भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं ततः५८।


आसनत्रयमानीय दिव्यं कनकभूषणम्
निवेश्याथाकरोत्पूजामीषद्धर्मेधिकां पुनः५९।


जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति
अर्थःशापमदात्तस्मै लोभात्त्वं नाशमेष्यसि६०।


कामोप्याह तवोन्मादो भविता गंधमादने
कुमारवनमाश्रित्य वियोगाच्चोर्वशीभवात्६१।


धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि
संततिस्तव राजेंद्र यावदाचंद्रतारकम्६२।


शतशो वृद्धिमायाति न नाशं भुवि यास्यति
षष्टिं वर्षाणि चोन्माद ऊर्वशीकामसंभवः६३।


अचिरादेव भार्यापि वशमेष्यति चाप्सराः
इत्युक्त्वांतर्दधुः सर्वे राजा राज्यं तदान्वभूत्६४।


अहन्यहनि देवेंद्रं द्रष्टुं याति पुरूरवाः
कदाचिदारुह्य रथं दक्षिणांबरचारिणा६५।


सार्धं शक्रेण सोऽपश्यन्नीयमानामथांबरे
केशिना दानवेंद्रेण चित्रलेखामथोर्वशीम्६६।


तं विनिर्जित्य समरे विविधायुधपातनैः
पुरा शक्रोपि समरे येन वज्री विनिर्जितः६७।


मित्रत्वमगमत्तेन प्रादादिंद्राय चोर्वशीं
ततःप्रभृति मित्रत्वमगमत्पाकशासनः६८।


सर्वलोकेतिशयितं पुरूरवसमेव तम्
प्राह वज्री तु संतुष्टो नीयतामियमेव च६९।


सा पुरूरवसः प्रीत्यै चागायच्चरितं महत्
लक्ष्मीस्वयंवरंनाम भरतेन प्रवर्तितम् ।७०।


मेनकां चोर्वशीं रंभां नृत्यध्वमिति चादिशत्
ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी।७१।


सा पुरूरवसं दृष्ट्वा नृत्यंती कामपीडिता
विस्मृताभिनयं सर्वं यत्पुरातनचोदितम्७२।


शशाप भरतः क्रोधाद्वियोगात्तस्य भूतले
पंचपंचाशदब्दानि लताभूता भविष्यसि।७३।


ततस्तमुर्वशी गत्वा भर्त्तारमकरोच्चिरं
शापानुभवनांते च उर्वशी बुधसूनुना।७४।

____________
अजीजनत्सुतानष्टौ नामतस्तान्निबोध मे
आयुर्दृढायुर्वश्यायुर्बलायुर्धृतिमान्व७५।।

दिव्यजायुः शतायुश्च सर्वे दिव्यबलौजसः
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च।७६।


रजिर्दंडो विशाखश्च वीराः पंचमहारथाः
रजेः पुत्रशतं जज्ञे राजेया इति विश्रुतं।७७।


रजिराराधयामास नारायणमकल्मषं
तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः।७८।


देवासुरमनुष्याणामभूत्स विजयी तदा
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्।७९।


प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः
ततो देवासुरैः पृष्टः पृथग्देवश्चतुर्मुखः।८०।


अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोब्रवीत्
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः।८१।


दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्
नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा। ८२।


स्वामी भव त्वमस्माकं बलनाशय विद्विषः
ततो विनाशिताः सर्वे ये वध्या वज्रपाणिनः।८३।


पुत्रत्वमगमत्तुष्टस्तस्येंद्रः कर्मणा ततः
दत्त्वेंद्राय पुरा राज्यं जगाम तपसे रजिः।८४।


रजिपुत्रैस्तदाछिन्नं बलादिंद्रस्य वैयदा
यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः।८५।


राज्यभ्रष्टस्ततः शक्रो रजिपुत्रनिपीडितः
प्राह वाचस्पतिं दीनःपीडितोऽस्मि रजेःसुतैः।८६।


न यज्ञभागो राज्यं मे पीडितस्य बृहस्पते
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप।८७।

ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम्
ग्रहशांतिविधानेन पौष्टिकेन च कर्मणा।८८।

गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः
जिनधर्मं समास्थाय वेदबाह्यं स धर्मवित्।८९।


वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः
वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्।९०।

____________________
जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्।९१।


यतिर्ययातिश्शर्यातिरुत्तरः पर एव च
अयातिर्वियातिश्चैव सप्तैते वंशवर्द्धनाः।९२।


यतिः कुमारभावेपि योगी वैखानसोभवत्
ययातिरकरोद्राज्यं धर्मैकशरणः सदा ।९३।

________________________________
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः
भार्गवस्यात्मजा चैव देवयानी च सुव्रता।९४।


ययातेः पंचदायादास्तान्प्रवक्ष्यामि नामतः
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत् ।।९५।

__________________
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्
यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः।।९६।


पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव
यदोस्तु यादवा जाता यत्र तौ बलकेशवौ।९७।


भारावतारणार्थाय पांडवानां हिताय च
यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः।९८।

_______________________________
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः
सहस्रजितो दायादः शतजिन्नाम पार्थिवः।९९।


शतजितश्च दायादास्त्रयः परमधार्मिकाः
हैहयश्च हयश्चैव तथा तालहयश्च यः।१०० 1.12.100

____________________________________________
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः
धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः।१०१।


संहतस्य तु दायादो महिष्मान्नाम पार्थिवः
आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्।।१०२।


वाराणस्यामभूद्राजा कथितः पूर्वमेव हि
भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः।।१०३।


दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्
धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः।१०४।


कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च
कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः।।१०५।


जातो बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः
वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः।१०६।


दत्तमाराधयामास कार्त्तवीर्योत्रिसंभवम्
तस्मै दत्तो वरान्प्रादाच्चतुरः पुरुषोत्तमः।१०७।


पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः
अधर्मं ध्यायमानस्य भीतिश्चापि निवारणम्।१०८।


युद्धेन पृथिवीं जित्वा धर्मेणावाप्य वै बलम्
संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत्।१०९।


एतेनेयं वसुमती सप्तद्वीपा सपत्तना
सप्तोदधि परिक्षिप्ता क्षात्रेण विधिना जिता।११०।


जज्ञे बाहुसहस्रं च इच्छतस्तस्य धीमतः
सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः।१११।


सर्वे कांचनयूपास्ते सर्वे कांचनवेदिकाः
सर्वे देवैश्च संप्राप्ता विमानस्थैरलंकृतैः।११२।


गंधर्वैरप्सरोभिश्च नित्यमेवापि सेविताः
यस्य यज्ञे जगौ गाथा गंधंर्वो नारदस्तथा।११३।


कार्त्तवीर्यस्य राजर्षेर्महिमानं निरीक्ष्य सः
न नूनं कार्त्तवीर्यस्य गतिं यास्यंति पार्थिवाः।११४।


यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च
सप्तद्वीपाननुचरन्वेगेन पवनोपमः।११५।

_________________________


जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्।९१।


यतिर्ययातिश्शर्यातिरुत्तरः पर एव च
अयातिर्वियातिश्चैव सप्तैते वंशवर्द्धनाः।९२।


यतिः कुमारभावेपि योगी वैखानसोभवत्
ययातिरकरोद्राज्यं धर्मैकशरणः सदा९३।

________________________________
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः
भार्गवस्यात्मजा चैव देवयानी च सुव्रता९४।


ययातेः पंचदायादास्तान्प्रवक्ष्यामि नामतः
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत् ।।९५।

__________________
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्
यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः।।९६।


पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव
यदोस्तु यादवा जाता यत्र तौ बलकेशवौ।९७।


भारावतारणार्थाय पांडवानां हिताय च
यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः।९८।

_______________________________
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः
सहस्रजितो दायादः शतजिन्नाम पार्थिवः।९९।


शतजितश्च दायादास्त्रयः परमधार्मिकाः
हैहयश्च हयश्चैव तथा तालहयश्च यः१०० 1.12.100

_________________________________________
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः
धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः।१०१।


संहतस्य तु दायादो महिष्मान्नाम पार्थिवः
आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्।।१०२।


वाराणस्यामभूद्राजा कथितः पूर्वमेव हि
भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः।।१०३।


दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्
धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः।१०४।


कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च
कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः।।१०५।

_________
                   (सहस्र बाहु वर्णन)


पंचाशीतिसहस्राणि वर्षाणां च नराधिपः
सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूव ह।११६।

_____________________________
स एव पशुपालोभूत्क्षेत्रपालः स एव हि
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोभवत् ।।११७।


योसौ बाहुसहस्रेण ज्याघातकठिनत्वचा
भाति रश्मिसहस्रेण शारदेनेव भास्करः।११८।


एष नाम मनुष्येषु माहिष्मत्यां महाद्युतिः
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै।११९।


क्रीडते स्वसुखा ये विप्रतिस्रोतो महीपतिः
ललनाः क्रीडता तेन प्रतिबद्धोर्मिमालिनी।१२०।


ऊर्मिभ्रुकुटिमाला सा शंकिताभ्येति नर्मदा
एष एव मनोर्वंशे त्ववगाहेन्महार्णवम्।१२१।


करेणोद्धृत्य वेगं तु कामिनीप्रीणनेन तु
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ।१२२।


भवंति लीना निश्चेष्टाः पातालस्था महासुराः
तदूरुक्षोभचकिता अमृतोत्पादशंकिताः।१२३।

नता निश्चलमूर्द्धानो भवंति च महोरगाः
एष धन्वी च चिक्षेप रावणं प्रति सायकान्।१२४।


एष धन्वी धनुर्गृह्य उत्सिक्तं पंचभिः शरैः
लंकेशं मोहयित्वा तु सबलं रावणं बलात्।१२५।


निर्जित्य बद्ध्वा त्वानीय माहिष्मत्याम्बबंध तम्
ततो गतोहं तस्याग्रे अर्जुनं संप्रसादयन्।१२६।

मुमोचराजन्पौत्रंमे सख्यं कृत्वा चपार्थिवःतस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः।१२७।

युगांताग्नेः प्रवृत्तस्य यथा ज्यातलनिःस्वनः
अहो बलं विधेर्वीर्यं भार्गवः स यदाच्छिनत्।१२८।

मृधे सहस्रं बाहूनां हेमतालवनं यथा
यं वसिष्ठस्तु संक्रुद्धो ह्यर्जुनं शप्तवान्विभुः१२९।

यस्माद्वनं प्रदग्धं ते विश्रुतं मम हैहय
तस्मात्ते दुष्कृतं कर्म कृतमन्यो हनिष्यति।१३०।


छित्वा बाहुसहस्रं ते प्रमथ्य तरसा बली
तपस्वी ब्राह्मणस्त्वां वै वधिष्यति स भार्गवः।१३१।


तस्य रामोथ हंतासीन्मुनिशापेन धीमतः
तस्य पुत्रशतं त्वासीत्पंच तत्र महारथाः।१३२।


कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबल
शूरसेनश्च शूरश्च धृष्टो वै कृष्ण एव च।१३३।


जयद्ध्वजः स वै कर्ता अवन्तिश्च रसापतिः
जयध्वजस्य पुत्रस्तु तालजंघो महाबलः।१३४।


तस्य पुत्राश्शतान्येव तालजंघा इति स्मृताः
तेषां पंचकुलान्यासन्हैहयानां महात्मनाम्।१३५।


वीतिहोत्राश्च संजाता भोजाश्चावंतयस्तथा
तुंडकेराश्च विक्रांतास्तालजंघाः प्रकीर्तिताः।१३६।


वीतिहोत्रसुतश्चापि अनंतो नाम वीर्यवान्
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्षणः।१३७।


सद्भावेन महाराजः प्रजाधर्मेण पालयन्
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत्।१३८।


येन सागरपर्यंता धनुषा निर्जिता मही
यस्तस्यकीर्तयेन्नाम कल्यमुत्थाय मानवः।१३९।


न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः
यथा यष्टा यथा दाता स्वर्गलोके महीयते।१४०।

_____________________________________

जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्।९१।


यतिर्ययातिश्शर्यातिरुत्तरः पर एव च
अयातिर्वियातिश्चैव सप्तैते वंशवर्द्धनाः।९२।


यतिः कुमारभावेपि योगी वैखानसोभवत्
ययातिरकरोद्राज्यं धर्मैकशरणः सदा।९३।

________________________________
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः
भार्गवस्यात्मजा चैव देवयानी च सुव्रता।९४।


ययातेः पंचदायादास्तान्प्रवक्ष्यामि नामतः
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत् ।।९५।

__________________
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्
यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः।।९६।


पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव
यदोस्तु यादवा जाता यत्र तौ बलकेशवौ।९७।


भारावतारणार्थाय पांडवानां हिताय च
यदोः पुत्रा बभूवुश्च पंच देवसुतोपमाः।९८।

_______________________________
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः
सहस्रजितो दायादः शतजिन्नाम पार्थिवः।९९।


शतजितश्च दायादास्त्रयः परमधार्मिकाः
हैहयश्च हयश्चैव तथा तालहयश्च यः१०० 1.12.100


हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः
धर्मनेत्रस्य कुंतिस्तु संहतस्तस्य चात्मजः।१०१।


संहतस्य तु दायादो महिष्मान्नाम पार्थिवः
आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्।।१०२।


वाराणस्यामभूद्राजा कथितः पूर्वमेव हि
भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः।।१०३।


दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्
धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः।१०४।


कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च
कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः।।१०५।

________________________________________


पंचाशीतिसहस्राणि वर्षाणां च नराधिपः
सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूव ह।११६।


               (पशुपाल सहस्रबाहू-)

__________________________________________
स एव पशुपालोभूत्क्षेत्रपालः स एव हि
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोभवत् ।।११७।


इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे यदुवंशकीर्तनं नाम द्वादशोऽध्यायः।१२।

_________________________________________

    पद्मपुराणम्/खण्डः (१ )(सृष्टिखण्डम्)अध्यायः (१३)

                 (पुलस्त्य उवाच)
क्रोष्टोः शृणु त्वं राजेंद्र वंशमुत्तमपूरुषम्
यस्यान्ववाये संभूतो विष्णुर्वृष्णिकुलोद्वहः१।।।


क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः
तस्य पुत्रोभवत्स्वातिः कुशंकुस्तत्सुतोभवत्।२।


कुशंकोरभवत्पुत्रो नाम्ना चित्ररथोस्य तुु।
शशबिंदुरिति ख्यातश्चक्रवर्ती बभूव ह,।३।


अत्रानुवंशश्लोकोयं गीतस्तस्य पुराभवत्
शशबिंदोस्तु पुत्राणां शतानामभवच्छतम्।४।


धीमतां चारुरूपाणां भूरिद्रविणतेजसाम्
तेषां शतप्रधानानां पृथुसाह्वा महाबलाः।५।


पृथुश्रवाः पृथुयशाः पृथुतेजाः पृथूद्भवःः'
पृथुकीर्तिः पृथुमतो राजानः शशबिंदवः।६।


शंसंति च पुराणज्ञाः पृथुश्रवसमुत्तमम्
ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः।७।।


पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः
आसीत्शिनेयोः पुत्रो यःस रुक्मकवचो मतः।८।


निहत्य रुक्मकवचो युद्धे युद्धविशारदः
धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्।९।

अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां
जज्ञे तु रुक्मकवचात्परावृत्परवीरहा।१०

____________________


तत्पुत्रा जज्ञिरे पंच महावीर्यपराक्रमाः
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः।११।


परिघं च हरिं चैव विदेहे स्थापयत्पिता

रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः।१२।

ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे
प्रशांतश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः।१३।


जगाम धनुरादाय देशमन्यं ध्वजी रथी
नर्मदातट एकाकी केवलं वृत्तिकर्शितः।१४।


ऋक्षवंतं गिरिं गत्वा मुक्तमन्यैरुपाविशत्
ज्यामघस्याभवद्भार्या शैब्या परिणता सती।१५।


अपुत्रोप्यभवद्राजा भार्यामन्यामचिंतयन्
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः।१६।


भार्यामुवाच संत्रासात्स्नुषेयं ते शुचिस्मिते
एवमुक्त्वाब्रवीदेनं कस्य केयं स्नुषेति वै।१७।
                 ( राजोवाच)
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति
तस्याःसातपसोग्रेण कन्यायाःसंप्रसूयत।१८।


पुत्रं विदर्भं सुभगं शैब्या परिणता सती
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ।१९।


लोमपादं तृतीयं तु पुत्रं परमधार्मिकम्
पश्चाद्विदर्भो जनयच्छूरं रणविशारदम्।२०।


लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः
कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्यनृपाः स्मृताः।२१।


क्रथो विदर्भपुत्रो यः कुंतिस्तस्यात्मजोभवत्
कुंतेर्धृष्टस्ततो जज्ञे धृष्टात्सृष्टः प्रतापवान्।२२।


सृष्टस्य पुत्रो धर्मात्मा निवृत्तिः परवीरहा
निवृत्तिपुत्रो दाशार्हो नाम्ना स तु विदूरथः।२३।


दाशार्हपुत्रो भीमस्तु भीमाज्जीमूत उच्यते
जीमूतपुत्रो विकृतिस्तस्यभीमरथः सुतः।२४।


अथ भीमरथस्यापि पुत्रो नवरथः किल
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः।२५।


तस्मात्करंभस्तस्माच्च देवरातो बभूव ह
देवक्षत्रोभवद्राजा देवरातान्महायशाः।२६।


देवगर्भसमो जज्ञे देवक्षत्रस्य नंदनः
मधुर्नाममहातेजा मधोः कुरुवशः स्मृतः।२७।


आसीत्कुरुवशात्पुत्रः पुरुहोत्रः प्रतापवान्
अंशुर्जज्ञेथ वैदर्भ्यां द्रवंत्यां पुरुहोत्रतः।२८।


वेत्रकी त्वभवद्भार्या अंशोस्तस्यां व्यजायत
सात्वतः सत्वसंपन्नः सात्वतान्कीर्तिवर्द्धनः।२९।


इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः।३०।


सात्वतान्सत्वसंपन्ना कौसल्या सुषुवे सुतान्
तेषां सर्गाश्च चत्वारो विस्तरेणैव तान्शृणु।३१।


भजमानस्य सृंजय्यां भाजनामा सुतोभवत्
सृंजयस्य सुतायां तु भाजकास्तु ततोभवन्।३२।


तस्य भाजस्य भार्ये द्वे सुषुवाते सुतान्बहून्
नेमिं चकृकणं चैव वृष्णिं परपुरंजयं।३३।


ते भाजकाः स्मृता यस्माद्भजमानाद्वि जज्ञिरे
देवावृधः पृथुर्नाम मधूनां मित्रवर्द्धनः।३४।


अपुत्रस्त्वभवद्राजा चचार परमं तपः
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्।३५।


संयोज्य कृष्णमेवाथ पर्णाशाया जलं स्पृशन्
सा तोयस्पर्शनात्तस्य सांनिध्यं निम्नगा ह्यगात्।३६।


कल्याणं चरतस्तस्य शुशोच निम्नगाततः
चिंतयाथ परीतात्मा जगामाथ विनिश्चयम्।३७।


भूत्वा गच्छाम्यहं नारी यस्यामेवं विधः सुतः
जायेत तस्मादद्याहं भवाम्यस्य सुतप्रदा।३८।


अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः
ज्ञापयामास राजानं तामियेष नृपस्ततः।३९।


अथसानवमेमासिसुषुवेसरितांवरा
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधात्परम्।४०।


अत्र वंशे पुराणज्ञा ब्रुवंतीति परिश्रुतम्
गुणान्देवावृधस्याथ कीर्त्तयंतो महात्मनः।४१।


बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः
षष्टिः शतं च पुत्राणां सहस्राणि च सप्ततिः।४२।


एतेमृतत्वं संप्राप्ता बभ्रोर्देवावृधादपि
यज्ञदानतपोधीमान्ब्रह्मण्यस्सुदृढव्रतः।४३।


रूपवांश्च महातेजा भोजोतोमृतकावतीम्
शरकान्तस्य दुहिता सुषुवे चतुरः सुतान् ।४४।


कुकुरं भजमानं च श्यामं कंबलबर्हिषम्
कुकुरस्यात्मजो वृष्टिर्वृष्टेस्तु तनयो धृतिः।४५।


कपोतरोमा तस्यापि तित्तिरिस्तस्य चात्मजः
तस्यासीद्बहुपुत्रस्तु विद्वान्पुत्रो नरिः किल।४६।


ख्यायते तस्य नामान्यच्चंदनोदकदुंदुभिः
अस्यासीदभिजित्पुत्रस्ततो जातः पुनर्वसुः।४७।


अपुत्रोह्यभिजित्पूर्वमृषिभिः प्रेरितो मुदा
अश्वमेधंतुपुत्रार्थमाजुहावनरोत्तमः।४८।


तस्य मध्ये विचरतः सभामध्यात्समुत्थितः
अन्धस्तु विद्वान्धर्मज्ञो यज्ञदाता पुनर्वत ।४९।।

तस्यासीत्पुत्रमिथुनं वसोश्चारिजितः किल
आहुकश्चाहुकी चैव ख्याता मतिमतां वर।५०। 1.13.50

____________________________________
इमांश्चोदाहरंत्यत्र श्लोकांश्चातिरसात्मकान्
सोपासंगानुकर्षाणां तनुत्राणां वरूथिनाम्।५१।


रथानां मेघघोषाणां सहस्राणि दशैव तु
नासत्यवादिनो भोजा नायज्ञा नासहस्रदाः।५२।


नाशुचिर्नाप्यविद्वांसो न भोजादधिकोभवत्
आहुकां तमनुप्राप्त इत्येषोन्वय उच्यते।५३।


आहुकश्चाप्यवंतीषु स्वसारं चाहुकीं ददौ
आहुकस्यैव दुहिता पुत्रौ द्वौ समसूयत।५४।


देवकं चोग्रसेनं च देवगर्भसमावुभौ
देवकस्य सुताश्चैव जज्ञिरे त्रिदशोपमाः।५५।


देववानुपदेवश्च सुदेवो देवरक्षितः
तेषां स्वसारः सप्तैव वसुदेवाय ता ददौ।५६।


देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा
श्रीदेवा चोपदेवा च सुरूपा चेति सप्तमी।५७।


नवोग्रसेनस्य सुताः कंसस्तेषां च पूर्वजः
न्यग्रोधस्तु सुनामा च कंकः शंकुः सुभूश्च यः।५८।


अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः
तेषां स्वसारः पंचासन्कंसा कंसवती तथा।५९।


सुरभी राष्ट्रपाली च कंका चेति वरांगनाः
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः।६०।


भजमानस्य पुत्रोभूद्रथिमुख्यो विदूरथः
राजाधिदेवः शूरश्च विदूरथसुतोभवत्।६१।


राजाधिदेवस्य सुतौ जज्ञाते वीरसंमतौ
क्षत्रव्रतेतिनिरतौ शोणाश्वः श्वेतवाहनः।६२।


शोणाश्वस्य सुताः पंच शूरा रणविशारदाः
शमी च राजशर्मा च निमूर्त्तः शत्रुजिच्छुचिः।६३।

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः

प्रतिक्षत्रसुतो भोजो हृदीकस्तस्य चात्मजः
हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः।६४।


कृतवर्माग्रजस्तेषां शतधन्वा च सत्तमः
देवार्हश्च सुभानुश्च भीषणश्च महाबलः।६५।


अजातश्च विजातश्च करकश्च करंधमः
देवार्हस्य सुतो विद्वान्जज्ञे कंबलबर्हिषः।६६।


असमौजास्ततस्तस्य समौजाश्च सुतावुभौ
अजातपुत्रस्य सुतौ प्रजायेते समौजसौ।६७।


समौजः पुत्रा विख्यातास्त्रयः परमधार्मिकाः
सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामतः।६८।


अंधकानामिमं वंशं यः कीर्तयति नित्यशः
आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः।६९।


गांधारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः
गांधारी जनयामास सुनित्रं मित्रवत्सलम्।७०।


माद्री युधाजितं पुत्रं ततो वै देवमीढुषं
अनमित्रं शिनिं चैव पंचात्र कृतलक्षणाः।७१।


अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ
प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ।७२।


स्यमंतकं प्रसेनस्य मणिरत्नमनुत्तमं
पृथिव्यां मणिरत्नानां राजेति समुदाहृतम्।७३।


हृदि कृत्वा सुबहुशो मणिं तं स व्यराजत
मणिरत्नं ययाचेथ राजार्थं शौरिरुत्तमम्।७४।


गोविंदश्च न तं लेभे शक्तोपि न जहार सः
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः।७५।


बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित्
ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्।७६।


ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्
आसाद्य युयुधाते तौ परस्परजयेच्छया।७७।


हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्
प्रसेनं तु हतं श्रुत्वा गोविंदः परिशंकितः।७८।


सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः
गोविंदेन हतो नूनं प्रसेनो मणिकारणात्।७९।


प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः
तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमंतकम्।८०।


जघानैवाप्रदानेन शत्रुभूतं च केशवः
इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः।८१।


अथ दीर्घेण कालेन मृगयां निर्गतः पुनः
यदृच्छया च गोविंदो बिलाभ्याशमथागमत्।८२।


ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली
शब्दं श्रुत्वा तु गोविंदः खङ्गपाणिः प्रविश्य च।८३।


अपश्यज्जांबवंतं च ऋक्षराजं महाबलं
ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा।८४।


जांबवंतं स जग्राह क्रोधसंरक्तलोचनः
दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं।८५।


तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं
ततस्तु भगवांस्तुष्टो वरेण समरोचयत्।८६।


               ( जाम्बवानुवाच)
इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभम्
कन्या चेयं मम सुता भर्त्तारं त्वामवाप्नुयात्।८७।


योयं मणिः प्रसेनात्तु हत्वा चैवाप्तवानहम्
स त्वया गृह्यतां नाथ मणिरेषोऽत्र वर्त्तते।८८।


इत्युक्तो जांबवंतं वै हत्वा चक्रेण केशवः
कृतकार्यो महाबाहुः कन्यां चैवाददौ तदा।८९।


ततः सत्राजिते चैतन्मणिरत्नं स वै ददौ
यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ।९०।


तेन मिथ्याप्रवादेन संतप्तोयं जनार्दनः
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्।९१।


अस्माकं मनसि ह्यासीत्प्रसेनस्तु त्वया हतः
एकैकस्यास्तु सुंदर्यो दश सत्राजितः सुताः।९२।


सत्योत्पन्नास्सुतास्तस्य शतमेकं च विश्रुताः
विख्याताश्च महावीर्या भंगकारश्च पूर्वजः।९३।


सत्या व्रतवती स्वप्ना भंगकारस्य पूर्वजा
सुषुवुस्ताः कुमारांश्च शिनीवालः प्रतापवान्।९४।


अभंगो युयुधानश्च शिनिस्तस्यात्मजोभवत्
तस्माद्युगंधरः पुत्राश्शतं तस्य प्रकीर्तिताः।९५।


अनमित्राह्वयो यो वै विख्यातो वृष्णिवंशजः
अनमित्रात्शिनिर्जज्ञे कनिष्ठो वृष्णिनंदनः।९६।


अनमित्राच्च संजज्ञे वृष्णिवीरो युधाजितः
अन्यौ च तनयौ वीरा वृषभश्चित्र एव च।९७।


ऋषभः काशिराजस्य सुतां भार्यामनिंदितां
जयंतश्च जयंतीं च शुभां भार्यामविंदत।९८।


जयंतस्य जयंत्यां वै पुत्रः समभवत्ततः
सदा यज्वातिधीरश्च श्रुतवानतिथिप्रियः।९९।


अक्रूरः सुषुवे तस्मात्सुदक्षो भूरिदक्षिणः
रत्नकन्या च शैब्या च अक्रूरस्तामवाप्तवान्।१०० 1.13.100-(सृष्टि खण्ड तैरहवाँ अध्याय)

________________________________
पुत्रानुत्पादयामास एकादशमहाबलान्
उपलंभं सदालंभमुत्कलं चार्य्यशैशवं।१०१।


सुधीरं च सदायक्षं शत्रुघ्नं वारिमेजयं
धर्मदृष्टिं च धर्मं च सृष्टिमौलिं तथैव च।१०२।


सर्वे च प्रतिहर्तारो रत्नानां जज्ञिरे च ते
अक्रूराच्छूरसेनायां सुतौ द्वौ कुलनंदनौ।१०३।


देववानुपदेवश्च जज्ञाते देवसंमतौ
अश्विन्यां त्रिचतुः पुत्राः पृथुर्विपृथुरेव च।१०४।


अश्वग्रीवो श्वबाहुश्च सुपार्श्वक गवेषणौ
रिष्टनेमिः सुवर्चा च सुधर्मा मृदुरेव च।१०५।


अभूमिर्बहुभूमिश्च श्रविष्ठा श्रवणे स्त्रियौ
इमां मिथ्याभिशप्तिं यो वेद कृष्णस्य बुद्धिमान्।१०६।


न स मिथ्याभिशापेन अभिगम्यश्च केनचित्
एक्ष्वाकी सुषुवे पुत्रं शूरमद्भुतमीढुषम्१०७।।

मीढुषा जज्ञिरे शूरा भोजायां पुरुषा दश
वसुदेवो महाबाहुः पूर्वमानकदुंदुभिः।१०८।


देवभागस्तथा जज्ञे तथा देवश्रवाः पुनः
अनावृष्टिं कुनिश्चैव नंदिश्चैव सकृद्यशाः।१०९।


श्यामः शमीकः सप्ताख्यः पंच चास्य वरांगनाः
श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः।११०।


राजाधिदेवी च तथा पंचैता वीरमातरः
वृद्धस्य श्रुतदेवी तु कारूषं सुषुवे नृपम्।१११।


कैकेयाच्छ्रुतकीर्तेस्तु जज्ञे संतर्दनो नृपः
श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत।११२।


राजाधिदेव्याः संभूतो धर्माद्भयविवर्जितः
शूरः सख्येन बद्धोसौ कुंतिभोजे पृथां ददौ।११३।


एवं कुंती समाख्या च वसुदेवस्वसा पृथा
कुंतिभोजोददात्तां तु पांडोर्भार्यामनिंदिताम्।११४।


पाण्ड्वर्थेसूत देवी सा देवपुत्रान्महारथान्
धर्माद्युधिष्ठिरो जज्ञे वाताज्जज्ञे वृकोदरः।११५।


इंद्राद्धनंजयश्चैव शक्रतुल्यपराक्रमः
योऽसौ त्रिपुरुषाज्जातस्त्रिभिरंशैर्महारथः।११६।


देवकार्यकरश्चैव सर्वदानवसूदनः
अवध्याश्चापि शक्रस्य दानवा येन घातिताः।११७।


स्थापितस्स तु शक्रेण लब्धवर्चास्त्रिविष्टपे
माद्रवत्यां तु जनितावश्विनाविति नः श्रुतम्।११८।


नकुलः सहदेवश्च रूपसत्वगुणान्वितौ
रोहिणी पौरवी नाम भार्या चानकदुंदुभेः।११९।


लेभे चेष्टं सुतं रामं सारणं च रणप्रियम्
दुर्धरं दमनं चैव पिंडारकमहाहनुं।१२०।


अथ मायात्वमावास्या देवकी या भविष्यति
तस्यां जज्ञे महाबाहुः पूर्वं तु स प्रजापतिः।१२१।


अनुजाताभवत्कृष्णा सुभद्रा भद्रभाषिणी
विजयो रोचमानस्तु वर्धमानश्च देवलः।१२२।


एते सर्वे महात्मान उपदेव्यां प्रजज्ञिरे
अगावहं महात्मानं बृहद्देवी व्यजायत।१२३।


बृहद्देव्यां स्वयं जज्ञे मन्दको नाम नामतः
सप्तमं देवकी पुत्रं रेमंतं सषुवे सुतम् ।१२४।


गवेषणं महाभागं संग्रामेष्वपराजितम्
श्रुतदेव्या विहारे तु वने विचरता पुरा ।१२५।

___________________________________
वैश्यायां समधाच्छौरिः पुत्रं कौशिकमग्रजम्
श्रुतंधरा तु राज्ञी तु सौरगंधपरिग्रहः।१२६।


पुत्रं च कपिलं चैव वसुदेवात्मजो बली
जनानां च विषादोभूत्प्रथमः स धनुर्द्धरः।१२७।


सौभद्रश्चाभवश्चैव महासत्वौ बभूवतुः
देवभागसुतश्चापि प्रस्तावः स बुधः स्मृतः।१२८।


पण्डितं प्रथमं बाहु देवश्रवसमुत्तमम्
इक्ष्वाकुकुलतो यस्य मनस्विन्या यशस्विनी।१२९।


निवृत्तशत्रुः शत्रुघ्नः श्रद्धा तस्मादजायत
गंडूषायामपत्यानि कृष्णस्तुष्टः शतं ददौ।१३०।


स चंद्रं तु महाभागं वीर्यवंतं महाबलम्
रंतिपालश्च रंतिश्च नंदनस्य सुतावुभौ।१३१।


शमीकपुत्राश्चत्वारो विक्रांताः सुमहाबलाः
विरजश्च धनुश्चैव व्योमस्तस्य स सृंजयः।१३२।


अनपत्योभवद्व्योमः सृंजयस्य धनंजयः
यो जायमानो भोजत्वं राजर्षित्वमवाप्तवान्।१३३।


कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः
शृणोति वा नरो नित्यं सर्वपापैः प्रमुच्यते।१३४।


अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः
विहारार्थं स देवोसौ मानुषेष्वप्यजायत।१३५।

______________________
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः
चतुर्बाहुस्तु संजातो दिव्यरूपो जनाश्रयः।१३६।


श्रीवत्सलक्षणं देवं दृष्ट्वा देवैः सलक्षणम्
उवाच वसुदेवस्तं रूपं संहर वै प्रभो।१३७।


भीतोहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते
मम पुत्रा हतास्तेन श्रेष्ठाः षड्भीमविक्रमाः

१३८।

________
वसुदेववचः श्रुत्वा रूपं संहरदच्युतः
अनुज्ञाप्य तु तं शौरिर्नन्दगोपगृहेनत्।१३९।


दत्वा तं नंदगोपाय रक्ष्यतामिति चाब्रवीत्
अतस्तुसर्वकल्याणं यादवानां भविष्यति।१४०।


अयं तु गर्भो देवक्या यावत्कंसं हनिष्यति
तावत्पृथिव्यां भविता क्षेमो भारावहः परम्।१४१।


ये वै दुष्टास्तु राजानस्तांस्तु सर्वान्हनिष्यति
कौरवाणां रणे भूते सर्वक्षत्रसमागमे।१४२।


सारथ्यमर्जुनस्यायं स्वयं देवः करिष्यति
निःक्षत्रियां धरां कृत्वा भोक्ष्यते शेषतां गताम्।१४३।

______________________________
सर्वं यदुकुलं चैव देवलोकं नयिष्यति
                  भीष्म उवाच
क एष वसुदेवस्तु देवकी का यशस्विनी।१४४।
नंदगोपश्च कश्चैव यशोदा का महाव्रता

या विष्णुं पोषितवती यां स मातेत्यभाषत।१४५।
या गर्भं जनयामास या चैनं समवर्द्धयत्
                  (पुलस्त्य उवाच)
पुरुषः कश्यपश्चासावदितिस्तत्प्रिया स्मृता।१४६।
कश्यपो ब्रह्मणोंशस्तु पृथिव्या अदितिस्तथा
नंदो द्रोणस्समाख्यातो यशोदाथ धराभवत्।१४७।


अथकामान्महाबाहुर्देवक्याः समपूरयत्
ये तया कांक्षिताः पूर्वमजात्तस्मान्महात्मनः।१४८।


अचिरं स महादेवः प्रविष्टो मानुषीं तनुं
मोहयन्सर्वभूतानि योगाद्योगी समाययौ।१४९।


नष्टे धर्मे तथा यज्ञे विष्णुर्वृष्णिकुले विभुः
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्।१५०1.13.150।


रुक्मिणी सत्यभामा च सत्या नाग्निजिती तथा
सुमित्रा च तथा शैब्या गांधारी लक्ष्मणा तथा।१५१।


सुभीमा च तथा माद्री कौशल्या विजया तथा
एवमादीनि देवीनां सहस्राणि च षोडश।१५२।


रुक्मिणी जनयामास पुत्रान्शृणु विशारदान्
चारुदेष्णं रणेशूरं प्रद्युम्नञ्च महाबलम्।१५३।


सुचारुं चारुभद्रञ्च सदश्वं ह्रस्वमेव च
सप्तमञ्चारुगुप्तञ्च चारुभद्रञ्च चारुकं।१५४।


चारुहासं कनिष्ठञ्च कन्याञ्चारुमतीं तथा
जज्ञिरे सत्यभामाया भानुर्भीमरथः क्षणः।१५५।


रोहितो दीप्तिमांश्चैव ताम्रबंधो जलंधमः
चतस्रो जज्ञिरे तेषां स्वसारश्च यवीयसीः।१५६।


जांबवत्याः सुतो जज्ञे सांबश्चैवातिशोभनः
सौरशास्त्रस्य कर्त्ता वै प्रतिमा मंदिरस्य च।१५७।


मूलस्थाने निवेशश्च कृतस्तेन महात्मना
तुष्टेन देवदेवेन कुष्ठरोगो विनाशितः।१५८।


सुमित्रं चारुमित्रं च मित्रविंदा व्यजायत
मित्रबाहुः सुनीथश्च नाग्नजित्यां बभूवतुः।१५९।

_______________         
एवमादीनि पुत्राणांसहस्राणि निशामय
अशीतिश्च सहस्राणां वासुदेवसुतास्तथा।१६०।


प्रद्युम्नस्य च दायादो वैदर्भ्यां बुद्धिसत्तमः
अनिरुद्धो रणे योद्धा जज्ञेस्य मृगकेतनः।१६१।


काम्या सुपार्श्वतनया सांबाल्लेभे तरस्विनम्
सत्त्वप्रकृतयो देवाः पराः पंच प्रकीर्तिताः।१६२।


तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनां
षष्टिः शतसहस्राणि वीर्यवंतो महाबलाः।१६३।


देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः
दैवासुरे हता ये वा असुरास्तु महाबलाः।१६४।


इहोत्पन्ना मनुष्येषु बाधंते सर्वमानवान्
तेषामुद्धरणार्थाय उत्पन्ना यादवे कुले।१६५।


कुलानां शतमेकं च यादवानां महात्मनाम्
विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः।१६६।


निदेशस्थायिनस्तस्य ऋद्ध्यंते सर्वयादवाः
                     भीष्म उवाच
सप्तर्षयः कुबेरश्च यक्षो मणिधरस्तथा।१६७।


सात्यकिर्नारदश्चैव शिवो धन्वंतरिस्तथा
आदिदेवस्तथाविष्णुरेभिस्तु सह दैवतैः।१६८।


किमर्थं सहसंभूताः सुरसम्भूतयः क्षितौ
भविष्याः कति वा चास्य प्रादुर्भावा महात्मनः।१६९।


सर्वक्षेत्रेषु सर्वेषु किमर्थमिह जायते
यदर्थमिह संभूतो विष्णुर्वृष्ण्यंधके कुले।१७०।


पुनःपुनर्मनुष्येषु तन्मे त्वं ब्रूहि पृच्छतः
                 पुलस्त्य उवाच
शृणु भूप प्रवक्ष्यामि रहस्यातिरहस्यकम्
यथा दिव्यतनुर्विष्णुर्मानुषेष्विह जायते।१७१।


युगांते तु परावृत्ते काले प्रशिथिले प्रभुः
देवासुरमनुष्येषु जायते हरिरीश्वरः।१७२।

हिरण्यकशिपुर्दैत्यस्त्रैलोक्यस्य प्रशासिता
बलिनाधिष्ठिते चैव पुनर्लोकत्रये क्रमात्।१७३।


सख्यमासीत्परमकं देवानामसुरैः सह
युगाख्या दश संपूर्णा आसीदव्याकुलं जगत्।१७४।


निदेशस्थायिनश्चापि तयोर्देवासुरा स्वयं
बद्धो बलिर्विमर्दोयं सुसंवृत्तः सुदारुणः।१७५।


देवानामसुराणां च घोरः क्षयकरो महान्
कर्तुं धर्मव्यवस्थां च जायते मानुषेष्विह।१७६।


भृगोः शापनिमित्तं तु देवासुरकृते तदा
                 भीष्म उवाच
कथं देवासुरकृते हरिर्देहमवाप्तवान्।१७७

दैवासुरं यथावृत्तं तन्मे कथय सुव्रत

                 पुलस्त्य उवाच
तेषां जयनिमित्तं वै संग्रामा स्युः सुदारुणाः।१७८


अवतारा दशद्वौ च शुद्धा मन्वंतरे स्मृताः
नामधेयं समासेन शृणु तेषां विवक्षितम्।१७९।


प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः
तृतीयस्तु वराहश्च चतुर्थोऽमृतमंथनः ।१८०।


संग्रामः पंचमश्चैव सुघोरस्तारकामयः
षष्ठो ह्याडीबकाख्यश्च सप्तमस्त्रैपुरस्तथा।१८१।


अष्टमश्चांधकवधो नवमो वृत्रघातनः
ध्वजश्च दशमस्तेषां हालाहलस्ततः परं।१८२।


प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः।१८३।


वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा
हिरण्याक्षो हतो द्वंद्वे प्रतिवादे तु दैवतैः।१८४।


दंष्ट्रया तु वराहेण समुद्रस्थो द्विधा कृतः
प्रह्लादो निर्जितो युद्धे इंद्रेणामृतमंथने।१८५।


विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः
इंद्रेणैव च विक्रम्य निहतस्तारकामये।१८६।


अशक्नुवत्सु देवेषु त्रिपुरं सोढुमासुरम्
मोहयित्वाऽमृते पीते गोरूपेणासुरारिणा।१८७।


नासन्जीवयितुं शक्या भूयो भूयोमृतासुराः
निहता दानवाः सर्वे त्रैलोक्ये त्र्यंबकेण तु।१८८।


असुराश्च पिशाचाश्च दानवाश्चांधके वधे
हता देवमनुष्यैस्ते पितृभिश्चैव सर्वशः।१८९।


संपृक्तो दानवैर्वृत्रो घोरे कोलाहले हतः
तदा विष्णुसहायेन महेंद्रेण निपातितः।१९०।


हतस्ततो महेंद्रेण मायाछन्नस्तु योगवित्
वज्रेण क्षणमाविश्य विप्रचित्तिः सहानुगः।१९१।


दैत्याश्च दानवाश्चैव संयुताः कृत्स्नशस्तु ते
एते दैवाऽसुरावृत्ताः संग्रामाद्वा दशैव तु।१९२।


देवासुरक्षयकराः प्रजानां च हिताय वै
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ।१९३।


द्विसप्ततिं तथान्यानि नियुतान्यधिकानि तु
अशीति च सहस्राणि त्रैलोक्यैश्वर्यवानभूत्।१९४।


पर्यायेण तु राजाभूद्बलिर्वर्षार्बुदं पुनः
षष्ठिं चैव सहस्राणि नियुतानि च विंशतिं।१९५।


बलिराज्याधिकारे तु यावत्कालश्च कीर्तितः
तावत्कालं तु प्रह्लादो निर्वृतो ह्यसुरैः सह।१९६।


जयार्थमेते विज्ञेया असुराणां महौजसः
त्रैलोक्यमिदमव्यग्रं महेंद्रेणानुपाल्यते।१९७।


असम्पन्नमिदं सर्वं यावद्वर्षायुतं पुनः
पर्यायेणैव सम्प्राप्ते त्रैलोक्यं पाकशासने।१९८।


ततोऽसुरान्परित्यज्य यज्ञो देवानगच्छत
यज्ञे देवानथ गते दितिजाः काव्यमब्रुवन्।१९९।


                  दैत्या ऊचुः-
हृतं मघवता राज्यं त्यक्त्वा यज्ञः सुरान्गतः
स्थातुं न शुक्नुमो ह्यत्र प्रविशामो रसातलम्।२००। 1.13.200


एवमुक्तोब्रवीदेतान्विषण्णान्सांत्वयन्गिरा
मा भैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुराः।२०१।


मंत्राश्चौषधयश्चैव धरायां यत्तु वर्तते
मयि तिष्ठति तत्सर्वं पादमात्रं सुरेषु वै।२०२।


तत्सर्वं च प्रदास्यामि युष्मदर्थे धृतं मया
ततो देवास्तुतान्दृष्ट्वा धृतान्काव्येन धीमता।२०३।


अमंत्रयंत देवा वै संविग्नास्तज्जिघृक्षया
काव्यो ह्येष इदं सर्वं व्यावर्तयति नो बलात्।२०४।


साधु गच्छामहे तूर्णं यावन्न च्यावयेत वै
प्रसह्य जित्वा शिष्टांस्तु पातालं प्रापयामहे।२०५।


ततो देवास्तु संरब्धा दानवानुपसृत्य ह
ततस्ते वध्यमानास्तैः काव्यमेवाभिदुद्रुवुः।२०६।


ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्
रक्षाकार्येण संहृत्य देवेभ्यस्तान्सुरार्दितान्।२०७।


काव्यं दृष्ट्वा स्थितं देवा निर्विशंकास्तु ते जहुः
ततः काव्योनुचिंत्याथ ब्रह्मणो वचनं हितम्।२०८।


तानुवाच ततः काव्यः पूर्ववृत्तमनुस्मरन्
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः।२०९।


बलिर्बद्धो हतो जंभो निहतश्च विरोचनः
महासुरा द्वादशसु संग्रामेषु सुरैर्हताः।२१०।


तैस्तैरुपायैर्भूयिष्ठा निहतास्तु प्रधानतः
केचिच्छिष्टाश्च यूयं वै युद्धं नास्तीति मे मतम्।२११।


नीतयो वो विधातव्या उपासे कालपर्ययात्
यास्याम्यहं महादेवं मंत्रार्थं विजयावहम्।२१२।


अप्रतीपांस्ततो देवान्मंत्रान्प्राप्य महेश्वरात्
योत्स्यामहे पुनर्देवैस्ततः प्राप्स्यथ वै जयम्।२१३।


ततस्ते कृतसंवादा देवानूचुस्तदासुराः
न्यस्तशस्त्रा वयं सर्वे निःस्सन्नाहा रथैर्विना।२१४।


वयं तपश्चरिष्यामः संवृता वल्कलैस्तथा
देवास्तेषां वचः श्रुत्वा सत्याभिव्याहृतं ततः।२१५।


ततोन्यवर्तयन्सर्वे विज्वरा मुदिताश्च ते
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः।२१६।


ततस्तानब्रवीत्काव्य उपाध्वं तपसि स्थिताः
निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम्।२१७।


पितुराश्रमसंस्था वै मां प्रतीक्षथ दानवाः
तानुद्दिश्यासुरान्काव्यो महादेवं प्रपद्यत।२१८।


                    शुक्र उवाच
मंत्रानिच्छाम्यहं देव येन सन्ति बृहस्पतौ
पराभवाय देवानामसुराणां जयाय च।२१९।


एवमुक्तोब्रवीद्देवो व्रतं त्वं चर भार्गव
पूर्णं वर्षसहस्रं तु कणधूममधः शिराः।२२०।


यदि पास्यसि भद्रं ते ततो मंत्रानवाप्स्यसि
तथेति समनुज्ञाप्य शुक्रस्तु भृगुनंदनः।२२१।


पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः
व्रतं चराम्यहं देव त्वयादिष्टोद्य वै प्रभो।२२२।


आदिष्टो देवदेवेन कृतवान्भार्गवो मुनिः
तदा तस्मिन्गते शुक्रे असुराणां हिताय वै।२२३।


मंत्रार्थे तनुते काव्यो ब्रह्मचर्यं महेश्वरात्
तद्बुद्ध्वा नीतिपूर्वं वै राजन्यास्तु तदा सुखं।२२४।


अस्मिंश्छिद्रे तदामर्षाद्देवास्तानभिदुद्रुवुः
दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः।२२५।


दृष्ट्वा सुरगणा देवान्प्रगृहीतायुधान्पुनः
उत्पेतुस्सहसा सर्वे संत्रस्तास्तान्वचोब्रुवत्।२२६।

                    दैत्या ऊचुः
न्यस्तशस्त्रा वयं देवा आचार्ये व्रतमास्थिते
दत्वा भवंतस्त्वभयं संप्राप्ता नो जिघांसया।२२७।


अनमर्षा वयं सर्वे त्यक्तशस्त्राश्च संस्थिताः
चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः।२२८।


रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन
अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्।२२९।


ज्ञापयामः कृच्छ्रमिदं यावन्नाभ्येति नो गुरुः
निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः।२३०।


एवमुक्त्वा च तेन्योन्यं शरणं काव्यमातरम्
प्रापद्यंत ततो भीतास्तेभ्योऽदादभयं तु सा।२३१।


न भेतव्यं न भेतव्यं भयं त्यजत दानवाः
मत्सन्निधौ वर्त्ततां वो न भीर्भवितुर्महति।२३२।


तयाभिरक्षितांस्तांश्च दृष्ट्वा देवास्तदाऽसुरान्
अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्।२३३।


ततस्तान्बध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा
देवी क्रुद्धाब्रवीद्देवान्निद्रया मोहयाम्यहम्।२३४।


संभृत्य सर्वसंभारान्निद्रां सा व्यसृजत्तदा
तस्तंभ देवी च बलाद्योगयुक्ता तपोधना।२३५।


ततस्तं स्तभितं दृष्ट्वा इन्द्रं देवाश्च मूढवत्
प्राद्रवंत ततो भीता इन्द्रं दृष्ट्वा वशीकृतम्।२३६।


गतेषु सुरसंघेषु विष्णुरिंद्रमभाषत।
                  विष्णुरुवाच
मां त्वं प्रविश भद्रं ते रक्षिष्ये त्वां सुरोत्तम।२३७।


एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः
विष्णुसंरक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत्।२३८।


एष त्वां विष्णुना सार्धं दहामि मघवन्बलात्
मिषतां सर्वभूतानां दृश्यतां मे तपोबलम्।२३९।


तयाभिभूतौ तौ देवाविंद्रविष्णू बभूवतुः
कथं मुच्येय सहितो विष्णुरिंद्रमभाषत।२४०।


इंद्रोब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो
विशेषेणाभिभूतोस्मि जहीमां जहि मा चिरम्।२४१।


ततः समीक्ष्य विष्णुस्तांस्त्रीवधे कृच्छ्रमास्थितः
अभिध्याय ततः शक्रमापन्नं सत्वरं प्रभुः।२४२।


ततः स त्वरयायुक्तः शीघ्रकारी भयान्वितः
ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरं देव्याश्चिकीर्षितम्।२४३।


क्रुद्धश्च चक्रमादाय शिरश्चिच्छेद वै भयात्
तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः।२४४।


ततो हि शप्तो भृगुणा विष्णुर्भार्यावधे कृतेे।
                   भृगुरुवाच
यत्त्वया जानता धर्ममवध्या स्त्री निषूदिता।२४५।


तस्मात्त्वं सप्तकृत्वो हि मानुषेषूपयास्यसि
ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः।२४६।


लोकस्य च हितार्थाय जायते मानुषेष्विह।
अथ व्याहृत्य विष्णुं स तदादाय शिरःस्वयम् ।२४७।


समानीय ततः कायं पाणौ गृह्येदमब्रवीति। 
                    भृगुरुवाच
एषा त्वं विष्णुना देवि हता संजीवयाम्यहं।२४८।


यदि कृत्स्नो मया धर्मो ज्ञायते चरितोपि वा
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ।२४९।


ततस्तां प्रोक्ष्य शीताद्भिर्जीवजीवेति सोब्रवीत्
ततोभिव्याहृते तस्मिन्देवी संजीविता तदा।२५०। 1.13.250

_____________________________________
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव
साधुसाध्विति दृष्ट्वैव वचस्तां सर्वतोब्रुवन् ।२५१।


एवं प्रत्याहृता तेन देवी सा भृगुणा तदा
मिषतां दैवतानां हि तदद्भुतमिवाभवत्।२५२।


असंभ्रांतेन भृगुणा पत्नी संजीविता पुनः
दृष्ट्वा चेंद्रो नालभत शर्म काव्यभयात्पुनः।२५३।


प्रजागरे ततश्चेंद्रो जयंतीमिदमब्रवीत्
संधिकामोभ्यधाद्वाक्यं स्वां कन्यां पाकशासनः।२५४।


                      इन्द्र उवाच
एष काव्यो ह्यनिंद्राय व्रतं चरति दारुणम्
तेनाहं व्याकुलः पुत्रि कृतो मतिमता दृढम्।२५५।


तैस्तैर्मनोनुकूलैश्च उपचारैरतंद्रिता
आराधय तथा पुत्रि यथा तुष्येत स द्विजः।२५६।


गच्छ त्वं तस्य दत्तासि प्रयत्नं कुरु मत्कृते
एवमुक्ता जयंती सा वचः संगृह्य वै पितुः।२५७।


अगच्छद्यत्र घोरं स तपो ह्यारभ्य तिष्ठति
तं दृष्ट्वा च पिबंतं सा कणधूममधोमुखम्।२५८।


यक्षेण पात्यमानं च कुंडधारेण पावनम्
दृष्ट्वा तं यतमानं तु देवी काव्यमवस्थितम्।२५९।


शत्रूपघाते श्राम्यंन्तं दुर्बलस्थितिमास्थितम्
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा।२६०।


गीर्भिश्चैवानुकूलाभिः स्तुवंती वल्गुभाषिणी
गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः।२६१।


व्रतचर्यानुकूलाभिरुपास्य बहुलाः समाः
पूर्णे धूमव्रते तस्मिन्घोरे वर्षसहस्रके ।२६२।


वरेण छंदयामास शिवः प्रीतोभवत्तदा ।
                  महेश्वर उवाच
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् ।२६३।


तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च ।
तेजसा च सुरान्सर्वांस्त्वमेकोभिभविष्यसि।२६४।


यच्च किंचिन्मयि ब्रह्मन्विद्यते भृगुनंदन
प्रतिदास्यामि तत्सर्वं त्वया वाच्यं न कस्यचित् ।२६५।


किं भाषितेन बहुना अवध्यस्त्वं भविष्यसि
तान्दत्वा तु वरांस्तस्मै भार्गवाय पुनः पुनः।२६६।


प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ
एतान्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः।२६७।


एवमाभाष्य देवेशमीश्वरं नीललोहितम्।
प्रज्ञान्वितस्ततस्तस्मै प्राञ्जलि प्रणतोऽभवत्।२६८।।


ततः सोंऽतर्हिते देवे जयंतीमिदमब्रवीत्।
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता।२६९।


महता तपसा युक्ता किमर्थं मां जिगीषसि
अनया संस्थिता भक्त्या प्रश्रयेण दमेन च।२७०।


स्नेहेन चैव सुश्रोणि प्रीतोस्मि वरवर्णिनि
किमिच्छसि वरारोहे कस्ते कामः समुद्यतः।२७१।


तं ते संपादयाम्यद्य यद्यपि स्यात्सुदुष्करम्
एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि।२७२।


चिकीर्षितं हि मे ब्रह्मंस्त्वं वै वद यथातथम्
एवमुक्तोब्रवीदेनं दृष्ट्वा दिव्येन चक्षुषा।२७३।


मया सह त्वं सुश्रोणि शतवर्षाणि भामिनि
सर्वभूतैरदृश्यांतः संप्रयोगमिहेच्छसि।२७४।


देवि इंदीवरश्यामे वरार्हे वामलोचने
एवं वृणोषि कामांस्त्वं ददे वै वल्गुभाषिते।२७५।


एवं भवतु गच्छाव गृहं मे मत्तकाशिनि
ततः स गृहमागम्य जयंत्या सह चोशना।२७६।


तया सहावसद्देव्या शतवर्षाणि भार्गवः
अदृश्यः सर्वभूतानां मायया संशितव्रतः।२७७।


कृतार्थमागतं ज्ञात्वा शुक्रं सर्वे दितेस्सुताः
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः।२७८।


गता यदा न पश्यंति मायया संवृतं गुरुम्
लक्षणं तस्य चाबुद्ध्वा नाद्यागच्छति नो गुरुः।२७९।


एवं ते स्वानि धिष्ण्यानि गताः सर्वे यथागताः
ततो देवगणास्सर्वे गत्वांगिरसमब्रुवन्।२८०।


दानवालये तु भगवान्गत्वा तत्र च तां चमूम्
मोहयित्वात्मवशगां क्षिप्रमेव तथा कुरु।२८१।

धिषणस्तान्सुरानाह एवमेव व्रजाम्यहम्
तेन गत्वा दानवेंद्रः प्रह्लादो वै वशीकृतः।२८२।


शुक्रो भूत्वा स्थितस्तत्र पौरोहित्यं चकार सः
स्थितो वर्षशतं साग्रमुशना तावदागतः।२८३।


दनुपुत्रैस्ततो दृष्टः सभायां तु बृहस्पतिः
उशना एक एवात्र द्वितीयः किमिहागतः।२८४।


सुमहत्कौतुकं चात्र भविता विग्रहो दृढम्
किं वदिष्यति लोकोयं द्वारि योयं व्यवस्थितः।२८५।


सभायामास्थितो योयं गुरुः किं नो वदिष्यति
एवं प्रजल्पतां तेषां दनूनां कविरागतः।२८६।


स्वरूपधारिणं तत्र दृष्ट्वासीनं बृहस्पतिम्
उवाच वचनं क्रुद्धः किमर्थं त्वमिहागतः।२८७।

शिष्यान्मोहयसे मे त्वं युक्तं सुरगुरोस्तव
मूढास्ते त्वां न जानंति त्वन्मायामोहिता ध्रुवम्।२८८।

तन्न युक्तं तव ब्रह्मन्परशिष्यप्रधर्षणम्
व्रज त्वं देवलोकं स्वं तिष्ठ धर्ममवाप्स्यसि।२८९।

शिष्यो हि मे कचः पूर्वं हतो दानवपुंगवैः
विद्यार्थी तनयो ब्रह्मंस्तवायोग्या गतिस्त्विह।२९०।

श्रुत्वा तु तस्य तद्वाक्यं स्मितं कृत्वावदद्गुरुः
संति चोराः पृथिव्यां येपरद्रव्यापहारिणः।२९१।

एवं विधानदृष्टाश्च रूपदेहापहारिणः
वृत्रघातेन चेंद्रस्य ब्रह्महहत्या पुराभवत्।२९२।

लोकायतिक शास्त्रेण भवता सा तिरस्कृता
जानामि त्वामांगिरसं देवाचार्यं बृहस्पतिम्।२९३।

मद्रूपधारिणं प्राप्तं सर्वे पश्यत दानवाः
एष वो मोहनायालं प्राप्तो विष्णुविचेष्टितैः।२९४।

तदेनं शृंखलैर्बद्ध्वा क्षिपेत लवणार्णवे
पुनरेवाब्रवीच्छुक्रः पुरोधायं दिवौकसाम्।२९५।

मोहितानूनमेतेन क्षयं यास्यथ दानवाः
भो अहं दानवेंद्रेह वंचितोऽस्मि दुरात्मना।२९६।

किमर्थं भवता त्यक्तः कृतश्चान्यः पुरोहितः
देवाचार्यॐगिरःपुत्रएषएवबृहस्पतिः।२९७।

वंचितोसि न संदेहो हितार्थं तु दिवौकसाम्
त्यजस्वैनं महाभाग शत्रुपक्षजयावहम्।२९८।

अनुशिष्यभयाद्यातः पूर्वमेवमहं प्रभो
जलमध्येस्थितः पीतो महादेवेन शंभुना।२९९।

उदरस्थस्य मे जातं साग्रं वर्षशतं किल
उदराच्छुक्ररूपेण शिश्नेनाहं विसर्जितः।३००1.13.300।

________________________________
वरदः प्राह मां देवश्शुक्रेष्टं त्वं वरं वृणु
मयावृतो वरं राजन्देवदेवः पिनाकधृत्।३०१।

मनसा चिंतिता ह्यर्था मानसे ये स्थिता वराः
भवंतु मयि ते सर्वे प्रसादात्तव शंकर।३०२।

एवमस्त्विति देवेन प्रेषितोऽस्मि तवांतिकम्
तावदत्राभवच्चायं पुरोधास्ते बृहस्पतिः।३०३।

दृष्टः सत्यं दानवेंद्र मयोक्तं त्वं निशामय
बृहस्पतिस्तदा वाक्यं प्रह्लादं प्रत्यभाषत।३०४।

नाहमेतं प्रजानामि देवं वा दानवं नरम्
मद्रूपधारिणं राजन्वंचनार्थं तवागतम्।३०५।

ततस्ते दानवाः सर्वे साधुसाध्विति वादिनः
पुरोधाः पौर्विको नोस्तु यो वा को वा भवत्विति।३०६।

नानेन कार्यमस्माकं या तु ह्येष यथागतः
सक्रोधमशपत्काव्यो दानवेंद्रान्समागतान्।३०७।

त्यक्तो यथाहं युष्माभिस्तथा सर्वांश्चिरादिव
गतश्रीकान्गतप्राणान्पश्येयं दुःखजीविकान्।३०८।

सुघोरामापदं प्राप्तानचिरादेव सर्वशः
एवमुक्त्वा गतः काव्यो यदृच्छातस्तपोवनम्।३०९।

तस्मिन्गते ततः शुक्रे स्थितस्तत्र बृहस्पतिः
पालयन्दानवांस्तत्र किंचित्कालमतिष्ठत।३१०।

ततो बहुतिथे काले अतिक्रांते नरेश्वर
संभूय दानवाः सर्वे पर्यपृछंस्तदा गुरुम्।३११।

संसारेस्मिन्नसारे तु किंचिज्ज्ञानं प्रयच्छ नः
येन मोक्षं व्रजामश्च प्रसादात्तव सुव्रत।३१२।

ततः सुरगुरुः प्राह काव्यरूपी तदा गुरुः
ममाप्येषा मतिः पूर्वं या युष्माभिरुदाहृता।३१३।

क्षणं कुर्वंतु सहिताश्शुचीभूय समाहिताः
ज्ञानं वक्ष्यामि वो दैत्या अहं वै मोक्षदायि यत्।३१४।

एषा श्रुतिर्वैदिकी या ऋग्यजुःसामसंज्ञिता
वैश्वानरप्रसादात्तु दुःखदा प्राणिनामिह।३१५।

यज्ञश्राद्धं कृतं क्षुद्रैरैहिकस्वार्थतत्परैः
ये त्वमी वैष्णवा धर्मा ये च रुद्रकृतास्तथा।३१६।

कुधर्मा दारसहितैर्हिंसाप्रायाः कृताहितैः
अर्द्धनारीश्वरो रुद्र कथं मोक्षं गमिष्यति।३१७।

वृतो भूतगणैर्भूरिभूषितश्चास्थिभिस्तथा
न स्वर्गो नैव मोक्षोत्र लोकाः क्लिश्यंति वै तथा।३१८।

हिंसायामास्थितो विष्णुः कथं मोक्षं गमिष्यति
रजोगुणात्मको ब्रह्मा स्वां सृष्टिमुपजीवति।३१९।

देवर्षयोथ ये चान्ये वैदिकं पक्षमाश्रिताः
हिंसाप्रायाः सदा क्रूरा मांसादाः पापकारिणः।३२०।

सुरास्तु मद्यपानेन मांसादा ब्राह्मणास्त्वमी
धर्मेणानेन कः स्वर्गं कथं मोक्षं गमिष्यति।३२१।

यच्च यज्ञादिकं कर्म स्मार्तं श्राद्धादिकं तथा
तत्र नैवापवर्गोस्ति यत्रैषा श्रूयते श्रुतिः।३२२।

यज्ञं कृत्वा पशुं हत्वा कृत्वा रुधिरकर्दमम्
यद्येवं गम्यते स्वर्गो नरकः केन गम्यते।३२३।

यदि भुक्तमिहान्येन तृप्तिरन्यस्य जायते
दद्यात्प्रवसतः श्राद्धं न स भोजनमाहरेत्।३२४।

आकाशगामिनो विप्राः पतिता मांसभक्षणात्
तेषां न विद्यते स्वर्गो मोक्षो नैवेह दानवाः।३२५।

जातस्य जीवितं जंतोरिष्टं सर्वस्य जायते
आत्ममांसोपमं मांसं कथं खादेत पंडितः।३२६।

योनिजास्तु कथं योनिं सेवंते जंतवस्त्वमी
मैथुनेन कथं स्वर्गं यास्यंते दानवेश्वर
मृद्भस्मना यत्रशुद्धिस्तत्र शुद्धिस्तु का भवेत्।३२७।

___________

विपरीततमं लोकं पश्य दानव यादृशम्
विण्मूत्रस्य कृतोत्सर्गे शिश्नापाने तु शोधनम्।३२८।

भुक्ते वा भोजने राजन्कथं नापानशिश्नयोः।३२९।
क्रियते शोधनं तद्वद्विपरीता स्थितिस्त्वियम्
यत्र प्रक्षालनं प्रोक्तं तत्र तेनैव कुर्वते।३३०।

तारां बृंहस्पतेर्भार्यां हृत्वा सोमः पुरा गतः
तस्यां जातो बुधः पुत्रो गुरुर्जग्राह तां पुनः।३३१।

गौतमस्य मुनेः पत्नीमहल्यां नाम नामतः
अगृह्णात्तां स्वयं शक्रः पश्य धर्मो यथाविधः।३३२।

एतदन्यच्च जगति दृश्यते पापदायकम्
एवंविधो यत्र धर्मः परमार्थो मतस्तु कः।३३३।

वदस्व त्वं दानवेंद्र वद भूयो वदामि ते
गुरोस्तु गदितं श्रुत्वा परमार्थान्वितं वचः।३३४।

जातकौतूहलास्तत्र विविक्तास्तु भवार्णवात्
                   (दानवा ऊचु:)
दीक्षयस्व गुरो सर्वान्प्रपन्नान्भक्तितः स्थितान्।३३५।

येन वै न पुनर्मोहं व्रजामस्तव शासनात्
सुविरक्ताः स्म संसारे शोकमोहप्रदायिनि।३३६।

उद्धरस्व गुरो सर्वान्केशाकर्षेण कूपतः
कस्य देवस्य शरणं गच्छामो ब्राह्मणोत्तम।३३७।

दैवतं च प्रपन्नानां प्रकाशय महामते
स्मरणेनोपवासेन ध्यानधारणया तथा।३३८।

पूजोपहारे च कृते अपवर्गस्तु लभ्यते
विरक्तास्स्म कुटुंबे तु भूयो नात्र यतामहे।३३९।

एवं चैव गुरुश्छन्नस्तैरुक्तो दनुपुंगवैः
चिंतयामास तत्कार्यं कथमेतत्करोम्यहम्।३४०।

कथमेते मया पापाः कर्तव्या नरकौकसः
विडंबनाच्छ्रुतेर्बाह्यास्त्रैलोक्ये हास्यकारिणः।३४१।

इत्युक्त्वा धिषणो राजंश्चिन्तयामास केशवम्
तस्य तच्चिंतितं ज्ञात्वा मायामोहं जनार्दनः।३४२।

समुत्पाद्य ददौ तस्य प्राहचेदंबृहस्पतिम् 

माया भवता सहितः सर्वान्वेदमार्गबहिष्कृतान्
एवमादिश्य भगवानंतर्द्धानं जगाम ह।३४४।

तपस्यभिरतान्सोथ मायामोहो गतोऽसुरान्
तेषां समीपमागत्य बृहस्पतिरुवाच ह।३४५।

अनुग्रहार्थं युष्माकं भक्त्या प्रीतस्त्विहागतः
योगी दिगम्बरो मुण्डो बर्हिपत्रधरो ह्ययम्।३४६।

इत्युक्ते गुरुणा पश्चान्मायामोहोब्रवीद्वचः
भो भो दैत्याधिपतयः प्रब्रूत तपसि स्थिताः।३४७।


एहिकार्थं तु पारक्यं तपसः फलमिच्छथ
                  (दानवा ऊचुः)
पारक्यधर्मलाभाय तपश्चर्या हि नो मता।३४८।

अस्माभिरियमारब्धा किं वा तत्र विवक्षितम्
                    (दिगंबर उवाच)
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ।३४९।

आर्हतं सर्वमेतच्च मुक्तिद्वारमसंवृतम्
धर्माद्विमुक्तेरर्होयं नैतस्मादपरः परः।३५० 1.13.350।

________________
अत्रैवावस्थिताः स्वर्गं मुक्तिं चापि गमिष्यथ
एवंप्रकारैर्बहुभिर्मुक्तिदर्शनवर्जितैः।३५१।

मायामोहेन ते दैत्याः वेदमार्गबहिष्कृताः
धर्मायैतदधर्माय सदेतदसदित्यपि।३५२।

विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति
परमार्थोयमत्यर्थं परमार्थो न चाप्ययम्।३५३।

कार्यमेतदकार्यं हि नैतदेतत्स्फुटं त्विदम्
दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम्।३५४।

इत्यनेकार्थवादांस्तु मायामोहेन ते यतः
उक्तास्ततोऽखिला दैत्याः स्वधर्मांस्त्याजिता नृप।३५५।

अर्हध्वं मामकं धर्मं मायामोहेन ते यतः
उक्तास्तमाश्रिता धर्ममार्हतास्तेन तेभवन्।३५६।

त्रयीमार्गं समुत्सृज्य मायामोहेन तेसुराः
कारितास्तन्मया ह्यासंस्तथान्ये तत्प्रबोधिताः।३५७।

तैरप्यन्ये परे तैश्च तैरन्योन्यैस्तथापरे
नमोऽर्हते चेति सर्वे संगमे स्थिरवादिनः।३५८।

अल्पैरहोभिः संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी
पुनश्च रक्तांबरधृन्मायामोहो जितेक्षणः।३५९।

सोन्यानप्यसुरान्गत्वा ऊचेन्यन्मधुराक्षरम्
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थाय वा पुनः।३६०।

तदलं पशुघातादि दुष्टधर्मैर्निबोधत
विज्ञानमयमेतद्वै त्वशेषमधिगच्छत।३६१।

बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम्
जगदेतदनाधारं भ्रांतिज्ञानानुतत्परम्।३६२।

रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे
नानाप्रकारं वचनं स तेषां मुक्तियोजितम्।३६३।

तथा तथावदद्धर्मं तत्यजुस्ते यथायथा
केचिद्विनिंदां वेदानां देवानामपरे नृप।३६४।

यज्ञकर्मकलापस्य तथा चान्ये द्विजन्मनाम्
नैतद्युक्तिसहं वाक्यं हिंसा धर्माय जायते।३६५।

हवींष्यनलदग्धानि फलान्यर्हंति कोविदाः
निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते।३६६।

स्वपिता यजमानेन किं वा तत्र न हन्यते
तृप्तये जायते पुंसो भुक्तमन्येन चेद्यदि।३६७।

दद्याच्छ्राद्धं प्रवसतो न वहेयुः प्रवासिनः
यज्ञैरनेकैर्देवत्वमवाप्येंद्रेण भुज्यते।३६८।

शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः
जना श्रद्धेयमित्येतदवगम्य तु तद्वचः।३६९।

उपेक्ष्य श्रेयसे वाक्यं रोचतां यन्मयेरितम्
न ह्याप्तवादा नभसो निपतंति महासुराः।३७०।

युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः
                    दानवा ऊचुः
तत्ववादे वयं सर्वे प्रपन्नास्तव भक्तितः।३७१।

कुरुष्वानुग्रहं चाद्य प्रसन्नोसि यदि प्रभो
संभारानाहरामोद्य दीक्षायोग्यांश्च सर्वशः।३७२।

प्रसादात्तव येनाशु मोक्षो हस्तगतो भवेत्
ततस्ता
प्रपन्नः शासनं ह्येष मदीयो गुरुरग्र्यधीः

दीक्षां दास्यति युष्माकं निदेशान्मम सत्तमः।३७४।

एतान्दीक्षय भो ब्रह्मन्वचनान्मम पुत्रकान्
गते मोहे दानवास्ते भार्गवं वाक्यमब्रुवन्।३७५।

देहि दीक्षां महाभाग सर्वसंसारमोचनीम्
तथेत्याहोशना दैत्यान्गच्छामो नर्मदामनु।३७६।

भोभोस्त्यजत वासांसि दीक्षां कारयितास्मि वः
एवं ते दानवा भीष्म भृगुरूपेण धीमता।३७७।

आंगिरसेन ते तत्र कृता दिग्वाससोसुराः

बर्हिपिच्छध्वजं तेषां गुंजिका चारुमालिकां।३७८।

दत्वा चकार तेषां तु शिरसो लुंचनं ततः
केशस्योत्पाटनं चैव परमं धर्मसाधनम्।३७९।

धनानामीश्वरो देवो धनदः केशलुंचनात्
सिद्धिं परमिकां प्राप्ताः सदा वेषस्य धारणात्।३८०।

नित्यत्वं लभ्यते ह्येवं पुरा प्राहार्हतः स्वयम्
वालोत्पाटेन देवत्वं मानुषैर्लभ्यते त्विह।३८१।

किं न कुर्वीत तत्तस्मान्महापुण्यप्रदं यतः
मनोरथो हि देवानां लोके वै मानुषे कदा।३८२।

अस्मिन्स्याद्भारते वर्षे जन्मनः श्रावके कुले
तपसा युञ्ज्महेस्मान्वै केशोत्पाटनपूर्वकम्।३८३।


तीर्थंकराश्चतुर्विंशत्तथा तैस्तु पुरस्कृताः
छायाकृतं फणींद्रेण ध्यानमार्गप्रदर्शकम्।३८४।

स्तुवन्तं मंत्रवादेन स्वर्गो हस्तगतोर्हतं
मोक्षो वा भविता नूनं विचारः कोत्र कथ्यते।३८५।

कदा स्यामर्षयो भूत्वा सूर्याग्निसमतेजसः
जप्त्वा विरागिणश्चैवमनुपंचांगकं तथा।३८६।

तथा तपस्यतां मृत्युं गतानां कालपर्ययात्
पाषाणेन शिरोभग्नं भवते पुण्यकर्मणाम्।३८७।

अरण्ये निर्जने वासःकदा वै भविता हि नः
कर्णजप्यं श्रावकाश्च करिष्यंति समाहिताः।३८८।

भोभो ऋषे न गंतव्यं मोक्षमार्गी यतो भवान्
लब्धानि यानि स्थानानि भूयोवृत्तिकराणि च।३८९।

त्याज्यानि तेन चैतानि सत्यमेव वचो हि नः
अस्मदीयेन तपसा नियमैर्विविधैस्तथा।३९०।

व्रजध्वं चोत्तमं स्थानं मोक्षमार्गं च यं बुधाः
विंदंति भक्तिभावेन तपोयुक्तास्तपस्विनः।३९१।

अक्षेषु निग्रहो यत्र दयाभूतेषु सर्वदा
तत्तपोधर्ममित्युक्तं सर्वा चान्या विडंबना।३९२।

ज्ञात्वैतद्भवता साध्यं गंतव्यं परमं पदम्
यां वै तीर्थंकरा याता यां गतिं योगिनो गताः।३९३।

एवं वै देवताः पूर्वं विद्याधरमहोरगाः
मनोरथाभिलाषांस्ते चिंतयंतो दिवानिशम्।३९४।

यद्येषणा वै युष्माकं संसारविरतौ कृता
परित्यजध्वं दाराणि स्वर्गमार्गार्गलानि च।३९५।

यस्यां योनौ पिता यातस्तां योनिं सेवसे कथम्
आत्ममांसोपमं मांसं कथं खादंति जंतवः।३९६।

ततस्ते दानवा भीष्मा ऊचुः सर्वे गुरुं वचः
दीक्षस्व नो महाभाग भ्रूणकानग्रतः स्थितान्।३९७।

तथा कृत्वा स तानाह समयेन पुरोहितः
प्रणामो नान्यदेवेषु कर्तव्यो वः कदाचन।३९८।

एकस्थाने यदा भक्तं भोक्तव्यं करसंपुटे
तत्रस्थाने स्थितं तोयं केशकीटविवर्जितम्।३९९।

तुल्यं प्रियाप्रियं कार्यं नान्यदृष्टिहतं क्वचित्
भोक्तव्यमेतेन विभो आचारेण तथा कुरु।४००1.13.400

__________________________________
भवध्वं सहिता यूयं ते तथा मोक्षभागिनः
एवमुक्त्वा स नियमान्कृत्वा तान्दनुपुंगवान्।४०१।

जगाम धिषणो राजन्देवलोकं दिवौकसाम्
आचचक्षे स तत्सर्वं दानवानां च कारितम्।४०२।

ततस्ते त्वसुरा जग्मुर्नर्मदामभितो वसन्
दृष्ट्वा तान्दानवांस्तत्र प्रह्लादेन विना कृतान्।४०३।

देवराजस्ततो हृष्टो नमुचिं प्राह वै वचः
हिरण्याक्षं यज्ञहनं धर्मघ्नं वेदनिंदकम्।४०४।

राक्षसं क्रूरकर्माणं प्रघसं विघसं तथा
मुचिं चैव तथा बाणं विरोचनमथापि वा।४०५।

महिषाक्षं बाष्कलं च प्रचंडं चंडकं तथा
रोचमानं तथात्युग्रं सुषेणं दानवोत्तमम्।४०६।

एतान्दृष्ट्वा तथा चान्यान्दानवेंद्रानथाब्रवीत्
                    (इन्द्र उवाच)
दानवेंद्राः पुरा जाताः कृतं राज्यं त्रिविष्टपे।४०७।

इदानीं कथमेवेदं व्रतं वेदविलोपकम्
भवद्भिः कर्तुमारब्धं नग्नमुंडिकमंडलु।४०८।

मयूरध्वजधारित्वं कथं चैवेह तिष्ठथ
                     (दानवा ऊचुः)
त्यक्तः सर्वासुरभाव ऋषिधर्मे वयं स्थिताः।४०९।


धर्मवृद्धिकरं कर्म चरामः सर्वजंतुषु
त्रैलोक्यराज्यमखिलं भुंक्ष्व शक्र व्रजस्व च।४१०।


तथेति चोक्त्वा मघवा पुनर्यातस्त्रिविष्टपम्
एवं ते मोहिताः सर्वे भीष्म देवपुरोधसा।४११।


नर्मदा सरितं प्राप्य स्थिता दानवसत्तमाः
ज्ञात्वा शुक्रेण ते सर्वे वृत्तांतमनुबोधिताः।४१२।


तदा त्रैलोक्यहरणे चक्रुः क्रूरां पुनर्मतिम्।४१३।

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे अवतारचरितंनाम त्रयोदशोऽध्यायः।१३।

_______________________________________

______________________________________

           (यदु और ययाति का संवाद)
यदोर्वाक्यं तदा श्रुत्वा राजा क्रुद्धो बभूव ह
शशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः ।१३।

यस्मादाज्ञाहता त्वद्य त्वया पापि समोपि हि
मातुरंशं भजस्व त्वं मच्छापकलुषीकृतः ।१४।

एवमुक्त्वा यदुं पुत्रं ययातिः पृथिवीपतिः
पुत्रं शप्त्वा महाराजस्तया सार्द्धं महायशाः ।१५।

रमते सुखभोगेन विष्णोर्ध्यानेन तत्परः
अश्रुबिंदुमतीसा च तेन सार्द्धं सुलोचना ।१६।

बुभुजे चारुसर्वांगी पुण्यान्भोगान्मनोनुगान्
एवं कालो गतस्तस्य ययातेस्तु महात्मनः ।१७।

अक्षया निर्जराः सर्वा अपरास्तु प्रजास्तथा
सर्वे लोका महाभाग विष्णुध्यानपरायणाः ।१८।

तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पल
सर्वे लोका महाभाग सुखिनः साधुसेवकाः ।१९।

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रेऽशीतितमोऽध्यायः(८०)
_________________________________ 

ब्रह्मवैवर्तपुराणम्/खण्डः(४ )(श्रीकृष्णजन्मखण्डः)अध्यायः(१३)

अपरं कृष्णमाहात्म्यं शृणु किंचिन्महामुने ।।
विघ्ननिघ्नं पापहरं महापुण्यकरं परम् ।। १ ।।

एकदा नन्दपत्नी च कृत्वा कृष्णं स्ववक्षसि ।।
स्वर्णसिंहासनस्था च क्षुधितं तं स्तनं ददौ ।। २ ।।

एतस्मिन्नन्तरे तत्र विप्रेंद्रैकः समागतः ।।
वृतः शिष्यसमूहैश्च प्रज्वलन्ब्रह्मतेजसा ।। ३ ।।

प्रजपन्परमं ब्रह्म शुद्धस्फटिकमालया ।।
दण्डी छत्री शुक्लवासा दन्तपंक्तिविराजितः ।। ४ ।।

ज्योतिर्ग्रंथो मूर्तिमांश्च वेदवेदांगपारगः ।।
परिबिभ्रज्जटाजालं तप्तकांचनसन्निभम् ।। ५ ।।

शरत्पार्वणचंद्रास्यो गौरांगः पद्मलोचनः ।।
योगीन्द्रो धूर्जटेः शिष्यः शुद्धभक्तो गदाभृतः ।। ६ ।।

व्याख्यामुद्राकरः श्रीमाञ्छिष्यानध्यापयन्मुदा ।।
वेदव्याख्यां कतिविधां प्रकुर्वन्निव लीलया ।। ७ ।।

एकीभूय चतुर्वेदास्तेजसा मूर्तिमानिव।।
साक्षात्सरस्वतीकण्ठः सिद्धांतैकविशारदः ।। ८ ।।

ध्यानैकनिष्ठः श्रीकृष्णपादांभोजे दिवानिशम् ।।
जीवन्मुक्तो हि सिद्धेशः सर्वज्ञः सर्वदर्शनः ।। ९ ।।

तं दृष्ट्वा सा समुत्तस्थौ यशोदा प्रणनाम च ।।
पाद्यं गां मधुपर्कं च स्वर्णसिंहासनं ददौ ।। 4.13.१० ।।

बालकं वंदयामास मुनीन्द्रं सस्मितं मुदा ।।
मुनिश्च मनसा चक्रे प्रणामशतकं हरिम् ।। ११ ।।

आशिषं प्रददौ प्रीत्या वेदमंत्रोपयोगिकम् ।।
प्रणनाम च शिष्यांश्च ते तां युयुजुराशिषम् ।।१२।।

शिष्यान्पाद्यादिकं भक्त्या प्रददौ च पृथक्पृथक् ।।
साशिष्यांघ्री च प्रक्षाल्य समुवास सुखासने।।१३।।

समुद्यता सा प्रष्टुं च पुटाञ्जलियुता सती ।।
स्वक्रोडे बालकं कृत्वा भक्तिनम्रात्मकंधरा ।। १४ ।।

स्वात्मारामं मंगलं च प्रष्टुं यद्यपि न क्षमा ।।
तथाऽपि भवतो नाम शिवं पृच्छामि सांप्रतम् ।। १५ ।।

अबला बुद्धिहीनाया दोषं क्षंतुं सदाऽर्हसि ।।
मूढस्य सततं दोषं क्षमां कुर्वंति साधवः ।।१६।।

अंगिरा वाऽथ वाऽत्रिर्वा मरीचिर्गौतमोऽथ वा ।।
क्रतुः किं वा प्रचेता वा पुलस्त्यः पुलहोऽथवा ।।१७।।

दुर्वासाः कर्दमस्त्वं वा वशिष्ठो गर्ग एव वा ।।
जैगीषव्यो देवलो वा कपिलो वा स्वयं विभुः ।। १८ ।।

______________
सनत्कुमारः सनकः सनन्दो वा सनातनः ।।
वोढुः पंचशिखो वा त्वमासुरिः सौभरिः किमु ।।१९।।

विश्वामित्रोऽथ वाल्मीको  वामदेवोऽथ कश्यपः।।
संवर्तः किमुतथ्यो वा किं कचो वा बृहस्पतिः।।4.13.२०।

भृगुः शुक्रश्च च्यवनो नरनारायणोऽथवा ।।
सक्थिनः पराशरो व्यासः शुकदेवोऽथ जैमिनिः ।। २१ ।।

मार्कण्डेयो लोमशश्च कण्वः कात्यायनस्तथा ।।
आस्तीको वा जरत्कारुर्ऋष्यशृंगो विभांडकः ।। २२ ।।

पौलस्त्यस्त्वमगस्त्यो वा शरद्वान्गिरिरेव च ।।
शमीकोऽरिष्टनेमिश्च माण्डव्यः पैल एव च ।। २३ ।।

____________________________________
पाणिनिर्वा कणादो वा शाकल्यः शाकटायनः ।।
अष्टावक्रो भागुरिर्वा सुमन्तुर्वत्स एव वा ।। २४ ।।

जाबालो याज्ञवल्क्यश्च वैशंपायन एव च ।।
यतिर्हंसी पिप्पलादो मैत्रेयः करुषस्तथा ।। २५ ।।

उपमन्युर्गौरमुखोऽरुणिरौर्वोऽथ कक्षिवान् ।।
भरद्वाजो वेदशिरा शंकुकर्णोऽथ शौनकः ।। २६ ।।

एतेषां पुण्यश्लोकानां को भवान्वद मे प्रभो ।।
प्रत्युत्तरार्हा नाहं चेत्तथाऽपि वक्तुमर्हसि ।। २७ ।।

किंकरः किंकरी वाऽपि समर्था प्रभुमीश्वरम् ।।
यो यस्य सेवानियतः स कं पृच्छति तं विना ।। २८ ।।

धन्याऽहं कृतकृत्याहं सफलं जीवितं मम ।।
त्वत्पादाब्जरजःस्पर्शाज्जन्मकोट्यंहसा क्षयः ।। २९ ।।

त्वत्पादोदकसंस्पर्शात्सद्यः पूता वसुंधरा ।।
तवागमनमात्रेण तीर्थीभूतो ममाश्रमः 4.13.३० ।।

येये श्रुताः श्रुतौ ब्रह्मञ्च्छ्रुतिसारा महाजनाः ।।
तेषामेको मया दृष्टः पूर्वपुण्यफलोदयात् ।। ३१ ।।

शिष्या वेदा मूर्तिमंतो ग्रीष्म मध्याह्नभास्कराः ।।
गोकुलं मत्कुलं सद्यः पुनंति पादरेणुना ।। ३२ ।।

आशिषं कर्तुमर्हंति प्रसन्नमनसा शिशुम् ।।
पूर्णस्वस्त्ययनं सद्यो विप्राशीर्वचनं ध्रुवम् ।। ३३ ।।

इत्येवमुक्त्वा नंदस्त्री भक्त्या तस्थौ मुनेः पुरः ।।
नरं प्रस्थापयामास नंदमानयितुं सती ।। ३४ ।।

यशोदावचनं श्रुत्वा जहास मुनिपुंगवः ।।
जहसुः शिष्यसंघाश्च भासयंतो दिशो दश ।। ३५ ।।

हितं तथ्यं नीतियुक्तं महत्पुण्यकरं परम् ।।
तामुवाच मुदा युक्तः शुद्धबुद्धिर्महामुनिः ।। ३६ ।।


                   ।।श्रीगर्ग उवाच ।। 
सुधामयं ते वचनं लौकिकं च कुलोचितम् ।।
यस्य यत्र कुले जन्म स एव तादृशो भवेत् ।। ३७ ।।

सर्वेषां गोपपद्मानां गिरिभानुश्च भास्करः ।।
पत्नी पद्मासमा तस्य नाम्ना पद्मावती सती ।।३८।।

तस्याः कन्या यशोदा त्वं यशोवर्द्धनकारिणी ।।
बल्लवानां च प्रवरो लब्धो नंदश्च वल्लभः ।।३९।।

नंदो यस्त्वं च या भद्रे बालो यो येन वा गतः।।
जानामि निर्जने सर्वं वक्ष्यामि नंदसन्निधिम् ।।4.13.४०।।।

___________________

श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे कृष्णान्नप्राशन वर्णननामकरणप्रस्तावो नाम ।।4.13.४०।।

___________________________________________
गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः ।।
प्रस्थापितोऽहं वसुना नान्यसाध्ये च कर्मणि ।। ४१ ।।
एतस्मिन्नन्तरे नंदः श्रुतमात्रं जगाम ह ।।

ननाम दंडवद्भूमौ मूर्ध्ना तं मुनिपुंगवम् ।। ४२ ।।शिष्यान्ननाम मूर्ध्ना च ते तं युयुजुराशिषम्।।

समुत्थायासनात्तूर्ण यशोदानंद एव च ।।४३।।गृहीत्वाऽभ्यंतरं रम्यं जगाम विदुषां वरः ।।

___________________________________

गर्गो नंदो यशोदा च सपुत्रा सा मुदाऽन्विता ।।
वाक्यं गर्गस्तदोवाच निगूढं निर्जने मुने ।। ४४ ।।
              (श्रीगर्ग उवाच ।।)
अयि नंद प्रवक्ष्यामि वचनं ते सुखावहम् ।।


प्रस्थापितोऽहं वसुना येन तच्छ्रूयतामिति।४५।।

वसुना सूतिकागारे शिशुः प्रत्यर्पणं कृतः ।।

पुत्रोऽयं वसुदेवस्य ज्येष्ठश्च तस्य च ध्रुवम् ।। ४६ ।।कन्या ते तेन या नीता मथुरां कंसभीरुणा ।।अस्यान्नप्राशनायाहं नामानुकरणाय च ।।

गूढेन प्रेषितस्तेन तस्योद्योगं कुरु द्विज।।४७।।पूर्णब्रह्मस्वरूपोऽयं शिशुस्ते मायया महीम् ।।

आगत्य भारहरणं कर्ता धात्रा च सेवितः ।।

गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः ।। ४८ ।।


नारायणो यो वैकुंठे कमलाकांत एव च ।।
श्वेतद्वीपनिवासी यः पिता विष्णुश्च सोऽप्यजः ।। ४९ ।।


कपिलोऽन्ये तदंशाश्च नरनारायणावृषी ।।
सर्वेषां तेजसां राशिर्मूर्तिमानागतः किमु ।। 4.13.५० ।।


तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह ।।
सांप्रतं सूतिकागारादाजगाम तवालयम् ।। ५१ ।।


अयोनिसंभवश्चायमाविर्भूतो महीतले ।।
वायुपूर्णं मातृगर्भे कृत्वा च मायया हरिः ।। ५२ ।।


आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह ।।
युगेयुगे वर्णभेदो नामभेदोऽस्य बल्लव ।।९३ ।।


शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः ।।
शुक्लवर्णः सत्ययुगे सुतीव्रतेजसा वृतः ।। ५४ ।।


त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः ।।
कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ।।५५।।

    (कृष्ण नाम की काल्पनिक व्युत्पत्ति)
परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः ।।
ब्रह्मणो वाचकः कोऽयमृकारोऽनंतवाचकः ।। ५६ ।।


शिवस्य वाचकः षश्च नकारो धर्मवाचकः ।।
अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ।। ५७ ।।


नरनारायणार्थस्य विसर्गो वाचकः स्मृतः ।।
सर्वेषां तेजसां राशिः सर्वमूर्तिस्वरूपकः ।। ५८ ।।


सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः ।।
कर्मनिर्मूलवचनः कृषिर्नो दास्यवाचकः ।। ५९ ।।


अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ।।
कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ।। 4.13.६० ।।


अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः ।।
कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः ।। ।। ६१ ।।


अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ।।
नाम्नां भगवतो नंद कोटीनां स्मरणेन यत् ।। ६२ ।।


तत्फलं लभते नूनं कृष्णेति स्मरणे नरः ।।
यद्विधं स्मरणात्पुण्यं वचनाच्छ्रवणात्तथा ।। ६३ ।।

______________________________________


कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात् ।।
विष्णोर्नाम्नां च सर्वेषां सारात्सारं परात्परम् ।। ६४ ।।


कृष्णेति सुंदरं नाम मंगलं भक्तिदायकम् ।।
ककारोच्चारणाद्भक्तः कैवल्यं मृत्युजन्महम् ।। ६९।।


ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम् ।।
नकारात्सहवासं च तत्समं कालमेव च ।। ६६ ।।


तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः ।।
ककारोच्चारणादेव वेपंते यमकिंकराः ।।६७।।


ऋकारोक्तेर्न तिष्ठंति षकारात्पातकानि च ।।
नकारोच्चारणाद्रोगा अकारान्मृत्युरेव च ।। ६८ ।।


ध्रुवं सर्वे पलायंते नामोच्चारणभीरवः ।।
स्मृत्युक्तिश्रवणोद्योगात्कृष्णनाम्नो व्रजेश्वर ।। ६९ ।।


रथं गृहीत्वा धावंति गोलोकात्कृष्णकिंकराः ।।
पृथिव्या रजसः संख्यां कर्तुं शक्ता विपश्चितः ।। 4.13.७० ।।
नाम्नः प्रभावसंख्यानं संतो वक्तुं न च क्षमाः ।।
पुरा शंकरवक्त्रेण नाम्नोऽस्य महिमा श्रुतः ।।७१ ।।


गुणान्नामप्रभावं च किंचिज्जानाति मद्गुरुः ।।
ब्रह्माऽनंतश्च धर्मश्च सुरर्षिमनुमानवाः ।। ७२ ।।


वेदाः संतो न जानंति महिम्नः षोडशीं कलाम् ।।
इत्येवं कथितो नंद महिमा च सुतस्य च ।।७३।।


यथामति यथाज्ञानं गुरुवक्त्राद्यथा श्रुतम् ।।
कृष्णः पीतांबरः कंसध्वंसी च विष्टरश्रवाः ।। ७४ ।।


देवकीनंदनः श्रीशो यशोदानंदनो हरिः ।।
सनातनोऽच्युतोऽनंतः सर्वेशः सर्वरूपधृक् ।। ७५ ।।

____________________________________

                     बन्धु का अर्थ पति -
सर्वाधारः सर्वगतिः सर्वकारणकारणम् ।।
राधाबंधू राधिकात्मा राधिकाजीवनं स्वयम् ।। ७६ ।।


राधाप्राणो राधिकेशो राधिकारमणः स्वयम् ।।
राधिकासहचारी च राधामानसपूरणः ।। ७७ ।।।


राधाधनो राधिकांगो राधिकासक्तमानसः ।।
राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः ।। ७८ ।।


परिपूर्णतमं ब्रह्म गोविंदो गरुडध्वजः ।।
नामान्येतानि कृष्णस्य श्रुतानि मन्मुखाद्धृदि ।। ७९ ।।


जन्ममृत्युहराण्येव रक्ष नंद शुभेक्षण ।।
कृतं निरूपणं नाम्नां कनिष्ठस्य यथा श्रुतम्।4.13.८० ।।

_____________________________________
ज्येष्ठस्य हलिनो नाम्नः संकेतं शृणु मन्मुखात् ।।
गर्भसंकर्षणादेव नाम्ना संकर्षणः स्मृतः ।। ८१ ।।


नास्त्यंतोऽस्यैव वेदेषु तेनानंत इति स्मृतः ।।
बलदेवो बलोद्रेकाद्धली च हलधारणात्।।८२ ।।


शितिवासा नीलवासान्मुसली मुसलायुधात् ।।
रेवत्या सह संभोगाद्रेवतीरमणः स्वयम् ।।८३।।


रोहिणीगर्भवासात्तु रौहिणेयो महामतिः ।।
इत्येवं ज्येष्ठपुत्रस्य श्रुतं नाम निवेदितम् ।।८४।।


यास्याम्यहं गृहं नंद सुखं तिष्ठ स्वमंदिरे ।।
ब्राह्मणस्य वचः श्रुत्वा नंदः स्तब्धो बभूव ह ।। ८५ ।।


निश्चेष्टा नंदपत्नी च जहास बालकः स्वयम् ।।
प्रणम्योवाच नंदस्तं वाक्यं विनयपूर्वकम् ।। ८६ ।।


पुटांजलियुतो भूत्वा भक्तिनम्रात्मकंधरः ।।
                 ।।नंद उवाच ।।
गतश्चेत्त्वं तदा कर्म करिष्यत्येव को महान् ।।८७।।


स्वयं शुभेक्षणं कृत्वा कुरु नाम्नाऽन्नप्राशनम् ।।
यन्नामौघश्च कथितो राधाप्राणादिको दश ।। ।। ८८ ।।


तस्यापि का वा राधेति कन्यका कस्य च ध्रुवम्।।
नंदस्य वचनं श्रुत्वा जहास मुनिपुंगवः।।
निगूढं परमं तत्त्वं रहस्यं कथयामि ते ।। ८९ ।।

______________________________________________

गर्ग -आचर्य द्वारा कृष्ण के गोलोक धाम का वृतान्त बताना) -

               ।। श्रीगर्ग उवाच ।। ।।
शृणु नंद प्रवक्ष्यामि इतिहासं पुरातनम् ।। 4.13.९० ।।


पुरा गोलोकवृत्तांतं श्रुतं शंकरवक्त्रतः।।
श्रीदाम्नो राधया सार्द्धं बभूव कलहो महान् ।। ९१ ।।


श्रीदामशापाद्दैवेन गोपी राधा च गोकुले ।।
वृषभानुसुता सा च माता तस्याः कलावती ।। ९२ ।।


कृष्णस्यार्द्धांगसंभूता नाथस्य सदृशी सती ।।
गोलोकवासिनी सेयमत्र कृष्णाज्ञयाऽधुना ।। ९३ ।।


अयोनिसंभवा देवी मूलप्रकृतिरीश्वरी ।।
मातुर्गर्भं वायुपूर्णं कृत्वा च मायया सती ।। ९४ ।।


वायुनिःसरणे काले धृत्वा च शिशुविग्रहम् ।।
आविर्बभूव मायेयं पृथ्व्यां कृष्णोपदेशतः ।। ९५ ।।


वर्धते सा व्रजे राधा शुक्ले चंद्रकला यथा ।।
श्रीकृष्णतेजसोऽर्द्धेन सा च मृर्तिमती सती ।। ९६ ।।


एका मूर्तिर्द्विधाभूता भेदो वेदे निरूपितः ।।
इयं स्त्री सा पुमान् किंवा सा वा कांता पुमानयम् ।।९७।।


द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च ।।
पराक्रमेण बुद्ध्या वा ज्ञानेन संपदाऽपि च ।। ९८ ।।


पुरतो गमनेनैव किंतु सावयसाधिका ।।
ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् ।। ९९ ।।


रचिता साऽस्य प्राणैश्च तत्प्राणैर्मूर्तिमानयम् ।।
अस्य राधानुसारेण गोकुलागमनं परम् ।। 4.13.१०० ।।


स्वीकारं सार्थकं कर्तुं गोकुले यत्कृतं पुरा ।।
कंसभीतिच्छलेनैव गोकुलागमनं हरेः।।१०१।।

_____________________________________
प्रतिज्ञापालनार्थाय भयेशस्य भयं कुतः ।।
राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता।। १०२ ।।


नारायणस्तामुवाच ब्रह्माणं नाभिपंकजे ।।
ब्रह्मा तां कथयामास ब्रह्मलोके च शंकरम् ।। १०३ ।।


पुरा कैलासशिखरे मामुवाच महेश्वरः ।।
देवानां दुर्लभां नंद निशामय वदामि ते ।। १०४ ।।

       (राधा शब्द की काल्पनिक व्युत्पत्ति)

__________________________________
सुरासुरमुनींद्राणां वांछितां मुक्तिदां पराम् ।।
रेफो हि कोटिजन्माघं कर्मभोगं शुभाशुभम् ।।१०५।।


आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् ।।
धकार आयुषो हानिमाकारो भवबंधनम् ।। १०६
।।

श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ।।
रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदांबुजे ।। १०७ ।।


सर्वेप्सितं सदानंदं सर्वसिद्धौघमीश्वरम् ।।
धकारः सहवासं च तत्तुल्यकालमेव च ।। १०८ ।।


ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम्।।
आकारस्तेजसां राशिं दानशक्तिं हरौ यथा ।।१०९।।


योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ।।
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ।। 4.13.११० ।।


रोगशोकमृत्युयमा वेपंते नात्र संशयः ।।
राधामाधवयोः किंचिद्व्याख्यानं च यतः श्रुतम् ।। १११ ।।


तदुक्तं च यथाज्ञानं साकल्यं वक्तुमक्षमः।।
आराद् वृंदावने नंद विवाहो भविताऽनयोः ।। ११२ ।।


पुरोहितो जगद्धाता कृत्वाऽग्निं साक्षिणं मुदा ।।
कुबेरपुत्रमोक्षं च गव्यस्याहृत्य भक्षणम् ।। ।। ११३ ।।


हिंसनं धेनुकस्यैव कानने तालभोजनम् ।।
बककेशिप्रलंबानां हिंसनं चाथ लीलया ।। ११४ ।।


मोक्षणं द्विजपत्नीनां मिष्टान्नपानभोजनम् ।।
भंजनं शक्रयागस्य शक्राद्गोकुलरक्षणम् ।। ११५।।


गोपीनां वस्त्रहरणं व्रतसंपादनं तथा ।।
ताभ्यः पुनर्वस्त्रदानं वरदानं यथेप्सितम् ।। ११६ ।।


चेतसां हरणं तासामयं वश्याः करिष्यति ।।
रासोत्सवं महारम्यं सर्वेषां हर्षवर्द्धनम् ।। ११७ ।।

_______________________________________________
पूर्णचन्द्रोदये नक्तं वसंते रासमंडले ।।
गोपीनां नवसंभोगात्कृत्वा पूर्णं मनोरथम् ।। ११८ ।।


ताभिः सह जलक्रीडां करिष्यति कुतूहलात् ।।
विच्छेदोऽस्य वर्षशतं श्रीदामशापहेतुकम् ।। ११९ ।।


गोपालैर्गोपिकाभिश्च भविता राधया सह ।।
मथुरागमनं तत्र गोपीनां शोकवर्द्धनम् ।।4.13.१२०।।


श्रवणस्मरणोक्तिभ्यःमीश्वरम्प्रणश्यति न संशयः ।।
रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदांबुजे ।। १०७ ।।


सर्वेप्सितं सदानंदं सर्वसिद्धौघ ।।
धकारः सहवासं च तत्तुल्यकालमेव च ।। १०८ ।।


ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम्।।
आकारस्तेजसां राशिं दानशक्तिं हरौ यथा ।।१०९।।


योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ।।
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ।। 4.13.११०।


रोगशोकमृत्युयमा वेपंते नात्र संशयः ।।
राधामाधवयोः किंचिद्व्याख्यानं च यतः श्रुतम् ।। १११ ।।
तदुक्तं च यथाज्ञानं साकल्यं वक्तुमक्षमः।।
आराद् वृंदावने नंद विवाहो भविताऽनयोः ।। ११२ ।।
पुरोहितो जगद्धाता कृत्वाऽग्निं साक्षिणं मुदा ।।
कुबेरपुत्रमोक्षं च गव्यस्याहृत्य भक्षणम् ।। ।। ११३ ।।
हिंसनं धेनुकस्यैव कानने तालभोजनम् ।।
बककेशिप्रलंबानां हिंसनं चाथ लीलया ।। ११४ ।।
मोक्षणं द्विजपत्नीनां मिष्टान्नपानभोजनम् ।।
भंजनं शक्रयागस्य शक्राद्गोकुलरक्षणम् ।। ११५।।
गोपीनां वस्त्रहरणं व्रतसंपादनं तथा ।।
ताभ्यः पुनर्वस्त्रदानं वरदानं यथेप्सितम् ।। ११६ ।।
चेतसां हरणं तासामयं वश्याः करिष्यति ।।
रासोत्सवं महारम्यं सर्वेषां हर्षवर्द्धनम् ।। ११७ ।।
पूर्णचन्द्रोदये नक्तं वसंते रासमंडले ।।
गोपीनां नवसंभोगात्कृत्वा पूर्णं मनोरथम् ।। ११८ ।।
ताभिः सह जलक्रीडां करिष्यति कुतूहलात् ।।
विच्छेदोऽस्य वर्षशतं श्रीदामशापहेतुकम् ।। ११९ ।।
गोपालैर्गोपिकाभिश्च भविता राधया सह ।।
मथुरागमनं तत्र गोपीनां शोकवर्द्धनम् ।।4.13.१२०।।
पुनः प्रबोधनं तासां दानमाध्यात्मिकस्य च ।।
स्यंदनाक्रूरयो रक्षां सद्यस्ताभ्यां करिष्यति ।।१२१।।
रथमारोहणं कृत्वा मथुरागमनं पुनः ।।
पितृभ्रातृव्रजैः सार्द्धं विलंघ्य यमुनां व्रजे ।। १२२ ।।
अक्रूराय ज्ञानदानं दर्शयित्वा स्वकं जले ।।
कौतुकेन च सायाह्ने नगरात्सर्वदर्शनम् ।। १२३ ।।
मालाकारतंतुवायकुब्जानां बंधमोक्षणम् ।।
धनुर्भंगं शंकरस्य यागस्थान प्रदर्शनम् ।। १२४ ।।
हिंसनं गजमल्लानां दर्शनं नृपतेः पुरः।।
कंसस्य हिंसनं सद्यः पित्रोर्निगडमोक्षणम् ।। १२५ ।।
प्रबोधनं च युष्माकमुग्रसेनाभिषेचनम् ।।
तस्यतस्य वधूनां च ज्ञानाच्छोकापनोदनम् ।। १२६ ।।
भ्रातुः स्वस्योपनयनं विद्यादानं गुरोर्मुखात् ।।
गुरुपुत्रप्रदानं च पुनरागमनं गृहे ।। १२७ ।।
छलनं नृपसैन्यानां यवनस्य दुरात्मनः ।।
निर्माणं द्वारकायाश्च मुचुकुंदस्य मोक्षणम् ।। ।। १२८ ।।
द्वारकागमनं चैव यादवैः सह कौतुकात् ।।
स्त्रीसंघानां विहरणं ताभिः सार्द्धं च क्रीडनम् ।। १२९ ।।
सौभाग्यवर्धनं तासां पुत्रपौत्रादिकस्य च ।।
मणिसंबंधिनो मिथ्याकलंकस्य च मोक्षणम् ।। 4.13.१३० ।।
साहाय्यं पांडवानां च भारावतरणादिकम् ।।
निष्पन्नं राजसूयस्य धर्मपुत्रस्य लीलया ।।१३१।।
पारिजातस्य हरणं शक्राहंकारमर्दनम् ।।
व्रतपूर्णं च सत्याया बाणस्य भुजकृन्तनम् ।। १३२ ।।
मर्दनं शिवसैन्यानां हरस्य जृंभणं परम्।।
हरणं बाणपुत्र्याश्चैवानिरुद्धस्य मोक्षणम् ।। १३३ ।।
वाराणस्याश्च दहनं विप्रदारिद्र्यभंजनम् ।।
विप्रपुत्रप्रदानं च दुष्टानां दमनादिकम् ।। १३४ ।।
तीर्थयात्राप्रसंगेन युष्माभिः सह दर्शनम् ।।
कृत्वा च राधया सार्धं व्रजमागमिता पुनः ।। १३५ ।।
प्रस्थापयित्वा द्वारां च परं नारायणांशकम् ।।
सर्वं निष्पादनं कृत्वा गोलोकं राधया सह ।। १३६।।
गमिष्यत्येव गोलोकं नाथोऽयं जगतां पतिः।।
नारायणश्च वैकुंठं गमिता स्म त्वया सह ।। १३७ ।।
धर्मगेहमृषी द्वौ च विष्णुः क्षीरोदमेव च ।।
इत्येवं कथितं नंद भविष्यं वेदनिर्णयम् ।। १३८ ।।
श्रूयतां सांप्रतं कर्म यदर्थं गमनं मम ।।
माघशुक्लचतुर्दश्यां कुरु कर्म शुभे क्षणे ।। १३९ ।।
गुरुवारे च रेवत्यां विशुद्धे चंद्रतारके ।।
चंद्रस्थे मीनलग्ने च लग्नेशपूर्णदर्शने ।। 4.13.१४० ।।
वणिजे करणोत्कृष्टे शुभयोगे मनोहरे ।।
सुदुर्लभे दिने तत्र सर्वोत्कृष्टोपयोगिके ।। १४१ ।।
आलोच्य पंडितैः सार्द्धं कुरु कर्म मुदाऽन्वितः ।।
इत्युक्त्वा बहिरागत्य स उवाच मुनीश्वरः ।। १४२ ।।
हृष्टो नंदो यशोदा च कर्मोद्योगं चकार ह ।।
एतस्मिन्नंतरे द्रष्टुं गर्गं गोपाश्च गोपिकाः ।। १४३ ।।
बालका बालिकाश्चैव आजग्मुर्नंदमंदिरम् ।।
ददृशुस्ते मुनिश्रेष्ठं ग्रीष्ममध्याह्नभास्करम् ।। १४४ ।।
शिष्यसंघैः परिवृतं ज्वलंतं ब्रह्मतेजसा ।।
गूढयोगं प्रवोचंतं सिद्धाय पृच्छते मुदा ।। ।। १४५ ।।
पश्यंतं सस्मितं नंदभवनानां परिच्छदम् ।।
स्वर्णसिंहासनस्थं च योगमुद्राधरं वरम् ।। १४६ ।।
भूतं भव्यं भविष्यं च पश्यंतं ज्ञानचक्षुषा ।।
हृदीश्वरं प्रपश्यन्तं सिद्धं मंत्रप्रभावतः ।। १४७ ।।
बहिर्यशोदाक्रोडस्थं तादृशं सस्मितं शिशुम् ।।
महेशदत्तध्यानेन यद्रूपं च निरूपितम् ।। १४८ ।।
तं दृष्ट्वा परमप्रीत्या पूर्णभूतमनोरथम् ।।
साश्रुनेत्रं पुलकितं निमग्नं भक्तिसागरे ।। १४९ ।।
हृदि पूजां प्रणामं च कुर्वंतं योगचर्यया ।।
मूर्ध्ना प्रणेमुस्ते तं च स च तानाशिषं ददौ ।। 4.13.१५० ।।
आसनस्थो मुनिस्तस्थौ ते जग्मुः स्वालयं मुदा ।।
नंदः स्वानंदयुक्तश्च बंधून्मंगलपत्रिकाः ।। १५१ ।।
प्रस्थापयामास शीघ्रमाराद्दूरस्थितान्मुदा ।।
दधिकुल्यां दुग्धकुल्यां घृतकुल्यां प्रपूरिताम् ।। १५२ ।।
गुडकुल्यां तैलकुल्यां मधुकुल्यां च विस्तृताम् ।।
नवनीतकुल्यां पूर्णां च तक्रकुल्यां यदृच्छया ।। १५३ ।।
शर्करोदककुल्यां च परिपूर्णां च लीलया ।।
तंडुलानां च शालीनामुच्चैश्च शतपर्वतान् ।। १९४ ।।
पृथुकानां शैलशतं लवणानां च सप्त च ।।
सप्तशैलाच्छर्कराणां लड्डुकानां च सप्त च ।। १५५ ।।
परिपक्वफलानां च तत्र षोडशपर्वतान् ।।
यवगोधूमचूर्णानां पक्वलड्डुकपिंडकान् ।। १५६ ।।
मोदकानां च शैलं च स्वस्तिकानां च पर्वतान् ।।
कपर्दकानामत्युच्चैः शैलान्सप्त च नारद ।। १९७ ।।
कर्पूरादिकयुक्तानां तांबूलानां च मंदिरम् ।।
विस्तृतं द्वारहीनं च वासितोदकसंयुतम् ।। १५८ ।।
चंदनागुरुकस्तूरीकंकुमेन समन्वितम् ।।
नानाविधानि रत्नानि स्वर्णानि विविधानि च ।। १५९ ।।
मुक्ताफलानि रम्याणि प्रवालानि मुदाऽन्वितः ।।
नानाविधानि चारूणि वासांसि भूषणानि च ।। 4.13.१६० ।।
पुत्रान्नप्राशने नन्दः कारयामास कौतुकात् ।।
संस्कारयुक्तं रुचिरं चन्दनद्रवचर्चितम् ।। १६१ ।।
प्राङ्गणं कदलीस्तम्भै रसालनवपल्लवैः ।।
ग्रथितैः सूक्ष्मवस्त्रेण वेष्टयामास कौतुकात् ।। १६२ ।।
युक्तं मङ्गलकुम्भैश्च फलपल्लवसंयुतैः ।।
चन्दनाऽगुरुकस्तूरीपुष्पमालाविराजितैः ।। १६३ ।।
माल्यानां वरवस्त्राणां राशिभिश्च विराजितम् ।।
गवां च मधुपर्काणामासनानां च नारद ।। १६४ ।।
फलानां जलकुम्भानां समूहैश्च समन्वितम् ।।
नानाप्रकारैर्वाद्यैश्च दुर्लभैः सुमनोहरैः ।। १६५ ।।
ढक्कानां दुन्दुभीनां च पटहानां तथैव च ।।
मृदङ्गमुरजादीनामानकानां समूहकैः ।। १६६ ।।
वंशीसन्नहनीकांस्यशरयन्त्रैश्च शब्दितम् ।।
विद्याधरीणां नृत्येन भृङ्गिमाभ्रमणेन च ।। १६७ ।।
गंधर्वनायकानां च संगीतैर्मूर्च्छनायुतैः ।।
स्वर्णसिंहासनानां च रथानां निःस्वनैर्युतम् ।। १६८ ।।
एतस्मिन्नन्तरे नन्दमुवाच वाचको मुदा ।।
आजग्मुर्बल्लवेन्द्राश्च बान्धवा बल्लवास्तथा ।। १६९ ।।
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चेति सत्वरम् ।।
आजग्मू राजपुत्राश्च रत्नालङ्कारभूषिताः ।। 4.13.१७० ।।
आगतो गिरिभानुश्च सस्त्रीकश्च सकिङ्करः ।।
रथानां च चतुर्लक्षं गजानां च तथैव च ।। १७१ ।।
तुरङ्गमाणां कोटिश्च शिबिकानां तथैव च ।।
ऋषीन्द्राणां मुनीन्द्राणां विप्राणां च विपश्चिताम् ।। १७२ ।।
बन्दिनां भिक्षुकाणां च समूहैश्च समीपतः ।।
गोपानां गोपिकानां च संख्या कर्तुं च कः क्षमः ।। १७३ ।।
पश्यागत्य बहिर्भूयेत्युवाच प्राङ्गणे स्थितः ।।
श्रुत्वैवं तानुपव्रज्य समानीय व्रजेश्वरः ।। १७४ ।।
प्राङ्गणे वासयामास पूजयामास सत्वरम् ।।
ऋष्यादिकसमूहं च प्रणम्य शिरसा भुवि ।।
पाद्यादिकं च तेभ्यश्च प्रददौ सुसमाहितः ।। १७५ ।।
वस्तुभिर्बन्धुभिः पूर्णं बभूव नन्दगोकुलम् ।।
न कोऽपि कस्य शब्दं च श्रोतुं शक्तश्च तत्र वै ।।१७६।।
त्रिमुहूर्तं कुबेरश्च श्रीकृष्णप्रीतये मुदा ।।
चकार स्वर्णवृष्ट्या च परिपूर्णं च गोकुलम् ।। १७७ ।।
कौतुकापह्नवं चक्रुर्बन्धुवर्गाश्च क्रीडया ।।
आनम्रकन्धराः सर्वे दृष्ट्वा नन्दस्य सम्पदम्।।१७८।।
नन्दः कृताह्निकः पूतो धृत्वा धौते च वाससी।।
चन्दनागुरुकस्तूरी कुङ्कुमेनैव भूषितः।।१७९।।
उवास पादौ प्रक्षाल्य स्वर्णपीठे मनोहरे ।।
गर्गस्य च मुनीन्द्राणां गृहीत्वाऽऽज्ञां व्रजेश्वरः ।।4.13.१८०।।
संस्मृत्य विष्णुमाचांतः स्वस्तिवाचनपूर्वकम् ।।
कृत्वा कर्म च वेदोक्तं भोजयामास बालकम् ।। १६१ ।।
गर्गवाक्यानुसारेण बालकस्य मुदाऽन्वितः ।।
कृष्णेति मङ्गलं नाम ररक्ष च शुभे क्षणे ।। १८२ ।।
सघृतं भोजयित्वा च कृत्वा नाम जगत्पतेः ।।
वाद्यानि वादयामास कारयामास मङ्गलम् ।। १८३ ।।
नानाविधानि स्वर्णानि धनानि विविधानि च ।।
भक्ष्यद्रव्याणि वासांसि ब्राह्मणेभ्यो ददौ मुदा ।। १८४ ।।
बन्दिभ्यो भिक्षुकेभ्यश्च सुवर्णं विपुलं ददौ ।।
भाराक्रान्ताश्च ते सर्वे न शक्ता गन्तुमेव च ।। १८५ ।।
ब्राह्मणान्बन्धुवर्गांश्च भिक्षुकांश्च विशेषतः ।।
मिष्टान्नं भोजयामास परिपूर्णं मनोहरम् ।। १८६ ।।
दीयतां दीयतां चैव खाद्यतां खाद्यतामिति ।।
बभूव शब्दोऽत्युच्चैश्च सततं नन्दगोकुले ।। १८७ ।।
रत्नानि परिपूर्णानि वासांसि भूषणानि च ।।
प्रवालानि सुवर्णानि मणिसाराणि यानि च ।। १८८ ।।
चारूणि स्वर्णपात्राणि कृतानि विश्वकर्मणा ।।
गत्वा गर्गाय विनयं चकार व्रजपुंगवः ।। १८९ ।।
शिष्येभ्यः स्वर्णभाराणि प्रददौ विनयान्वितः ।।
द्विजेभ्योऽप्यवशिष्टेभ्यः परिपूर्णानि नारद।।4.13.१९० ।। ।।
           ।।श्रीनारायण उवाच ।।
गृहीत्वा श्रीहरिं गर्गो जगाम निभृतं मुदा ।।
तुष्टाव परया भक्त्या प्रणम्य च तमीश्वरम् ।। १९१ ।।
साश्रुनेत्रः सपुलको भक्तिनम्रात्मकन्धरः ।।
पुटाञ्जलियुतो भूत्वोवाच कृष्णपदांबुजे ।। १९२ ।।
गर्ग उवाच ।।
हे कृष्ण जगतां नाथ भक्तानां भयभञ्जन ।।
प्रसन्नो भव मामीश देहि दास्यं पदाम्बुजे ।।१९३।।
त्वत्पित्रा मे धनं दत्तं तेन मे किं प्रयोजनम् ।।
देहि मे निश्चलां भक्तिं भक्तानामभयप्रद ।। १९४ ।।
अणिमादिकसिद्धिषु योगेषु मुक्तिषु प्रभो ।।
ज्ञानतत्त्वेऽमरत्वे वा किञ्चिन्नास्ति स्पृहा मम ।। १९५ ।।
इन्द्रत्वे वा मनुत्वे वा स्वर्गलोकफले चिरम् ।।
नास्ति मे मनसो वाञ्छा त्वत्पादसेवनं विना ।। १९६ ।।
सालोक्यं सार्ष्टिसारूप्ये सामीप्यैकत्वमीप्सितम् ।।
नाहं गृह्णामि ते ब्रह्मंस्त्वत्पादसेवनं विना ।।१९७।।
गोलोके वापि पाताले वासे नास्ति मनोरथः ।।
किन्तु ते चरणाम्भोजे सन्ततं स्मृतिरस्तु मे ।।१९८।।
त्वन्मन्त्रं शङ्करात्प्राप्य कतिजन्मफलोदयात् ।।
सर्वज्ञोऽहं सर्वदर्शी सर्वत्र गतिरस्तु मे ।। १९९ ।।
कृपां कुरु कृपासिन्धो दीनबन्धो पदाम्बुजे ।।
रक्ष मामभयं दत्त्वा मृत्युर्मे किं करिष्यति ।। ।। 4.13.२०० ।।
सर्वेषामीश्वरः सर्वस्त्वत्पादाम्भोजसेवया ।।
मृत्युञ्जयोऽन्तकालश्च बभूव योगिनां गुरुः ।।२०१।।
ब्रह्मा विधाता जगतां त्वत्पादाम्भोजसेवया ।।
यस्यैकदिवसे ब्रह्मन्पतन्तीन्द्राश्चतुर्दश ।।२०२।।
त्वत्पादसेवया धर्मः साक्षी च सर्वकर्मणाम्।।
पाता च फलदाता च जित्वा कालं सुदुर्जयम् ।।२०३।।
सहस्रवदनः शेषो यत्पादाम्बुजसेवया ।।
धत्ते सिद्धार्थवद्विश्वं शिवः कण्ठे विषं यथा ।। ।। २०४ ।।
सर्वसंपद्विधात्री या देवीनां च परात्परा।।
करोति सततं लक्ष्मीः केशैस्त्वत्पादमार्जनम् ।।२०५।।
प्रकृतिर्बीजरूपा सा सर्वेषां शक्तिरूपिणी ।।
स्मारंस्मारं त्वत्पदाब्जं बभूव तत्परावरा ।। २०६ ।।
पार्वती सर्वरूपा सा सर्वेषां बुद्धिरूपिणी।।
त्वत्पादसेवया कान्तं ललाभ शिवमीश्वरम् ।। २०७ ।।
विद्याधिष्ठात्री देवी या ज्ञानमाता सरस्वती ।।
पूज्या बभूव सर्वेषां संपूज्य त्वत्पदाम्बुजम्।।२०८।।
सावित्री वेदजननी पुनाति भुवनत्रयम् ।।
ब्रह्मणो ब्राह्मणानां च गतिस्त्वत्पादसेवया ।। २०९ ।।
क्षमा जगद्विभर्तुं च रत्नगर्भा वसुन्धरा ।।
प्रसूतिः सर्वसस्यानां त्वत्पादपद्मसेवया ।।4.13.२१०।।
राधा ममांशसंभूता तव तुल्या च तेजसा ।।
स्थित्वा वक्षसि ते पादं सेवतेऽन्यस्य का कथा ।। २११ ।।
यथा शर्वादयो देवा देव्यः पद्मादयो यथा ।।
सनाथं कुरु मामीश ईश्वरस्य समा कृपा ।।२१२।।
न यास्यामि गृहं नाथ न गृह्णामि धनं तव ।।
कृत्वा मां रक्ष पादाब्जसेवायां सेवकं रतम् ।। २१३ ।।
इति स्तुत्वा साश्रुनेत्रः पपात चरणे हरेः ।।
रुरोद च भृशं भक्त्या पुलकाञ्चितविग्रहः ।। २१४ ।।
गर्गस्य वचनं श्रुत्वा जहास भक्तवत्सलः ।।
उवाच तं स्वयं कृष्णो मयि ते भक्तिरस्त्विति ।। २१५ ।।
इदं गर्गकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।।
दृढां भक्तिं हरेर्दास्यं स्मृतिं च लभते ध्रुवम् ।। ।। २१६ ।।
जन्ममृत्युजरारोगशोकमोहादिसंकटात् ।।
तीर्णो भवति श्रीकृष्णदाससेवनतत्परः ।। २१७ ।।
कृष्णस्य सहकालं च कृष्णसार्द्धं च मोदते ।।
कदाचिन्न भवेत्तस्य विच्छेदो हरिणा सह ।। २१८ ।।
श्रीनारायण उवाच ।। ।।
हरिं मुनिः स्तवं कृत्वा ददौ नन्दाय तं मुदा ।।
उवाच तं गृहं यामि कुर्वाज्ञामिति बल्लव ।।२१९ ।।
अहो विचित्रं संसारो मोहजालेन वेष्टितः ।।
संमीलनं च विरहो नराणां सिन्धुफेनवत् ।। 4.13.२२०।।
गर्गस्य वचनं श्रुत्वा रुरोद नन्द एव च ।।
सद्विच्छेदो हि साधूनां मरणादतिरिच्यते।।२२१।।
सर्वशिष्यैः परिवृतं मुनीन्द्रं गन्तुमुद्यतम् ।।
सर्वे नन्दादयो गोपा रुदन्तौ गोपिकास्तदा ।। २२२ ।।
प्रणेमुः परमप्रीत्या चक्रुस्तं विनयं मुने ।।
दत्त्वाऽऽशिषं मुनिश्रेष्ठो जगाम मथुरां मुदा ।। २२३ ।।
ऋषयो मुनयश्चैव बन्धुवर्गाश्च बल्लवाः ।।
सर्वे जग्मुर्धनैः पूर्णाः स्वालयं हृष्टमानसाः ।। २२४ ।।
प्रजग्मुर्बन्दिनः सर्वे परिपूर्णमनोरथाः ।।
मिष्टद्रव्यांशुकोत्कृष्टतुरगस्वर्णभूषणैः ।। २२५ ।।
आकण्ठपूर्णा भुक्त्या च भिक्षुका गन्तुमक्षमा।।
स्वर्णवस्त्रभरोद्रेकपरिश्रान्ता मुदाऽन्विताः।।२२६।।
सुमन्दगामिनः केचित्केचिद्भूमौ च शेरते।।
केचिद्वर्त्मनि तिष्ठन्तश्चोत्तिष्ठन्तश्च केचन ।। २२७ ।।
केचिदूषुः प्रमुदिता हसन्तस्तत्र केचन ।।
कपर्दकानां वस्तूनां शेषांश्चोर्वरितान्बहून्। २२८।।
केचित्तानाददुः स्थित्वा दर्शयन्तश्च केचन ।।
केचिन्नृत्यं प्रकुर्वन्तो गायन्तस्तत्र केचन।।२२९।।
केचिद्बहुविधा गाथाः कथयन्तः पुरातनाः ।।
मरुत्तश्वेतसगरमांधातॄणां च भूभृताम् ।। 4.13.२३० ।।
उत्तानपादनहुषनलादीनां च याः कथाः ।।
श्रीरामस्याश्वमेधस्य रन्तिदेवस्य कर्मणाम् ।।२३१।।
येषांयेषां नृपाणां च श्रुता वृद्धमुखात्कथाः।।
कथयन्तश्च ताः केचिच्छ्रुतवन्तश्च केचन।।२३२ ।।
स्थायंस्थायं गताः केचित्स्वापंस्वापं च केचन ।।
एवं सर्वे प्रमुदिताः प्रजग्मुः स्वालयं मुदा ।। २३३ ।।
हृष्टो नन्दो यशोदा च बालं कृत्वा च वक्षसि ।।
तस्थौ स्वमन्दिरे रम्ये कुबेरभवनोपमे।। २३४।।
एवं प्रवर्द्धितौ बालौ शुक्लचन्द्रकलोपमौ ।।
गवां पुच्छं च भित्तिं च धृत्वा चोत्तस्थतुर्मुदा।।२३५।।
शब्दार्द्धं वा तदर्द्धं वा क्षमौ वक्तुं दिनेदिने।।
पित्रोर्हर्षं च वर्द्धन्तौ गच्छन्तौ प्राङ्गणे मुने।।२३६।।
बालो द्विपादं पादं वा गन्तुं शक्तो बभूव ह।।
गन्तुं शक्तो हि जानुभ्यां प्राङ्गणे वा गृहे हरिः ।।२३७।।
वर्षाधिको हि वयसा कृष्णात्संकर्षणः स्वयम् ।।
ततो मुदं वर्द्धयन्तौ वर्द्धितौ च दिनेदिने।।२३८।।
व्रजन्तौ गोकुले बालौ प्रहृष्टगमने क्षमौ ।।
उक्तवन्तौ स्फुटं वाक्यं माया बालकविग्रहौ ।। २३९ ।।
गर्गो जगाम मथुरां वसुदेवाश्रमं मुने ।।
स तं ननाम पप्रच्छ पुत्रयोः कुशलं तयोः ।। 4.13.२४० ।।
मुनिस्तं कथयामास कुशलं सुमहोत्सवम् ।।
आनन्दाश्रुनिमग्नश्च श्रुतमात्राद्बभूव ह ।। २४१ ।।
देवकी परमप्रीत्या पप्रच्छ च पुनःपुनः ।।
आनन्दाश्रुनिमग्ना सा रुरोद च मुहुर्मुहुः ।। २४२ ।।
गर्गस्तावाशिषं दत्त्वा जगाम स्वालयं मुदा ।।
स्वगृहे तस्थतुस्तौ च कुबेरभवनोपमे ।। २४३ ।।
श्रीनारायण उवाच ।।
यत्र कल्पे कथा चेयं तत्र त्वमुपबर्हणः ।।
पञ्चाशत्कामिनीनां च पतिर्गन्धर्वपुङ्गवः ।। २४४ ।।
तासां प्राणाधिकस्त्वं च शृङ्गारनिपुणो युवा ।।
ततोऽभूद्ब्रह्मणः शापाद्दासीपुत्रो द्विजस्य च ।। २४५ ।।
ततोऽधुना ब्रह्मपुत्रो वैष्णवोच्छिष्टभोजनात् ।।
सर्वदर्शी च सर्वज्ञः स्मारको हरिसेवया ।। २४६ ।।
कथितं कृष्णचरितं नामान्नप्राशनादिकम् ।।
जन्ममृत्युजरातिघ्नमपरं कथायामि ते ।।२४७।।

____    
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे कृष्णान्नप्राशन वर्णननामकरणप्रस्तावो नाम त्रयोदशोऽध्यायः ।। १३ ।।

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६८

← मध्यभागः, अध्यायः ६७ब्रह्माण्डपुराणम्
अध्यायः ६८
[[लेखकः :|]]
मध्यभागः, अध्यायः ६९ →

ब्रह्माण्डपुराणम्/मध्यभागः


  1. ऋषय ऊचुः


मरुतेन कथं कन्या राज्ञे दत्ता महात्मना ।
किंवीर्याश्च महात्मानो जाता मरुतकन्यया ॥ २,६८.१ ॥

सूत उवाच
आहरत्स मरुत्सोममन्नकामः प्रजेश्वरः ।
मासिमासि महातेजाः षष्टिसंवत्सरान्नृप ॥ २,६८.२ ॥

तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः ।
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥ २,६८.३ ॥

अन्नं तस्य सकृद्भुक्तमहोरात्रं न क्षीयते ।
कोटिशो दीय मानं च सूर्यस्योदयनादपि ॥ २,६८.४ ॥

मित्रज्योतेस्तु कन्याया मरितस्य च धीमतः ।
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥ २,६८.५ ॥

संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः ।
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥ २,६८.६ ॥

अनेनसः सुतो जातः क्षत्रधर्मः प्रतापवान् ।
क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः ॥ २,६८.७ ॥

प्रतिपक्षसुतश्चापि सृंजयो नाम विश्रुतः ।
सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान् ॥ २,६८.८ ॥

विजयस्य जयः पुत्रस्तस्य हर्यश्वकः स्मृतः ।
इर्यश्वस्य सुतो राजा सहदेवः प्रतापवान् ॥ २,६८.९ ॥

सहदेवस्य धर्मात्मा अहीन इति विश्रुतः ।
अहीनस्य चयत्सेनस्तस्य पुत्रोऽथ संकृतिः ॥ २,६८.१० ॥

संकृतेरपि धर्मात्मा कृतधर्मा महायशाः ।
इत्येते क्षत्रधर्माणो नहुषस्य निबोधत ॥ २,६८.११ ॥

नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः ॥ २,६८.१२ ॥

यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ।
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा ॥ २,६८.१३ ॥

स यतिर्मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।
तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः ॥ २,६८.१४ ॥

देवयानीमुशनसः सुतां भार्यामवाप ह ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ २,६८.१५ ॥

यदुं च तुर्वसुं चैव देवयानो व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ २,६८.१६ ॥

अजीजनन्महावीर्यान्सुतान्देवसुतोपमान् ।
रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम् ॥ २,६८.१७ ॥

असंगं काञ्चनं दिव्यमक्षयौ च महेषुधी ।
युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत् ॥ २,६८.१८ ॥

स तेन रथमुख्येन जिगाय सततं महीम् ।
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ॥ २,६८.१९ ॥

पौरवाणां नृपाणां च सर्वेषां सोऽभवद्रथी ।
यावत्सुदेशप्रभवः कौरवो जनमेजयः ॥ २,६८.२० ॥

कुरोः पौत्रस्य राज्ञरतु राज्ञः पारीक्षितस्य ह ।
जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः ॥ २,६८.२१ ॥

गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।
दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः ॥ २,६८.२२ ॥

स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ २,६८.२३ ॥

ततः स दुःखसंतप्तो नालभत्संविदं क्वचित ।
स प्रायाच्छौनकमृषिं शरणं व्यथितस्तदा ॥ २,६८.२४ ॥

इन्द्रोतोनाम विख्यातो योऽसौ मुनि रुदारधीः ।
योजयामास चैन्द्रोतः शौनको जनमेजयम् ॥ २,६८.२५ ॥

अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ।
स लोहगन्धो व्यनशत्त स्यावभृथमेत्य ह ॥ २,६८.२६ ॥

स वै दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ।
दत्तः शक्रेन तुष्टेन लेभे तस्माद्बृहद्रथः ॥ २,६८.२७ ॥

ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ २,६८.२८ ॥

स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः ।
पुत्रं श्रेष्टं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ २,६८.२९ ॥

जरावली च मां तात पलितानि च पर्ययुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २,६८.३० ॥

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥ २,६८.३१ ॥

अनिर्दिष्टा हि मे भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
सा तु व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥ २,६८.३२ ॥

जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥ २,६८.३३ ॥

सितश्मश्रुधरो दीनो जरया शिथिलीकृतः ।
वलीसंततगात्रश्च निराशो दुर्बलाकृतिः ॥ २,६८.३४ ॥

अशक्तः कार्यकरणे परिबूतस्तु यौवने ।
सहोपवीतिभिश्चैव तां जरां नाभिकामये ॥ २,६८.३५ ॥

संति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ २,६८.३६ ॥

स एवमुक्तो यदुना दीव्रकोपसमन्वितः ।
उवाच वदतां श्रेष्टो ज्येष्ठं तं गर्हयन्सुतम् ॥ २,६८.३७ ॥

आश्रमः कस्तवान्योऽस्ति को वा धर्मविधिस्तव ।
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥ २,६८.३८ ॥

एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् ।
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.३९ ॥

तस्मान्न राज्यभाङ्मूढ प्रजा ते वै भविष्यति ।
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥ २,६८.४० ॥

तुर्वसुरुवाच
न कामये जरां तात कामभोगप्रणाशिनीम् ।
जरायां बहवो दोषाः पानभोजन कारिताः ॥ २,६८.४१ ॥

तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ।
ययातिरुवाच
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.४२ ॥

तस्मात्प्रजानु विच्छेदं तुर्वसो तव यास्यति ।
संकीर्णेषु च धर्मेण प्रतिलोमनरेषु च ॥ २,६८.४३ ॥

पिशिताशिषु चान्येषु मूढ राजा भविष्यसि ।
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा ।
वासस्ते पाप म्लेच्छेषु भविष्यति न संशयः ॥ २,६८.४४ ॥

सूत उवाच
एवं तु तुर्वसुंशप्त्वा ययातिः सुतमात्मनः ॥ २,६८.४५ ॥

शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ।
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ॥ २,६८.४६ ॥

जरा वर्षसहस्रंवै यौवनं स्वं ददस्व मे ।
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥ २,६८.४७ ॥

स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ।
द्रुह्युरुवाच
नारोहेत रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।
न सुखं चास्य भवति न जरां तेन कामये ॥ २,६८.४८ ॥

ययातिरुवाच
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.४९ ॥

तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ।
नौप्लवोत्तरसंचारस्तव नित्यं भविष्यति ॥ २,६८.५० ॥

अराजा राजवंशस्त्वं तत्र नित्यं वसिष्यसि ।
अनो त्वं प्रतिपाद्यस्व पाप्मानं जरया सह ॥ २,६८.५१ ॥

एवं वर्षसहस्रं तु चरेयं यौवनेन ते ।
अनुरुवाच
जीर्णः शिशुरिवाशक्तो जरया ह्यशुचिः सदा ।
न जुहोति स कालेऽग्निं तां जरां नाभिकामये ॥ २,६८.५२ ॥

ययातिरूवाच ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.५३ ॥

जरादोष स्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ।
प्रजा च यौवनं प्राप्ता विनशिष्यत्यनो तव ॥ २,६८.५४ ॥

अग्निप्रस्कन्दनपरास्त्वं वाप्येवं भविष्यसि ।
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ॥ २,६८.५५ ॥

जरावली च मां तात पलितानि च पर्ययुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मियौवने ॥ २,६८.५६ ॥

कञ्चित्कालं चरेयं वै विषयान्वयसा तव ।
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥ २,६८.५७ ॥

स्वं चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह ।
सूत उवाच
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा ॥ २,६८.५८ ॥

यथा तु मन्यसे तात करिष्यामि तथैव च ।
प्रतिपत्स्ये च ते राजन्पाप्मानं जरया सह ॥ २,६८.५९ ॥

गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ।
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ॥ २,६८.६० ॥

यौवनं भवते दत्त्वा चरिष्यामि यथार्थवत् ।
ययातिरुवाच
पूरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते ॥ २,६८.६१ ॥

सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।
सूत उवाच
पूरोरनुमतो राजा ययातिः स्वजरां ततः ॥ २,६८.६२ ॥

संक्रामयामास तदा प्रासादद्भार्गवस्य तु ।
गौरवेणाथ वयसा ययातिर्नहुषात्मजः ॥ २,६८.६३ ॥

प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान्स्वकान् ।
यथाकामं यथोत्साहं यथाकालं यथासुखम् ॥ २,६८.६४ ॥

धर्माविरोधी राजेन्द्रो यथाशक्ति स एव हि ।
देवानतर्पयद्यज्ञैः पितॄञ्श्राद्धैस्तथैव च ॥ २,६८.६५ ॥

दाराननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ।
अतिथीनन्नपानैश्च वैश्यंश्च परिपालनैः ॥ २,६८.६६ ॥

आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ।
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयत् ॥ २,६८.६७ ॥

ययातिः पालयामास साक्षादिन्द्र इवापरः ।
स राजा सिंहविक्रान्तो युवा विषयगोचरः ॥ २,६८.६८ ॥

अविरोधेन धर्मस्य चचार सुखमुत्तमम् ।
स मार्गमाणः कामानामतद्दोषनिदर्शनात् ॥ २,६८.६९ ॥

विश्वाच्या सहितो रेमे वैब्राजे नन्दने वने ।
अपश्यत्स यदा तान्वै वर्द्धमानान्नृपस्तदा ॥ २,६८.७० ॥

गत्वा पूरोः सकाशं वै स्वां जरां प्रत्यपद्यत ।
संप्राप्य स तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः ॥ २,६८.७१ ॥

कालं वर्षसहस्रं वै सस्मार मनुजाधिपः ।
परिसंख्याय काले च कलाः काष्ठास्तथैव च ॥ २,६८.७२ ॥

पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ।
यथा सुखं यथोत्साहं यथाकालमरिन्दम ॥ २,६८.७३ ॥

सेविता विषयः पुत्र यौवनेन मया तव ।
पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम् ॥ २,६८.७४ ॥

राज्यं च त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः ।
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः ॥ २,६८.७५ ॥

यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ।
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् ॥ २,६८.७६ ॥

ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ॥ २,६८.७७ ॥

ज्येष्ठं यदुमतिक्रम्य राज्यं दास्यसि पूरवे ।
यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः ॥ २,६८.७८ ॥

शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ।
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।
सुतः संबोधयामस्त्वां धर्मं समनुपालय ॥ २,६८.७९ ॥

ययातिरुवाच
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ॥ २,६८.८० ॥

ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ।
मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते ॥ २,६८.८१ ॥

मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः ॥ २,६८.८२ ॥

स पुत्रः पुत्रवद्यश्च वर्त्तते पितृमातृषु ।
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ॥ २,६८.८३ ॥

द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ।
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः ॥ २,६८.८४ ॥

कनीयान्मम दायादो जरा येन धृता मम ।
सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा ॥ २,६८.८५ ॥

शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।
पुत्रो यस्त्वानुवर्त्तेत स राजा तु महामते ॥ २,६८.८६ ॥

प्रजा ऊचुः
भवतोऽनुमतोऽप्येवं पूरू राज्येऽभिषिच्यताम् ।
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥ २,६८.८७ ॥

सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ।
अर्हेऽस्य पूरू राज्यस्य यः प्रियः प्रियकृत्तव ॥ २,६८.८८ ॥

वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ।
पौरजान पदैस्तुष्टैरित्युक्ते नाहुषस्तदा ॥ २,६८.८९ ॥

अभिषिच्य ततः पूरुं स राज्ये सुतमात्मनः ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत् ॥ २,६८.९० ॥

दक्षिणापरतो राजा यदुं ज्येष्ठं न्यवेशयत् ।
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च तावुभौ ॥ २,६८.९१ ॥

सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।
व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ॥ २,६८.९२ ॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपान्यते ॥ २,६८.९३ ॥

एवं विभज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा ।
पुत्रसंक्रामितश्रीस्तु प्रीतिमा नभवन्नृपः ॥ २,६८.९४ ॥

धनुर्न्यस्य पृषत्कांश्च राज्यं चैव सुतेषु तु ।
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥ २,६८.९५ ॥

अत्र गाथा महाराज्ञा पुरा गीता ययातिना ।
याभिः प्रत्याहरेत्कामात्कूर्मौंऽगानीव सर्वशः ॥ २,६८.९६ ॥

न जातु कामः कामानमुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ २,६८.९७ ॥

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ २,६८.९८ ॥

यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ २,६८.९९ ॥

यदा परान्न बिभेति यदान्यस्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ २,६८.१०० ॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
यैषा प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २,६८.१०१ ॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ २,६८.१०२ ॥

यच्च कामसुखं लोके यच्छ दिव्यं महत्सुखम् ।
कृष्णाक्षयसुखस्यैतत्कलां नर्हन्ति षोडशीम् ॥ २,६८.१०३ ॥

एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् ।
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ॥ २,६८.१०४ ॥

पालयित्वा व्रतं चार्षं तत्रैव स्वर्ग माप्तवान् ।
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः ॥ २,६८.१०५ ॥

यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ।
धन्यः प्रजावा नायुष्मान्कीर्त्तिमांश्च भवेन्नरः ॥ २,६८.१०६ ॥

ययातेश्चारितं सर्वं पठञ्छृण्वन्द्विजोत्तमाः ॥ २,६८.१०७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे अष्टषष्टितमोऽध्यायः ॥ ६८॥
                                              

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६९

← मध्यभागः, अध्यायः ६८ब्रह्माण्डपुराणम्
अध्यायः ६९
[[लेखकः :|]]
मध्यभागः, अध्यायः ७० →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. सूत उवाच


यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
विस्तरेणानुपूर्व्या च गदतो मे निबोधत ॥ २,६९.१ ॥

यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः ।
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलोञ्जिको लघुः ॥ २,६९.२ ॥

सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः ।
शतजित्तनयाः ख्यातस्त्रयः परमधार्मिकाः ॥ २,६९.३ ॥

हैहयश्च हयस्छैव राजा वेणु हयस्तथा ।
हैहयस्य तु दायादो धर्मनेत्र इति श्रुतः ॥ २,६९.४ ॥

धर्मनेत्रस्य कुन्तिस्तु संक्षेयस्तस्य चात्मजः ।
संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥ २,६९.५ ॥

आसीन्महिष्मतः पुत्रो भद्रमेनः प्रतापवान् ।
वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥ २,६९.६ ॥

भद्र सेनस्य दायादो दुर्मदो नाम पार्थिवः ।
दुर्मदस्यसुतो धीमान्कनको नाम विश्रुतः ॥ २,६९.७ ॥

कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ।
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ॥ २,६९.८ ॥

कृतौजाश्च चतुर्थोऽभूत्कृतवीर्यात्मजोर्ऽजुनः ।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥ २,६९.९ ॥

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तमाराधयामास कार्त्तवीर्योऽत्रिसंभवम् ॥ २,६९.१० ॥

तस्मै दत्तो वरान्प्रादाच्च तुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ॥ २,६९.११ ॥

अधर्मं ध्यायमानस्य सहसास्मान्निवारणम् ।
धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ॥ २,६९.१२ ॥

संग्रामांस्तु बहुञ्जित्वा हत्वा चारीन्सहस्रशः ।
संग्रामे युध्यमानस्य वधः स्यात्प्रधने मम ॥ २,६९.१३ ॥

तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना ।
सप्तोदधिपरिक्षिप्ता क्षत्रेण विधिना जिता ॥ २,६९.१४ ॥

तस्य बाहुसहस्रं तु युध्यतः किलयोगतः ।
योगो योगेश्वरस्येव प्रादुर्भवति मायया ॥ २,६९.१५ ॥

तेन सप्तसु द्वीपेषु सप्तयज्ञशतानि वै ।
कृतानि विधिना राज्ञा श्रूयते मुनिसत्तमाः ॥ २,६९.१६ ॥

सर्वे यज्ञा महाबाहोस्तस्यामन्भूरितेजसः ।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥ २,६९.१७ ॥

सर्वैर्देवैर्महाभागै र्विमानस्थैरलङ्कृताः ।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ २,६९.१८ ॥

तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तदा ।
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥ २,६९.१९ ॥

न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः ।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ २,६९.२० ॥

द्वीपेषु सप्तसु स वै धन्वी खड्गी शारासनी ।
रथी राजा सानुचरो योगाच्चैवानुदृश्यते ॥ २,६९.२१ ॥

अनष्टद्रव्यता चासीन्न क्लेशो न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षितः ॥ २,६९.२२ ॥

पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः ।
स सर्वरत्नभाक्स म्राट्चक्रवर्ती बभूव ह ॥ २,६९.२३ ॥

स एष पशुपालोऽभूत्क्षेत्रपालस्तथै व च ।
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् ॥ २,६९.२४ ॥

स वे बाहुसहस्रेण ज्याघातकठिनेन च ।
भाति रश्मिसहस्रेण शारदेनैव भास्करः ॥ २,६९.२५ ॥

स हि नागसहक्रेण माहिष्मत्यां नराधिपः ।
कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत् ॥ २,६९.२६ ॥

स वै वेगं समुद्रस्य प्रावृट्कालेंबुजेक्षणः ।
क्रीडन्नेव सुखोद्विग्नः प्रावृट्कालं चकार ह ॥ २,६९.२७ ॥

लुलिता क्रीडता तेन हेमस्रग्दाममालिनी ।
ऊर्मिमुक्तार्त्तसन्नादा शङ्किताभ्येति नर्मदा ॥ २,६९.२८ ॥

पुरा भुज सहस्रेण स जगाहे महार्मवम् ।
चकारोद्वृत्तवेलं तमकाले मारुतोद्धतम् ॥ २,६९.२९ ॥

तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ ।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥ २,६९.३० ॥

चूर्णीकृतमहावीचिलीनमीनमहाविषम् ।
पतिताविद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ॥ २,६९.३१ ॥

चकार क्षोभयन्राजा दोःसहस्रेण सागरम् ।
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ॥ २,६९.३२ ॥

मन्दरक्षोभणभ्रान्तममृतोत्पत्ति हेतवे ।
सहसा विद्रुता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ २,६९.३३ ॥

निश्चितं नतमूर्द्धानो बभूवुश्च महोरगाः ।
सायाह्ने कदलीखञ्च निवातेस्तमिता इव ॥ २,६९.३४ ॥

ज्यामारोप्य दृढे चापे सायकैः पञ्चभिः शतैः ।
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ॥ २,६९.३५ ॥

निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ।
ततो गत्वा पुलस्त्यस्तमर्जुनं च प्रसाधयत् ॥ २,६९.३६ ॥

मुमोच राजा पौलस्त्यं पुलस्त्येना नुयाचितः ।
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ २,६९.३७ ॥

युगान्तेंबुदवृन्दस्य स्फुटितस्याशनेरिव ।
अहो मृधे महावीर्यो भार्गवस्तस्य योऽच्छिनत् ॥ २,६९.३८ ॥

मृधे सहस्रं बाहुनां हेमतालवनं यथा ।
तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ॥ २,६९.३९ ॥

सप्तद्वीपांश्चित्रभानोः प्रादद्भिक्षां विशांपतिः ।
पुराणि घोषान्ग्रामांश्च पत्तनानि च सर्वशः ॥ २,६९.४० ॥

जज्वाल तस्य बाणेषु चित्राभानुर्दिधक्षया ।
स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः ॥ २,६९.४१ ॥

ददाह कार्त्तवीर्यस्य शैलांश्चापि वनानि च ।
स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै ॥ २,६९.४२ ॥

ददाह सवनाटोपं चित्रभानुः स हैहयः ।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ २,६९.४३ ॥

वसिष्ठनामा स मुनिः ख्यात आपव इत्युत ।
तत्रापवस्तदा क्रोधादर्जुनं शप्तवान्विभुः ॥ २,६९.४४ ॥

यस्मान्नवर्जितमिदं वनं ते मम हैहय ।
तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ २,६९.४५ ॥

अर्जुनो नाम कैन्तेयः स च राजा भविष्यति ।
अर्जुनं च महावीर्यो रामः प्रहरतां वरः ॥ २,६९.४६ ॥

छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बली ।
तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः ॥ २,६९.४७ ॥

तस्य रामस्तदा ह्यासीन्मृत्युः शापेन धीमतः ।
राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा ॥ २,६९.४८ ॥

तस्य पुत्रशतं त्वासीत्पञ्च तत्र महारथाः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ॥ २,६९.४९ ॥

शूरश्च शूरसेनश्च वृषास्यो वृष एव च ।
जयध्वजो वंशकर्त्ता अवन्तिषु विशांपतिः ॥ २,६९.५० ॥

जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ।
तस्य पुत्रशतं त्वेवं तालजङ्घा इतिश्रुतम् ॥ २,६९.५१ ॥

तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ।
वीतिहोत्राश्च संजाता भोजाश्चावन्तयस्तथा ॥ २,६९.५२ ॥

तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ।
वीतिहोत्रसुतश्चापि अनन्तो नाम पार्थिवः ॥ २,६९.५३ ॥

दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्शनः ।
अनष्ट द्रव्यता चैव तस्य राज्ञो बभूव ह ॥ २,६९.५४ ॥

प्रभावेण महाराजः प्रजास्ताः पर्यपालयत् ।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः ॥ २,६९.५५ ॥

कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः ।
वर्द्धन्ते विभवाश्शश्वद्धर्मश्चास्य विवर्द्धते ॥ २,६९.५६ ॥

यथा यष्टा यथा दाता तथा स्वर्गे महीपते ॥ २,६९.५७ ॥

इति श्रीब्रह्माण्डे महोपुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यसंभवो नाम एकोनसप्ततितमोऽध्यायः

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ७१

सात्त्वताज्जज्ञिरे पुत्राः कौशल्यायां महाबलाः ।
भजमानो भजिर्द्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥ २,७१.१ ॥

महाभोजश्च विख्यातो ब्रह्मण्यस्सत्यसंगरः ।
तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै ॥ २,७१.२ ॥

भजमानस्य सृंजय्यो बाह्यका चोपवाह्यका ।
सृंज यस्य सुते द्वे तु बाह्यके ते उदावहत् ॥ २,७१.३ ॥

तस्य भार्ये भगिन्यौ ते प्रसूते तु सुतान्बहून् ।
निम्लोचिः किङ्कणश्चैव धृष्टिः पर पुरञ्जयः ॥ २,७१.४ ॥

ते बाह्यकाया सृंजय्या भजमानाद्विजज्ञिरे ।
अयुताजित्सहस्राजिच्छताजिदिति नामतः ॥ २,७१.५ ॥

बाह्यकायां भगिन्यां ते भजमानाद्विजज्ञिरे ।
तेषां देवावृधो राजा चचार परमं तपः ।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह ॥ २,७१.६ ॥

संयोज्या त्मानमेवं स पर्णाशजलमस्पृशत् ॥ २,७१.७ ॥

सा चोपस्पर्शनात्तस्य चकार प्रियमापगा ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ २,७१.८ ॥

चिन्तयाभिपरीताङ्गी जगामाथ विनिश्चयम् ।
नाभिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥ २,७१.९ ॥

भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि ।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता ॥ २,७१.१० ॥

जज्ञे तस्याः स्वयं हृत्स्थो भावस्तस्य यथेरितः ।
अथ भूत्वा कुमारी तु सा चिन्तापरमेव च ॥ २,७१.११ ॥

वरयामास राजानं तामियेष स पार्थिवः ।
तस्यामाधत्त गर्भे स तेजस्विनमुदारधीः ॥ २,७१.१२ ॥

अथ सा नवमे मासि सुषुवे सरिता वरा ।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधत्तदा ॥ २,७१.१३ ॥

तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ।
गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥ २,७१.१४ ॥

यथैव शृणुमो दूरात्सपंश्यामस्तथान्तिकात् ।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृथः समः ॥ २,७१.१५ ॥

पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः ।
येमृतत्वमनुप्राप्ता बब्रोर्देवावृधादपि ॥ २,७१.१६ ॥

यज्वा दानपतिर्धीरो ब्रह्मण्यः सत्यवाग्बुधः ।
कीर्त्तिमांश्च महाभोजः सात्त्वतानां महारथः ॥ २,७१.१७ ॥

तस्यान्ववायः सुमहान्भोजा ये भुवि विश्रुताः ।
गान्धारी चैव माद्री च धृष्टैर्भार्ये बभूवतुः ॥ २,७१.१८ ॥

गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ।
साद्री युधाजितं पुत्रं ततो मीढ्वांसमेव च ॥ २,७१.१९ ॥

अनमित्रं शिनं चैव ताबुभौ पुरुषोत्तमौ ।
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ २,७१.२० ॥

प्रसेनश्च महाभागः सत्राजिच्च सुताबुभौ ।
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ २,७१.२१ ॥

स कदाचिन्निशापाये रथेन रथिनां वरः ।
तोयं कूलात्समुद्धर्तुमुपस्थातुं ययौरविम् ॥ २,७१.२२ ॥

तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।
सुस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान्विभुः ॥ २,७१.२३ ॥

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते ॥ २,७१.२४ ॥

तेजोमण्डलिनं चैव तथैवाप्यग्रतः स्थितम् ।
को विशेषो विवस्वंस्ते सख्येनोपगतस्य वै ॥ २,७१.२५ ॥

एतच्छ्रुत्वा स भगवान्मणिरत्नं स्यमन्तकम् ।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥ २,७१.२६ ॥

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।
प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान्कथाम् ॥ २,७१.२७ ॥

तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।
प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति ॥ २,७१.२८ ॥

तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ।
स्यमं तकं नाममणिं दत्तवांस्तस्य भास्करः ॥ २,७१.२९ ॥

स तमामुच्य नगरीं प्रविवेश महीपतिः ।
विस्मापयित्वाथ ततः पुरीमन्तःपुरं ययौ ॥ २,७१.३० ॥

स प्रसेनाय तद्दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ २,७१.३१ ॥

स्यमन्तको नाम मणिर्यस्मिन्राष्ट्रे स्थितो भवेत् ।
कामवर्षी च पर्जन्यो न च व्याधिभयं तथा ॥ २,७१.३२ ॥

लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् ।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ॥ २,७१.३३ ॥

कधाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद्वधं प्राप सुदारुणम् ॥ २,७१.३४ ॥

जांबवानृक्षराजस्तु तं सिंहं निजघान वै ।
आदाय च मणिं दिव्यं स्वबिलं प्रविवेश ह ॥ २,७१.३५ ॥

तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः ।
मणिं गृध्नोस्तु मन्वानास्तमेव विशशङ्किरे ॥ २,७१.३६ ॥

मिथ्यापवादं तेभ्यस्तं बलवानरिसूदनः ।
अमृष्यमाणो भगवान्वनं स विचचार ह ॥ २,७१.३७ ॥

स तु प्रोसेनो मृगयामचरद्यत्र चाप्यथ ।
प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः ॥ २,७१.३८ ॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च नगमुत्तमम् ।
अन्वेषयत्परिश्रान्तः स ददर्श महामनाः ॥ २,७१.३९ ॥

साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ २,७१.४० ॥

ऋक्षेण निहतो दृष्टः पदैरृक्षस्य सूचितः ।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥ २,७१.४१ ॥

महत्यन्तर्बिले वाणीं शश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जांबवतो द्विजाः ।
क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम् ॥ २,७१.४२ ॥

धात्र्युवाच
प्रसेनमवधीत्सिंहः सिंहो जांबवता हतः ॥ २,७१.४३ ॥

सुकुमारक मारो दीस्तव ह्यें स्यमन्तकः ।
व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम् ॥ २,७१.४४ ॥

अपश्यच्च बिलाभ्याशे प्रसेन मवदारितम् ।
प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा ॥ २,७१.४५ ॥

ददर्श ऋक्षराजानं जांबवन्तमुदारधीः ।
युयुधे वासुदेवस्तु बिले जांबवता सह ॥ २,७१.४६ ॥

बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ।
प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः ॥ २,७१.४७ ॥

पुनर्द्वारवतीं चैत्य हतं कृष्णं न्यवेदयन् ।
वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम् ॥ २,७१.४८ ॥

लेभे जांबवन्तीं कन्यामृक्षराजस्य सम्मनाम् ।
भगवत्तेजसा ग्रस्तो जांबवांन्प्रसभं मणिम् ॥ २,७१.४९ ॥

सुतां जांबवतीमाशु विष्वक्सेनाय दत्तवान् ।
मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये ॥ २,७१.५० ॥

अनुनीयर्क्षराजं तं निर्ययौ च तदा बिलात् ।
एवं स मणिमाहृत्य विशोध्यात्मानमात्मना ॥ २,७१.५१ ॥

ददौ सत्राजिते रत्नं मणिं सात्त्वतसन्निधौ ।
कन्यां पुनर्जांबवतीमुवाह मधुसूदनः ॥ २,७१.५२ ॥

तस्मान्मिथ्याभिशापात्तु व्यशुध्यन्मधुसूदनः ।
इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम् ॥ २,७१.५३ ॥

वेद मिथ्याभिशप्तिं स नाभिस्पृशति कर्हिचित् ।
दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः ॥ २,७१.५४ ॥

ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः ।
वीरो वातपतिश्चैव तपस्वी च बहुप्रियः ॥ २,७१.५५ ॥

अथ वीरमती नाम भङ्गकारस्य तु प्रसूः ।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ॥ २,७१.५६ ॥

सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।
तथा तपस्विनी चैव पिता कृष्णय तां ददौ ॥ २,७१.५७ ॥

न च सत्राजितः कृष्णो मणिरत्नं स्यमन्तकम् ।
आदत्त तदुपश्रुत्य भोजेन शतधन्वना ॥ २,७१.५८ ॥

तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम् ॥ २,७१.५९ ॥

सत्राजितं ततो इत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ २,७१.६० ॥

अक्रूरस्तु तदा रत्नमादाय स नरर्षभः ।
समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत ॥ २,७१.६१ ॥

वयमभ्युपयोत्स्यामः कृष्णेन त्वां प्रधर्षितम् ।
मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम् ॥ २,७१.६२ ॥

हते पितरि दुःखार्त्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥ २,७१.६३ ॥

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत् ॥ २,७१.६४ ॥

पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम् ॥ २,७१.६५ ॥

ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ २,७१.६६ ॥

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो ॥ २,७१.६७ ॥

तहारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तकं महाबाहो सामान्यं वो भविष्यति ॥ २,७१.६८ ॥

ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः ।
शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम् ॥ २,७१.६९ ॥

अनालब्धावहारौ तु कृत्वा भोजजनार्द्दनौ ।
शक्तोऽपि शाठ्याद्धार्दिक्यो नाक्रूरोऽभ्युपपद्यत ॥ २,७१.७० ॥

अपयोते ततो बुद्धिं भूयश्चक्रे भयान्वितः ।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ २,७१.७१ ॥

विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा दिव्या यया कृष्णमयोधयत् ॥ २,७१.७२ ॥

क्षीणां जवेन त्दृदयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत् ॥ २,७१.७३ ॥

ततस्तस्या हयायास्तु श्रमात्खेदाच्च वै द्विजाः ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ २,७१.७४ ॥

तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयी ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ २,७१.७५ ॥

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलोपवने तं वै जघान परमास्त्रवित् ॥ २,७१.७६ ॥

स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली ॥ २,७१.७७ ॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम् ॥ २,७१.७८ ॥

भातृत्वान्मर्षयाम्वेष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ २,७१.७९ ॥

प्रविवेश ततो रामो मिथिलामरिमर्द्दनः ।
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः ॥ २,७१.८० ॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान् ॥ २,७१.८१ ॥

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः ॥ २,७१.८२ ॥

अकूर यज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २,७१.८३ ॥

अथ दुर्योधनो राजा गत्वाथ मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ २,७१.८४ ॥

प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ २,७१.८५ ॥

अक्रूरश्चान्धकैः सार्द्धमथायात्पुरुषर्षभः ।
युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली ॥ २,७१.८६ ॥

सुयज्ञतनयायां तु नरायां नरसत्तमौ ।
भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ ॥ २,७१.८७ ॥

जज्ञातेंऽधकमुख्यस्य शक्रघ्नो बन्धुमांश्च तौ ।
वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत् ॥ २,७१.८८ ॥

ज्ञातिभेदभयाद्भीतस्तमुबेक्षितवानथ ।
अपयाते ततोऽक्रूरे नावर्षत्पाकशासनः ॥ २,७१.८९ ॥

अनावृष्ट्या हतं राष्ट्रमभवद्बहुधा यतः ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ २,७१.९० ॥

पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा ।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥ २,७१.९१ ॥

कन्यां वै वासुदेवाय स्वसारं शीलसंमताम् ।
अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः ॥ २,७१.९२ ॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः ॥ २,७१.९३ ॥

यत्तद्रत्नं मणिवरं तव हस्तगतं प्रभो ।
तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः ॥ २,७१.९४ ॥

षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम ।
सुसंरूढोऽसकृत्प्राप्तस्तदा कालात्ययो महान् ॥ २,७१.९५ ॥

ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ २,७१.९६ ॥

ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः ।
ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः ॥ २,७१.९७ ॥

स कृष्णहस्तात्संप्राप्य मणिरत्नं स्यमन्तकम् ।
आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ २,७१.९८ ॥

इमां मिथ्याभिशाप्तिं यो विशुद्धिमपि चोत्तमाम् ।
वेद मिथ्याभिशप्तिं स न लभेत कथञ्चन ॥ २,७१.९९ ॥

अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।
सत्यवान्सत्यसंपन्नः सत्यकस्तस्य चात्मजः ॥ २,७१.१०० ॥

सात्यकिर्युयुधानश्च तस्य भूतिः सुतोऽभवत् ।
भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्त्तितः ॥ २,७१.१०१ ॥

माड्याः सुतस्य जज्ञे तु सुतो वृष्णिर्युधाजितः ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकश्च यः ॥ २,७१.१०२ ॥

श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥ २,७१.१०३ ॥

कादाचित्काशिराजस्य विभोस्तु द्विजसत्तमाः ।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ २,७१.१०४ ॥

स तत्रवासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ॥ २,७१.१०५ ॥

श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनींनाम गां सा हि ददौ विप्राय नित्यशः ॥ २,७१.१०६ ॥

सा मातुरुदरस्था वै बहून्वर्षशातान्किल ।
निवसंती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ २,७१.१०७ ॥

जायस्व शीघ्रं भद्रं ते किमर्थं वापि तिष्ठसि ।
प्रोवाच चैनं गर्भस्था सा कन्या गां दिने दिने ॥ २,७१.१०८ ॥

यदि दद्यास्ततो गर्भाद्बहिः स्यां हायनैस्त्रिभिः ।
तथेत्युवाच तां तस्याः पिता काममपूरयत् ॥ २,७१.१०९ ॥

दाता यज्वा च शुरश्च श्रुतवानतिथिप्रियः ।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वाफल्को भूरिदक्षिणः ॥ २,७१.११० ॥

उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः ।
गिरिरक्षस्ततो यक्षः शत्रुघ्नोऽथारिमर्दनः ॥ २,७१.१११ ॥

धर्मवृद्धः सुकर्मा च गन्धमादस्तथापरः ।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥ २,७१.११२ ॥

अक्रूरादौग्रसेन्यां तु सुतौ द्वौ कुलनन्दिनौ ।
देववानुपदेवश्च जज्ञाते देवसंनिभौ ॥ २,७१.११३ ॥

चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ ॥ २,७१.११४ ॥

अरिष्टनेमिरश्वास्यः सुवार्मा वर्मभृत्तथा ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ २,७१.११५ ॥

सत्यकात्काशिदुहिता लेभे या चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कंबल बर्हिषम् ॥ २,७१.११६ ॥

कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् ।
कपोतरोमा तस्याथ विलोमाभवदात्मजः ॥ २,७१.११७ ॥

तस्यासीत्तुंबुरुसखा विद्वान्पुत्रोंऽधकः किल ।
ख्यायते यस्य नामान्यच्चन्दनोदकदुन्दुभिः ॥ २,७१.११८ ॥

तस्याभिजित्ततः पुत्र उत्पन्नस्तु पुनर्वसुः ।
अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः ॥ २,७१.११९ ॥

तस्य मध्येऽतिरात्रस्य सदोमध्यात्ससुच्छ्रितः ।
ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः ॥ २,७१.१२० ॥

तस्याथ पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकश्चाहुकी चैव ख्यातौ मतिमतां वरौ ॥ २,७१.१२१ ॥

इमांश्चोदा हरन्त्यत्र श्लोकान्प्रति तमाहुकम् ।
सोपासांगानुकर्षाणां सध्वजानां वरूथिनाम् ॥ २,७१.१२२ ॥

रथानां मेघघोषाणां महस्राणि दशैव तु ।
नासत्यवादी चासीत्तु नायज्ञो नासहस्रदः ॥ २,७१.१२३ ॥

नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत् ।
आर्द्रकस्य धृतिः पुत्र इत्येवमनुशुश्रुम् ॥ २,७१.१२४ ॥

स तेन परिवारेण किशोरप्रतिमान्हयान् ।
अशीतिमश्वनियुतान्याहुकोऽप्रतिमो व्रजन् ॥ २,७१.१२५ ॥

पूर्वस्यां दिशि नागानां भोजस्य त्वतिभावयन् ।
रूप्यकाञ्चनकक्षाणां स्रहस्राण्येकविंशतिः ॥ २,७१.१२६ ॥

तावन्त्येव सहस्राणि उत्तरस्यां तथादिशि ।
भूमिपालस्य भोजस्य उत्तिष्टेत्किङ्कणी किल ॥ २,७१.१२७ ॥

आहुकश्चाप्यवन्तीषु स्वसारं त्वाहुकीं ददौ ।
आहुकात्काश्यदुहितुर्द्वै पुत्रौ संबभूवतुः ॥ २,७१.१२८ ॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २,७१.१२९ ॥

देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन्वसुदेवाय ता ददौ ॥ २,७१.१३० ॥

धृतदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा तथापरा ॥ २,७१.१३१ ॥

सप्तमी देवकी तासां सानुजा चारुदर्शना ।
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः ॥ २,७१.१३२ ॥

न्यग्रो दश्च सुनामा च कङ्कशङ्कुसुभूमयः ।
सुतनू राष्ट्रपालश्च युद्धतुष्टश्च तुष्टिमान् ॥ २,७१.१३३ ॥

तेषां स्वसारः पञ्चैव कंसा कंसवती तथा ।
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ २,७१.१३४ ॥

उग्रसेनो महापत्यो व्याख्यातः कुकुरोद्भवः ।
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ २,७१.१३५ ॥

आत्मनोविपुलं वंशं प्रजावांश्च भवेन्नरः ।
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः ॥ २,७१.१३६ ॥

राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ।
तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ॥ २,७१.१३७ ॥

वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।
शमी च गदवर्मा च निदान्तः खलु शत्रुजित् ॥ २,७१.१३८ ॥

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह ॥ २,७१.१३९ ॥

हृदिकस्य सुतास्त्वासन्दश भीमपराक्रमाः ।
कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ २,७१.१४० ॥

देवबाहुस्सुबाहुश्च भिषक्श्वेतरथश्च यः ।
सुदान्तश्चाधिदान्तश्च कनकः कनकोद्भवः ॥ २,७१.१४१ ॥

देवबाहोस्सुतो विद्वाञ्जज्ञे कंबलबर्हिषः ।
असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः ॥ २,७१.१४२ ॥

अजातपुत्राय ततः प्रददावसमौजसे ।
सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धकाः स्मृताः ॥ २,७१.१४३ ॥

अन्धकानामिमं वंशं कीर्त्तयेद्यस्तु नित्यशः ।
आत्मनो विपुलं वंशं लभते नात्र संशयः ॥ २,७१.१४४ ॥

अश्मक्यां जनयामास शूरं वै देव मीढुषम् ।
मारिष्यां जज्ञिरे शूराद्भोजायां पुरुषा दश ॥ २,७१.१४५ ॥

वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि ॥ २,७१.१४६ ॥

आनकानां च संह्नादः सुमहानभवद्दिवि ।
पपात पुष्पवर्षं च शरस्य भवने महत् ॥ २,७१.१४७ ॥

मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ २,७१.१४८ ॥

देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ।
अनाधृष्टिवृकश्चैव नन्दनश्चैव सृंजयः ॥ २,७१.१४९ ॥

श्यामः शमीको गण्डूषः स्वसारस्तु वरागनाः ।
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुत श्रवाः ॥ २,७१.१५० ॥

राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
पृथां दुहितरं शूरः कुन्तिभोजाय वै ददौ ॥ २,७१.१५१ ॥

तस्मात्सा तु स्मृता कुन्ती कुन्तिभोजात्मजा पृथा ।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥ २,७१.१५२ ॥

पुथा जज्ञे ततः पुत्रांस्त्रीनग्निसमतेजसः ।
लोके प्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान् ॥ २,७१.१५३ ॥

धर्माद्युधिष्टिरं पुत्रं मारुताच्च वृकोदरम् ।
इन्द्राद्धनञ्जयं चैव पृथा पुत्रानजीचनत् ॥ २,७१.१५४ ॥

माद्रवत्या तु जनितावश्विनाविति विश्रुतम् ।
नकुलः सहदेवश्च रुपसत्त्वगुणान्वितौ ॥ २,७१.१५५ ॥

जज्ञे तु श्रुतदेवायां तनयो वृद्धशर्मणः ।
करूषाधिपतेर्ंवीरो दन्तवक्रो महाबलः ॥ २,७१.१५६ ॥

कैकयाच्छ्रुतिकीर्त्यं तु जज्ञे संतर्दनो बली ।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥ २,७१.१५७ ॥

विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥ २,७१.१५८ ॥

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः ।
यः पुरा सदशग्रीवः संबभूवारिमर्दनः ॥ २,७१.१५९ ॥

वैश्रवाणानुजस्तस्य कुंभकर्णोऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ २,७१.१६० ॥

पौरवी रोहिणी चैव मदिरा चापरा तथा ।
तथैव भद्रवैशाखी सुनाम्नी पञ्चमी तथा ॥ २,७१.१६१ ॥

सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता ।
धृतदेवोपदेवा च देवकी सप्तमी तथा ॥ २,७१.१६२ ॥

सुगन्धा वनराजी च द्वेचान्ये परिचारिके ।
रोहिणी पौरवी चैव बाह्लीकस्यानुजाभवत् ॥ २,७१.१६३ ॥

ज्येष्ठा पत्नी महाभागदयिताऽनकदुन्दुभेः ।
ज्येष्ठे लेभे सुतं रामं सारणं हि शठं तथा ॥ २,७१.१६४ ॥

दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ ।
चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत ॥ २,७१.१६५ ॥

पुत्रौ रामस्य जज्ञाते विज्ञातौ निशठोल्मुकौ ।
पार्श्वी च पार्श्वमर्दी च शिशुः सत्यधृतिस्तथा ॥ २,७१.१६६ ॥

मन्दबाह्योऽथ रामणाङ्गिरिको गिरिरेव च ।
शुल्कगुल्मोऽतिगुल्मश्च दरिद्रान्तक एव च ॥ २,७१.१६७ ॥

कुमार्यश्चापि पञ्जान्या नामतस्ता निबोधत ।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ २,७१.१६८ ॥

तथा शतबला चैव सारणस्य सुतास्त्विमाः ।
भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च ॥ २,७१.१६९ ॥

भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च ।
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वः शठात्मजाः ॥ २,७१.१७० ॥

दुर्मदस्याभिभूतश्च रोहिण्याः कुलजाः स्मृताः ।
नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा बलः ॥ २,७१.१७१ ॥

चित्रोपचित्रौ कृतकस्तुष्टिः पुष्टिरथापरः ।
मदिरायाः सुता एते वसुदेवाद्धिजज्ञिरे ॥ २,७१.१७२ ॥

उपबिंबोऽथ बिंबश्च सत्त्वदन्तमहौजसौ ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ॥ २,७१.१७३ ॥

वैशाल्यामदधाच्छौरिः पुत्रं कौशिकमुत्तमम् ।
देवक्यां जज्ञिरे सौरेः सुषेणः कीर्त्तिमानपि ॥ २,७१.१७४ ॥

उदर्षिर्भद्रसेनश्च ऋजुदायश्च पञ्चमः ।
षष्ठो हि भद्रदेवश्च कंसः सर्वाञ्जघान तान् ॥ २,७१.१७५ ॥

अथ तस्या मवस्थाया आयुष्मान्संबभूव ह ।
लोकनाथः पुनर्विष्णुः पूर्वं कृष्णः प्रजापतिः ॥ २,७१.१७६ ॥

अनुजाताभवकृष्णात्सुभद्रा भद्रभाषिणी ।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ॥ २,७१.१७७ ॥

सुभद्रायां रथी पार्थादभिमन्युरजायत ।
वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥ २,७१.१७८ ॥

ये पुत्रा जज्ञिरे शुरा नामतस्तान्निबोधत ।
पूर्वाद्याः सहदेवायां शूराद्वै जज्ञिरे सुताः ॥ २,७१.१७९ ॥

शान्तिदेवा जनस्तम्बं शौरेर्जज्ञे कुलोद्वहम् ।
आगावहो महात्मा च वृकदेव्या मजायत ॥ २,७१.१८० ॥

श्रीदेवायां स्वयं जज्ञे मन्दको नाम नामतः ।
उपासंगं वसुं चापि तनयौ देवरक्षिता ॥ २,७१.१८१ ॥

एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।
विजयं रोचनं चैव वर्द्धमानं च देवलम् ॥ २,७१.१८२ ॥

एतान्महात्मनः पुत्रान्सुषाव शिशिरावती ।
सप्तमी देवकी पुत्रं सुनामानमसूयत ॥ २,७१.१८३ ॥

गवेषणं महाभागं संग्रामे चित्रयोधिनम् ।
श्राद्धदेव्यां पुरोद्याने वने तु विचरन्द्विजाः ॥ २,७१.१८४ ॥

वैश्यायामदधाच्छौरिः पुत्रं कौशिकमव्ययम् ।
सुगन्धी वनराजी च शौरेरास्तां परिग्रहौ ॥ २,७१.१८५ ॥

पुण्डश्च कपिलश्चैव सुगन्ध्याश्चात्मजौ तु तौ ।
तयो राजाभवत्पुण्ड्रः कपिलस्तु वनं ययौ ॥ २,७१.१८६ ॥

अन्यस्यामभवद्वीरो वसुदेवात्मजो बली ।
जरा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥ २,७१.१८७ ॥

विख्यातो देवभाग्यस्य महाभागः सुतोऽभवत् ।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥ २,७१.१८८ ॥

अश्मक्यां लभते पुत्रमनाधृष्टिर्यशास्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम् ॥ २,७१.१८९ ॥

व्यजायत श्राद्धदेवो नैषादिर्यः पारिश्रुतः ।
एकलव्यो महाभागो निषादैः परिवर्द्धितः ॥ २,७१.१९० ॥

गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ ।
चारुदेष्णं च सांबं च कृतास्त्रौ शस्तलक्षणौ ॥ २,७१.१९१ ॥

रन्तिश्च रन्तिपालश्च द्वौ पुत्रौ नन्दनस्य च ।
वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान् ॥ २,७१.१९२ ॥

सौमिं ददौ सुत वीरं शौरिः कौशिकमेव च ।
सृंजयस्य धनुश्चैव विरजाश्च सुताविमौ ॥ २,७१.१९३ ॥

अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥ २,७१.१९४ ॥

य इदं जन्म कृष्णस्य पठते नियतव्रतः ।
श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात् ॥ २,७१.१९५ ॥

देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ॥ २,७१.१९६ ॥

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः ।
चतुर्बाहुस्तु संजज्ञे दिव्यरूपश्रियान्वितः ॥ २,७१.१९७ ॥

प्रकाश्यो भगवान्योगी कृष्णो मानुषतां गतः ।
अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान्प्रभुः ॥ २,७१.१९८ ॥

नारायणो यतश्चक्रे व्ययं चैवाव्ययं हि यत् ।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ॥ २,७१.१९९ ॥

योऽबुञ्जाच्चादिपुरुषं पुरा चक्रे प्रजापतिम् ।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥ २,७१.२०० ॥

देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ।
प्रासादयन्यं च विभुं ह्यदित्याः पुत्रकारणे ॥ २,७१.२०१ ॥

वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।
ययातिवंशजस्याथ वसुदेवस्य धीमतः ॥ २,७१.२०२ ॥

कुलं पुण्यं यतो जन्म भेजे नारायमः प्रभुः ।
सागराः समकंपत चेलुश्च धरणीधराः ॥ २,७१.२०३ ॥

जज्वलुस्त्वग्निहोत्राणि जायमाने जनार्द्दने ।
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः ॥ २,७१.२०४ ॥

ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्द्दने ।
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ॥ २,७१.२०५ ॥

मुहूर्त्तो विजयो नाम यत्र जातो जनार्द्दनः ।
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः ॥ २,७१.२०६ ॥

जज्ञे तथैव भगवान्मायया मोहयन्प्रजाः ।
आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ॥ २,७१.२०७ ॥

गीर्भिर्मङ्गलयुक्ताभिस्तुवन्तो मधुसूदनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ॥ २,७१.२०८ ॥

वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम् ।
श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यैः स्वलक्षणैः ॥ २,७१.२०९ ॥

उवाच वसुदेवस्तं रूपं संहर वै प्रभो ।
भीतोऽहं कंसतस्तात तस्मादेवं ब्रवीम्यहम् ॥ २,७१.२१० ॥

मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।
वसुदेववचःश्रुत्वा रूपं संहृतवान्प्रभुः ॥ २,७१.२११ ॥

अनुज्ञातः पिता त्वेनं नन्दगोपगृहं नयत् ।
उग्रसेनगृहेऽतिष्ठद्यशोदायै तदा ददौ ॥ २,७१.२१२ ॥

तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा ।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २,७१.२१३ ॥

यामेव रजनीं कृष्णो जज्ञे वृष्णिकुले प्रभुः ।
तामेव रजनीं कन्या यशोदायां व्यजायत ॥ २,७१.२१४ ॥

तं जात रक्षमाणस्तु वसुदेवो महायशाः ।
प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २,७१.२१५ ॥

दत्त्वेमं नन्दगोपस्य रक्षेममिति चाब्रवीत् ।
सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥ २,७१.२१६ ॥

अयं स गर्भा देवक्या मम क्लेशान्हरिष्यति ।
उग्रसेनात्मजायाथ कन्यामानकदुन्दुभिः ॥ २,७१.२१७ ॥

निवेदयामास तदा कन्येति शुभलक्षणा ।
स्वसुस्तु तनयं कंसो जातं नैवावधारयत् ॥ २,७१.२१८ ॥

अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ।
तवैषा हि यथा कन्या तथा मम न संशयः ।
न हन्मीमां महाबाहो व्रजत्वेषा यथारुचि ॥ २,७१.२१९ ॥

कन्या सा ववृधे तत्र वृष्मिसद्मनि पूजिता ।
पुत्रवत्पालयामास देवी देवीं मुदा तदा ॥ २,७१.२२० ॥

तमेवं विधिनोत्पन्नमाहुः कृष्णं प्रजापतिम् ।
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह ॥ २,७१.२२१ ॥

एतां चैकाग्रमनसः पूजयिष्यन्ति यादवाः ।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २,७१.२२२ ॥

ऋषय ऊचुः
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः ।
जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि ॥ २,७१.२२३ ॥

सूत उवाच
शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः ।
जाताञ्जातास्तु तान्सर्वान्निष्पिपेष वृथामतिः ॥ २,७१.२२४ ॥

भयाद्यथा महाबाहो जातः कृष्णो विवासितः ।
यथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २,७१.२२५ ॥

उद्वाहे किल देवक्या वसुदेवस्य धीमतः ।
सारथ्यं कृतवान्कंसो युवराजस्तदाभवत् ॥ २,७१.२२६ ॥

ततोंऽतरिक्षे वागासीद्दिव्याभूद्यस्य कस्यचित् ।
कंसस्य नाममात्रेण पुष्कला लोकसाक्षिणी ॥ २,७१.२२७ ॥

यामेतं वहसे कंस रथेन प्रियकारणात् ।
तस्या यश्चाष्टमो गर्भः स ते मृत्युर्भबिष्यति ॥ २,७१.२२८ ॥

तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः ।
निष्कृष्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ॥ २,७१.२२९ ॥

तमुवाच महाबाहुर्वसुदेवः प्रतापवान् ।
उग्रसेनात्मजं कसं सौत्दृदात्प्रणयेन वा ॥ २,७१.२३० ॥

न स्त्रियं क्षत्रियो जातु हन्तुमर्हसि कश्चन ।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ॥ २,७१.२३१ ॥

योऽस्याः संजायते गर्भो ह्यष्टमः पृथिवीपते ।
तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ २,७१.२३२ ॥

न त्विदानीं यथेष्टं त्वं वर्त्तेथा भूरिदक्षिण ।
सर्वानप्यथ वा गर्भान्पृथङ्नेष्यामि ते वशम् ॥ २,७१.२३३ ॥

एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति ।
एवमुक्तोऽनुनीतः स जग्राह वचनं तदा ॥ २,७१.२३४ ॥

वसुदेवश्च तां भार्यामवाप्य मुदितोऽभवत् ।
कंसस्तस्यावधीत्पुत्रान्पापकर्मा वृथामतिः ॥ २,७१.२३५ ॥

ऋषय ऊचुः
क एष वसुदेवस्तु देवकी च यशस्विनी ।
नन्दगोपस्तु कस्त्वेष यशोदा य महायशाः ॥ २,७१.२३६ ॥

यो विष्णुं जनयामास यं च तातेत्यभाषत ।
या गर्भं जनयामास या वैनं याभ्यवर्द्धयत् ॥ २,७१.२३७ ॥

सूत उवाच
पुरुषः कश्यपस्त्वासी ददितिस्तत्प्रिया तथा ।
कश्यपो ब्रह्मणोंऽशश्च पृथिव्या आदितिस्तथा ॥ २,७१.२३८ ॥

नन्दो द्रोणः समाख्यातो यशोदा च धराभवत् ।
अथ कामान्महाबाहुर्देवक्याः संप्रवर्द्धयन् ॥ २,७१.२३९ ॥

अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम् ।
मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ २,७१.२४० ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् ।
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥ २,७१.२४१ ॥

वैदर्भी रुक्मिणी कन्या सत्या नग्नजितस्तदा ।
सत्राजितः सत्यभामा जांबवत्यपि रोहिणी ॥ २,७१.२४२ ॥

शैब्या धन्यानि देवीनां सहस्राणि च षोडश ।
चतुर्दश तु ये प्रोक्ता गणास्त्वप्सरसां दिवि ॥ २,७१.२४३ ॥

विचार्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः ।
पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु ॥ २,७१.२४४ ॥

एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः ।
प्रद्युम्नश्चारुदेष्णश्च सुदेवः शरभस्तथा ॥ २,७१.२४५ ॥

चारुश्च चारुभद्रश्च भद्रचारुस्तथापरः ।
चारुविद्यश्च रुक्मिण्यां कन्या चारुमती तथा ॥ २,७१.२४६ ॥

सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रवित्तथा ।
जरोऽधकस्ताम्रचक्रौ सौभरिश्च जरेधरः ॥ २,७१.२४७ ॥

चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
भानुः सौभरिका चैव ताम्रपर्णी जरन्धरः ॥ २,७१.२४८ ॥

सत्यभामासुता एते जांबवत्याः प्रजाः श्रुणु ।
भद्रश्च भद्रगुप्तश्च भद्रचित्रस्तथैव च ॥ २,७१.२४९ ॥

बध्रबाहुश्च विख्यातः कन्या भद्रवती तथा ।
संबोधनी च विख्याता ज्ञेया जांबवतीसुताः ॥ २,७१.२५० ॥

संग्रामजिच्च शतजित्तथैव च सहस्र जित् ।
एते पुत्राः सुदेव्यां च विष्वक्सेनस्य कीर्त्तिताः ॥ २,७१.२५१ ॥

वृको वृकाश्वो वृकजिद्वृजिनी च वराङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्या प्रजास्त्विह ॥ २,७१.२५२ ॥

एवमादीनि पुत्राणां सहस्राणि निबोधत ।
प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः ॥ २,७१.२५३ ॥

अयु तानि यथाष्टौ च शूरा रणविशारदाः ।
जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम् ॥ २,७१.२५४ ॥

बृहती पुरुभार्यासीत्सुमध्या सुगतिस्तथा ।
कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः ॥ २,७१.२५५ ॥

तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः ।
आनन्दः कनकः श्वेतः कन्या श्वेता तथैव च ॥ २,७१.२५६ ॥

अगावहस्य चित्रश्च शूरश्चित्ररथश्च यः ।
चित्रसेनः स्मृतश्चास्य कन्या चित्रवती तथा ॥ २,७१.२५७ ॥

तुम्बश्च तुम्बंवर्चाश्च जातौ तुम्बस्य तावुभौ ।
उपासंगसुतौ द्वौ तु वज्रारः क्षिप्र एव च ॥ २,७१.२५८ ॥

भूरीन्द्रसेनो भूरिश्च गवेषणसुतापुभौ ।
युधिष्टिरस्य कन्यायां सुधनुस्तस्य चात्मजः ॥ २,७१.२५९ ॥

काश्यां तु पञ्च तनयांल्लेभे सांबात्तरस्विनः ।
सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्त्तिताः ॥ २,७१.२६० ॥

तिस्रः कोट्यस्तु पौत्राणां यादवानां महात्मनाम् ।
सर्वमेव कुलं यच्च वर्त्तन्ते चैव ये कुले ॥ २,७१.२६१ ॥

विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिभिस्तस्य बध्यन्ते सुरमानुषाः ॥ २,७१.२६२ ॥

देवासुराहवहता असुरा ये महाबलाः ।
इहोत्पन्ना मनुष्येषु बाधन्ते ते तु मानवान् ॥ २,७१.२६३ ॥

तेषामुत्सादनार्थाय उत्पन्ना यादवे कुले ।
समुत्पन्नं कुलशतं यादवानां महात्मनाम् ॥ २,७१.२६४ ॥

इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः ।
कीर्त्तिता कीर्त्तनीया स कीर्त्तिसिद्धिमभीप्सता ॥ २,७१.२६५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमोऽध्यायः ॥ ७१॥

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ७२

ब्रह्माण्ड पुराण । (सूत उवाच



मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत।
संकर्षणो वासुदेवः प्रद्युम्नः सांब एव च॥२,७२.१॥


अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः।
सप्तर्ष्यः कुबेरश्च यज्ञे मणिवरस्तथा॥२,७२.२॥


शालूकिर्नारदश्चैव विद्वान्धन्वन्तरिश्तथा।
नन्दिनश्च महादेवः सालकायन एव च।
आदिदेव स्तदा विष्णुरेभिश्च सह दैवतैः॥२,७२.३॥


                  ऋषय ऊचुः
विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति।
भविष्याः कति चान्ये च प्रादुर्भावा महात्मनः॥२,७२.४॥


ब्रह्मक्षत्रेषु शस्तेषु किमर्थमिह जायते।
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम्॥२,७२.५॥


विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः॥२,७२.६॥


श्रोतुमिच्छामहे सम्यग्वद कृष्णस्य धीमतः।
कर्मणामानुपूर्वीं च प्रादुर्भावाश्च ये प्रभो॥२,७२.७॥


या वास्य प्रकृतिस्तात तां चास्मान्वक्तुमर्हसि।
कथं स भगवान्विष्णुः सुरेष्वरिनिषूदनः॥२,७२.८॥


वसुदेवकुले धीमान्वासुदेवत्वमागतः।
अमरैरावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम्॥२,७२.९॥


देवलोकं किमुत्सृज्य मर्त्यलोकमिहागतः।
देवमानुषयोर्नेता धातुर्यः प्रसवो हरिः॥२,७२.१०॥


किमर्थं दिव्यमात्मानं मानुष्ये समवेशयत्।
यश्चक्रं वर्त्तयत्येको मनुष्याणां मनोमयम्॥२,७२.११॥

______________________________________________
मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः।
गोपायन यः कुरुते जगतः सर्वकालिकम्॥२,७२.१२॥


स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः।
महाभूतानि भूतात्मा यो दधार चकार ह॥२,७२.१३॥

श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे स्तवसमाप्तिर्नाम द्विसप्ततितमोऽध्यायः॥७२॥

____________________________  
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया वृतः।
येन लोकान्क्रमैर्जित्वा सश्रीकास्त्रिदशाः कृताः॥२,७२.१४॥


स्थापिता जगतो मार्गास्त्रिक्रमं वपुराहृतम्।
ददौ जितां वसुमतीं सुराणां सुरसत्तमः॥२,७२.१५॥


येन सैंहं वपुः कृत्वा द्विधाकृत्वा च तत्पुनः।
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः॥२,७२.१६॥


यः पुरा ह्यनलो भूत्वा त्वौर्वः संवर्त्तको विभुः।
पातालस्थोर्ऽणवगतः पपौ तोयमयं हविः॥२,७२.१७॥


सहस्रचरणं देवं सहस्रांशुं सहस्रशः।
सहस्रशिरसं देवं यमाहुर्वै युगे युगे॥२,७२.१८॥


नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम्।
एकार्णवगते लोके तत्पङ्कजमपङ्कजम्॥२,७२.१९॥


येन ते निहता दैत्याः संग्रामे तारकामये।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः॥२,७२.२०॥


महाबलेन वोत्सिक्तः कालनेमिर्निपातितः।
उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः।
यः शेतेशश्वतं योगमाच्छाद्य तिमिरं महत्॥२,७२.२१॥


सुरारणीगर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरायम्।
शक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृशं चकार ह॥२,७२.२२॥


पदानि यो लोकपदानि कृत्वा चकार दैत्यान्सलिलेशयांस्तान्।
कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव॥२,७२.२३॥


गार्हपत्येन विधिना अन्वाहार्येण कर्मणा॥२,७२.२४॥


अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवम्।
प्रोक्षणीयं श्रुतं चैव आवभृथ्यं तथैव च॥२,७२.२५॥


अथर्षींश्चैव यश्चक्रे हव्यभागप्रदान्मखे।
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि।
भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि॥२,७२.२६॥


यूपान्समित्स्रुवं सोमं पवित्रं परिधीनपि।
यज्ञियानि च द्रव्याणि यज्ञियांश्च तथानलान्॥२,७२.२७॥


सदस्यान्यजमानांश्च ह्यश्वमेधान्क्रतुत्तमान्।
विचित्रान्राजसूयदीन्पारमेष्ठ्येन कर्मणा॥२,७२.२८॥


उद्गात्रादींश्च यः कृत्वा यज्ञांल्लोकाननुक्रमम्।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च॥२,७२.२९॥


मुहूर्त्तास्तिथयो मासा दिनं संवत्सरं तथा।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु॥२,७२.३०॥


आयुः क्षेत्राण्यथ बलं क्षणं यद्रूपसौष्ठवम्।
मेधावित्वं च शौर्यं च शास्त्रस्येव च पारणम्॥२,७२.३१॥


त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः।
त्रैकाल्यं त्रीणि कर्माणि तिस्रो मात्रा गुणास्त्रयः॥२,७२.३२॥


सृष्टा लोकेश्वराश्चैव येन येन च कर्मणा।
सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना॥२,७२.३३॥


क्षणं संधाय पूर्वेण योगेन रमते च यः।
गतागतानां यो नेता सर्वत्र विविधेश्वरः॥२,७२.३४॥


यो गतिर्द्धर्मयुक्तानामगतिः पापकर्मणाम्।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता॥२,७२.३५॥


चातुर्विद्यस्य यो वेत्ता चातुराशम्यसंश्रयः।
दिगन्तरं नभो भूमिरापो वायुर्विभावसुः॥२,७२.३६॥


चन्द्रसूर्यद्वयं ज्योतिर्युगेशाः क्षणदाचराः।
यः परं श्रुयते देवो यः परं श्रूयते तपः॥२,७२.३७॥


यः परं तमसः प्राहुर्यः परं परमात्मवान्।
आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः॥२,७२.३८॥


युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः।
सेतुर्यो लोकसेतूनां मेधो यो मध्यकर्मणाम्॥२,७२.३९॥


वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम्।
सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम्॥२,७२.४०॥


मनुष्याणां मनुर्भूतस्तपोभूतस्तपस्विनाम्।
विनयो नयतृप्तानां तेजस्तेजस्विनामपि॥२,७२.४१॥


विग्रहो विग्रहाणां यो गतिर्गतिमतामपि।
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः॥२,७२.४२॥


देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः।
रसाच्छोणितसंभूतिः शोणितान्मासमुच्यते॥२,७२.४३॥


मांसात्त मेदसो जन्म मेदसोऽस्थि निरुच्यते।
अस्य्नो मज्जा समभवन्मज्जातः शुक्रसंभवः॥२,७२.४४॥


शुक्राद्गर्भः समाभव द्रसमूलेन कर्मणा।
तत्रापां प्रथमावापः स सौम्यो राशिरुच्यते॥२,७२.४५॥


गर्भोऽश्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते।
शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम्॥२,७२.४६॥


भावौ रसानुगावेतौ वीर्ये च शशिपावकौ।
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम्॥२,७२.४७॥


कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम्।
देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम्॥२,७२.४८॥


नाभिश्चोदर संस्था तु तत्र देवो हुताशनः।
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते॥२,७२.४९॥


पित्तमग्निः स्मृतो ह्येतदग्नीषोमात्मकं जगत्।
एवं प्रवर्त्तिते गर्भे वृत्ते कर्कन्धुसंनिभे॥२,७२.५०॥


वायुः प्रवेशनं चक्रे संगतः परमात्मना।
स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत्पुनः॥२,७२.५१॥


प्राणापानौ समानश्च ह्युदानो व्यान एव च।
प्राणोऽस्य परमात्मानं वर्द्धयन्परिवर्त्तते॥२,७२.५२॥


अपानः पश्चिमं कायमु दानोऽर्द्धं शरीरिणः।
व्यानो व्यानीयते येन समानः सर्वसंधिषु॥२,७२.५३॥


भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥२,७२.५४॥


सर्वेद्रियनिविष्टास्ते स्वस्वयोगं प्रचक्रिरे।
पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम्॥२,७२.५५॥


छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्त्तते।
ज्योतिश्चक्षुषि कोष्ठोऽस्मात्तेषां यन्नामतः स्मृतम्॥२,७२.५६॥


संग्राह्य विषयांश्चैव यस्य वीर्यात्प्रवर्तिताः।
इत्येतान्पुरुषः सर्वान्सृजत्येकः सनातनः॥२,७२.५७॥


नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः।
एष नः संशयो धीमन्नेष वै विस्मयो महान्॥२,७२.५८॥


कथं गतिर्गतिमतामापन्नो मानुषीं तनुम्।
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम्॥२,७२.५९॥


आश्चर्यं परमं विष्णुर्वेदैर्देवश्चै कथ्यते।
विष्णोरुत्पत्तिमाश्चय कथयस्व महामते॥२,७२.६०॥


एतदाश्चर्यमाख्यातं कथ्यतां वै सुखावहम्।
प्रख्यातबलवीर्यस्य प्रादुर्भावन्महात्मनः।
कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यते॥२,७२.६१॥


                  सूत उवाच
अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः॥२,७२.६२॥


यथा बभूव भगवान्मानुषेषु महातपाः।
भृगुस्त्रीवधदोषेण भृगुशापेन मानुषे॥२,७२.६३॥


जायते च युगान्तेषु देवकार्यार्थसिद्धये।
तस्य दिव्यां तनुं विष्णोर्गदतो मे निबोधत॥२,७२.६४॥


युगधर्मे परावृत्ते काले च शिथिले प्रभुः।
कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह।
भृगोः शापनिमित्तेन देवासुरकृतेन च॥२,७२.६५॥


                      ऋषय ऊचुः
कथं देवासुरकृते तद्व्याहारमवाप्तवान्।
एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम्॥२,७२.६६॥


                        सूत उवाच
देवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत॥२,७२.६७॥


हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति।
बलिनाधिष्ठितं राज्यं पुनर्लोकत्रये क्रमात्॥२,७२.६८॥


सख्यमासीत्परं तेषां देवानामसुरैः सह।
युगाख्या दश संपूर्णा ह्यासीदव्याहतं जगत्॥२,७२.६९॥


निदेशस्थायिनश्चैव तयोर्देवासुराभवन्।
बद्धे बलौ विवादोऽथ संप्रवृत्तः सुदारुणः॥२,७२.७०॥


देवासुराणां च तदा घोरः क्षयकरो महान्।
तेषां द्वीपनिमित्तं वै संग्रामा बहवोऽभवेन्॥२,७२.७१॥


वराहेऽस्मिन्दश द्वौ च षण्डामर्कान्तगाः स्मृताः।
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः॥२,७२.७२॥


प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः।
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्थनः॥२,७२.७३॥


संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः।
षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः॥२,७२.७४॥


अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः।
वार्त्रश्च दशमो घोरस्ततो हालाहलः स्मृतः॥२,७२.७५॥


स्मृतो द्वादशकस्तेषां घोरः कोलाहलोऽपरः।
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः॥२,७२.७६॥


वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे कृते।
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे च दैवते॥२,७२.७७॥


महाबलो महासत्त्वः संग्रामेष्वपराजितः।
दंष्ट्रया तु वराहेण स दैत्यस्तु द्विधाकृतः॥२,७२.७८॥


प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने।
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः॥२,७२.७९॥


इन्द्रेणैव स विक्रम्य निहतस्तारकामये।
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः॥२,७२.८०॥


स जंभो निहतः षष्ठे शक्राविष्टेन विष्णुना।
अशक्नुवत्सु देवेषु परं सोढुमदैवतम्॥२,७२.८१॥


निहता दानवाः सर्वे त्रिपुरे त्र्यंबकेण तु।
अथ दैत्याः सुराश्चैव राक्षसास्त्वन्धकारिके॥२,७२.८२॥


जिता देवमनुष्येस्ते पितृभिश्चैव संगताः।
सवृत्रान्दानवांश्चैव संगतान्कृत्स्नशश्च तान्॥२,७२.८३॥


जघ्ने विष्णुसहायेन महेन्द्रस्तेन वर्द्धितः।
हतो ध्वजे महेन्द्रेण मयाछत्रश्च योगवित्॥२,७२.८४॥


ध्वजलक्षं समाविश्य विप्रचित्तिः महानुजः।
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान्॥२,७२.८५॥


जयद्धालाहले सर्वैर्देवैः परिवृतो वृषा।
रजिः कोलाहले सर्वान्दैत्यान्परिवृतोऽजयत्॥२,७२.८६॥


यज्ञस्यावभृथे जित्वा षण्डामकारै तु दैवतैः।
एते देवासुरा वृत्ताः संग्रामा द्वादशैव तु॥२,७२.८७॥


सुरासुरक्षयकराः प्रजाना मशिवश्च ह।
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ॥२,७२.८८॥


तथा शतसहस्राणि ह्यधिकानि द्विसफतिः।
अशीतिश्च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत्॥२,७२.८९॥


पारंपर्येण राजा तु बलिर्वर्षार्बुधं पुनः।
षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च॥२,७२.९०॥


बले राज्याधिकारस्तु यावत्कालं बभूव ह।
प्रह्लादो निर्जितोऽभूच्च तावत्कालं सहासुरैः॥२,७२.९१॥


इन्द्रास्त्रयस्ते विख्याता ह्यसुराणां महौ जसः।
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल॥२,७२.९२॥


अशपत्तु ततः शुक्रो राष्ट्रं दशयुगं पुनः।
त्रैलोक्यमिदमव्यग्रं महेन्द्रो ह्यभ्ययाद्बलेः॥२,७२.९३॥


प्रह्लादस्य हृते तस्मिंस्त्रैलोक्ये कालपर्ययात्।
पर्यायेणैव संप्राप्तं त्रैलोक्यं पाकशासनम्॥२,७२.९४॥


ततोऽसुरान्परित्यज्य यज्ञो देवानुपागमत्।
यज्ञे देवानथ गते काव्यं ते ह्यसुरां ब्रुवन्॥२,७२.९५॥


किं तन्नो मिषतां राष्ट्रं त्यक्त्वा यज्ञः सुरान्गतः।
स्थातुं न शक्रुमो ह्यद्य प्रविशाम रसातलम्॥२,७२.९६॥


एवमुक्तोऽब्रवीदेतान्विषण्णः सांत्वयन्गिरा।
माभैष्ट धारयिष्यामि तेजसा स्वेन वः सुराः॥२,७२.९७॥


वृष्टिरोषधयश्चैव रसा वस्तु च यत्परम्।
कृत्स्नानि ह्यपि तिष्ठन्तु पापस्तेषां सुरेषु वै॥२,७२.९८॥


युष्मदर्थं प्रदास्यामि तत्सर्व धार्यते मया।
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता॥२,७२.९९॥


अमन्त्रयंस्तदा ते वै संविघ्ना विजिगीषया।
एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात्॥२,७२.१००॥


साधु गच्छामहे तूर्णं यावन्नाप्याययेत्तु तान्।
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे॥२,७२.१०१॥


ततो देवास्तु संरब्धा दानवानभिसृत्य वै।
जघ्नुस्तैर्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः॥२,७२.१०२॥


ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्।
समारक्षत संत्रस्तान्देवेभ्यस्तान्दितेः सुतान्॥२,७२.१०३॥


काव्यो दृष्ट्वा स्थितान्देवांस्तत्र दैवमचिन्तयत्।
तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन्॥२,७२.१०४॥


त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिःक्रमैः।
बलिर्बद्धो हतो जंभो निहतश्च विरोचनः॥२,७२.१०५॥


महासुरा द्वादशसु संग्रामेषु सुरैर्हताः।
तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः॥२,७२.१०६॥


किञ्चिच्छिष्टास्तु वै यूयं युद्धे स्वल्पे तु वै स्वयम्।
नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्॥२,७२.१०७॥


यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च।
अग्निमाप्याययेद्धोता मेत्रैरेष दहिष्यति॥२,७२.१०८॥


ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम्।
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः॥२,७२.१०९॥


यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने।
न वै देवा वाधिष्यन्ति यावदागमनं मम॥२,७२.११०॥


अप्रतीपांस्ततो मन्त्रान्देवात्प्राप्य महेश्वरात्।
योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम्॥२,७२.१११॥


ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः।
न्यस्तशस्त्रा वयं सर्वे लोकान्यूयं क्रमन्तु वै॥२,७२.११२॥


वयं तपश्चरिष्यामः संवृत्ता वल्कलैर्वने।
प्रह्लादस्य वचः श्रुत्वा सत्यानुव्याहृतं तु तत्॥२,७२.११३॥


ततो देवा न्यवर्त्तन्त विज्वरा मुदिताश्च ह।
न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जग्मुर्यथागतान्॥२,७२.११४॥


ततस्तानब्रवीत्काव्यः कञ्चित्कालं प्रतीक्ष्यताम्।
निरुत्सुकास्तपोयुक्ताः कालः कार्यार्थसाधकः॥२,७२.११५॥


पितुर्ममाश्रमस्था वै संप्रतीक्षत दानवाः।
स संदिश्यसुरान्काव्यो महोदेवं प्रपद्य च॥२,७२.११६॥


प्रणम्यैवमुवाचायं जगत्प्रभवमीश्वरम्।
मन्त्रानिच्छामि हे देव ये न संति बृहस्पतौ॥२,७२.११७॥


पराभवाय देवानामसुरेष्वभयावहान्।
एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज॥२,७२.११८॥


व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः।
पूर्मं वर्षसहस्रं वै कुण्डधूममवाक्शिराः॥२,७२.११९॥


यदि पास्यति भद्रं ते मत्तो मन्त्रमवाप्स्यसि।
तथोक्तो देवदेवेन स शुक्रस्तु महातपाः॥२,७२.१२०॥


पादौ संस्पृश्य देवस्य बाढमित्यभाषत।
व्रतं चराम्यहं देव यथोद्दिष्टोऽस्मि वैप्रभो॥२,७२.१२१॥


ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत्।
असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा॥२,७२.१२२॥


मन्त्रार्थं तत्र वसति ब्रह्म चर्यं महेश्वरे।
तद्बुद्ध्वा नीतिपूर्वं तु राष्ट्रं न्यस्तं तदासुरैः॥२,७२.१२३॥


तस्मिञ्छिद्रे तदामर्षाद्देवास्तान्समभिद्रवन्।
प्रगृहीतायुधाः सर्वे बृहस्पतिपुरोगमाः॥२,७२.१२४॥


दृष्ट्वासुरगणा देवान्प्रगृहीतायुधान्पुनः।
उत्पेतुः सहसा सर्वे संत्रस्तास्ते ततोऽभवन्॥२,७२.१२५॥


न्यस्ते शस्त्रेऽभये दत्ते ह्याचार्ये व्रतमास्थिते।
संत्यज्य समयं देवास्ते सपत्नजिघांसवः॥२,७२.१२६॥


अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसे स्थिताः।
चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः॥२,७२.१२७॥


रणे विजेतुं देवान्वै न शक्ष्यामः कथञ्चन।
अयुद्धेन प्रपद्यामः शरणं काव्यमातरम्॥२,७२.१२८॥


प्रापद्यन्त ततो भीतास्तया चैव तदाभयम्।
दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम्॥२,७२.१२९॥


तया चाभ्युपपन्नांस्तान्दृष्ट्वा देवास्तदासुरान्।
अभिजघ्नुः प्रसह्यैतान्विचार्य च बलाबलम्॥२,७२.१३०॥


तत स्तान्वध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा।
देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम्॥२,७२.१३१॥


संस्तभ्य शीघ्रं संरंभादिन्द्रं साभ्यचरत्ततः।
ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु मूढवत्॥२,७२.१३२॥


व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम्।
गतेषु सुरसंघेषु विष्मुरिन्द्रमभाषत॥२,७२.१३३॥


मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर।
एवमुक्तस्ततो विष्णुः प्रविवेश पुरन्दरः॥२,७२.१३४॥


विष्मुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत्।
एषा त्वां विष्णुना सार्द्ध दहामि मघवन्बलात्॥२,७२.१३५॥


मिषता सर्वभूतानां दृश्यतां मे तपोबलम्।
तयाभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः॥२,७२.१३६॥


कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत।
इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नो न दहे द्विभो॥२,७२.१३७॥


विशेषेणाभिभूतोऽहमिमां तज्जहि माचिरम्।
ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः॥२,७२.१३८॥


अभिध्याय ततश्शक्रमापन्नं सत्वरं प्रभुः।
तस्याः संत्वरमाणायाः शीघ्रङ्कारी मुरारिहा॥२,७२.१३९॥


त्रिधा विष्णुस्ततो देवः क्रूरं बुद्ध्वा चिकीर्षितम्।
क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः॥२,७२.१४०॥


तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः।
ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा॥२,७२.१४१॥


यस्मात्ते जानता धर्ममवध्या स्त्री निषूदिता।
तस्मात्त्वं सप्तकृत्वो वै मनुष्येषु प्रपद्यसे॥२,७२.१४२॥


ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः।
सर्वलोक हितार्थाय जायते मानुषेष्विह॥२,७२.१४३॥


अनुव्याहृत्य विष्मुं स तदादाय शिरः स्वयम्।
समानीय ततः काये समायोज्येदमब्रवीत्॥२,७२.१४४॥


एतां त्वां विष्णुना सत्यं हतां संजीवयाम्यहम्।
यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा॥२,७२.१४५॥


तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम्।
सत्याभिव्यहृतात्तस्य देवी संजीविता तदा॥२,७२.१४६॥


तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत्।
ततस्तां सर्वभूतानां दृष्ट्वा सुप्तोत्थितामिव॥२,७२.१४७॥


साधुसाध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः।
दृष्ट्वा संजीवितामेवं देवीं तां भृगुणा तदा॥२,७२.१४८॥


मिषतां सर्वभूतानां तदद्भुतमिवाभवत्।
असंभ्रान्तेन भृगुणा पत्नी संजीवितां ततः॥२,७२.१४९॥


दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः।
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्॥२,७२.१५०॥


प्रोवाच मतिमान्वाक्यं स्वां कन्यां पाकशासनः।
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः॥२,७२.१५१॥


तेनाहं व्याकुलः पुत्रि कृतो धृतिमना दृढम्।
गच्छ संभावयस्वैनं श्रमापनयनैः शुभे॥२,७२.१५२॥


तैस्तैर्मनोऽनुकूलैश्च ह्युपचारैरतद्रिता।
देवी सारीन्द्रदुहिता जयन्ती शुभचारिणी॥२,७२.१५३॥


सुस्वरूपधरागात्तं दुर्वहं व्रतमास्थितम्।
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा॥२,७२.१५४॥


गीर्भिश्चैवानुकूलाभिः स्तुवन्ती वल्गुभाषिणी।
गात्रसंवाहनैः काले सेवमाना त्वचासुखैः॥२,७२.१५५॥


शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः।
पूर्णं धूमव्रते चापि घोरे वर्षसहस्रके॥२,७२.१५६॥


वरेण च्छन्दयामास काव्यं प्रीतोऽभवस्तदा।
एवं व्रतं त्वयैकेन चीर्णं नान्येन केन चित्॥२,७२.१५७॥


तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च।
तेजसा वापि विबुधान्सर्वानभिभविष्यसि॥२,७२.१५८॥


यच्च किञ्चिन्ममब्रह्म विद्यते भृगुनन्दन।
सांग च सरहस्यं च यज्ञोपनिषदस्तथा॥२,७२.१५९॥


प्रतिभाति ते सर्वं तद्वाच्यं तु न कस्यचित्।
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि॥२,७२.१६०॥


एवं दत्त्वा वरं तस्यै भार्गवाय भवः पुनः।
प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ॥२,७२.१६१॥


एतांल्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः।
हर्षात्प्रादुर्बभौ तस्य दिव्यं स्तोत्रं महेशितुः॥२,७२.१६२॥


तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम्।
नमोऽस्तु शितिकण्ठाय सुराद्याय सुवर्चसे॥२,७२.१६३॥


लेलिहानाय लेह्याय वत्सराय जगत्पते।
कपर्दिने ह्यूर्द्ध्वरोम्णे हर्यक्षवरदाय च॥२,७२.१६४॥


संस्तुताय सुतीर्थाय देवदेवाय रंहसे।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥२,७२.१६५॥


वसुरेताय रुद्राय तपसे चीरवाससे।
निस्वाय मुक्तकेशाय सेनान्ये रोहिताय च॥२,७२.१६६॥


कवये राजवृद्धाय तक्षकक्रीडनाय च।
गिरिशायार्कनेत्राय यतये चाज्यपाय च॥२,७२.१६७॥


सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च।
सहस्रबाहवे चैव सहस्रामलचक्षुषे॥२,७२.१६८॥


सहस्रकुक्षये चैव सहस्रचरणाय च।
सहस्रशिरसे चैव बहुरूपाय वेधसे॥२,७२.१६९॥


भवाय विश्वरूपाय श्वेताय पुरुषाय च।
निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च॥२,७२.१७०॥


ताम्राय चैव भीमाय उग्राय च शिवाय च।
महादेवाय सर्वाय विश्वरूपशिवाय च॥२,७२.१७१॥


हिरण्याय वसिष्ठाय वर्षाय मध्यमाय च।
धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च॥२,७२.१७२॥


पिनाकिने चेषुमते चित्राय रोहिताय च।
दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा।
मृगव्याधाय सर्वाय स्थाणवे भीषणाय च॥२,७२.१७३॥


बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च।
कपिलोयैकवीराय मृत्यवे त्र्यंबकाय च॥२,७२.१७४॥


वास्तोष्पते पिनाकाय शङ्कराय शिवाय च।
आरण्याय गृहस्थाय यतिने बह्मचारिणे॥२,७२.१७५॥


सांख्याय चैव योगाय ध्यानिने दीक्षिताय च।
अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा॥२,७२.१७६॥

__________________________________

                      बुद्ध स्तुति-
बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च।
रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये॥२,७२.१७७॥


चतुष्पादाय मेध्याय वर्मिणे शीघ्रगाय च।
शिखण्डिने कपालाय दण्डिने विश्वमेधसे॥२,७२.१७८॥


अप्रतीताय दीप्ताय भास्कराय सुमेधसे।
क्रूराय विकृतायैव बीभत्साय शिवाय च॥२,७२.१७९॥


शुचये परिधानाय सद्योजाताय मृत्यवे।
पिशिताशाय शर्वाय मेघाय वैद्युताय च॥२,७२.१८०॥


दक्षाय च जघन्याय लोकानामीश्वराय च।
अनामयाय चेध्माय हिरण्यायैकचक्षुषे॥२,७२.१८१॥


श्रेष्ठाय वामदेवाय ईशानाय च धीमते।
महाकल्पाय दीप्ताय रोदनाय हसाय च॥२,७२.१८२॥


दृढधन्विने कवचिने रथिने च वरूथिने।
भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते॥२,७२.१८३॥


अमोघाय प्रशान्ताय सदा विप्रप्रियाय च।
दिग्वासः कृत्तिवासाय भगघ्नाय नमोऽस्तु ते॥२,७२.१८४॥


पशूनां पतये चैव भूतानां पतये नमः।
प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च॥२,७२.१८५॥


वषट्कारतमायैव तुभ्यं मन्त्रात्मने नमः।
स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च॥२,७२.१८६॥


भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः।
वसवे चैव साध्याय रुद्रादित्याश्विनाय च॥२,७२.१८७॥


विश्वाय मरुते चैव तुभ्यं देवात्मने नमः।
अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च॥२,७२.१८८॥


दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः।
तपसे चैव सत्याय त्यागाय च शमाय च॥२,७२.१८९॥


अहिंसायाथ लोभाय सुवेषायानिशाय च।
सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः॥२,७२.१९०॥


पृथिव्यै चान्तरिक्षाय महासे त्रिदिवाय च।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः॥२,७२.१९१॥


अव्यक्तायाथ महते भूतायैवेन्द्रियाय च।
तन्मात्रायाथ महते तुभ्यं तत्त्वात्मने नमः॥२,७२.१९२॥


नित्याय चाप्यलिङ्गाय सूक्ष्माय चेतराय च।
शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः॥२,७२.१९३॥


नमस्ते त्रिषु लोकेषु स्वरन्तेषु भुवादिषु।
सत्यान्तमहराद्येषु चतुर्षु च नमोऽस्तु ते॥२,७२.१९४॥


इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे स्तवसमाप्तिर्नाम द्विसप्ततितमोऽध्यायः॥७२॥
महापुराणे

                । रोमहर्षण उवाच ।
ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् ।
तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ।।२२.१

आयुर्मायुरमायुश्चर्विश्वायुश्चैव वीर्यवान् ।
शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ।। २२.२

आयुषस्तनया वीराः पञ्चैवासन् महौजसः ।
स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ।। २२.३

नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।। २२.४

उत्पन्नाः पितृकन्यायां विरजायां महाबलाः ।
यतिर्ययातिः संयातिरायातिः पञ्चकोऽश्वकः ।। २२.५

तेषां ययातिः पञ्चानां महाबलपराक्रमः ।
देवयानीमुशनसः सुतां भार्यामवाप सः ।२०.६

शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।२०.७

द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् ।
सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम् ।२२.८

पुरुमेव कनीयांसं पितुर्वचनपालकम् ।।
दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ।२२.९
______________

दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् ।
प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ।। २२.१०


तैरियं पृथिवी सर्वा धर्मतः परिपालिता ।
राजाऽपि दारसहितो नवं प्राप महायशाः ।। २२.११

यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः ।
सहस्त्रजित् तथाज्येष्ठः क्रोषटुर्नीलोऽजिनोरघुः ।। २२.१२

सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः ।
सुताः शतजितोऽप्यासंस्त्रयः परमधार्मिकाः ।। २२.१३

हैहयश्च हयश्चैव राजा वेणुहयश्च यः।
हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ।। २२.१४

तस्य पुत्रोऽभवद् विप्रा धर्मनेत्रः प्रतापवान् ।
धर्मनेत्रस्य कीर्त्तिस्तु संजितस्तत्सुतोऽभवत् ।। २२.१५

महिष्मान् संजितस्याभूद् भद्रश्रेण्यस्तदन्वयः ।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ।। २२.१६

दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् ।
अन्धकस्य तु दायादाश्चत्वारो लोकसम्मताः ।। २२.१७

कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ।
कृतौजाश्च चतुर्थोऽभूत् कार्त्तवीर्योऽर्जुनोऽभवत् ।। २२.१८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशोऽध्यायः।।

___________________

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें