शुक्रवार, 9 नवंबर 2018

घोर-आंगीरस

अङ्गिरसोऽपत्यम् अण् । १ अङ्गिरस ऋषेरपत्ये “अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः” मनुः । बहुत्वेऽणो लुक् । अङ्गिरसः स्त्रियां न लुक् ङीप् । “आथर्वणीराङ्गिरसीर्दैवोर्मनुष्यजाउत” अथ० ८, ५, ९ । २ वृहस्पतौ तस्य तदपत्यत्वम् भा० आ० प० ६६ अ० । “अङ्गिरसस्त्रयः पुत्राः लोके सर्व्वत्र विश्रुताः । वृहस्पतिरुतथ्यश्च संवर्त्तश्च धृतव्रतः” । अङ्गिरसा दृष्टम् अण् । अथर्ववेदोक्ते ३ सूक्तभेदे “अर्थर्घ्वाङ्गिरसं नीलरुद्रं देव्यपराजिता । मधु सूक्तं रौधसञ्च शान्तिकाध्यायमेव च । अथर्व्वाणौ द्वारपालौ पठेतामुत्तराश्रितौ” दानपारि० पुरा० । तच्च सूक्तं अथर्वसंह्रितायां १८, १, ५८, ५९, ६०, ६१ मन्त्र चतुष्कात्मकम्, “अङ्गिरसौ नः पितरः” इत्या- दिकम् । तच्च तुलादानादिपद्धतौ अस्माभिः १८५ पृ० दर्शितम् अङ्गिनामङ्गानां रसः सारः स्वार्थे अण् । ४ आत्मनि । “सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः” इति वृ० उ० । “आङ्गिरस आत्मा कार्य्यकरणानाम् कथमा- ङ्गिरसः! । प्रसिद्धं हि यदङ्गिनामङ्गानां रसत्वं तदपाये- शोषप्राप्तेरिति वक्ष्यामः यस्माच्चायमङ्गिरसत्वात् विशेषा- नाश्रयत्वाच्च कार्य्यकरणानां साधारण आत्मा विशुद्धश्च तस्माद् वागादीनपास्य प्राण एवात्मत्वेनांश्रयितव्य इति वाक्यार्थः” श० भा० ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें