गुरुवार, 8 अप्रैल 2021

वायुपुराण , मार्कण्डेय और हरिवंश पुराण में हैहयवंश के सहस्रबाहू पुरोहित गर्ग और भीष्मक पुरोहित शतानन्द और कंस के पुरोहित सान्दीपन का वर्णन..


वायुपुराणम्(उत्तरार्धम्) अध्यायः (३२)

← 

                 ।।सूर्य उवाच।।

यदोर्वंशं प्रवक्ष्यामि श्रेष्ठस्योत्तमतेजसः।
विस्तरेणानुपूर्व्येण गदतो मे निबोधत ।। ३२.१ ।।


_______


यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः।सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलो जितो लघुः ।। ३२.२ ।।


सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः।
सतजित्सुता विख्या तास्त्रयः परमधार्मिकाः। ३२.३।

हैहयश्च हयश्चैव राजा वेणुहयश्च यः।
हैहयस्य तु दायादो धर्म्मतत्त्व इति श्रुतिः ।३२.४ ।।

धर्म्मतन्त्रस्तु कीर्त्तिस्तु संज्ञेयस्तस्य चात्मजः।संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ।। ३२.५ ।।


आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्।वाराणस्यधिपो राजा कथितः पूर्व एव हि ।। ३२.६ ।।


भद्रश्रेण्यस्य दायादो दुर्मदो नाम पार्थिवः।दुर्मदस्य ततो धीमान् कन्को नाम विश्रुतः ।। ३२.७ ।।


कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः।कृत वीर्यः कार्तवीर्यः कृतवर्मा तथैव च ।। ३२.८ ।।


कृतो जातश्चतुर्थोऽभूत्कृतविर्यात्ततोऽर्जुनः।जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः।।३२.९।

______________________
स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम्।
दत्तमाराधयामास कार्त्तवीर्योऽत्रिसम्भवम् ।। ३२.१० ।।
___________
तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः।
पूर्व्वं बाहुसहस्रन्तु स वव्रे प्रथमं वरम् ।। ३२.११ ।।


अधर्म्मे दीयमानस्य सद्भिस्तस्मान्निवारणम्।
धर्म्मेण पृथिवीञ्जित्वा धर्म्मेणैवानुपालनम् ।। ३२.१२ ।।

संग्रामांस्तु बहून् जित्त्वा हत्वा चारीन् सहस्रशः।
संग्रामे युद्धयमानस्य वधः स्यादधिकाद्रणे ।। ३२.१३ ।।

तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना ।
सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ।। ३२.१४ ।।

तस्य बाहुसहस्रन्तु युद्ध्यतः किल धीमतः।
यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ।३२.१५।

दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु।
निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः।३२.१६।

सर्वे यज्ञा महाबाहोस्तस्यासन् भूरितेजसः।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः। ३२.१७।

सर्वे देवैर्म्माहाभागैर्विमानस्थैरलंकृताः।
गन्धर्व्वैरप्सरोभिश्च नित्यमेवोपशोभिताः।३२.१८।

तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा।
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च।३२.१९।

न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ।३२.२०।

द्वीपेषु सप्तसु स वै खड्गी वरशरासनी।
रथी राजाप्यनुचरोऽन्योऽगाच्चैवानुदृश्यते।३२.२१


अनष्टद्रव्यश्चैवासीन्न शोको न च विभ्रमः।
प्रभावेण महाराज्ञः प्रजा धर्म्मेण रक्षतः ।३२.२२।

"पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः।सप्त सप्त वारान् सम्राट् चक्रवर्त्ती बभूव ह ।। ३२.२३ ।।

____________________________

स एव पशुपालोऽभूत् क्षेत्रपालस्तथैव च।स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत् ।। ३२.२४ ।।


स वै बाहुसहस्रेण ज्याघातकठिनेन च ।
भाति रश्मिसहस्रेण शारदेनेव भास्करः।३२.२५।

स हि नागसहस्रेण माहिष्मत्यां नराधिपः।
कर्कोटकसभाञ्जित्वा पुरीं तत्र न्यवेशयत् ।। ३२.२६ ।

स वै वेगे समुद्रस्य प्रावृट्कालाम्बुजेक्षणः ।
क्रीडन्निव सुखोद्विग्नः प्रावृट्कालञ्चकार ह । ३२.२७ ।

लुलिता क्रीडता तेन हेमस्रग्दाममालिनी।
ऊर्म्मिभ्रूकुटिसन्नादा शङ्किताभ्येति नर्मदा । ३२.२८ ।।

पुरा स तामनुसरन्नवगाढो महार्णवम्।
चकारोद्धृत्त्य वेलान्तं स कालः प्रावृणोद्वनम् । ३२.२९ ।।

तस्य बाहु सहस्रेण क्षोभ्यमाणे महादधौ।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः।३२.३० ।।

चूर्णीकृतमहावीचिलीनमीनमहाविषाः।
पतिता विद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ।३२.३१।

चकार क्षोभयन्राजा दोःसहस्रेण सागरम्।
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ।३२.३२।

मन्दरक्षोभणकृता ह्यमृतोदकशङ्कि ताः।
सहसोत्पादिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।३२.३३।।

नतनिश्चलमूर्द्धानो बभूवुश्च महोरगाः।
सायाह्ने कदलीषण्डा निर्वातस्तिमिता इव।३२.३४।

स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चभिः शतैः।

 लङ्कायां मोहयित्वा तु सबलं रावणं बलात्। निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध तम् ।। ३२.३५ ।।


ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत्।
मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ।। ३२.३६ ।।

तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः।
युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव।३२.३७।


अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिनत्।
मृधे सहस्रं बाहूनां हेमतालवनं यथा ।। ३२.३८ ।।

तृषितेन कदाचित्स भिक्षितश्चित्रभानुना।
सप्त द्वीपांश्चित्रभानोः प्रादाद्भिक्षां विशाम्पतिः।३२.३९ ।।

पुराणि घोषान् ग्रामांश्च पत्तनानि च सर्व्वशः।।
जज्वाल तस्य बाणेषु चित्रभानुर्दिधक्षया ।। ३२.४० ।।

स तस्य पुरुषेन्द्रस्य प्रभावेण महायशाः।
ददाह कार्तवीर्यस्य शैलांश्चापि वनानि च ।। ३२.४१ ।।

स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै।
ददोह सवनद्वीपांश्चित्रभानुः सहैहयः ।। ३२.४२ ।।

संलेभे वरुणः पुत्रं पुरा भास्विनमुत्तमम्।
वसिष्ठनामा स मुनिः ख्यातश्चापः श्रितः श्रुतः।। ३२.४३ ।।

तत्रापदस्तदा क्रोधादर्जुनं शप्तवान्विभुः।
यस्मान्न वर्जितमिदं वनं ते मम हैहय ।। ३२.४४ ।।

तस्मात् ते दुष्करं कर्म्म कृतमन्यो हनिष्यति।
अर्जुनो नाम कौन्तेयो न च राजा भविष्यति ।। ३२.४५ ।।

अर्जुन त्वां महावीर्यो रामः प्रहरतां वरः।
छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बलीं ।। ३२.४६ ।।

तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः।
तस्य रामस्तदा ह्यासीन्मृत्युशापेन धीमतः ।। ३२.४७ ।।

राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा।
तस्य पुत्रशतं ह्यासीत् पञ्च तत्र महारथाः ।। ३२.४८ ।।

कृतास्त्रा बलिनः शूरा धर्म्मात्मानो यशस्वनः ।
शूरश्च शूरसेनश्च वृष्ट्याद्यं वृष एव च ।। ३२.४९ ।।

जयध्वजश्च वै पुत्रा अवन्तिषु विशांपतेः।
जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ।। ३२.५० ।।

तस्य पुत्रशतं ह्येव तालजङ्घा इति श्रुतम्।
तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ।३२.५१ ।


वीरहोत्रा ह्यसङ्ख्याता भोजाश्चावर्तयस्तथा।
तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ।३२.५२ ।।

वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः।
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ।३२.५३ ।।

अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह।
प्रभावेण महाराजः प्रजास्ताः पर्य्यपालयत् । ३२.५४ ।।

न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः।
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः।३२.५५।

वित्तवान् भवत्यत्रैव धर्म्मश्चास्य विवर्द्धते।
यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ।। ३२.५६ ।।
________________________________
इति श्रीमहापुराणे वायुप्रोक्ते कार्त्तवीर्य्यार्जुनोत्पत्तिविवरणं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।


                     ।।सूत उवाच।।
सात्वती रूपसम्पन्नं कौशल्या सुषुवे सुतम्।
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ।३४.१ ।

अन्धकञ्च सहाभोजं वृष्णिञ्च यदुनन्दनम्।
तेषां हि सर्गाश्चत्वारः श्रृणुध्वं विस्तरेण वै।३४.२।

भजमानस्य श्रृञ्जय्यां बाह्यश्चोपरि बाह्यकः।
श्रृञ्जयस्य सुते द्वे तु बाह्यकस्ते उदावहत् ।३४.३।

तस्य भार्ये भगिन्यौ ते प्रासूतेति सुतान् बहून्।
निमिश्च पणवश्चैव वृष्णिः परपुरञ्जयः ।। ३४.४ ।।

ये बाह्यकार्य्यश्रृञ्जय्यां भजमानाद्विजज्ञिरे।
अयुतायुतसाहस्र शतजिदथ वामकः ।। ३४.५ ।।

बाह्यकार्य्याभगिन्यां ये भजमाना द्विजज्ञिरे।
तेषां देवावृधो राजा चचार परमं तपः ।। ३४.६ ।।

पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह।
संयोज्यात्मानमेवं सवर्णा सा जलमस्पृशत् ।। ३४.७ ।।

सा चोपस्पर्शनात्तस्य चकार ऋषिमापगा।
कल्याणञ्च नरपतेस्तस्य सा निम्नगोत्तमा ।३४.८।

चिन्तयाभिपरीताङ्गा जगामाथ विनिश्चयम्।
नाधिगच्छामि तां नारीं यस्यामेवंविधः सुतः ।। ३४.९ ।।

भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता।
जज्ञे तस्याः स्वयं हस्तो भावस्तस्य यथेरितः। ३४.१० ।।

अथ भूत्वा कुमारी तु सावित्री परमं वचः।
चिन्तयामास राजानं तामियेष स पर्थिवः ।। ३४.११ ।।

तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः।
अथ सा नवमे मासि सुषुवे सरितांवरा।३४.१२ ।।

पुत्रं सर्वगुणोपेतं यथा देवावृधेप्सितः।
तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः। ३४.१३ ।।

गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।
यथैव श्रृणुते दूरात् संपश्यति तथान्तिकात् ।। ३४.१४ ।।

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः।
येऽमृतत्वमनुप्राप्ता बभ्रुर्देवावृधादपि ।३४.१५।

यज्वा दानपतिर्वीरो ब्रह्मण्यः सत्य वाग् बुधः।
कीर्त्तिमांश्च महाभागः सात्त्वतानां महारथः ।। ३४.१६ ।।

तस्यान्ववाये सुमहाभोजयेमार्तिकावलाः।गान्धारी चैव माद्री च वृष्णेर्भार्य्ये बभूवतुः ।। ३४.१७ ।।

गान्धारी जनयामास सुमित्रं मित्रनन्दनम्।

माद्री युधाजितं पुत्रं सा तु वै देवमीढुषम् ।। ३४.१८ ।।

अनमित्रं सुतञ्चैव तावुभौ पुरुषोत्तमौ।अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ।। ३४.१९ ।।


प्रसेनश्च महाभागः शक्रजिच्च सुतावुभौ।
तस्य शक्रजितः पूर्वः सखा प्राणसमोऽभवत् ।३४.२० ।।

स कदाचिन्निशापाये रथेन रथिनांवरः।
तोयकूलादपः स्प्रष्टुमुपस्थातुं ययौ रविम् ।। ३४.२१ ।।

तस्योपतिष्ठतः सूर्यो विवस्वानग्रतः स्थितः।
अस्पष्टमूर्तिर्भगवां स्तेजोमण्डलवान् विभुः ।। ३४.२२ ।।

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषाम्पते ।।३४.२३ ।।

तेजोमण्डलिनञ्चैव तथैवाप्यग्रतः स्थितम्।
को विशेषो विवस्वंस्ते साक्षादुपगतेन वै ।। ३४.२४ ।।

एतच्छ्रुत्वा स भगवान् मणिरत्नं स्यमन्तकम्।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ।३४.२५।

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा।
प्रतिमामथ तां दृष्ट्वा मुहूर्त्तं कृतवांस्तथा ।। ३४.२६ ।।

तमतिप्रस्थितं भूयो विवस्वन्तं स शक्रजित्।
प्रोवाचाग्निसवर्णं त्वं येन लोकान् प्रयास्यति।
तदैव मणिरत्नं तन्मां भवान् दातुमर्हति ।।३४.२७।

स्यमन्तकं नाम मणिं दत्तवांस्तस्य भास्करः।
स तमाबद्ध्य नगरं प्रविवेश महीपतिः ।। ३४.२८।

तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह।
सभां विस्माययित्वाथ पुरीमन्तःपुरं तथा ।। ३४.२९ ।।

तं प्रसेनिजिते दिव्यं मणिरत्नं स्यमन्तकम्।
ददौ भ्रात्रे नरपतिः प्रेम्णा शक्रजिदुत्तमम् ।। ३४.३० ।।

स्यमन्तको नाम मणिर्यस्य राष्ट्रे स्थितो भेवत् ।
कालवर्षी च पर्जन्यो न च व्याधिभयं तदा ।। ३४.३१ ।।

लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम्।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ।। ३४.३२ ।।

कदा चिन्मृगयां यातः प्रसेनस्तेन भूषितः।
स्यमन्तककृते सिंहाद्वधं प्राप्तः सुदारुणम् ।। ३४.३३ ।।

जाम्बवानृक्षराजस्तु तं सिंहं निजघान वै ।
आदाय च मणिं दिव्यं स्वं बिलं प्रविवेश ह ।। ३४.३४ ।।

तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः।
मणौगृध्नुन्तु मन्वानास्तमेव विशशङ्किरे ।। ३४.३५ ।।

मिथ्याभिशस्तिं तेभ्यस्तां बलवानरिसूदनः।
अमृष्यमाणो भगवान् वनं स विचचार ह ।। ३४.३६ ।।

स तु प्रसेनमृगयामचरत्तत्र चाप्यथ।
प्रसेनस्य पदं गृह्य पुरुषै राप्तकारिभिः ।।३४.३७।

ऋक्षवन्तं गिरिवरं विन्ध्यञ्च नगमुत्तमम्।
अन्वेषणपरिश्रान्तः स ददर्श महामनाः ।। ३४.३८।

साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम्।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः।३४.३९।।

ऋक्षेण निहतो दृष्टः पादैऋक्षस्य सूचिताम्।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ।। ३४.४० ।।

महत्यतिबिले वाणीं शुश्राव प्रमदेरिताम्।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः।
प्रीतिमत्याथ मणिना मारोदीरित्युदीरिताम् ।। ३४.४१ ।।

               ।।धात्र्युवाच।।
प्रसेनमवधीत् सिंहः सिंहो जाम्बवता हतः।
सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः।३४.४२।

व्यक्तीकृतञ्च शब्दं तं तूर्णं सोऽपि ययौ बिलम्।
अपश्यच्च विलाभ्याशे प्रसेनमवदारितम्।३४.४३।

प्रविश्य चापि भगवास्तदृक्षबिलमञ्जसा।
ददर्श ऋक्षराजानं जाम्बवन्तमुदारधीः।३४.४४ ।

युयुधे वासुदेवस्तु बिले जाम्बवता सह।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् । ३४.४५।

प्रविष्टे च बिलं कृष्णे वासुदेव पुरःसराः ।
पुनर्द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ।३४.४६ ।

वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम्।
लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ।। ३४.४७ ।।

भगवत्तेजसा ग्रस्तो जाम्बवान् प्रसभं मणिम्।
सुतां जाम्बवतीमाशु विष्वक्सेनाय दत्तवान् । ३४.४८ ।।

मणिं स्यमन्तकं चैव जग्राहात्म विशुद्धये।
अनुनीय ऋक्षराजं निर्ययौ च तदा बिलात् ।। ३४.४९ ।।

एवं स मणिमादाय विशोद्ध्यात्मानमात्मना।
ददौ सत्राजिते तं वै मणिं सात्वतसन्निधौ ।३४.५०।

कन्यां पुनर्जाम्बवतीमुवाच मधुसूदनः।
तस्मान्मिथ्याभिशापात् स व्यमुच्यत जनार्दनः ।३४.५१ ।।

इमां मिथ्याभिशस्तिं यः कृष्णस्येह व्यपोहिताम्।
वेद मिथ्याभिशस्तेः स नाभिशस्यति कर्हिचित् ।३४.५२ ।।

दश स्वसृभ्यो भार्य्याभ्यः शत्रजित्तः शतं सुताः।
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्व्वजः।
वीरो व्रतपतिश्चैव ह्यपस्वान्तश्च सुप्रियः ।३४.५३।

अथ द्वारवती नाम भङ्गकारस्य सुप्रजा।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ।। ३४.५४ ।।

सत्य भामोत्तमा स्त्रीणां व्रतिनीव दृढव्रता।
तथा तपस्विनी चैव पिता कृष्णस्य तां ददौ । ३४.५५ ।।

यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्।
प्रादात्तदाहरद्रत्नं भोजेन शतधन्वना ।। ३४.५६ ।।

तदा हि प्रार्थयामास सत्यभामामनिन्दिताम्।
अक्रूरो रत्नमन्विच्छन् मणिञ्चैव स्यमन्तकम् ।३४.५७ ।।

भद्रकारं ततो हत्वा शतधन्वा महाबलः।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ।। ३४.५८ ।।

अक्रूरस्तु तदा रत्नमादाय स नरर्षभः।
समयं कारणं चक्रे बोध्यो नान्यैस्त्वयेत्युत ।। ३४.५९ ।।

वयमभ्युपपत्स्यामः कृष्णेन त्वं प्रधर्षितः।
मम च द्वारकाः सर्वा वशे तिष्टन्त्यसंशयम् ।। ३४.६० ।।

हते पितरि दुःशार्त्ता सत्यभामा यशस्विनी।
प्रययौ रथमारुह्य नगरं वारणावतम् ।। ३४.६१ ।।

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्तयत् ।। ३४.६२ ।।

पाण्डवानान्तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
तुल्यार्थे चैव भ्रातॄणां नियोजयति सात्यकिम् ।३४.६३ ।।

तत स्त्वरितमागम्य द्वारकां मधुसूदनः।
पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ।३४.६४



हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना।
स्यमन्तकमहं मार्गे तस्य प्रहर हे प्रभो ।३४.६५ ।।

तदारोह रथं शीघ्रं भोजं हत्वा महाबलम्।
स्यमन्तको महाबाहो तदास्माकं भविष्यति। ३४.६६ ।।

ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः।
शतधन्वा न चाक्रूरमवैक्षत् सर्वतो दिशि ।३४.६७।

अनष्टाश्वावरोहन्तु कृत्वा भोजजनार्दनौ।
शक्तोऽपि साध्याद्वार्द्धक्यान्नाक्रूरोऽभ्युपपद्यत।३४.६८ ।।

अपयाने ततो बुद्धिं भूयश्चक्रे भयान्वितः।
योजनानां शतं साग्रं यया च प्रत्यपद्यत।३४.६९ ।।

विज्ञातहृदया नाम शतयोजनगामिनी।
भोजस्य वढवादित्यो यया कृष्णमयोधयत् ।। ३४.७० ।।

प्रवृद्धवेगा वडवा त्वध्वनां शतयोजनम्।
दृष्टा रथगतिस्तस्य शतधन्वानमर्द्दयत् ।३४.७१ ।।

ततस्तस्य हयास्ते तु श्रमात् खेदाच्च वै द्विजाः।
खमुत्पेतू रथप्राणाः कृष्णो राममथाब्रवीत् ।। ३४.७२ ।।

तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयाः।
पद्य्भां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ।३४.७३ ।।

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः।
मिथिलाधिपतिं तं वै जघान परमास्त्रवित् ।। ३४.७४ ।।

स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम्।
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ।। ३४.७५ ।।

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः।
धिक्छब्दमसकृत् पूर्व्वं प्रत्युवाच जनार्द्दनम् ।। ३४.७६ ।।

भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्।
कृत्यं न मे द्रारकया न त्वया न च वृष्णिभिः ।। ३४.७७ ।।

प्रविवेश ततो रामो मिथिलामरिमर्द्दनः।
सर्व्वकामैरुपहृतैर्मैथिलेनैव पूजितः ।। ३४.७८ ।।

एतस्मिन्नेव काले तु बभ्रुर्मतिमतांवरः।
नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान् ।। ३४.७९ ।।

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह।
स्यमन्तककृते राजा गाधिपुत्रो महायशाः ।। ३४.८० ।।

अर्थान् रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
षष्टिवर्षगते काले यज्ञेषु विन्ययोजयत् ।३४.८१ ।।

अक्रूरयज्ञ इत्येते ख्यातास्तस्य महात्मनः।
बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिनः।३४.८२।

अथ दुर्य्योधनो राजा गत्वाऽथ मिथिलां प्रभुः।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ।। ३४.८३।

प्रसाद्य तु ततो विप्रा वृष्ण्यन्धकमहारथैः।
आनीतो द्वारकामेव कृष्णेन च महात्मना ।। ३४.८४ ।।

अक्रूरमन्धकैः सार्द्धमुपायात् पुरुषर्षभः।
युद्धे हत्वा तु शत्रुग्नं सह बन्धुमता बली।३४.८५।

श्वफल्कतनयायान्तु नरायां नरसत्तमौ।
भङ्गकारस्य तनयो विश्रुतौ सुमहाबलौ।३४.८६ ।।

जज्ञातेऽन्धकमुख्यस्य शत्रुघ्नो बन्धुमांश्च तौ।
वधार्थं भङ्गकारस्य कृष्णो न प्रीतिमान् भवेत् ।३४.८७ ।।

ज्ञाति भेदभयाद्भीतः समुपेक्षितवांस्तथा।
अपयाते तथाक्रूरे नावर्षत्पाकशासनः।३४.८८ ।।


अनावृष्ट्या हतं राष्ट्रमभवत्तद्वघोद्यतम्।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ।३४.८९ ।।

पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः।३४.९० ।।
__________________
कन्याञ्च वासुदेवाय स्वसारं शीलसम्मताम्।
अक्रूरः प्रददौ श्रीमान् प्रीत्यर्थं यदुपुङ्गवः ।। ३४.९१ ।।

अत विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्।
सभामध्ये तदा प्राह तमक्रूरं जनार्दनः ।३४.९२ ।।

यच्च रत्नं मणिवरं तव हस्तगतं प्रभो।
तत्प्रयच्छस्व मानार्ह विमतिञ्चात्र मा कृथाः। ३४.९३ ।।

षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम।
सुसंरूढः सकृत् प्राप्तस्तत्कालाश्रित्य स महान् ।। ३४.९४ ।।

ततः कृष्णस्य वचनात् सर्व्वसात्वतसंसदि।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः।३४.९५ ।।


तत आर्ज्जवसंप्राप्तबभ्रुहस्तादरिन्दमः।
ददौ प्रहृष्टमनसा तं मणिं बभ्रवे पुनः ।।३४.९६ ।।

स कृष्णहस्तात् संप्राप्य मणिरत्नं स्यमन्तकम्।
आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ।। ३४.९७ ।।

इमां मिथ्याभिशस्तिं यो विशुद्धामपि चोत्तमाम् ।
वेद मिथ्याभि शस्तिं स न व्रजेच्च कथञ्चन । ३४.९८ ।।

अनिमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।। ३४.९९ ।।

सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः।
सात्यकिर्युयुधानस्य तस्य भूतिः सुतोऽभवत् ।३४.१०० ।।

भूतेर्युगन्धरः पुत्र इति भौत्याः प्रकीर्त्तिताः।
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च यः ।।३४.१०१ ।।

श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्त्तते।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ।। ३४.१०२ ।।

कदाचित् काशिराजस्य विभोस्तु द्विजसत्तमाः।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ।। ३४.१०३ ।।

स तत्र वासयामास श्वफल्कं परमार्चितम्।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ।। ३४.१०४ ।।

श्वफल्कः काशिराजस्य सुतां भार्यामनिन्दिताम्।
गान्दिनीं नाम गां सा हि ददौ विप्राय नित्यशः।३४.१०५ ।।

सा मातुरुदरस्था वै बहुवर्ष शतान् किल।
वसति स्म न वै जज्ञे सर्भस्थान्तां पिताब्रवीत् ।३४.१०६।

जायस्व शीघ्रं भद्रन्ते किमर्थं चापि तिष्ठसि।
प्रोवाच चैनं गर्भ स्था सा कन्या गौर्दिने दिने ।३४.१०७ ।।

यदि दत्ता तदा स्यां हि यदि स्यामीहतां पितः।
तथेत्युवाच तां तस्याः पिता काममपूपुरत् ।।३४.१०८।।

दाता यज्वा च शूरश्च श्रुतवानतिथिप्रियः।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्को भूरिदक्षिणः।३४.१०९ ।

उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः।
गिरिरक्षस्तता यक्षः शत्रुघ्नो वारिमर्द्दनः ।। ३४.११० ।।

धर्मभृच्च श्रृष्टचयो वर्गमोचस्तथापरः।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना।३४.१११ ।।

अक्रूरादुग्रसेन्यान्तु सुतौ द्वौ कुलनन्दिनौ।
देवश्चानुपदेवश्च जज्ञाते देवसंमितौ ।। ३४.११२ ।।

चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ।। ३४.११३ ।।

अरिष्टनेमिरश्वश्च सुवर्मा वर्मचर्मभृत् ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ।३४.११४।

सत्यकात् काशिदुहिता लेभे सा चतुरः सुतान्।
ककुदं भजमानञ्च शमीकबलबर्हिषौ।३४.११५।

ककुदस्य सुतो वृष्टिर्वृष्टेस्तु तनयोऽभवत्।
कपोतरोमा तस्याथ रेवतोऽभवदात्मजः ।। ३४.११६ ।।

तस्यासीत्तुम्बुरुसखा विद्वान् पुत्रोऽभवत्किल।
ख्यायते यस्य नाम्ना स चन्दनोदकदुन्दुभिः ।३४.११७ ।।

तस्माच्चाभिजितः पुत्र उत्पन्नस्तु पुनर्वसुः।
अश्वमेधन्तु पुत्रार्थे आजहार नरोत्तमः ।३४.११८।

तस्य मध्येऽतिरात्रस्य सदोमध्यात्समुत्थितम्।
ततस्तु विद्वान् धर्मज्ञो दाता यज्वा पुनर्वसुः ।३४.११९ ।।

तस्यापि पुत्रमिथुनं बाहुबाणाजितः किल।
आहुकश्चाहुकी चैव ख्यातौ मतिमतांवरौ ।। ३४.१२० ।।

इमांश्चोदाहरन्त्यत्र श्लोकान् प्रति तमाहुकम्।
सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ।३४.१२१ ।।

रथानां मेघघोषाणां सहस्राणि दशैव तु।
नासत्यवादी त्वासीत्तु नायज्वा नासहस्रदः ।। ३४.१२२ ।।

नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत्।
आहुकस्य धृतिः पुत्र इत्येवमनु शुश्रुमः ।। ३४.१२३ ।।

श्वेतेन परिचारेण किशोरप्रतिमान् हयान्।
अशीतियुक्तनियुतान्याहुकप्रतिमोऽव्रजत् ।। ३४.१२४ ।।

पूर्वस्यान्दिशि नागानां भोजस्य प्रतिरेजिरे।
रूप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ।३४.१२५ ।।

तावन्त्येव सहस्राणि उत्तरस्यान्तथा दिशि।
भूमिपालस्य भोजस्य उत्तिष्ठेत् किङ्किणी किल।३४.१२६।

आहुकश्चाहुकान्धाय स्वसारं त्वाहुकीन्ददौ।
आहुकान्धस्य दुहिता द्वौ पुत्रौ सम्बभूवतुः ।।३४.१२७ ।।

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ।।३४.१२८।।

देवानामपि देवश्च सुदेवो देवरञ्जिता।
तेषां स्वसारः सप्तासन् वसुदेवाय संददौ ।।३४.१२९ ।।

वृकदेवोपदेवा च तथान्या देवरक्षिता।
श्रीदेवा शान्तिदेवा च महादेवा तथापरा ।। ३४.१३० ।।

सप्तमी देवकी तासां सुनामा चारुदर्शना।
नवोग्रसेनस्य सुताः कंसस्तेषान्तु पूर्वजः ।। ३४.१३१ ।।

न्यग्रोधश्च सुनामा च कद्वशंकुश्च भूमयः।
सूतनू राष्ट्रपालश्च युद्धतुष्टः सुपुष्टिमान् ।। ३४.१३२ ।।

तेषां स्वसारः पञ्चैव कर्मधर्मवती तथा।
शताङ्क्रू राष्ट्रापाला च कङ्वा चैव वराङ्गना ।३४.१३३ ।।

उग्रसेनो महापत्यो विख्यातः कुकुरोद्भवः।
कुकुराणामिमं वंशं धारयन्नमितौजसाम्।
आत्मनो विपुलं वंशं प्रजावांश्च भवेन्नरः ।। ३४.१३४ ।।

भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः।
राज्याधिदेवः शूरश्च विदुरश्च सुतोऽभवत् ।।३४.१३५ ।।

तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ।
वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।। ३४.१३६ ।।

शमी च गदवर्मा च निदातः शक्रशक्रजित्।
शमिपुत्रः प्रतिक्षिप्तः प्रतिक्षिप्तस्य चात्मजः ।३४.१३७ ।।

स्वयम्भोजः स्वयम्भोजाद्धृदिकः सम्बभूव ह।
हृदिकस्य सुतास्त्वासन् दश भीमपराक्रमाः।३४.१३८ ।।

कृतवर्मा कृतस्तेषां शतधन्वा तु मध्यमः।
देवार्हश्च वनार्हश्च भिषग् द्वैतरथश्च यः ।।३४.१३९ ।।

सुदान्तश्च धियान्तश्च नकवान् कनकोद्भवः।
देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः।।३४.१४० ।।

असमौजाः सुतस्तस्य सुमहौजाश्च विश्रुतः।
अजावपुत्राय ततः प्रददावसमौजसे।
सुदंष्ट्रञ्च सुरूपञ्च कृष्ण इत्यन्धकाः स्मृताः ।।३४. १४१ ।।

अन्धकानामिमं वंशं कीर्त्तयानस्तु नित्यशः।
आत्मानो विपुलं वंशं लभते नात्र संशयः ।। ३४.१४२ ।।
___________________
अस्मक्यां जनयामास शूरो वै देवमानुषिम्।
माष्यान्तु जनयामास शूरो वै देवमीढुषम् ।३४.१४३।

भाष्यान्तु जज्ञिरे शूराद्भोजायां पुरुषा दश।
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।। ३४.१४४ ।।

जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि।
आनकानाञ्च संह्रादः सुमहानभवद्दिवि ।। ३४.१४५ ।।

पपात पुष्पवर्षञ्च शूरस्य भवने महत्।
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि।३४.१४६।

यस्यासीत् पुरुषाग्र्यस्य कीर्त्तिश्चन्द्रमसो यथा।
देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ।। ३४.१४७ ।।

अनादृष्टिकडश्चैव नन्दनश्चैव भृञ्जिनः।
श्यामः शमीको गण्डूषः चतस्रस्तु वराङ्गनाः।३४.१४८ ।।

पृथा च श्रुतवेदा च श्रुतकीर्त्तिः श्रुतश्रवाः।
राजाधिदेवी च तथा पञ्चैता वीरमातरः ।। ३४.१४९ ।।

पृथां दुहितरं चक्रे कुन्ति स्तां पाण्डुरावहत्।
अनपत्याय वृद्धाय कुन्तिभोजाय तां ददौ ।। ३४.१५० ।।

तस्मात् कुन्तीति विख्याता कुन्तीभोजात्मजा पृथा।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ।। ३४.१५१ ।।

पृथा जज्ञे ततः पुत्रान् त्रीनग्निसमतेजसः।
लोकेऽप्रतिरथान् वीरान् शक्रतुल्यपराक्रमान् ।। ३४.१५२।

धर्माद्युधिष्ठिरं पुत्रं मारुताच्च वृकोदरम्।
ईन्द्राद्धनञ्जयञ्चैव पृथा पुत्रानजीजनत् ।। ३४.१५३ ।।

माद्रवत्यान्तु जनितावाश्विनाविति विश्रुतम्।
नकुलः सहदेवश्च रूपसत्त्वगुणान्वितौ ।। ३४.१५४ ।।

जज्ञे च श्रुतदेवायां तनयो वृद्धशर्मणः।
करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ।। ३४.१५५ ।।

कैकेयां श्रुतकीर्त्यान्तु जज्ञे सन्तर्दनः पुनः।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ।। ३४.१५६ ।।

विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ।। ३४.१५७ ।।

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः।
यः पुरासीद्दशग्रीवः संबभूवारिमर्दनः ।। ३४.१५८ ।।

यदुश्रवानुजस्तस्य रुजकन्योऽनुजस्तथा।
पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ।। ३४.१५९ ।।

पौरवी रोहिणी चैव मदिरा चापरा तथा।
तथैव भद्रा वैशाखी देवकी सप्तमी तथा ।। ३४.१६० ।।

__________

सुगन्धिर्वनराजी च द्वे चान्ये परिचारिके।।
रोहिणी पौरवी चैव वाह्लीकस्यात्मजाभवत् ।।३४.१६१ ।।

ज्येष्ठा पत्नी महाभागा दयितानकदुन्दुभेः ।
ज्येष्ठं लेभे सुतं रामं सारणं निशठ तथा ।। ३४.१६२ ।।

दुर्द्दमं दमनं शुभ्रं पिण्डारककुशीतकौ।
चित्रां नाम कुमारीञ्च रोहिण्यष्टौ व्यजायत ।३४.१६३ ।।

पौत्रौ रामस्य जज्ञाते विज्ञातौ निशितोत्सुकौ।
पार्श्वी च पार्श्वनन्दी च शिशुः सत्यधृतिस्तथा ।३४.१६४ ।।

मन्दबाह्योऽथ रामाणगिरिकौ गिर एव च।
शुक्लगुल्मेति गुल्मश्च दरिद्रान्तक एव च ।। ३४.१६५ ।।

कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ।। ३४.१६६ ।।

तथा शतबला चैव सारणस्य सुतास्त्विमाः।
भद्राश्वो भद्रगुप्तिश्च भद्रविघ्नस्तथैव च ।। ३४.१६७ ।।

भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च।
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वश्च भद्रजः ।। ३४.१६८ ।।

दुर्म्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः ।
नन्दोपनन्तदौ मित्रश्च कुक्षिमित्रस्तथाचलः ।। ३४.१६९
।।

चित्रोप चित्रे कन्ये च स्थितः पुष्टिरथापरः।
मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ।। ३४.१७० ।।

उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ।। ३४.१७१ ।।

वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम्।
देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ।। ३४.१७२ ।।

तदयो भद्रसेनश्च यजुदायश्च पञ्चमः।
षष्ठो भद्रविदेकश्च कंसः सर्वाञ्जघान तान् ।। ३४.१७३ ।।

अथ तस्यामवस्थायामायुष्मान् संबभूव ह।
लोक नाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः।३४.१७४ ।।

अनुजाताऽभवत् कृष्णा सुभद्रा भद्रभाषिणी।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी।३४.१७५ ।।

सुभद्रायां रथी पार्थादभिमन्युरजायत।
वसुदेवस्य भार्यासु महाभागासु सप्तसु।
ये पुत्रा जज्ञिरेशूरा नामतस्तान्निबोधत ।। ३४.१७६ ।।

अतोऽस्य सह देवायां शूरो जज्ञेऽभयासखः।
शार्ङ्गदेवाजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ।। ३४.१७७ ।।

उपसङ्गं वसुञ्चापि तनयौ देवरक्षितौ।
एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।। ३४.१७८ ।।

विजयं रोजनञ्चैव वर्द्धमानं तथैव च।
एतान् सर्व्वान् महाभागानुपदेवा व्यजायत ।। ३४.१७९ ।।

स्वगाहवं महात्मानं वृक देवी त्वजायत ।
आगाही च स्वसा चैव सुरूपा शिशिरायिणी ।३४.१८० ।।

सप्तमं देवकीपुत्रं सुनासा सुषुवे भुवम्।
गवेषणं महाभागं सङ्ग्रामे चित्र योधिनम् ।। ३४.१८१ ।।

श्राद्धदेवं पुरा येन वने विरचिता द्विजाः।
शैब्यायामददच्छौरिः पुत्रं कौशिकमव्ययम् ।। ३४.१८२ ।।

सुगन्धी वनराजी च शौरेरास्तां परिग्रहः।
पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ।
तयो राजाऽभवत् पुण्ड्रः कपिलस्तु वनं ययो ।३४.१८३ ।।
____________
तस्यां समभवद्वीरो वसुदेवात्मजो बली।
राजा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ।। ३४.१८४
।।

विख्यातो देवरातस्य महाभागः सुतोऽभवत्।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ।। ३४.१८५ ।।

अस्मक्यां लभते पुत्रमनादृष्टिं यशस्विनम्।
निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम् ।३४.१८६ ।।

अजायत श्राद्धदेवो निषधादिर्यतः श्रुतः।
एकलव्यो महावीर्यो निषादैः परिवर्द्धितः। ३४.१८७ ।।
_______________
गण्डूषायानपत्याय कृष्णस्तुष्टोऽददत् सुतौ।
चारुदेष्णञ्च साम्बञ्च कृतास्त्रौ शस्तलक्षणौ।३४.१८८ ।।

तन्तिजस्तन्तिमालश्च स्वपुत्रौ कनकस्य तु।
वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान्।
सौतिर्ददौ सुतं वीरं शौरिं कौशिकमेव च ।। ३४.१८९ ।।

तपाश्च कोधनुश्चैव विरजाः श्यामसृञ्जिमौ।
अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्नुयात् ।। ३४.१९० ।।

य इदं जन्म कृष्णस्य पठते नियतव्रतः।
श्रावयेद्ब्राह्मणञ्चापि सुमहत्सुखमाप्नुयात् ।३४.१९१ ।।

देवदेवो महातेजाः पूर्व्वं कृष्णः प्रजापतिः ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ।।३४.१९२ ।।

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः।
चतुर्बाहुः स विज्ञेयो दिव्यरूपः श्रियान्वितः ।३४.१९३ ।।

प्रकाशो भगवान् योगी कृष्णो मानुषमागतः।
अव्यक्तोऽव्यक्तलिङ्गस्थः स एव भगवान् प्रभुः। ३४.१९४।

नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ।। ३४.१९५ ।।

योऽसृजच्चादिपुरुषं पुरा चक्रे प्रजापतिम्।

अदितेरपि पुत्रत्वमेत्य यादवनन्दनः।
देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ।। ३४.१९६ ।।

प्रसादजं यस्य विभोरदित्याः पुत्रकारणम्।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।। ३४.१९७ ।।

ययातिवंशजस्याथ वसुदेवस्य धीमतः।
कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः ।। ३४.१९८ ।।

सागराः समकम्पन्त चेलुश्च धरणीधराः।
जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने ।। ३४.१९९ ।।

शिवाश्च प्रववुर्वाताः प्रशान्तिमभवद्रजः।
ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्दने ।। ३४.२०० ।।

अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी।
मुहूर्त्तो विजयो नाम यत्र जातो जनार्दनः ।। ३४.२०१ ।।


अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः।
जायते स्मैव भगवान् नयनैर्मोहयन् प्रजाः ।। ३४.२०२ ।।

आकाशात् पुष्पवृष्टीश्च ववर्ष त्रिदशेश्वरः।
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम्।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ।। ३४.२०३ ।।

वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्।
श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः।
उवाच वसुदेवः स्वं रूपं संहर वै प्रभो ।। ३४.२०४ ।।

भीतोऽहं कंसतस्तात एतदेव ब्रवीम्यहम्।
मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।। ३४.२०५ ।।

वसुदेववचः श्रुत्वा रूपं स हृतवान् प्रभुः।
अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः।
उग्रसेनमते तिष्ठन् यशोदायै तदा ददौ ।। ३४.२०६ ।।

तुल्यकालन्तु गर्भिण्यौ यशोदा देवकी तथा।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ।। ३४.२०७ ।।


यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः।
तामेव रजनीं कन्यां यशोदापि व्यजायत ।। ३४.२०८ ।।

तं जातं रक्षमाणस्तु वसुदेवो महायशाः।
प्रादात् पुत्रं यशोदायै कन्यान्तु जगृहे स्वयम् ।३४.२०९ ।।

दत्त्वैनं नन्दगोपस्य रक्षमामिति चाब्रवीत्।
सुतस्ते सर्व्वकल्याणो यादवानां भविष्यति।
अयं स गर्भो देवक्या अस्मत्क्लेशान् हनिष्यति ।। ३४.२१० ।।

उग्रसेनात्मजायाञ्च कन्यामानकदुन्दुभेः।
निवेदयामास तदा कन्येति शुभलक्षणा ।। ३४.२११ ।।

स्वासायां तनयं कंसो जातं नैवावधारयत्।
अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ।। ३४.२१२ ।।

हता वै या यदा कन्या जपत्येष वृथामतिः।
कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ।। ३४.२१३ ।।

पुत्रवत्परिपाल्यन्तो देवा देवान् यथा तदा ।
तामेव विधिनोत्पन्नामाहुः कन्यां प्रजापतिम् ।३४.२१४ ।।

एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह।
तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ।। ३४.२१५ ।।

                ।। ऋषय ऊचुः ।।

किमर्थं वसुदेवस्य भोजः कंसो नराधिपः।
जघान पुत्रान् बालान् वै तन्नो व्याख्यातुमर्हसि ।। ३४.२१६ ।।

                   ।।सूत उवाच।।
श्रृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः।
जाताञ्जाताञ्चिशून् सर्व्वान् निष्पिपेष वृथामतिः ।। ३४.२१७ ।।

भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः।
तथा च गोषु गोविन्दः संवृद्ध- पुरुषोत्तमः ।३४.२१८ ।।

उक्तं हि किल देवक्या वसुदेवस्य धीमतः ।
सारथ्यं कृतवान् कंसो युवराजस्तदाऽभवत् ।३४.२१९ ।।

ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्यचित्।
कंसो यया सदा भीतः पुष्कला लोकसाक्षिणी।३४.२२०।

यामेतां वहसे कंस रथेन परकारणात्।
अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ।३४.२२१ ।।

तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः।
निष्क्रम्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ।। ३४.२२२ ।।

तमुवाच महाबाहुर्वसुदेवः प्रतापवान्।
उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ।। ३४.२२३ ।।
__________________
नस्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ।। ३४.२२४ ।।

योऽस्याः सम्भवते गर्भः सप्तमः पृथिवी पते।
तमहन्ते प्रयच्छामि तत्र कुर्य्या यथाक्रमम् ।। ३४.२२५ ।।

त्वं त्विदानीं यथेष्टत्वं वर्तेथा भूरिदक्षिण।
सर्वानस्यास्तु वै गर्भान् सत्यं नेष्यामि ते वशम् ।। ३४.२२६ ।।

एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति।
एवमुक्तोऽनुनीतः स जग्राह तनयांस्तदा ।। ३४.२२७ ।।

वसुदेवश्च तां भार्य्यामवाप्य मुदितोऽभवत्।
कंसश्चास्यावधीत् पुत्रान् पापकर्म्मा वृथामतिः।३४.२२८।

                   ।।ऋषय ऊचुः ।।

क एष वसुदेवश्च देवकी च यशस्विनी।
नन्दगोपस्तु कस्त्वेष यशोदा च महायशाः।
यो विष्णुं जनयामास या चैनं चाभ्यवर्द्धयत् ।३४.२२९ ।।

                    ।।सूत ऊवाच।।
पुरुषाः कश्यपस्यासन्नादित्यास्तु स्त्रियास्तथा।
अथ कामान् महाबाहुर्देवक्याः समवर्द्धयत् ।३४.२३० ।।

अचरत् स महीं देवः प्रविष्टो मानुषीं तनुम्।
मोहयन् सर्वभूतानि योगात्मा योगमायया ।। ३४.२३१ ।।

नष्टे धर्म्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम्।
कर्तुं धर्म्मव्यवस्थानमसुराणां प्रणाशनम् ।। ३४.२३२ ।।

आहृता रुक्मिणी कन्या सत्या नग्नजितस्तदा।
सात्राजिती सत्यभामा जाम्बवत्यपि रोहिणी ।३४.२३३ ।।

शैब्या सुदेवी माद्री च सुशीला नाम चापरा।
कालिन्दी मित्रविन्दा च लक्ष्मणा जालवासिनी ।। ३४.२३४ ।।

एवमादीनि देवानां सहस्राणि च षोडश।
चतुर्द्दश तु ये प्रोक्ता गणाश्चाप्सरसां दिवि ।
विचिन्त्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः।३४.२३५ ।।

पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु।
एताः पत्न्यो महाभागा विंष्वक्सेनस्य विश्रुताः ।। ३४.२३६ ।।

प्रद्युम्नश्चारुदेष्णश्च सुदेष्णः शरभस्तथा।
चारुश्च चारुभद्रश्च भद्रचारुस्तथाऽपरः ।। ३४.२३७ ।।

चारुविन्ध्यश्च रुक्मिण्यां कन्या चारुमती तथा।
सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रयस्तथा ।। ३४.२३८ ।।

जरान्धकस्ताम्रवक्षा भौमरिश्च जरन्धमः।
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।३४.२३९ ।।

भानुर्भौमरिका चैव ताम्रपर्णी जरन्धमा।
सत्यभामासुतानेताञ्जाम्बवत्याः प्रजाः श्रृणु ।३४.२४० ।।

भद्रश्च भद्रगुप्तश्च भद्रविन्द्रस्तथैव च।
सप्तबाहुश्च विख्यातः कन्या भद्रावती तथा।
सम्बोधनी च विख्याता ज्ञेया जाम्बवतीसुताः ।३४.२४१।

संग्रामजिच्च शतजित् त न च सहस्रजित्।
एते पुत्राः सुदेव्याश्च विष्वक्सेनस्य कीर्त्तिताः।३४.२४२ ।।

वृको वृकाश्वो वृकजिद्वृजिनी च सुराङ्गना।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजास्त्विह।३४.२४३ ।।

एवमादीनि पुत्राणां सह स्राणि निबोधत।
प्रयुतन्तु समाख्यातं वासुदेवस्य ये सुताः ।३४.२४४ ।।

अयुतानि तथाष्टौ च शूरा रणविशारदाः।
जनार्दनस्य वंशो वः कीर्त्तितोऽयं यथातथम् ।३४.२४५ ।।

बृहती नर्तकोन्नेयी सुनये सङ्गता तथा ।
कन्या सा बृहदुच्छस्य शौनेयस्य महात्मनः ।। ३४.२४६ ।।

तस्याः पुत्रास्तु विख्याता स्त्रयः समितिशोभनाः ।
अङ्गदः कुमुदः श्वेतः कन्या श्वेता तथैव च ।। ३४.२४७ ।।

अवगाहश्च चित्रश्च शूरश्चित्रवरश्च यः।
चित्रसेनः सुतश्चास्य कन्या चित्रवती तथा ।। ३४.२४८ ।।

तुम्बश्च तुम्बबाणश्च जनस्तम्बश्च तावुभौ।
उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिप्र एव च ।। ३४.२४९ ।।

भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ ।
युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ।। ३४.२५० ।।

तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः।
वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चात्मजः ।। ३४.२५१ ।।
________
काश्मा सुपार्श्वं तनयं जज्ञे साम्बा तरस्विनम्।
तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ।। ३४.२५२ ।।

षष्टिंशतसहस्राणि वीर्य्यवन्तो महाबलाः।
देवांशाः सर्व्व एवेह उत्पन्नास्ते महौजसः ।३४.२५३ ।।

दैवासुरे हता ये च असुरा वै महातपाः।
इहोत्पन्ना मनुष्येषु बाधन्ते सर्व्वमानवान् ।
तेषामुत्सादनार्थन्तु उत्पन्ना यादवे कुले ।। ३४.२५४ ।।
____________
कुलानि शत् चैकञ्च यादवानां महात्मनाम्।
सर्व्वमककुलं यद्वद्वर्त्तते वैष्णवे कुले ।। ३४.२५५ ।।


विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिभिस्तस्य बद्ध्यन्ते सर्वमानुषाः ।३४.२५६ ।।

इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः।
कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिमभीप्सिताम् ।। ३४.२५७ ।।

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुवंशानुकीर्त्तनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।। *


____________________________________________

मार्कण्डेयपुराणम्-(अध्यायः ०१६-०२०)


                       "पितोवाच"

कथितं मे त्वया वत्स संसारस्य व्यवस्थितम् ।
स्वरूपमतिहेयस्य घटीयन्त्रवदव्ययम्॥१६.१॥

तदेवमेतदखिलं मयावगतमीदृशम् ।
किं मया वद कर्तव्यमेवस्मिन् व्यवस्थिते॥१६.२॥

                     "पुत्र उवाच"

यदि मद्वचनं तात श्रद्दधास्यविशङ्कितः ।
तत् परित्यज्य गार्हस्थ्यं वानप्रस्थपरो भव॥१६.३॥

तमनुष्ठाय विधिवद् विहायाग्निपरिग्रहम् ।
आत्मन्यात्मानमाधया निर्द्वन्द्वो निष्परिग्रहः॥१६.४॥

एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः ।
तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः॥१६.५॥

ततः प्राप्स्यति तं योगं दुः शसंयोगभेषजम् ।
मुक्तिहेतुमनौपम्यमनाख्येयमसङ्गिनम् ।
यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति॥१६.६॥

                       पितोवाच

वत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् ।
येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम्॥१६.७॥

यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः ।
नैति योगमयोगोऽपि तं योगमधुना वद॥१६.८॥

संसारादित्यतापार्ति-विप्लुष्यद्देहमानसम् ।
ब्रह्मज्ञानाम्बुशीतेन सिञ्च मां वाक्यवारिणा॥१६.९॥

अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् ।
स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम्॥१६.१०॥

पुत्र-दार-गृह-क्षेत्र-ममत्वनिगजडार्दितम् ।
मां मोचयेष्टसद्भाव-विज्ञानोद्घाटनैस्त्वरन्॥१६.११॥

                         पुत्र उवाच

शृणु तात ! यथा योगो दत्तात्रेयेण धीमता ।
अलर्काय पुरा प्रोक्तः सम्यक् पृष्टेन विस्तरात्॥१६.१२॥

                          पितोवाच

दत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् ।
कश्चालर्को महाभागो यो यौगं परिपृष्टवान्॥१६.१३॥

                         पुत्र उवाच

कौशिको ब्राह्मणः कश्चित् प्रतिष्ठानेऽभवत् पुरे ।
सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत्॥१६.१४॥

तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् ।
पादाभ्यङ्गाङ्गसंवाह-स्त्रानाच्छादनभोजनैः॥१६.१५॥

श्लेष्म-मूत्र-पुरीषासृक्-प्रवाहक्षालनेन च ।
रहश्चैवोपचारेण प्रियसम्भाषणेन च॥१६.१६॥

स तया पूज्यमानोऽपि सदातीव विनीतया ।
अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः॥१६.१७॥

तथापि प्रणता भार्या तममन्यत दैवतम् ।
तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत॥१६.१८॥

अचङ्क्रमणशोलोऽपि स कदाचिद् द्विजोत्तमः ।
प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम्॥१६.१९॥

या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता ।
तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते॥१६.२०॥

दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता ।
दर्शनानन्तरं सा मे हृदयान्नापसर्पति॥१६.२१॥

यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा ।
नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम्॥१६.२२॥

वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा ।
ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे॥१६.२३॥

तत् तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा ।
तत्पत्नी सत्कुलोत्पन्ना महाभागा पतिव्रता॥१६.२४॥

गाग्ं परिकरं बद्ध्वा शुल्कमादाय चाधिकम् ।
स्कन्धे भर्तारमादाय जगाम मृदुगामिनी॥१६.२५॥

निशि मेघास्तृते व्योम्नि चलद्विद्युत्प्रदर्शिते ।
राजमार्गे प्रियं भर्तुश्चिकीर्षन्ती द्विजाङ्गना॥१६.२६॥

पथि शूले तथा प्रोतमचौरं यौरशङ्कया ।
माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः॥१६.२७॥

पत्नीस्कन्धे समारूढश्चालयामास कौशिकः ।
पादावमर्षणात् क्रुद्धो माण्डव्यस्तमुवाच ह॥१६.२८॥

येनाहमेवमत्यर्थं दुः खितश्चालितः पदा ।
दशां कष्टामनुप्राप्तः स पापात्मा नराधमः॥१६.२९॥

सूर्योदयेऽवशः प्राणैर्विमोक्ष्यति न संशयः ।
भास्करालोकनादेव स विनाशमवाप्स्यति॥१६.३०॥

तस्य भार्याततः श्रुत्वा तं शापमतिदारुणम् ।
प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति॥१६.३१॥

ततः सूर्योदयाभावादभवत् सन्तता निशा ।
बहून्यहः प्रमाणानि ततो देवा भयं ययुः॥१६.३२॥

निः स्वाध्यायवषट्कार-स्वधास्वाहाविवर्जितम् ।
कथं नु खल्विदं सर्वं न गच्छेत् संक्षयं जगत्॥१६.३३॥

अहोरात्रव्यवस्थाया विना मासर्तुसंक्षयः ।
तत्संक्षयान्न त्वयने ज्ञायेते दक्षिणोत्तरे॥१६.३४॥

विना चायनविज्ञानात् कालः संवत्सरः कुतः ।
संवत्सरं विना नान्यत् कालज्ञानं प्रवर्तते॥१६.३५॥

पतिव्रताया वचसा नोद्गच्छति दिवाकरः ।
सूर्योदयं विना नैव स्त्रानदानादिकाः क्रियाः॥१६.३६॥

नाग्नेर्विहरणञ्चैव क्रात्वभावश्च लक्ष्यते ।
नैवाप्ययनमस्माकं विना होमेन जायते॥१६.३७॥

वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः ।
वृष्ट्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये॥१६.३८॥

निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः ।
तेषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः॥१६.३९॥

अधो हि वर्षाम वयं मर्त्याश्चोर्ध्वप्रवर्षिणः ।
तोयवर्षेण हि वयं हविर्वर्षेण मानवाः॥१६.४०॥

ये नास्माकं प्रयच्छन्ति नित्यनैमित्तकीः क्रियाः ।
क्रतुभागं दुरात्मानः स्वयञ्चाश्नन्ति लोलुपाः॥१६.४१॥

विनाशाय वयं तेषां तोयसूर्याग्निमारुतान् ।
क्षितिञ्च सन्दूषयामः पापानामपकारिणाम्॥१६.४२॥

दुष्टतोयादिभोगेन तेषां दुष्कृतकर्मिणाम् ।
उपसर्गाः प्रवर्तन्ते मरणाय सुदारुणाः॥१६.४३॥

ये त्वस्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना ।
तेषां पुण्यान् वयं योकान् विदधाम महात्मनाम्॥१६.४४॥

तन्नास्ति सर्वमेवैतद्विनैषां व्युष्टिसंस्थैतम् ।
कथं नु दिनसर्गः स्यादन्योऽन्यमवदन् सुराः॥१६.४५॥

तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम् ।
देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः॥१६.४६॥

तेजः परं तेजसैव तपसा च तपस्तथा ।
प्रशाम्यतेऽमरास्तस्माच्छृणुध्वं वचनं मम॥१६.४७॥

पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा॥१६.४८॥

तस्मात् पतिव्रतामत्रेरनुभूयां तपस्विनीम् ।
प्रसादयत वै पत्नीं भानोरुदयकाम्यया॥१६.४९॥

                "पुत्र उवाच

तैः सा प्रसादिता गत्वा प्रोहेष्टं व्रियतामिति ।
अयाचन्त दिनं देवा भवत्विति यथा पुरा॥१६.५०॥

               "अनसूयोवाच

पतिव्रताया माहात्म्यं न हीयेत कथन्त्विति ।
संमान्य तस्मात् तां साध्वीमहः स्त्रक्ष्याम्यहं सुराः॥१६.५१॥

यथा पुनरहोरात्र-संस्थानमुपजायते ।
यथा च तस्याः स्वपतिर्न साध्व्या नाशमेष्यति॥१६.५२॥

                   पुत्र उवाच

एवमुक्त्वा सुरांस्तस्या गत्वा सा मन्दिरं शुभा ।
उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः॥१६.५३॥

                    अनसूयोवाच

कच्चिन्नन्दसि कल्याणि स्वभर्तुर्मुखदर्शनात् ।
कच्चिच्चाखिलदेवेभ्यो मन्यसेऽभ्यधिकं पतिम्॥१६.५४॥

भर्तृशुश्रूषणादेव मया प्राप्तं महत् फलम् ।
सर्वकामफलावाप्त्या प्रत्यूहाः परिवर्तिताः॥१६.५५॥

पञ्चर्णानि मनुष्येण साध्वि ! देयानि सर्वदा ।
तथात्मवर्णधर्मेण कर्तव्यो धनसंचयः॥१६.५६॥

प्राप्तश्चार्थस्ततः पात्रे विनियोज्यो विधानतः ।
सत्यार्जव-तपो-दानैर्दयायुक्तो भवेत् सदा॥१६.५७॥

क्रियाश्च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिताः ।
कर्तव्या अन्वहं श्रद्धा-पुरस्कारेण शक्तितः॥१६.५८॥

स्वजातिविहितानेव लोकानाप्नोति मानवः ।
क्लेशेन महता साध्वि ! प्राजापत्यादिकान् क्रमात्॥१६.५९॥

स्त्रियस्त्वेवं समस्तस्य नरैर्दुः खार्जितस्य वै ।
पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि॥१६.६०॥

नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् ।
भर्तृशुश्रूषयैवैतान् लोकानिष्टान् व्रजन्ति हि॥१६.६१॥

तस्मात् साध्वि ! महाभागे ! पतिशुश्रूषणं प्रति ।
त्वया मतिः सदा कार्या यतो भर्ता परा गतिः॥१६.६२॥

यद्देवेभ्यो यच्च पित्रागतेभ्यः कुर्याद्भर्ताभ्यर्च्चनं सत्क्रियातः
तस्याप्यर्धं केवलानन्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव॥१६.६३॥

                     पुत्र उवाच

तस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तथादरात् ।
प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः॥१६.६४॥

धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता ।
यन्मे प्रकृतिकल्याणि ! श्रद्धां वर्धयसे पुनः॥१६.६५॥

जानाम्येतन्न नारीणां काचित् पतिसमा गतिः ।
तत्प्रीतिश्चोपकाराय इह लोके परत्र च॥१६.६६॥

पतिप्रसादादिह च प्रेत्य चैव यशस्विनि ।
नारी सुखमवाप्नोति नार्या भर्ता हि देवता॥१६.६७॥

सा त्वं ब्रूहि महाभागे ! प्राप्ताया मम मन्दिरम् ।
आर्याया यन्मया कार्यं तथार्येणापि वा शुभे॥१६.६८॥

                   अनसूयोवाच

एते देवाः सहेन्द्रेण मामुपागम्य दुः खिताः ।
त्वद्वाख्यापास्तसत्कर्मदिननक्तनिरूपणाः॥१६.६९॥

याचन्तेऽहर्निशासंस्थां यथावदविखण्डिताम् ।
अहं तदर्थमायाता शृणु चैतद्वचो मम॥१६.७०॥

दिनाभावात् समस्तानामभावो यागकर्मणाम् ।
तदभावात् सुराः पुष्टिं नोपयान्ति तपस्विनि॥१६.७१॥

अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम् ।
तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति॥१६.७२॥

तत् त्वमिच्छसि चेदेतत् जगदुद्धर्तुमापदः ।
प्रसीद साध्वि ! लोकानां पूर्ववद्धर्ततां रविः॥१६.७३॥

                  ब्राह्मण्युवाच

माण्डव्येन महाभागे ! शप्तो भर्ता ममेश्वरः ।
सूर्योदये विनाशं त्वं प्राप्स्यसीत्यतिमन्युना॥१६.७४॥

                  अनसूयोवाच

यदि वा रोचते भद्रे ! ततस्त्वद्वचनादहम् ।
करोमि पूर्ववद्देहं भर्तारञ्च नवं तव॥१६.७५॥

मया हि सर्वथा स्त्रीणां माहात्म्यं वरवर्णिनि ।
पतिव्रतानामाराध्यमिति संमानयामि ते॥१६.७६॥

                   पुत्र उवाच

तथेत्युक्ते तया सूर्यमाजुहाव तपस्विनी ।
अनसूयार्घ्यमुद्यम्य दशरात्रे तदा निशि॥१६.७७॥

ततो विवस्वान् भगवान् फुल्लपद्मारुणाकृतिः ।
शैलराजानमुदयमारुरोहोरुमण्डलः॥१६.७८॥

समनन्तरमेवास्या भर्ता प्राणैर्व्ययुज्यत ।
पपात च महीपृष्ठे पतन्तं जगृहे च सा॥१६.७९॥

                 अनसूयोवाच

न विषादस्त्वया भद्रे ! कर्तव्यः पश्य मे बलम् ।
पतिशुश्रूषयावाप्तं तपसः किं चिरेण ते॥१६.८०॥

यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित् ।
रूपतः शीलतो बुद्ध्या वाङ्माधुर्ंय्यादिभूषणैः॥१६.८१॥

तेन सत्येन विप्रोऽयं व्याधिमुक्तः पुनर्युवा ।
प्राप्नोतु जीवितं भार्यासहायः शरदां शतम्॥१६.८२॥

यथा भर्तृसमं नान्यमहं पश्यामि दैवतम् ।
तेन सत्येन विप्रोऽयं पुनर्जोवत्वनामयः॥१६.८३॥

कर्मणा मनसा वाचा भर्तुराराधनं प्रति ।
यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः॥१६.८४॥

                 पुत्र उवाच

ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा ।
स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः॥१६.८५॥

ततोऽपतत् पुष्पवृष्टिर्देववाद्यादिनिस्वनः ।
लेभिरे च मुदं देवा अनसूयामथाब्रुवन्॥१६.८६॥

                    देवा ऊचुः

वरं वृणीष्व कल्याणि देवकार्यं महत् कृतम् ।
त्वया यस्मात् ततो देवा वरदास्ते तपस्विनि॥१६.८७॥

                    अनसूयोवाच

यदि देवाः प्रसन्ना मे पितामहपुरोगमाः ।
वरदा वरयोग्या च यद्यहं भवतां मता॥१६.८८॥

तद्यान्तु मम पुत्रत्वं ब्रह्म-विष्णु-महेश्वराः ।
योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये॥१६.८९॥

एवमस्त्विति तां देवा ब्रह्म-विष्णु-शिवादयः ।
प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम्॥१६.९०॥


इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे अनसूयावरप्राप्तिर्नाम षोडशोऽध्यायः
____________________________
17(16)

सप्तदशोऽध्यायः

पुत्र उवाच

ततः काले बहुतिथे द्वितीयो ब्रह्मणः सुतः ।
स्वभार्यां भगवानत्रिरनसूयामपश्यत॥१७.१॥

ऋतुस्नातां सुचार्वङ्गीं लोभनीयोत्तमाकृतिम् ।
सकामो मनसा भेजे स मुनिस्तामनिन्दिताम्॥१७.२॥

तस्याभिध्यायतस्तान्तु विकारो योऽन्वजायत ।
तमेवोवाह पवनस्तिरश्चोर्ध्वञ्च वेगवान्॥१७.३॥

ब्रह्मरूपञ्च शुक्लाभं पतमानं समन्ततः ।
सोमरूपं रजोपेतं दिशस्तं जगृहुर्दश॥१७.४॥

स सोमो मानसो जज्ञे तस्यामत्रेः प्रजापतेः ।
पुत्रः समस्तसत्त्वानामायुराधार एव च॥१७.५॥

तुष्टेन विष्णुना जज्ञे दत्तात्रेयो महात्मना ।
स्वशरीरात् समुत्पाद्य सत्त्वोद्रिक्तो द्विजात्तमः॥१७.६॥

दत्तात्रेय इति ख्यातः सोऽनसूयास्तनं पपौ ।
विष्णुरेवावतीर्णोऽसौ द्वितीयोऽत्रेः सुतोऽभवत्॥१७.७॥

सप्ताहात् प्रच्युतो मातुरुदरात् कुपितो यतः ।
हैहयेन्द्रमुपावृत्तमपराध्यन्तमुद्धतम्॥१७.८॥

दृष्ट्वात्रौ कुपितः सद्यो दग्धुकामः स हैहयम् ।
गर्भवासमहायास-दुःखामर्षसमन्वितः॥१७.९॥

दुर्वासास्तमसोद्रिक्तो रुद्रांशः समजायत ।
इति पुत्रत्रयं तस्या जज्ञे ब्रह्मेशवैष्णवम्॥१७.१०॥

सोमो ब्रह्मभवद्विष्णुर्दत्तात्रेयो व्यजायत ।
दुर्वासाः शङ्करो जज्ञे वरदानाद्दिवौकसाम्॥१७.११॥

सोमः स्वरश्मिभैः शीतैर्वोरुधौषधिमानवान् ।
आप्याययन् सदा स्वर्गे वर्तते स प्रजापतिः॥१७.१२॥

दत्तात्रेयः प्रजां पाति दुष्टदैत्यनिबर्हणात् ।
शिष्टानुग्रहकृच्चेति ज्ञेयश्चांशः स वैष्णवः॥१७.१३॥

निर्दहत्यवमन्तारं दुर्वासा भगवानजः ।
रौद्रं समाश्रित्य वपुर्दृङ्मनोवाग्भिरुद्धतः॥१७.१४॥

सोमत्वं भगवानत्रैः पुनश्चक्रे प्रजापतिः ।
दत्तात्रेयोऽपि विषयान् योगास्थो बुभुजे हरिः॥१७.१५॥

दुर्वासाः पितरं हित्वा मातरञ्चोत्तम व्रतम् ।
उन्मत्ताख्यं समाश्रित्य परिबभ्राम मेदिनीम्॥१७.१६॥

मुनिपुत्रवृतो योगी दत्तात्रेयोऽप्यसङ्गिताम् ।
अभीप्स्यमानः सरसि निममज्ज चिरं प्रभुः॥१७.१७॥

तथापि तं महात्मानमतीव प्रियदर्शनम् ।
तत्यजुर्न कुमारास्ते सरसस्तीरमाश्रिताः॥१७.१८॥

दिव्ये वर्षशते पूर्णे यदा ते न त्यजन्ति तम् ।
तत्प्रीत्या सरसस्तीरं सर्वे मुनिकुमारकाः॥१७.१९॥

ततो दिव्याम्बरधरां चारुपीननितम्बिनीम् ।
नारीमादाय कल्याणीमुत्तितार जलान्मुनिः॥१७.२०॥

स्त्रीसन्निकर्षाद्यद्येते परित्यक्ष्यन्ति मामिति ।
मुनिपुत्रास्ततोऽसङ्गी स्थास्यामीति विचिन्तयन्॥१७.२१॥


तथापि तं मुनिसुता न त्यजन्ति यदा मुनिम् ।
ततः सह तया नार्या मद्यपानमथापिबत्॥१७.२२॥

सुरापानरतं ते न सभार्यं तत्यजुस्ततः ।
गीतवाद्यादिवनिता-भोगसंसर्गदूषितम्॥१७.२३॥


मन्यमाना महात्मानं पीतासव-सविक्रियम् ।
नावाप दोषं योगीशो वारुणीं स पिबन्नपि॥१७.२४॥

अन्तावसायिवेश्मान्तर्मातरिश्वा वसन्निव ।
सुरां पिबन् सपत्नीकस्तपस्तेपे स योगवित् ।
योगीश्वारश्चिन्त्यमानो योगिभिर्मुक्तिकाङ्क्षिभिः॥१७.२५॥


इति श्रीमार्कण्डेपुराणे पितापुत्रसंवादे दत्तात्रेयोत्पत्तिर्नाम सप्तदशोऽध्यायः

_________________

18(16)

अष्टादशोऽध्यायः

पुत्र उवाच
___________________
कस्यचित्त्वथ कालस्य कृतवीर्यात्मजोऽर्जुनः ।
कृतवीर्ये दिवं याते मन्त्रिभिः सपुरोहितैः॥१८.१॥

पौरैश्चात्माभिषेकार्थं समाहूतोऽब्रवीदिदम् ।
नाहं राज्यं करिष्यामि मन्त्रिणो नरकोत्तरम्॥१८.२॥

यदर्थं गृह्यते शुल्कं तदनिष्पादयन् वृथा ।
पण्यानां द्वादशं भागं भूपालाय वणिग्जनः॥१८.३॥

दत्त्वार्थरक्षिभिर्मार्गे रक्षितो याति दस्युतः ।
गोपाश्च घृततक्रादेः षड्भागञ्च कृषीबलाः॥१८.४॥

दत्त्वान्यद्भूभुजे दद्युर्यदि भागं ततोऽधिकम् ।
पण्यादीनामशेषाणां वणिजो गृह्णतस्ततः॥१८.५॥

इष्टापूर्तविनाशाय तद्राज्ञश्चौरधर्मिणः ।
यद्यन्यैः पाल्यते लोकस्तद्वृत्तयन्तरसंश्रितैः॥१८.६॥

गृह्णतो बलिषड्भागं नृपतेर्नरको ध्रुवम् ।
निरूपितमिदं राज्ञः पूर्वै रक्षणवेतनम्॥१८.७॥

अरक्षंश्चौरतश्चौर्यं तदेनो नृपतेर्भवेत् ।
तस्माद्यदि तपस्तप्त्वा प्राप्तो योगित्वमीप्सितम्॥१८.८॥

भुवः पालनसामर्थ्य-युक्त एको महीपतिः ।
पृथिव्यां शस्त्रधृङ्मान्यस्त्वहमेवर्धिसंयुतः ।
ततो भविष्ये नात्मानं करिष्ये पापभागिनम्॥१८.९॥

______________________________________
            पुत्र उवाच.     गर्गाचार्य वर्णन

"  सहस्रबाहू कुल पुरोहित-गर्गाचार्य वर्णन "

तस्य तन्निश्चयं ज्ञात्वा मन्त्रिमध्यस्थितोऽब्रवीत् 
गर्गो नाम महाबुद्धिर्मुनिश्रेष्ठो वयोऽतिगः॥१८.१०॥

अर्थ:-उसका वह निश्चय जानकर मन्त्रीयों 
के मध्य स्थित  गर्ग नाम के महाबुद्धिमान श्रेेष्ठ। और उम्रदराज  मुनि थे  बोले ।

यद्येवं कर्तुकामस्त्वं राज्यं सम्यक् प्रशासितुम् ।           ततो शृणुष्व मे वाक्यं कुरुष्व च नृपात्मज॥१८.११॥


दत्तात्रेयं महाभागं सह्यद्रोणीकृताश्रयम् ।
तमाराधय भूपाल ! पाति यो भुवनत्रयम्॥१८.१२॥

योगयुक्तं महाभागं सर्वत्र समदर्शिनम् ।
विष्णोरंशं जगद्धातुरवतीर्णं महीतले॥१८.१३॥

यमाराध्य सहस्राक्षः प्राप्तवान् पदमात्मनः ।
हृतं दुरात्मभिर्दैत्यैर्जघान च दितेः सुतान्॥१८.१४॥


              अर्जुन उवाच

कथमाराधितो देवैर्दत्तात्रेयः प्रतापवान् ।
कथञ्चापहृतं दैत्यैरिन्द्रत्वं प्राप वासवः॥१८.१५॥


                    गर्ग उवाच

देवानां दानवानाञ्च युद्धमासीत् सुदारुणम् ।
दैत्यानामीश्वरो जम्भो देवानाञ्च शचीपतिः॥१८.१६॥


तेषाञ्च युध्यमानानां दिव्यः संवत्सरो गतः ।
ततो देवाः पराभूता दैत्या विजयिनोऽभवन्॥१८.१७॥

विप्रचित्तिमुखैर्देवा दानवैस्ते पराजिताः ।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥१८.१८॥

बृहस्पतिमुपागम्य दैत्यसैन्यवधेप्सवः ।
अमन्त्रयन्त सहिता बालखिल्यैस्तथर्षिभिः॥१८.१९॥


                बृहस्पतिरुवाच

दत्तात्रेयं महात्मानमत्रेः पुत्रं तपोधनम् ।
विकृताचरणं भक्त्या सन्तोषयितुमर्हथ॥१८.२०॥

स वो दैत्यविनाशाय वरदो दास्यते वरम् ।
ततो हनिष्यथ सुरा सहिता दैत्यदानवान्॥१८.२१॥


                    गर्ग उवाच

इत्युक्तास्ते तदा जग्मुर्दत्तात्रेयाश्रमं सुराः ।
ददृशुश्च महात्मानं तं ते लक्ष्म्या समन्वितम्॥१८.२२॥

उद्गीयमानं गन्धर्वैः सुरापानरतं मुनिम् ।
ते तस्य गत्वा प्रणतिमवदन् साध्यसाधनम्॥१८.२३॥

चक्रुः स्तवञ्चोपजह्रुर्भक्ष्यभोज्यस्त्रगादिकम् ।
तिष्ठन्तमनुतिष्ठन्ति यान्तं यान्ति दिवौकसः॥१८.२४॥

आराधयामासुरधः स्थितास्तिष्ठन्तमासने ।
स प्राह प्रणतान् देवान् दत्तात्रेयः किमिष्यते ।
मत्तो भवद्भिर्येनेयं शुश्रूषा क्रियते मम॥१८.२५॥


                    देवा ऊचुः

दानवैर्मुनिशार्दूल ! जम्भाद्यैर्भूर्भुवादिकम् ।
हृतं तैलोक्यमाक्रम्य क्रतुभागाश्च कृत्स्नशः॥१८.२६॥

तद्वधे कुरु बुद्धिं त्वं परित्राणाय नोऽनघ ।
त्वत्प्रसादादभीप्सामः पुनः प्राप्तं त्रिविष्टपम्॥१८.२७॥


                दत्तात्रेय उवाच

मद्यासक्तोऽहमुच्छिष्टो न चैवाहं जितेन्द्रियः ।

कथमिच्छथ मत्तोऽपि देवाः शत्रुपराभवम्॥१८.२८॥


                        देवा ऊचुः

अनघस्त्वं जगन्नाथ न लेपस्तव विद्यते ।
विद्याक्षालनशुद्धान्तर्निविष्टज्ञानदीधिते !॥१८.२९॥


                    दत्तात्रेय उवाच

सत्यमेतत् सुरा विद्या ममास्ति समदर्शिनः ।
अस्यास्तु योषितः सङ्गादहमुच्छिष्टतां गतः॥१८.३०॥

स्त्रीसम्भोगो हि दोषाय सातत्येनोपसेवितः ।
एवमुक्तास्ततो देवाः पुनर्वचनमब्रुवन्॥१८.३१॥


                    देवा ऊचुः

अनघेयं द्विजश्रेष्ठ जगन्माता न दुष्यते ।
यथांशुमाला सूर्यस्य द्विज-चाण्डालसङ्गिनी॥१८.३२॥


                    गर्ग उवाच

एवमुक्तस्ततो देवैर्दत्तात्रेयोऽब्रवीदिदम् ।
प्रहस्य त्रिदशान् सर्वान् यद्येतद्भवतां मतम्॥१८.३३॥

तदाहूयासुरान् सर्वान् युद्धाय सुरसत्तमाः ।
इहानयत मद्दृष्टिगोचरं मा विलम्बतः॥१८.३४॥

मद्दृष्टिपातहुतभुक्-प्रक्षीणबलतेजसः ।
येन नाशमशेषास्ते प्रयान्ति मम दर्शनात्॥१८.३५॥


                     गर्ग उवाच

तस्य तद्वचनं श्रुत्वा देवैर्दैत्या महाबलाः ।
आहवाय समाहूता जग्मुर्देवगणान् रुषा॥१८.३६॥

ते हन्यमाना दैतेयैर्देवा शीघ्रं भयातुराः ।
दत्तात्रेयाश्रमं जग्मुः समेताः शरणार्थिनः॥१८.३७॥

तमेव विविशुर्दैत्याः कालयन्तो दिवौकसः ।
ददृशुश्च महात्मानं दत्तात्रेयं महाबलम्॥१८.३८॥

वामपार्श्वस्थितामिष्टामशेषजगतां शुभाम् ।
भार्याञ्चास्य सुचार्वङ्गीं लक्ष्मीमिन्दुनिभाननाम्॥१८.३९॥

नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् ।
गदन्तीं मधुरां भाषां सर्वैर्योषिद्गुणैर्युताम्॥१८.४०॥

ते तां दृष्ट्वाग्रतो दैत्याः साभिलाषा मनोभवम् ।
न शेसुरुद्धतं धैर्यान्मनसा वोढुमातुराः॥१८.४१॥

त्यक्त्वा देवान् स्त्रियं तां तु हर्तुकामा हतौजसः ।
तेन पापेन मुह्यन्तः संशक्तास्ते ततोऽब्रुवन्॥१८.४२॥

स्त्रोरत्नमेतत् त्रैलोक्ये सारं नो यदि वै भवेत् ।
कृतकृत्यास्ततः सर्व इति नो भावितं मनः॥१८.४३॥

तस्मात् सर्वे समुत्क्षिप्य शिविकायां सुरार्दनाः ।
आरोप्य स्वमधिष्ठानं नयाम इति निश्चिताः॥१८.४४॥


                 गर्ग उवाच

सानुरागास्ततस्ते तु प्रोक्ताश्चेत्त्थं परस्परम् ।
तस्य तां योषितं साध्वीं समुत्क्षिप्य स्मरार्दिताः॥१८.४५॥

शिविकायां समारोप्य सहिता दैत्यदानवाः ।
शिरः सु शिविकां कृत्वा स्वस्थानाभिमुखं ययुः॥१८.४६॥

दत्तात्रेयस्ततो देवान् विहस्येदमथाब्रवीत् ।
दिष्ट्या वर्धथ दैत्यानामेषा लक्ष्मीः शिरोगता ।
सप्त सथानान्यतिक्रान्ता नवमन्यमुपैष्यति॥१८.४७॥


                    देवा ऊचुः

कथयस्व जगन्नाथ ! केषु स्थानेष्वस्थिता ।
पुरुषस्य फलं किं वा प्रयच्छत्यथ नश्यति॥१८.४८॥


                दत्तात्रेय उवाच

नृणां पदे स्थिता लक्ष्मीर्निलयं सम्प्रयच्छति ।
सक्थ्न्योश्च संस्थिता वस्त्रं तथा नानाविधं वसु॥१८.४९॥

कलात्रञ्च गुह्यसंस्था क्रोडस्थापत्यदायिनी ।
मनोरथान् पूरयति पुरुषाणां हृदि स्थिता॥१८.५०॥

लक्ष्मीर्लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् ।
अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः॥१८.५१॥

सृष्टानुवाक्यलावण्यमाज्ञामवितथां तथा ।
मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा॥१८.५२॥

शिरोगता सन्त्यजति ततोऽन्यं याति चाश्रयम् ।
सेयं शिरोगता चैतान् परित्यक्ष्यति साम्प्रतम्॥१८.५३॥

प्रगृह्यास्त्राणि बध्यन्तां तस्मादेते सुरारयः ।
न भेतव्यं भृशञ्चैते मया निस्तेजसः कृताः ।
परदारावमर्षाच्च दग्धपुण्या हतौजसः॥१८.५४॥

ततस्ते विविधैरस्त्रैर्वध्यमानाः सुरारयः ।
मूध्नि लक्ष्म्या समाक्रान्ता विनेशुरिति नः श्रुतम्॥१८.५५॥

लक्ष्मीश्चीत्पत्य सम्प्राप्ता दत्तात्रेयं महामुनिम् ।
स्तूयमाना सुरैः सर्वैर्दैत्यनाशान्मुदान्वितैः॥१८.५६॥

प्रणिपत्य ततो देवा दत्तात्रेयं मनीषिणम् ।
नाकपृष्ठमनुप्राप्ता यथापूर्वं गतज्वराः॥१८.५७॥

तथा त्वमपि रोजेन्द्र ! यदीच्छसि यथेप्सितम् ।
प्राप्तुमैश्वर्यमतुलं तूर्णमाराधयस्व ताम्॥१८.५८॥


इति श्रीमार्कण्डेयपुराणेठगर्गवाक्यम्ऽ नामाष्टादशोऽध्यायः

19(17)
एकोनविंशोऽध्यायः

                    पुत्र उवाच

इत्यृषेर्वचनं श्रुत्वा कार्तवीर्यो नरेश्वरः ।
दत्तात्रेयाश्रमं गत्त्वा तं भक्त्या समपूजयत्॥१९.१॥

पादसंवाहनाद्येन मध्वाद्याहरणेन च ।
स्त्रक्चन्दनादिगन्धाम्बु-फलाद्यनयनेन च॥१९.२॥

तथान्नसाधनैस्तस्य उच्छिष्टापोहनेन च ।
परितुष्टो मुनिर्भूतं तमुवाच तथैव सः॥१९.३॥

यथैवोक्ताः पुरा देवा मद्यभोगादिकुत्सनम् ।
स्त्री चेयं मम पार्श्वस्थेत्येतद्भोगाच्च कुत्सितम्॥१९.४॥

सदैवाहं न मामेवमुपरोद्धुं त्वमर्हसि ।
अशक्तमुपकाराय शक्तमाराधयस्व भोः॥१९.५॥

_________________
                   जड उवाच

तेनैवमुक्तो मुनिना स्मृत्वा गर्गवचश्च तत् ।
प्रत्युवाच प्रणम्यैनं सार्तवीर्यार्जुनस्तदा॥१९.६॥


                    अर्जुन उवाच

किं मां मोहयसे देव ! स्वां मायां समुपाश्रितः ।
अनघस्त्वं तथैवेयं देवी सर्वभवारणिः॥१९.७॥

इत्युक्तः प्रीतिमान् देवस्ततस्तं प्रत्युवाच ह ।
कार्तवीर्यं महाभागं वशीकृतमहीतलम्॥१९.८॥

वरं वृणीष्व गुह्यं मे यत् त्वया समुदीरितम् ।
तेन तुष्टिः परा जाता त्वय्यद्य मम पार्थिव॥१९.९॥

ये च मां पूजयिष्यन्ति गन्धमाल्यादिभिर्नराः ।
मांसमद्योपहारैश्च मिष्टान्नैश्चाज्यसंयुतैः॥१९.१०॥

लक्ष्मीसमेतं गीतैश्च ब्राह्मणानां तथार्च्चनैः ।
वाद्यैर्मनोरमैर्वोणा-वेणु-शङ्कादिभिस्तथा॥१९.११॥

तेषामहं परां तुष्टिं पुत्रदारधनादिकम् ।
प्रदास्याम्यवघातञ्च हनिष्याम्यवमन्यताम्॥१९.१२॥

स त्वं वरय भद्रं ते वरं यन्मसेप्सितम् ।
प्रसादसुमुखस्तेऽहं गुह्यनामप्रकीर्तनात्॥१९.१३॥


                  कार्तवीर्य उवाच

यदि देव प्रसन्नस्त्वं तत् प्रयच्छर्धिमुत्तमाम् ।
यया प्रजाः पालयेऽहं न चाधर्ममवाप्नुयाम्॥१९.१४॥

परानुसरणे ज्ञानमप्रतिद्वन्द्वतां रणे ।
सहस्रमाप्तुमिच्छामि बाहूनां लघुतागुणम्॥१९.१५॥

असङ्गा गतयः सन्तु शैलाकाशाम्बु-भूमिषु ।
पातालेषु च सर्वेषु वधश्चाप्यधिकान्नरात्॥१९.१६॥

तथोन्मार्गप्रवृत्तस्य चास्तु सन्मार्गदेशकः ।
सन्तु मेऽतिथयः श्लाघ्या वित्तदाने तथाक्षये॥१९.१७॥

अनष्टद्रव्यता राष्ट्रे ममानुस्मरणेन च ।
त्वयि भक्तिर्ममैवास्तु नित्यमव्यभिचारिणी॥१९.१८॥


                दत्तात्रेय उवाच

यत्र ते कीर्तिताः सर्वे तान् वरान् समवाप्स्यसि ।
मत्प्रसादाच्च भविता चक्रवर्तो त्वमीश्वरः॥१९.१९॥


                  जड उवाच

प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्जुनः ।
आनाय्य प्रकृतीः सम्यगभिषेकमगृह्णत॥१९.२०॥

आघोषयामास तदा स्थितो राज्ये स हैहयः ।
दत्तात्रेयात् परामृद्धिमवाप्यातिबलान्वितः॥१९.२१॥

अद्यप्रभृति यः शस्त्रं मामृतेऽन्यो ग्रहीष्यति ।
हन्तव्यः स मया दस्युः परिहंसारतोऽपि वा॥१९.२२॥

इत्याज्ञप्तेन तद्राष्ट्रे कश्चिदायुधधृङ्नरः ।
तमृते पुरुषव्याघ्रं बभूवोरुपराक्रमः॥१९.२३॥
_________________________
स एव ग्रामपालोऽभूत् पशुपालः स एव च ।
क्षेत्रपालः स एवासीद् द्विजातीनाञ्च रक्षिता॥१९.२४॥

तपस्विनां पालयिता सार्थपालस्तु सोऽभवत् ।
द्स्यु-व्यालाग्रि-शस्त्रादि-भयेष्वब्धौ निमज्जताम्॥१९.२५॥

अन्यासु चैव मग्रानामापत्सु परवीरहा ।
स एव संस्मृतः सद्यः समुद्धर्ताभवन्नृणाम्॥१९.२६॥

अनष्टद्रव्यता चासीत् तस्मिन् शासति पार्थिवे ।
तेनेष्टं बहुभिर्यज्ञैः समाप्तवरदक्षिणैः॥१९.२७॥

तेनैव च तपस्तप्तं संग्रामेष्वभिचेष्टितम् ।
तस्यार्धिमतिमानञ्च दृष्ट्वा प्राहाङ्गिरा मुनिः॥१९.२८॥

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा संग्रामे चातिचेष्चितैः॥१९.२९॥

दत्तात्रेयाद्दिन् यस्मिन् स प्रापर्धि नरेश्वरः ।
तस्मिंस्तस्मिन् दिने यागं दत्तात्रेयस्य सोऽकरोत्॥१९.३०॥

तत्रैव च प्रजाः सर्वास्तस्मिन्नहनि भूपतेः ।
तस्यर्धि परमां दृष्ट्वा यागं चक्रुः समाधिना॥१९.३१॥

इत्येतत् तस्य माहात्म्यं दत्तात्रेयस्य धीमतः ।
विष्णोश्चराचरगुरोरनन्तस्य महात्मनः॥१९.३२॥

प्रादुर्भावाः पुराणेषु कथ्यन्ते शार्ड्गधन्विनः ।
अनन्तस्याप्रमेयस्य शङ्ख-चक्र-गदाभृतः॥१९.३३॥

एतस्य परमं रूपं यश्चिन्तयति मानवः ।
स सुखी स च संसारात् समुत्तीर्णोऽचिराद्भवेत्॥१९.३४॥

सदैव वैष्णवानाञ्च भक्त्याहं सुलभोऽस्मि भोः ।
इत्येवं यस्य वै वाचस्तं कथं नाश्रयेज्जनः॥१९.३५॥

अधर्मस्य विनाशाय धर्माचारार्थमेव च ।
अनादिनिधनो देवः करोति स्थिति-पालनम्॥१९.३६॥

तथैव जन्म चाख्यातमलर्कं कथयामि ते ।
तथा च योगः कथितो दत्तात्रेयेण तस्य वै ।
पितृभक्तस्य राजर्षेरलर्कस्य महात्मनः॥१९.३७॥


इति श्रीमार्कण्डेयपुराणे दत्तात्रेयीये ऊनविंशोऽध्यायः
________________________,,
20(18)

विंशोऽध्यायः

जड उवाच

प्राग्बभूव महावीर्यः शत्रुजिन्नाम पार्थिवः ।
तुतोष यस्य यज्ञेषु सोमावाप्त्या पुरन्दरः॥२०.१॥

तस्यात्मजो महावीर्यो बभूवारिविदारणः ।
बुद्धि-विक्रम-लावण्यैर्गुरुशक्राश्विभिः समः॥२०.२॥

स समानवयो-बुद्धि-सत्त्व-विक्रम-चेष्टितैः ।
नृपपुत्रो नृपसुतैर्नित्यमास्ते समावृतः॥२०.३॥

कदाचिच्छास्त्रसम्भार-विवेककृतनिश्चयः ।
कदाचित् काव्यसंलाप-गीत-नाटकसम्भवैः॥२०.४॥

तथैवाक्षविनोदैश्च शस्त्रास्त्रविनयेषु च ।
योग्यानि युद्धनागाश्व-स्यन्दनाभ्यासतत्परः॥२०.५॥

रेमे नरेन्द्रपुत्रोऽसौ नरेन्द्रतनयैः सह ।
यथैव हि दिवा तद्वद्रात्रवपि मुदा युतः॥२०.६॥

तेषां तु क्रीडतां तत्र द्विज-भूप-विशां सुताः ।
समानवयसः प्रीत्या रन्तुमायान्त्यनेकशः॥२०.७॥

कस्यचित्त्वथ कालस्य नागलोकान्महीतलम् ।
कुमारावागतौ नागौ पुत्रावश्वतरस्य तु॥२०.८॥

ब्रह्मरूपप्रतिच्छन्नौ तरुणौ प्रियदर्शनौ ।
तौ तैर्नृपसुतैः सार्धं तथैवान्यैर्द्विजन्मभिः॥२०.९॥

विनोदैर्विविधैस्तत्र तस्थतुः प्रीतिसंयुतौ ।
सर्व च ते नृपसुतास्ते च ब्रह्मविशां सुताः॥२०.१०॥

नागराजात्मजौ तौ च स्त्रानसंवाहनादिकम् ।
वस्त्रगन्धानुसयुक्तां चक्रुर्भागभुजिक्रियाम्॥२०.११॥

अहन्यहन्यनुप्राप्ते तौ च नागकुमारकौ ।
आजग्मतुर्मुदा युक्तौ प्रीत्या सूनोर्महीपतेः॥२०.१२॥

स च ताभ्यां नृपसुतः परं निर्वाणमाप्तवान् ।
विनोदैर्विविधैर्हास्य-संलापादिभिरेव च॥२०.१३॥

विना ताभ्यां न बुभुजे न सस्त्रौ न पपौ मधु ।
न रराम न जग्राह शास्त्राण्यात्मगुणर्धये॥२०.१४॥

रसातले च तौ रात्रिं विना तेन महात्मना ।
निश्वासपरमौ नीत्वा जग्मतुस्तं दिने दिने॥२०.१५॥

मर्त्यलोके परा प्रीतिर्भवतोः केन पुत्रकौ ।
सहेति पप्रच्छ पिता तावुभौ नागदारकौ॥२०.१६॥

दृष्टयोरत्र पाताले बहूनि दिवसानि मे ।
दिवा रजन्यामेवोभौ पश्यामि प्रियदर्शनौ॥२०.१७॥


जड उवाच

इति पित्रा स्वयं पृष्टौ प्रणिपत्य कृताञ्जली ।
प्रत्यूचतुर्महाभागावुरगाधिपतेः सुतौ॥२०.१८॥


पुत्रावूचतुः

पुत्रः शत्रुजितस्तात नाम्ना ख्यात ऋतध्वजः ।
रूपवानार्जवोपेतः शूरो मानी प्रियंवदः॥२०.१९॥

अनापृष्टकथो वाग्ग्मी विद्वान् मैत्रो गुणाकरः ।
मान्यमानयिता धीमान् ह्रीमान् विनयभूषणः॥२०.२०॥

तस्योपचारसम्प्रीति-सम्बोगापहृतं मनः ।
नागलोके भुवर्लोके न रतिं विन्दते पितः॥२०.२१॥

तद्वियोगेन नस्तात ! न पातालञ्च शीतलम् ।
परितापाय तत्सङ्गादाह्लादाय रविर्दिवा॥२०.२२॥


पितोवाच

पुत्रः पुण्यवतो धन्यः स यस्यैवं भविद्विधैः ।
परोक्षस्यापि गुणिभैः क्रियते गुणकीर्तनम्॥२०.२३॥

सन्ति शास्त्रविदोऽशीलाः सन्ति मूर्खाः सुशीलिनः ।
शास्त्रशीले समं मन्ये पुत्रौ धन्यतरन्तु तम्॥२०.२४॥

तस्य मित्रगुणान् मित्राण्यमित्राश्च पराक्रमम् ।
कथयन्ति सदा सत्सु पुत्रवांस्तेन वै पिता॥२०.२५॥

तस्योपकारिणः कच्चिद् भवद्भ्यामभिवाञ्छितम् ।
किञ्चिन्निष्पादितं वत्सौ परितोषाय चेतसः॥२०.२६॥

स धन्यो जीवितं तस्य तस्य जन्म सुजन्मनः ।
यस्यार्थिनो न विमुखा मित्रार्थो न च दुर्बलः॥२०.२७॥

मद्गृहे यद् सुवर्णादि रत्नं वाहनमासनम् ।
यच्चान्यत् प्रीतये तस्य तद्देयमविशङ्कया॥२०.२८॥

धिक् तस्य जीवितं पुंसो मित्राणामुपकारिणाम् ।
प्रतिरूपमकुर्वन् यो जीवामीत्यवगच्छति॥२०.२९॥

उपकारं सुहृद्वर्गे योऽपकारञ्च शत्रुषु ।
नृमेघो वर्षति प्राज्ञास्तस्येच्छन्ति सदोन्नतिम्॥२०.३०॥


पुत्रावूचतुः

किं तस्य कृतकृत्यस्य कर्तुं शक्येत केनचित् ।
यस्य सर्वार्थिनो गेहे सर्वकामैः सदार्च्चिताः॥२०.३१॥

यानि रत्नानि तद्गेहे पाताले तानि नः कुतः ।
वाहनासनयानानि भूषणान्यम्बराणि च॥२०.३२॥

विज्ञानं तत्र यच्चास्ति तदन्यत्र न विद्यते ।
प्राज्ञानामप्यसौ तात सर्वसन्देहहृत्तमः॥२०.३३॥

एकं तस्यास्ति कर्तव्यमसाध्यं तच्च नौ मतम् ।
हिरण्यगर्भ-गोविन्द-शर्वादीनीश्वरादृते॥२०.३४॥


पितोवाच

पथापि श्रोतुमिच्छामि तस्य यद् कार्यमुत्तमम् ।
असाध्यमथवा साध्यं किं वासाध्यं विपश्चिताम्॥२०.३५॥

देवत्वममरेशत्वं तत्पूज्यत्वञ्च मानवाः ।
प्रयान्ति वाञ्छितं वान्यद् दृढं ये व्यवसायिनः॥२०.३६॥

नाविज्ञातं न चागम्यं नाप्राप्यं दिवि चेह वा ।
उद्यतानां मनुष्याणां यतचित्तेन्द्रियात्मनाम्॥२०.३७॥

योजनानां सहस्राणि व्रजन् याति पितीलिकः ।
अगच्छन् वैनतेयोऽपि पादमेकं न गच्छति॥२०.३८॥

क्व भूतलं क्व च ध्रौव्यं स्थानं यत् प्राप्तवान् ध्रुवः ।
उत्तानपादनृपतेः पुत्रः सन् भूमिगोचरः॥२०.३९॥

तत् कथ्यतां महाभाग कार्यवान् येन पुत्रकौ ।
स भूपालसुतः साधुर्येनानृण्यं भवेत वाम्॥२०.४०॥


पुत्रावूचतुः

तेनाख्यातमिदं तात पूर्ववृतं महात्मना ।
कौमारके यथा तस्य वृतं सद्वृत्तशालिनः॥२०.४१॥

तन्तु शत्रुजितं तात पूर्वं कश्चिदिद्वजोत्तमः ।
गालवोऽभ्यागमद्धीमान् गृहीत्वा तुरगोत्तमम्॥२०.४२॥

प्रत्युवाच च राजानं समुपेत्याश्रमं मम ।
कोऽपि दैत्याधमो राजन् विध्वंसयति पापकृत्॥२०.४३॥

तत्तद्रूपं समास्थाय सिंहेभ-वनचारिणाम् ।
अन्येषाञ्चाल्पकायानामहर्निशमकारणात्॥२०.४४॥

समाधिध्यानयुक्तस्य मौनव्रतरतस्य च ।
तथा करोति विघ्रानि यथा चलति मे मनः॥२०.४५॥

दग्धं कोपाग्निना सद्यः समर्थस्त्वं वयं न तु ।
दुः खार्जितस्य तपसो व्ययमिच्छामि पार्थिव॥२०.४६॥

एकदा तु मया राजन्नतिनिर्विण्णचेतसा ।
तत् क्लेशितेन निश्वासो निरीक्ष्यासुरमुज्झितः॥२०.४७॥

ततोऽम्बरतलात् सद्यः पतितोऽयं तुरङ्गमः ।
वाक् चाशरीरिणी प्राह नरनाथ शृणुष्व ताम्॥२०.४८॥

अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः ।
समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः॥२०.४९॥

पातालाम्बरतोयेषु न चास्य विहता गतिः ।
समस्तदिक्षु व्रजतो न भङ्गः पर्वतेष्वपि॥२०.५०॥

यतो भूवलयं सर्वमश्रान्तोऽयं चरिष्यति ।
अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति॥२०.५१॥

क्लिश्यत्यहर्निशं पापो यश्च त्वां दानवाधमः ।
तमप्येनं समारुह्य द्विजश्रेष्ठ हनिष्यति॥२०.५२॥

शत्रुजिन्नाम भूपालस्तस्य पुत्र ऋतध्वजः ।
प्राप्यैतदश्वरत्नञ्च ख्यातिमेतेन यास्यति॥२०.५३॥

सोऽहं त्वां समनुप्राप्तस्तपसो विघ्रकारिणम् ।
तं निवारय भूपाल भागभाङ्नृपतिर्यतः॥२०.५४॥

तदेतश्वरत्नं ते मया भूप निवेदितम् ।
पुत्रमाज्ञापय तथा यथा धर्मो न लुप्यते॥२०.५५॥

स तस्य वचनाद्राजा तं वै पुत्रमृतध्वजम् ।
तमश्वरत्नमारोप्य कृतकौतुकमङ्गलम्॥२०.५६॥

अप्रेषयत धर्मात्मा गालवेन समं तदा ।
स्वमाश्रमपदं सोऽपि तमादाय ययौ मुनिः॥२०.५७॥


इति श्रीमार्कण्डेयपुराणे पिता-पुत्रसंवादे कुवलयाश्वीयोऽ नाम विंशोऽध्यायःः

_________________________


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥

ततः प्रभाते जनकः कृत कर्मा महर्षिभिः ।
उवाच वाक्यम् वाक्यज्ञः शतानंदम् पुरोहितम् ॥१-७०-१॥

भ्राता मम महातेजा यवीयान् अतिधार्मिकः ।
कुशध्वज इति ख्यातः पुरीम् अध्यवसत् शुभाम् ॥१-७०-२॥


वार्या फलक पर्यन्ताम् पिबन् इक्षुमतीम् नदीम् ।
सांकाश्याम् पुण्य संकाशाम् विमानम् इव पुष्पकम् ॥१-७०-३॥

तम् अहम् द्रष्टुम् इच्छामि यज्ञ गोप्ता स मे मतः ।
प्रीतिम् सो अपि महातेजा इमाम् भोक्ता मया सह ॥१-७०-४॥

एवम् उक्तो तु वचने शतानंदस्य संनिधौ ।
आगताः केचिद् अव्यग्रा जनकः तान् समादिशत् ॥१-७०-५॥

शासनात् तु नरेन्द्रस्य प्रययुः शीघ्र वाजिभिः ।
समानेतुम् नरव्याघ्रम् विष्णुम् इन्द्र आज्ञया यथा ॥१-७०-६॥

संकास्याम् ते समागम्य ददृशुः च कुश्ध्वजम् ।
न्यवेदयन् यथा वृत्तम् जनकस्य च चिन्तितम् ॥१-७०-७॥

तद् वृत्तम् नृपतिः श्रुत्वा दूत श्रेष्ठैः महा जवैः ।
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥१-७०-८॥

स ददर्श महात्मानम् जनकम् धर्म वत्सलम् ।
सो अभिवाद्य शतानंदम् जनकम् च अति धार्मिकम् ॥१-७०-९॥


राज अर्हम् परमम् दिव्यम् आसनम् च अध्यरोहत ।

उपविष्टौ उभौ तौ तु भ्रातरौ अमित ओजसौ ॥१-७०-१०॥
प्रेषयामासतुः वीरौ मन्त्रि श्रेष्ठम् सुदामनम् ।

गच्छ मंत्रि पते शीघ्रम् इक्ष्वाकम् अमित प्रभम् ॥१-७०-११॥


आत्मजैः सह दुर्धर्षम् आनयस्व स मंत्रिणम् । औपकार्याम् स गत्वा तु रघूणाम् कुल वर्धनम् ॥१-७०-१२॥

ददर्श शिरसा च एनम् अभिवाद्य इदम् अब्रवीत् ।
अयोध्या अधिपते वीर वैदेहो मिथिला अधिपः ॥१-७०-१३॥

स त्वाम् द्रष्टुम् व्यवसितः स उपाध्याय पुरोहितम् ।
मंत्रि श्रेष्ठ वचः श्रुत्वा राजा स ऋषि गणः तदा ॥१-७०-१४॥

स बन्धुः अगमत् तत्र जनको यत्र वर्तते ।
राजा च मंत्रि सहितः स उपाध्यायः स बांधवः ॥१-७०-१५॥

वाक्यम् वाक्य विदाम् श्रेष्ठो वैदेहम् इदम् अब्रवीत् ।
विदितम् ते महाराज इक्ष्वाकु कुल दैवतम् ॥१-७०-१६॥वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः । विश्वामित्र अभ्यनुज्ञातः सह सर्वैः महर्षिभिः ॥१-७०-१७॥


एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथा क्रमम् ।
तूष्णीम् भूते दशरथे वसिष्ठो भगवान् ऋषिः ॥१-७०-१८॥
उवाच वाक्यम् वाक्यज्ञो वैदेहम् स पुरोधसाम् ।
अव्यक्त प्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥१-७०-१९॥

तस्मात् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ।
विवस्वान् कश्यपात् जज्ञे मनुर् वैवस्वतः स्मृतः ॥१-७०-२०॥
_________________________________________________

मनुः प्रजापतिः पूर्वम् इक्ष्वाकुः च मनोः सुतः ।
तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम् ॥१-७०-२१॥


इक्ष्वाकोः तु सुतः श्रीमान् कुक्षिः इति एव विश्रुतः ।
कुक्षेः अथ आत्मजः श्रीमान् विकुक्षिः उपपद्यत ॥१-७०-२२॥

विकुक्षेः तु महातेजा बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥१-७०-२३॥

अनरण्यात् पृथुः जज्ञे त्रिशंकुः तु पृथोः सुतः ।
त्रिशंकोः अभवत् पुत्रो धुन्धुमारः महायशाः ॥१-७०-२४॥

धुन्धुमारात् महातेजा युवनाश्वो महारथः ।
युवनाश्व सुतः असीत् मान्धाता पृथिवी पतिः ॥१-७०-२५॥

मान्धातुः तु सुतः श्रीमान् सुसन्धिः उदपद्यत ।
सुसंधेः अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥१-७०-२६॥
_____________________________________________

यशस्वी ध्रुवसंधेः तु भरतो नाम नामतः ।
भरतात् तु महातेजा असितो नाम जायत ॥१-७०-२७॥

यस्य एते प्रति राजन उदपत्यन्त शात्रवः ।
हैहय तालजंघाः च शूराः च शशबिंद्वः ॥१-७०-२८॥

तान् च स प्रति युद्ध्यन् वै युद्धे राजा प्रवासितः ।
हिमवन्तम् उपागम्य भार्याभ्याम् सहितः तदा ॥१-७०-२९॥

असितो अल्प बलो राजा काल धर्मम् उपेयिवान् ।
द्वे च अस्य भार्ये गर्भिण्यै बभूवतुः इति श्रुति ॥१-७०-३०॥

_________________________________
एका गर्भ विनाश अर्थम् सपत्नै सगरम् ददौ ।
ततः शैलवरे रम्ये बभूव अभिरतो मुनिः ॥१-७०-३१॥

भार्गव च्यवनो नाम हिमवंतम् उपाश्रितः । तत्र च एका महाभागा भार्गवम् देव वर्चसम् ॥१-७०-३२॥

ववन्दे पद्म पत्राक्षी कांक्षन्ती सुतम् उत्तमम् ।
तम् ऋषिम् सा अभ्युपगम्य कालिन्दी च अभ्यवादत ॥१-७०-३३॥

स ताम् अभ्यवदत् विप्रः पुत्र ईप्सुम् पुत्र जन्मनि ।
तव कुक्षौ महाभागे सु पुत्रः सु महाबलः ॥१-७०-३४॥

महावीर्यो महातेजा अचिरात् संजनिष्यति ।
गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥१-७०-३५॥
_________

च्यवनम् च नमस्कृत्य राजपुत्री पतिव्रता ।
पत्या विरहिता तस्मात् पुत्रम् देवी व्यजायत ॥१-७०-३६॥

सपत्न्या तु गरः तस्यैः दत्तो गर्भ जिघांसया ।
सह तेन गरेण एव संजातः सगरोइ अभवत् ॥१-७०-३७॥
,___________

सगरस्य अस्य असमंजः तु असमंजात् अथ अंशुमान् 
दिलीपो अंशुमतः पुत्रो दिलीपस्य भगीरथः ॥१-७०
-३८॥

भगीरथात् ककुत्स्थः च ककुत्स्थस्य रघुः तथा ।
रघोः तु पुत्रः तेजस्वी प्रवृद्धः पुरुषादकः ॥१-७०-३९॥


कल्माषपादो हि अभवत् तस्मात् जातः तु शङ्खणः ।
सुदर्शनः शंखणस्य अग्निवर्णः सुदर्शनात् ॥१-७०-४०॥

शीघ्रगः तु अग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।
मरोः प्रशुश्रुकः तु आसीत् अंबरीषः प्रशुश्रुकात् ॥१-७०-४१॥
________________________

अंबरीषस्य पुत्रो अभूत् नहुषः च महीपतिः ।
नहुषस्य ययातिः तु नाभागः तु ययाति जः ॥
१-७०-४२॥

नाभागस्य भभूव अज अजात् दशरथो अभवत् ।
अस्मात् दशरथात् जातौ भ्रातरौ राम लक्ष्मणौ ॥१-७०-४३॥

आदि वंश विशुद्धानाम् राज्ञाम् परम धर्मिणाम् ।
इक्ष्वाकु कुल जातानाम् वीराणाम् सत्य वादिनाम् ॥१-७०-४४॥


राम लक्ष्मणयोः अर्थे त्वत् सुते वरये नृप ।
सदृशाभ्याम् नरश्रेष्ठ सदृशे दातुम् अर्हसि ॥१-७०-४५॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥

_____________________ 

     

"भीष्मक के कुल परोहित गौतमऔर अहिल्या पुत्र" 

गोतमस्य शतानन्दो वेदवेदाङ्गपारगः। आप्तः प्रवक्ता विज्ञश्च धर्मी कुलपुरोहितः ।।पृथिव्यां सर्वतत्त्वज्ञो निष्णातः सर्वकर्मसु ।। १८ ।

         "शतानन्द उवाच"

राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः।पृर्वाख्यानं च वेदोक्तं कथयामि निशामय ।१९

भुवो भारावतरणे स्वयं नारायणो भुवि ।वसुदेवसुतः श्रीमान्परिबूर्णतमः प्रभुः ।२० ।।


विधातुश्च विधाता च ब्रह्मेशशेषवन्दितः ।
ज्योतिःस्वरूपः परमो भक्तानुग्रहविग्रहः ।। २१ ।।

परमात्मा च सर्वेषां प्राणिनां प्रकृतेः परः ।
निर्लिप्तश्च निरीहप्तश्च साक्षी च सर्वकर्मणाम् ।। २२ ।।

राजेन्द्र तस्मै कन्यां च परिपूर्णतमाय च ।
दत्त्वा यास्यसि गोलोकं पितॄणां शतकैः सह ।। २३ ।।

लभ सारूप्यमुक्तिं च कन्या दत्त्वां परत्र च ।
इहैव सर्वपूज्यश्च भव विश्वगुरोर्गुरुः ।। २४ ।।

सर्वस्वं दक्षिणां दत्त्वा महालक्ष्मीं च रुक्मिणीम् ।
समर्पणं कुरुविभो कुरुष्व जन्मखण्डनम् ।। २५ ।।

विधाता निखितो राजन्संबन्धः सर्वसंमतः ।
द्वारकानगरे कृष्णं शीघ्रं प्रस्थापय द्विजम् ।। २६ ।।

कृत्वा शुभक्षणं तूर्ण सर्वेषामपि संमतम् ।
आनीय परमात्मानं भक्तानुग्रहविग्रहम् ।। २७ ।।

ध्यानानुरोधहेतुं च नित्यदेहमनुत्तमम् ।
दृष्टिमात्रात्कुरु नृप स्वजन्मकर्मखण्डनम् ।। २८ ।।

यं न जानन्ति चत्वारो वेदाः संतश्च देवताः ।
सिद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयस्तथा ।। २९ ।।

ध्यायन्ते ध्यानपूताश्च योगिनो न विदन्ति यम् ।
सरस्वती जडीभूता वेदाः शास्त्राणियानि च ।। ३० ।।

सहस्रवक्त्रः शेषश्च पञ्चवक्त्रः सदाशिवः ।
चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा ।। ३१ ।।

ऋषयो मुनयश्चैव भक्ताः परमवैष्णवाः ।
अक्षमाः स्तवने यस्य ध्यानासाध्यश्च योगिनाम् ।। ३२ ।।

बालकोऽहं महाराज तद्गुणं कथयामि किम् ।
शतानन्दवचः श्रुत्वा प्रफुल्लवदनो नृपः ।। ३३ ।।

आनिङ्गनं ददौ तस्मै समुत्थाय जवेन च ।
नानारत्नं मुवर्ण च वस्त्रं च रत्नभूषणम् ।। ३४ ।।

ददौ तस्मै प्रदानं च प्रसादसुमुखो नृपः ।
गजेन्द्र तुरगं श्रेष्ठं रथं च मणिनिर्मितम् ।। ३५ ।।

रत्नसिहासनं रम्यं धनं च विपुलं तथा ।
भूमिं च सर्वसस्याढ्यां शश्वद्वृष्टिकरीं शुभाम् ।। ३६ ।।

अकृष्टसाध्यां पूज्यां च ग्रामं सर्वप्रशंसितम् ।
एतस्मिन्नन्तरे रुक्मिश्चुकोप नृपनन्दनः ।। ३७ ।।

कम्पितोऽधर्मयुक्तश्च रक्तास्यो रक्तलोचनः ।
उवाच पितरं व्रिप्रं सभायामस्थिरस्तदा ।। ३८ ।।

उत्याय तिष्ठन्पुरतः सर्वेषां च सभासदाम् ।। ३९ ।।

                       रुक्मिरुवाच
श्रृणु राजेन्द्र वचनं हितं तथयं प्रशंसितम् ।
त्यज वाक्यं भिक्षुकाणां लोभिनां क्रोधिनामहो ।। ४० ।।
_______
नर्तकानां च वैश्यानां भट्टानामर्थिनामपि ।
कायस्थानां च भिक्षूणामसत्यं वचनं सदा ।। ४१ ।।

घटकानां नाटकानां स्त्रीलुब्धाना च कामिनाम् ।
दरिद्राणां च मूर्खाणां स्तुतिपूर्व वचः सदा ।। ४२ ।।

निहत्य कालयवनं राजेन्द्रं दूरतो भिया ।
उवायेन महाबाहो लब्धं कृष्णेन तद्धनम् ।। ४३ ।।

द्वारकाया धनी कृष्णो यवनस्य धनेन च ।
जरासंधभयेनैव समुद्राभ्यन्तरे गृही ।। ४४ ।।
_______
जरासंधशतं चैव क्षणेनैव च लीलया ।
क्षमोऽहं हन्तुमेकाकी राज्ञश्चान्यस्य का कथा ।४५ ।।

दुर्वाससश्च शिष्योऽहं रणशास्त्रविशारदः ।
ध्रुवं भीष्मक तेनैव विश्वं संहर्तुमीश्वरः ।। ४६ ।।

मत्समः पर्शुरामश्च शिशुपालश्च मत्समः ।
सखा च बलवाञ्छूरः स्वर्गं जेतुं स च क्षमः ।। ४७ ।।

महेन्द्रं सगणं जेतुमहमीशः क्षणेन च ।
जित्वा युद्धे जरासंधं दुर्बलं योगिनं नृप ।। ४८ ।।

अहंकारयुतः कृष्णो पीरं स्वं मन्यते धिया ।
यद्यायास्यति मद्ग्रामं विवाहं कर्तुमीप्सितम् ।। ४९ ।।
______________________________________________
ध्रुवं प्रस्थापयिष्यामि क्षणेन यममन्दिरम् ।
अहो नन्दस्य वैश्यस्य तस्मै गोरक्षकाय च ।। ५० ।।

साक्षाज्जाराय गोपीनां गोपालोच्छिष्टभोजिने ।
करोषि कन्यास्वीकारं देवयोग्यां च रुक्मिणीम् ।। ५१ ।।

दातुमिच्छसि वाक्येन भिङुकस्य द्विजस्य च ।
राजेन्द्र बुद्धिहीनोऽसि वचनाद्वद्ग(दुर्ब) लस्य च ।। ५२ ।।

मा राजपुत्रो माशूरो म कुलीनश्च मा शुचिः ।
मा दाता मा धनाढ्यश्च मा योग्यो मा जितेन्द्रियः ।। ५३ ।।

कन्यां देहि सुपुत्राय शिशुपालाय भूमिप ।
बलेन रुद्रतुष्टाय राजेन्द्रतनयाय च ।। ५६ ।।

निमन्त्रणं कुरु नृप नानादेशभवान्नृपान् ।
बान्धवांश्च मुनीन्द्रांश्च पत्रद्वारा त्वरान्वितः ५५ ।।
___________________________
अङ्गं कलिङ्गं मगधं सौराष्ट्रं वल्कलं वरम् ।
राटं वरेन्द्रं वङ्गं च गुर्जरटिं च पठेरम् ।। ५६ ।।


महाराष्ट्रं विराटं च मुद्गलं च मुरङ्गकम् ।
भल्लकं गल्लकं खर्व दुर्गं प्रस्थापय द्विजम् ।। ५७ ।।

घृतकुल्यासहस्रं च मधुकुल्यासहस्रकम् ।
दधिकुल्यासहस्रं च दुग्धकुल्यासहस्रकम् ।। ५८ ।।

तैलकुल्यापञ्चशतं गुडकुल्याद्विलक्षकम् ।
शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम् ।। ५९ ।।

यवगोधूमचूर्णानां पिष्टराशिशतं शतम् ।
पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम् ।। ६० ।।

गवां लक्षं छेदनं च हरिणानां द्विलक्षकम् ।
चतुर्लक्षं शशानां च कूर्माणां च तथा कुरु ।। ६१ ।।

दशलक्षं छागलानां भेटानां तच्चतुर्गुणम् ।
पर्वणि ग्रामदेव्यै च बलिं देहि च भक्तितः ।। ६२ ।।

एतेषां पक्वमांसं च भोजनार्थ च कारय ।
परिपूर्ण व्यञ्जनानां सामग्रीं कुरु भूमिप ।। ६३ ।।

अथ श्रुत्वा च तद्वाक्यं राजेन्द्रः सपुरोहितः ।
चकार मन्त्रणां तूर्ण निर्जने मन्त्रिणा सह ।। ६४ ।।

द्विजं प्रस्थापयामास द्वारकां योग्यमीप्सितम् ।
कृत्वा च शुभलग्नं च सर्वेषामभिवाञ्छितम् ।। ६५ ।।

राजा संभृतसंभारो बभूव सत्वरं मृदा ।
निमन्त्रणं च सर्वत्र चकार च सुताज्ञया ।। ६६ ।।

विप्रः सुधर्मां संप्राप्य नृपैर्देवैश्च वेष्टिताम् ।
प्रददी पत्रिकां भद्रामुग्रसेनाय भूभृते ।। ६७ ।।

प्रफुल्लवदनो राजा श्रुत्वा पत्रं सुमङ्गलम् ।
सुवर्णानां सहस्रं च ब्राह्मणेभ्यो ददौ मुदा ।। ६८ ।।

दुंदुभिं वादयामास द्वारकायां च सर्वतः ।
देवान्मुनीन्नृपांश्चैव ज्ञातिवर्गाश्च बान्धवान् ।। ६९ ।।


भट्टांश्च भिक्षुकांश्चैव भोजयामास सादरम् ।
श्रीकृष्णस्य सृवेषं च कारयामास भूपतिः ।। ७० ।।

अतीव रम्यमतुलं त्रेषु लोकेषु दुल्रभम् ।
यात्रां च कारयामास जगतां प्रवरं वरम् ।। ७१ ।।

वेदमन्त्रेण रम्येण माहेन्द्रे सुमनोहरे ।
आदौ ब्रह्मा रथस्थश्च सावित्र्या सहितो ययौ ।। ७२ ।।

रथस्यश्च महाहृष्टो भवान्या च भवः स्वयम् ।
शेषश्चापि दिनेशश्च गणेशश्चापि कार्तिकः ।। ७३ ।।

महेन्द्रश्चतथा चन्द्रो वरुणः पवनस्तथा ।
कुबेरश्च यमो वह्निरीशानोऽपि ययौ मुदा ।। ७४ ।।

देवानां च त्रिकोट्यश्च मुनीनां षष्टिकोटयः ।
राजेन्द्राणां त्रिलक्षं च श्वेतच्छत्रं त्रिलक्षकम् ।। ७५ ।।

उग्रसेनो बभौ राजा नक्षत्रेषु यथा शशी ।
ययौ प्रसन्नवदनः कुण्डिनाभिमुखो बली ।। ७६ ।।


रत्ननिर्माणयानेन बलदेवो महाबलः ।
वसुदेवश्चोद्धवश्च नन्दोऽक्रूरश्च सात्यकिः ।। ७७ ।।
__________________________________
गोपाला यादवेन्द्राश्च चन्द्रवंश्याश्च ते ययुः ।
धृतराष्ट्रसुताः सर्वे दुर्योधनपुलोगमाः ।। ७८ ।।

युधिष्ठिरस्तथा भीमः फाल्गुनो नकुलस्तथा ।
सहदेवश्च यानैश्च प्रययुः पञ्च पाण्डवाः ।। ७९ ।।

भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा महाबलः ।
कृपाचार्यश्च शकुनिः शल्यश्चप्रययौ मुदा ।। ८० ।।

भटानां च त्रिकोट्यश्च विप्राणां शतकोटयः ।
संन्यासिनां सहस्रं च यतीनां ब्रह्मचारिणाम् ।। ८१ ।।

द्विसहस्रं जितक्रोधाश्चावधूतास्तथैव च ।
उत्पलानां सहस्रं च सहस्रं पुष्पकारिणाम् ।। ८२ ।।

नानाशिर्पकराश्चैव विचित्रं चित्रमेव च ।
लक्षं च वाद्यभाण्डानां नर्तकानां च लक्षकम् ।। ८३ ।।

गन्धर्वाणां गायकानां लक्षमेव तु नारद ।
तत्र कल्पे भक्त्येव गन्धर्वश्चोपबर्हणः ।। ८४ ।।

पञ्चाशत्कामिनीभिश्च त्वमेव तेषु मध्यगः ।
विद्याधरीणां लक्षं च लक्षमप्सरसां तथा ।। ८५ ।।

किन्नराणां त्रिलक्षं चगन्धर्वाणां त्रिलक्षकम् ।। ८६ ।।

इति श्रीब्रह्मवैवर्त महापुराण श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारदनाo रुक्मिण्युद्वाहे
पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।

_____________________

    (भीष्मक के पुरोहित शतानन्द)

गोतमस्य शतानन्दो वेदवेदाङ्गपारगः ।
आप्तः प्रवक्ता विज्ञश्च धर्मी कुलपुरोहितः ।।
पृथिव्यां सर्वतत्त्वज्ञो निष्णातः सर्वकर्मसु ।। १८ ।।

              (शतानन्द उवाच)
राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः ।
पृर्वाख्यानं च वेदोक्तं कथयामि निशामय ।। १९ ।।

भुवो भारावतरणे स्वयं नारायणो भुवि ।
वसुदेवसुतः श्रीमान्परिबूर्णतमः प्रभुः ।। २० ।।

विधातुश्च विधाता च ब्रह्मेशशेषवन्दितः ।
ज्योतिःस्वरूपः परमो भक्तानुग्रहविग्रहः ।। २१ ।।


इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे
पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।

              वशतानन्द उवाच
राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः ।
पृर्वाख्यानं च वेदोक्तं कथयामि निशामय ।। १९ ।।

_____________

  
          (महाभारतम्) (शांतिपर्व

             वैशंपायन उवाच।
ततः कल्यं समुत्थाय कृतपूर्वाह्णिकक्रियाः।
ययुस्ते नगराकारैः रथैः पाण्डवयादवाः।12/58/1



प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघम्।
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्।।12/158/2


य एष राजन्राजेति शब्दश्चरति भारत।
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह।।12/58/5

              ।भीष्म उवाच। 
नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः।
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्।।12/58/13 

नैव राज्यं न राजाऽऽसीन्न च दण्डो न दाण्डिकः।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम्।।12/58/14



मृत्योस्तु दुहिता राजन्सुनीथा नाम नामतः।
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत्।।१२/५८/१०

____________________________________ _____
                    ।।परंतप।।
वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान्।
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः।।१२/५८/११८


एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः।
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः।।१२/५८/११९


मन्त्रिणो वालखिल्याश्च सारस्वत्यो गणस्तथा।
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत्।।१२/५८/१२०


आत्मनाऽष्टम इत्येव श्रुतिरेषां परा नृषु।
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ।।१२/५८/१२१


तयो प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान्।
अनूपदेशं सूताय मगधं मागधाय च।।१२/५८/१२२

तेन धर्मोत्तरश्चायं कृतो लोको महात्मना।
रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते।।१२/५८/१३३

ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते।
प्रथिता धर्मतश्चेयं पृथिवी साधुभिः स्मृता।।१२/५८/१३४

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टपञ्चाशोऽध्यायः।। 58।

_________________________________________
हरिवंश पुराण विष्णु पर्व (संस्कृत) अध्याय 58 
श्लोक 74-80   
संगृह्य वचनं तस्यम कृष्णस्याक्लिष्टृकर्मण:।
वायुरात्मोनपमगर्जिगाम त्रिदिवायलम्।।74।।

सोऽनुमान्यन सुरान् सर्वान् कृष्णवाक्यं निवेद्य च।
सभां सुधर्मामादाय पुरायान्महीतलम्।।75।।

सुधर्माय सुधर्मां तां कृष्णा याक्लिष्टरकारिणे। 
देवो देवसभां दत्वाता वायुरन्तरधीयत।।76।। 

द्वारवत्यास्तु सा मध्येन केशवेन निवेशिता। 
सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा।।77।। 

एवं दिव्यैुश्च भोगैश्च जलजैश्चा व्ययो हरि:।
 द्रव्यैरलंकरोति स्मन पुरीं स्वां प्रमदामिव।।78।। 

मर्यादाश्चैव संचक्रे श्रेणीश्च प्रकृतीस्तपथा। 
बलाध्याक्षांश्चं युक्तांश्च प्रकृतीशांस्तथैव च।।79।।

 उग्रसेनं नरपतिं काश्यं चापि पुरोहितम्। सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुंगवम्।।80।।

यादवानां कुलकरान् स्थिविरान् दश तत्र वै।
मतिमान् स्थापयामास सर्वकार्येष्वणनन्तरान्।।81।।

रथेश्वातिरथे यन्ता दारुक: केशवस्य् वै।
योधमुख्य‍श्च् योधानां प्रवर: सात्यकि: कृत:।।82।।

विधानमेवं कृत्वाथ कृष्णा: पूर्यामनिन्दित: ।
मुमुदे यदुभि: सार्द्धं लोकस्त्रवष्टा् महीतले ।।83।।

रेवतस्यादथ कन्यां च रेवतीं शीलसम्मताम् ।
प्राप्तावान् बलदेवस्तु कृष्णमस्यानुमते तदा ।।84।।
 
इति  श्री महाभारते खिलभागे हरिवंशे विष्णुवपर्वणि द्वारवतीनिर्माणेअष्टपंचाशत्तामोअध्याय:।
____________

हरिवंश पुराण: विष्णु पर्व: अष्टपश्चाशत्तम अध्याय: श्लोक 74-84 का हिन्दी अनुवाद

अनायास ही महान् कर्म करने वाले श्रीकृष्ण का संदेश लेकर अपने ही समान गति वाले वायुदेव स्वर्ग लोक में गये। उन्होंने समस्त देवताओं को आदरपूर्वक श्रीकृष्ण का वचन सुनाया और उनकी अनुमति से सुधर्मा सभा को लेकर वे पुनः भूतल पर आये। अनायास ही महान् कर्म करने वाले सुधर्मात्मा श्रीकृष्ण को वह सुधर्मा नामक देवसभा देकर वायुदेव अन्तर्धान हो गये। श्रीकृष्ण ने द्वारकापुरी के मध्य भाग में उस सुधर्मा सभा को स्थापित किया। जैसे स्वर्ग में देवताओं की सभा है, उसी प्रकार भूतल पर वह प्रमुख यादवों की सभा हुई।

इस प्रकार अविनाशी श्रीहरि दिव्य भोगों तथा समुद्र के जल से प्रकट हुए द्रव्यों (रत्नों) से अपनी पुरी को युवती स्त्री की भाँति अलंकृत करते थे। उन्होंने सबके लिये धर्म की मर्यादाएँ बाँध दी। व्यापारियों, प्रजाजनों, सेनापतियों तथा प्रजावर्ग के शासकों के लिये भी समुचित मर्यादाएँ स्थापित कर दीं। उग्रसेन को द्वारका का राजा बनाया, काशी के विद्वान सान्दीपनि मुनि को पुरोहित के पद पर प्रतिष्ठित किया। अनाधृष्टि को सेनापति तथा विकद्रु को प्रधान मन्त्री बनाया। बुद्धिमान श्रीकृष्ण ने यादवों के वंशधर दस बड़े-बूढ़े पुरुषों को सभी कार्यों में सलाह देने के लिये अवान्तर मन्त्री के पद पर स्थापित किया था।

रथों में अतिरथी दारुक भगवान् श्रीकृष्ण का सारथि था। योद्धाओं में श्रेष्ठ सात्यकि ही समस्त योद्धाओं के प्रधान बनाये गये थे। समस्त लोकों के स्रष्टा अनिन्द्य कीर्ति वाले भगवान् श्रीकृष्ण इस प्रकार वैधानिक व्यवस्था करके द्वारकापुरी में यादवों के साथ आनन्दपूर्वक रहने लगे। उस समय श्रीकृष्ण की अनुमति से बलदेव जी ने राजा रेवत की सुशीला कन्या रेवती को पत्नी रूप में ग्रहण किया।

इस प्रकार श्रीमहाभारत के खिलभाग हरिवंश के अन्तर्गत विष्णु पर्व में द्वारावती का निर्माणविषयक अट्ठावनवाँ अध्याय पूरा हुआ।




 महर्षि गर्ग के विषय में वर्णन है कि वे

पुरोधाश्‍चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ।
मन्त्रिणो बालखिल्याश्‍च सारस्वत्यो गणस्तथा ॥
महर्षिर्भगवान् गर्गस्तस्य सांवत्सरोऽभवत् ॥११०-१११॥


फिर शुक्राचार्य उन राजा पृथु के  पुरोहित हुए, जो वैदिक ज्ञान के भण्डार थे ।  बालखिल्यगण तथा सरस्वती तटवर्ती महर्षियों के समुदाय ने उनके मंत्री के कार्य को सम्भाला  महर्षि भगवान् गर्ग उनकी राजसभा के ज्योतिषी थे ।


आत्मनाष्टम् इत्येव श्रुतिरेषा परा नृषु ।
उत्पन्नौ वन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥११२॥

मनुष्यों में यह लोकोक्ति प्रसिद्ध है कि स्वयं राजा पृथु, भगवान् विष्णु से आठवीं पीढ़ी में थे । वह वंशावली इस प्रकार है -


१. विष्णु
२. विरजा
३. कीर्तिमान्
४. कर्दम
५. अनंग
६. अतिबल
७. वेन
८. पृथु

उनके जन्म से पहले ही सूत और मागध नामक दो स्तुति-पाठक उत्पन्न हुए थे ।
वेन के पुत्र प्रतापी राजा पृथु ने उन दोनों को प्रसन्न होकर पुरस्कार दिया ।

सूत को अनूप देश (सागरतटवर्ती प्रान्त) और मागध को मगध देश प्रदान किया ।

पृथु के समय तक यह पृथ्वी बहुत उंची नीची थी, उन्होंने इसको समतल बनाकर कृषि के योग्य बनाया । इनके राजतिलक पर देवराज इन्द्र भी पधारे थे । 
उन्होंने इनको अक्षयधन समर्पित किया था और कुबेर ने भी इनको इतना धन दिया जिससे इनके समस्त कार्य भलीभांति सिद्ध हों । 
इनकी विशाल सेना में घोड़े, रथ, हाथी आदि पर्याप्‍त संख्या में थे । सभी प्रजा स्वस्थ और सुखी थी । किसी वस्तु का दुर्भिक्ष न पड़ता था । सब प्रकार की आधि व्याधियों के कष्टों से मुक्त थे । राजा की ओर से सुरक्षा का इतना अच्छा प्रबन्ध था कि किसी प्रकार का सर्पादि हिंसक जीवों तथा चोरों का भय प्रजा को न था ।
।भारतीय मिथकों में ये कथानक प्रागैतिहासिक भारोपीय है यूनानी मिथकों में प्रॉटियस् देवता इसका प्रतिरूप है और वैन ही वन (ऑन) है 

राजा शब्द की व्युत्पत्ति का स्वरूप

तेन धर्मोत्तरश्‍चायं कृतो लोको महात्मना ।
रंजिताश्‍च प्रजाः सर्वास्तेन राजेति शब्दयते ॥
(महाभारत अनुशासन पर्व ५९-१२५)

उस महात्मा पृथु ने सम्पूर्ण जगत् में धर्म की प्रधानता स्थापित कर दी थी । उन्होंने समस्त प्रजाओं को प्रसन्न (रंजित) किया था, इसलिए वे राजा कहलाये, उनका राजा नाम सार्थक था ।

_________

ब्राह्मणों की क्षति से त्राण करने वाला ही क्षत्रिय है 
एक स्वार्थ परक व्युत्पत्ति पूर्वाग्रह जबकि सही व्युत्पत्ति है निर्बल असाह्ययों की क्षति से रक्षा करने वाला।
ब्राह्मणानां क्षतत्राणात् ततः क्षत्रिय उच्यते ।
प्रथिता धर्मतश्‍चेयं पृथिवी बहुभिः स्मृता ॥१२६॥

ब्राह्मणादि को क्षति से बचाने के कारण वे क्षत्रिय कहे जाने लगे ।  उन्होंने धर्म के द्वारा इस भूमि को प्रथित (विस्तृत) किया और इसकी ख्याति बढ़ाई, इसलिए बहुसंख्य्क मनुष्यों द्वारा पृथ्वी कहलाई ।
_________________________________


शाण्डिल्य को  त्रेतायुग में राजा दिलीप का राजपुरोहित बताया गया  एक समय में वे राजा त्रिशंकु के पुरोहित थे वहीं द्वापर में वे गोप अथवा आभीर नन्द - जो वृष्णि वंशी यादव थे उनके पुरोहित थे।
 तो दूसरे समय में वे महाभारत के नायक भीष्म पितामह के साथ वार्तालाप करते हुए दिखाए गए हैं। 

कलयुग के प्रारंभ में वे जन्मेजय के पुत्र शतानीक के पुत्रेष्ठित यज्ञ को पूर्ण करते दिखाई देते हैं। 
इसके बाद ही वस्तुत: शाण्डिल्य एक गोत्र हो गया है लेकिन कालांतार में उनके नाम से उपाधियां शुरू हुईं जैसे वशिष्ठ, विश्‍वामित्र और व्यास नाम से उपाधियां होती हैं।
कहने का तात्पर्य है कि पुरोहित वंश अथवा कुलान्तर्गत न होकर केवल सुविधा परक और व्यवसाय परक था 
परन्तु कुछ अल्प ज्ञानी कहते है कि अहीरों के पुरोहित शाण्डिल्य और यादवों के गर्ग थे परन्तु उन मूर्खों को नहीं पता कि गर्ग आचार्य जब एक बार शूरसैन के दरबार आये थे तब कुछ दरबारी सामन्तों के गर्ग के विषय में यह कहने पर कि ये ज्योतिष के प्रकाण्ड विद्वान हैं और ये राजा शूरसेन के पुरोहित पद पर आसीन हों तभी से वे गर्गाचार्य सम्पूर्ण यादवों के नहीं अपितु केवल शूरसेन के ही पुरोहित थे जबकि शूरसेन के पिता  देवमीढ के पुरोहित भी गर्ग नहीं थे ।
और उग्रसेन के पुरोहित सान्दीपन जो काशी के विद्वान थे । और क्रोष्टा वंशी यादव रुक्मिणी के पिता भीष्मक के पुरोहित गौतम और अहिल्या के पुत्र शतानन्द थे ।


 गर्ग सहस्र बाहू के पुरोहित थे और महर्षि गर्ग मुनि ने ही श्री शंकर का विवाह पार्वती के साथ सम्पन्न करवाया था।
 यह महाराजा हिमाचल के और पृथ्वी के प्रथम राजा माने जाने वाले पृथु के कुलगुरु व राजगुरु  और कुलपुरोहितपद से सुशोभित रहे है।

 और गर्ग ने भी केवल बलराम और कृष्ण का नामकरण संस्कार किया था  नकि यज्ञोपवीत संस्कार 
_________________________________
श्रीमद्भागवतपुराणम्(स्कन्धः १०)
पूर्वार्धः अध्यायः( ८)

                    ।।श्रीनन्द उवाच ।।
 अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे ।
 कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥
                      ।श्रीशुक उवाच ।
 एवं संप्रार्थितो विप्रः स्वचिकीर्षितमेव तत् ।
 चकार नामकरणं गूढो रहसि बालयोः ॥ ११ ॥
 श्रीगर्ग उवाच ।

_______________________________________

आर्य्या ही  दुर्गा और गायत्री के रूप में वैष्णव देवी है जो कृषि और युद्ध की अधिष्ठात्री देवता तथा गोपों की वंश संरक्षण देवी है । इस बात का प्रमाण भारतीय पुराणों में है । आर्य्य शब्द का प्राचीन भाषाओं में कृषि गो पालन करने वाले लोके के अर्थ में रूप है । आर्य्या देवी की स्तुति करते हुए देवी के मौलिक गुणों का वर्णन किया गया है ।  हरिवंश पुराण और महाभारत में भी नन्द गप

 समता के रूप में आर्य क्या की स्तुति की गयी है । 

(हरिवंश पुराण: विष्णु पर्व: तृतीय अध्याय:में वर्णन है कि )"

                        "वैशम्पायन उवाच"

"आर्यास्तवं प्रवक्ष्यामि यथोक्तमृषिभिः पुरा ।नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम् ।१।

अर्थ-वैशम्पायन जी कहते हैं- जनमेजय ! पूर्वकाल में जैसा ऋषियों ने बताया है, उसके अनुसार मैं आर्या देवी की स्तु्ति का वर्णन करता हूँ। तीनों लोकों की अधीश्वरी नारायणी देवी को नमस्कार करता हूँ। 

त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या संनतिर्मतिः । संध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च ।। २ ।।

अर्थ-देवि! तुम्हीं सिद्धि धृति, कीर्ति, श्री, विद्या, संनति, मति, संध्यां, रात्रि, प्रभा, निद्रा, और कालरात्रि हो।  

आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी। जननी सिद्धसेनस्य उग्रचारी महाबला ।३ ।।

अर्थ-आर्या, कात्यायनी, देवी कौशिकी, ब्रह्मारिणी, सिद्धसेन (कुमार कार्तिकेय) की जननी, उग्रचारिणी तथा महान बल से सम्पन्न हो। 

_________________________

जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया ।ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ।। ४।।

अर्थ-जया, विजया, पुष्टि, तुष्टि, क्षमा, दया, यम की ज्येष्ठ बहिन तथा नीले रंग की रेशमी साड़ी पहनने वाली हो।

_____________

शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता।मयूरपिच्छध्वजिनी लोकान् क्रमसि सर्वशः।७।

अर्थ-शबरों, बर्बरों और पुलिन्दों ने भी तुम्हारा अच्छी तरह से पूजन किया है। तुम मोरपंख की ध्वजा से सुशोभित हो और क्रमश: सभी लोकों में विचरती रहती हो।

"कुकुटैश्छागलैर्मेषैः सिंहैर्व्याघ्रैः समाकुला ।घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता ।। ८ ।।

अर्थ-मुर्गे, बकरे, भेड़, सिंह तथा व्याघ्र आदि पशु-पक्षी तुम्हें सदा घेरे रहते हैं। तुम्हारे पास घण्टा की ध्वनि अधिक होती है। तुम ‘विन्यवासिनी’ नाम से विख्यात हो।

"भगिनी बलदेवस्य रजनी कलहप्रिया ।आवासः सर्वभूतानां निष्ठा च परमा गतिः ।। 2.3.१० ।।

अर्थ-बलदेव जी की बहिन हो। रात्रि तुम्हारा स्वरूप है। कलह तुम्हें प्रिय लगता है। तुम सम्पू्र्ण भूतों का आवास स्थान, मृत्यु तथा परम गति हो। 

"नन्दगोपसुता चैव देवानां विजयावहा ।चीरवासाः सुवासाश्च रौद्री संध्याचरी निशा ।। ११ ।।

अर्थ-तुम नन्दगोप की पुत्री देवताओं को विजय दिलाने वाली, चीर वस्त्रआधारिणी, सुवासिनी रौद्री संध्याकाल में विचरने वाली और रात्रि हो।

_________________________________

गौतमीं कंसभयदां यशोदानन्दवर्द्धिनीम् ।मेध्यां गोकुलसम्भूतां नन्दगोपस्य नन्दिनीम् ।। ७ ।।

(हरिवंश पुराण विष्णु पर्व १२० वाँ अध्याय)



  चतुर्थ विराटपर्व के अष्टम अध्याय के प्रथम श्लोक से षड्त्रिंशत् (36) श्लोक पर्यन्त -

विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः स्तवनम् । 1। 

________________________________________

                ।वैशंपायन उवाच।


विराटनगरं रम्यं गच्छमानो युधिष्ठिरः।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ।।1।

वैशम्पायन जी कहते हैं- राजन् ! विराट के रमणीय नगर में प्रवेश करते समय महाराज युधिष्ठिर ने मन-ही-मन त्रिभुवन की अधीश्वरी दुर्गा देवी का इस प्रकार स्तवन किया-


यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ।। 2।

‘जो यशोदा के गर्भ से प्रकट हुई है, जो भगवान नारायण को अत्यन्त प्रिय है, नन्दगोप के कुल में जिसने अवतार लिया है

कंसविद्रावणकरीमसुराणां क्षयंकरीम्।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ।3 ।

जो कंस को भयभीत करने वाली और असुरों का संहार करने वाली है, कंस के द्वारा पत्थर की शिला पर पटकी जाने पर जो आकाश में उड़ गयी थी

वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्।
दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ।। 4 ।।

जिसके अंग दिव्य गन्धमाला एवं आभूषणों से विभूषित हैं, जिसने दिव्य वस्त्र धारण कर रक्खा है, जो हाथों में ढाल और तलवार धारण करती है वसुदेवनन्दन श्रीकृष्ण की भगिनी उस दुर्गा देवी का मैं चिन्तन करता हूँ। 


भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् । 5 ।

पृथ्वी का भार उतारने वाली पुण्यमयी देवी! तुम सदा सबका कल्याण करने वाली हो। 

( जो लोग तुम्हारा स्मरण करते हैं, निश्चय कर तुम उन्हें पाप और उसके फलस्वरूप होने वाले दुःख से उबार लेती हो ) ठीक उसी तरह, जैसे कोई पुरुष कीचड़ में फँसी हुई गाय का उद्धार कर देता है’।

________


स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः।6।


नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ।। 7 ।


चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे।
मयूरपिच्छवलये केयूराङ्गदधारिणि ।। 8 ।।


भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ।। 9 ।।


कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ।। 10 ।।


पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ।। 11।


कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ।।12 ।।


मुकुटेन विचित्रेण केशबन्धेन शोभिना।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ।। 13।।


विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ।।14 ।।


कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ।।15 ।।

____________


अर्थ- तत्पश्चात् भाइयों सहित राजा युधिष्ठिर ने देवी के दर्शन की अभिलाषा रखकर नाना प्रकार के स्तुतिपरक नामों द्वारा उन्हें सम्बोधित करके पुनः उनकी स्तुति प्रारम्भ की-

‘इच्छानुसार उत्तम वर देने वाली देवि! तुम्हें नमस्कार है। सच्चिदानन्दमयी कृष्णे! तुम कुमारी और ब्रह्मचारिणी हो। 

तुम्हारी अंगकान्ति प्रभातकालीन सूर्य के सदृश लाल है। तुम्हारा मुख पूर्णिमा के चन्द्रमा की भाँति आल्हाद प्रदान करने वाला है। 

तुम चार भुजाओं से सुशोभित विष्णुरूपा और चार मुखों से अलंकृत हो। तुम्हारे नितम्ब और उरोज पीन हैं। तुमने मोर पंख का कंगन धारण किया है तथा केयूर और अंगद पहन रक्खे हैं।

देवि! भगवान नारायण की धर्मपत्नी लक्ष्मी के समान तुम्हारी शोभा हो रही है। आकाश में विचरने वाली देवि! तुम्हारा स्वरूप और ब्रह्मचर्य परम उज्ज्वल है। 

श्यामसुन्दर श्रीकृष्ण की छवि के समान तुम्हारी श्याम कान्ति है, इसीलिये तुम कृष्णा कहलाती हो। 

तुम्हारा मुख संकर्षण के समान है। तुम (वर और अभय मुद्रा धारण करने वाली) ऊपर उठी हुई दो विशाल भुजाओं को इन्द्र की ध्वजा के समान धारण करती हो। 

तुम्हारे तीसरे हाथ में पात्र, चौथे में कमल आर पाँचवें में घण्टा सुशोभित है। छठे हाथ में पाश, सातवें में धनुष तथा आठवें में महान् चक्र शोभा पाता है। ये ही तुम्हारे नाना प्रकार के आयुध हैं।

इस पृथ्वी पर स्त्री का जो विशुद्ध स्वरूप है, वह तुम्हीं हो। कुण्डलमण्डित कर्णयुगल तुम्हारे मुखमण्डल की शोभा बढ़ाते हैं। देवि! तुम चन्द्रमा से होड़ लेने वाले मुख से सुशोभित होती हो। तुम्हारे मस्तक पर विचित्र मुकुट है।

बँधे हुए केशों की वेणी साँप की आकृति के समान कुछ और ही शोभा दे रही है। यहाँ कमर में बँधी हुई सुन्दर करधनी के द्वारा तुम्हारी ऐसी शोभा हो रही है, मानो नाग से लपेटा हुआ मगरमच्छ हो।

तुम्हारी मयूरपिच्छ से चिह्नित ध्वजा आकाश में ऊँची फहरा रही है। उससे तुम्हारी शोभा और भी बढ़ गयी है। तुमने ब्रह्मचर्य व्रत धारण करके तीनों लोकों को पवित्र कर दिया है।

____________

त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ।।16 ।।


जया त्वं विजया चैव संग्रामे च जयप्रदा।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ।।17 ।।

विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्।
कालि कालि महाकालि शीधुमांसपशुप्रिये ।।18 ।।


कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः।19 ।।


प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ।।20 ।।

दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्रानां च महार्णवे।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्।21।


जलप्रतरणे चैव कान्तारेष्वटवीषु च।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ।। 22।


त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया।23।

नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ।। 24 ।।


सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ।। 25 ।।

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ।। 26 ।।

एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानमिदं वचनमब्रवीत् ।। 27 ।।


                     ।।देव्युवाच ।।


शृणु राजन्महाबाहो मदीयं वचनं प्रभो।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ।। 28 ।।


मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः। 29 ।।


भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ।30।।


ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ।।31।।


प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ।। 32।।


ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ।।33 ।।


इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः।34।


मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ।। 35 ।।


इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ।।36 ।।

______________

महाभारत: विराट पर्व: षष्ठ अध्याय: श्लोक 15-35 का हिन्दी अनुवाद

‘देवि! इसीलिये सम्पूर्ण देवता तुम्हारी स्तुति और पूजा भी करते हैं। तीनों लोकों की रक्षा के लिये महिषासुर का नाश करने वाली देवेश्वरी! मुझ पर प्रसन्न होकर दया करो।

 मेरे लिये कल्याणमयी हो जाओ। तुम जया और विजया हो, अतः मुझे भी विजय दो। इस समय तुम मेरे लिये वरदायिनी हो जाओ। पर्वतों में श्रेष्ठ विन्ध्याचल पर तुम्हारा सनातन निवास स्थान है। काली! काली! महाकाली! तुम खड्ग और खट्वांग धारण करने वाली हो। जो प्राणी तुम्हारा अनुसरण करते हैं, उन्हें तुम मनोवान्छित वर देती हो। इच्छानुसार विचरने वाली देवि! जो मनुष्य अपने ऊपर आये हुए संकट का भार उतारने के लिये तुम्हारा स्मरण करते हैं तथा मानव प्रतिदिन प्रातःकाल तुम्हें प्रणाम करते हैं, उनके लिये इस पृथ्वी पर पुत्र अथवा धन-धान्य आदि कुछ भी दुर्लभ नहीं है। दुर्गे! तुम दुःसह दुःख से उद्धार करती हो, इसीलिये लोगों के द्वारा दुर्गा कही जाती हो। जो दुर्गम वन में कष्ट पा रहे हों, महासागर में डूब रहे हों अथवा लुटेरों के वश में पड़ गये हों, उन सब मनुष्यों के लिये तुम्हीं परम गति हो- तुम्हीं उन्हें संकट से मुक्त कर सकती हो। महादेवि! पानी में तैरते समय, दुर्गम मार्ग में चलते समय और जंगलों में भटक जाने पर जो तुम्हारा स्मरण करते हैं, वे मनुष्य क्लेश नहीं पाते। तुम्हीं कीर्ति, श्री, धृति, सिद्धि, लज्जा, विद्या, संतति, मति, संध्या, रात्रि, प्रभा, निद्रा, ज्योत्स्ना, कान्ति, क्षमा और दया हो। तुम पूजित होने पर मनुष्यों के बन्धन, मोह, पुत्रनाश और धननाश का संकट, व्याधि, मृत्यु और सम्पूर्ण भय को नष्ट कर देती हो। मैं भी राज्य से भ्रष्ट हूँ, इसलिये तुम्हारी शरण में आया हूँ। कमलदल के समान विशाल नेत्रों पाली देवि! देवेश्वरी! मैं तुम्हारे चरणों में मस्तक रखकर प्रणाम करता हूँ। मेरी रक्षा करो। सत्ये! हमारे लिये वस्तुतः सत्यस्वरूपा बनो- अपनी महिमा को सत्य कर दिखाओ। शरणागतों की रक्षा करने वाली भक्तवत्सले दुर्गे! मुझे शरण दो।’ इस प्रकार स्तुति करने पर देवी दुर्गा ने पाण्डुनन्दन युधिष्ठिर को प्रत्यक्ष दर्शन दिया तथा राजा के पास आकर यह बात कही। देवी बोली- महाबाहु राजा युधिष्ठिर! मेरी बात सुनो। समर्थ राजन्! शीघ्र ही तुम्हें संग्राम में विजय प्राप्त होगी। मेरे प्रसाद से कौरव सेना को जीतकर उसका संहार करके तुम निष्कण्टक राज्य करोगे और पुनः इस पृथ्वी का सुख भोगोगे। राजन्! तुम्हें भाइयों सहित पूर्ण प्रसन्नता प्राप्त होगी। मेरी कृपा से तुम्हें सुख और आरोग्य सुलभ होगा। लोक में जो मनुष्य मेरा कीर्तन और स्तवन करेंगे, वे पाप-रहित होंगे और मैं संतुष्ट होकर उन्हें राज्य, बड़ी आयु, नीरोग शरीर और पुत्र प्रदान करूँगी। राजन्! जैसे तुमने मेरा स्मरण किया है, इसी प्रकार जो लोग परदेश में रहते समय, नगर में, युद्ध में, शत्रुओं द्वारा संकट प्राप्त होने पर, घने जगलों में, दुर्गम मार्ग में, समुद्र में तथा गहन पर्वत पर भी मेरा स्मरण करेंगे, उनके लिये इस संसार में कुछ भी दुर्लभ नहीं होगा। पाण्डवो! जो इस उत्तम स्तोत्र को भक्तिभाव से सुनेगा या पढ़ेगा, उसके सम्पूर्ण कार्य सिद्ध हो जायेंगे। मेरे कृपाप्रसाद से विराट नगर में रहते समय तुम सब लोगों को कौरवगण अथवा उस नगर के निवासी मनुष्य नहीं पहचान सकेंगे।' शत्रुओं का दमन करने वाले राजा युधिष्ठिर से ऐसा कहकर वरदायिनी देवी दुर्गा पाण्डवों की रक्षा का भार ले वहीं अनतर्धान हो गयीं।

इस प्रकार श्रीमहाभारत विराटपर्व के अन्तर्गत पाण्डवप्रवेशपर्व में दुर्गास्तोत्र विषयक छठा अध्याय पूरा हुआ।




। इति श्रीमन्महाभारते अन्तर्गते चतुर्थ विराटपर्वणि
पाण्डवप्रवेशपर्वणि षष्टोऽध्यायः ।। 6 ।।

महाभारत: विराट पर्व: षष्ठ अध्याय: श्लोक 1-14 का हिन्दी अनुवाद 


महाभारत: विराट पर्व: षष्ठ अध्याय: श्लोक 15-35 का हिन्दी अनुवाद ‘

देवि! इसीलिये सम्पूर्ण देवता तुम्हारी स्तुति और पूजा भी करते हैं। तीनों लोकों की रक्षा के लिये महिषासुर का नाश करने वाली देवेश्वरी! मुझ पर प्रसन्न होकर दया करो। मेरे लिये कल्याणमयी हो जाओ। तुम जया और विजया हो, अतः मुझे भी विजय दो। इा समय तुम मेरे लिये वरदायिनी हो जाओ। पर्वतों में श्रेष्ठ विन्ध्याचल पर तुम्हारा सनातन निवास स्थान है। काली! काली! महाकाली! तुम खड्ग और खट्वांग धारण करने वाली हो। जो प्राणी तुम्हारा अनुसरण करते हैं, उन्हें तुम मनोवान्छित वर देती हो। इच्छानुसार विचरने वाली देवि! जो मनुष्य अपने ऊपर आये हुए संकट का भार उतारने के लिये तुम्हारा स्मरण करते हैं तथा मानव प्रतिदिन प्रातःकाल तुम्हें प्रणाम करते हैं, उनके लिये इस पृथ्वी पर पुत्र अथवा धन-धान्य आदि कुछ भी दुर्लभ नहीं है। दुर्गे! तुम दुःसह दुःख से उद्धार करती हो, इसीलिये लोगों के द्वारा दुर्गा कही जाती हो। जो दुर्गम वन में कष्ट पा रहे हों, महासागर में डूब रहे हों अथवा लुटेरों के वश में पड़ गये हों, उन सब मनुष्यों के लिये तुम्हीं परम गति हो- तुम्हीं उन्हें संकट से मुक्त कर सकती हो। महादेवि! पानी में तैरते समय, दुर्गम मार्ग में चलते समय और जंगलों में भटक जाने पर जो तुम्हारा स्मरण करते हैं, वे मनुष्य क्लेश नहीं पाते। तुम्हीं कीर्ति, श्री, धृति, सिद्धि, लज्जा, विद्या, संतति, मति, संध्या, रात्रि, प्रभा, निद्रा, ज्योत्स्ना, कान्ति, क्षमा और दया हो। तुम पूजित होने पर मनुष्यों के बन्धन, मोह, पुत्रनाश और धननाश का संकट, व्याधि, मृत्यु और सम्पूर्ण भय को नष्ट कर देती हो। मैं भी राज्य से भ्रष्ट हूँ, इसलिये तुम्हारी शरण में आया हूँ। कमलदल के समान विशाल नेत्रों पाली देवि! देवेश्वरी! मैं तुम्हारे चरणों में मस्तक रखकर प्रणाम करता हूँ। मेरी रक्षा करो। सत्ये! हमारे लिये वस्तुतः सत्यस्वरूपा बनो- अपनी महिमा को सत्य कर दिखाओ। शरणागतों की रक्षा करने वाली भक्तवत्सले दुर्गे! मुझे शरण दो।’ इस प्रकार स्तुति करने पर देवी दुर्गा ने पाण्डुनन्दन युधिष्ठिर को प्रत्यक्ष दर्शन दिया तथा राजा के पास आकर यह बात कही। देवी बोली- महाबाहु राजा युधिष्ठिर! मेरी बात सुनो। समर्थ राजन्! शीघ्र ही तुम्हें संग्राम में विजय प्राप्त होगी। मेरे प्रसाद से कौरव सेना को जीतकर उसका संहार करके तुम निष्कण्टक राज्य करोगे और पुनः इस पृथ्वी का सुख भोगोगे। राजन्! तुम्हें भाइयों सहित पूर्ण प्रसन्नता प्राप्त होगी। मेरी कृपा से तुम्हें सुख और आरोग्य सुलभ होगा। लोक में जो मनुष्य मेरा कीर्तन और स्तवन करेंगे, वे पाप-रहित होंगे और मैं संतुष्ट होकर उन्हें राज्य, बड़ी आयु, नीरोग शरीर और पुत्र प्रदान करूँगी। राजन्! जैसे तुमने मेरा स्मरण किया है, इसी प्रकार जो लोग परदेश में रहते समय, नगर में, युद्ध में, शत्रुओं द्वारा संकट प्राप्त होने पर, घने जगलों में, दुर्गम मार्ग में, समुद्र में तथा गहन पर्वत पर भी मेरा स्मरण करेंगे, उनके लिये इस संसार में कुछ भी दुर्लभ नहीं होगा। पाण्डवो! जो इस उत्तम स्तोत्र को भक्तिभाव से सुनेगा या पढ़ेगा, उसके सम्पूर्ण कार्य सिद्ध हो जायेंगे। मेरे कृपाप्रसाद से विराट नगर में रहते समय तुम सब लोगों को कौरवगण अथवा उस नगर के निवासी मनुष्य नहीं पहचान सकेंगे।' शत्रुओं का दमन करने वाले राजा युधिष्ठिर से ऐसा कहकर वरदायिनी देवी दुर्गा पाण्डवों की रक्षा का भार ले वहीं अनतर्धान हो गयीं।

इस प्रकार श्रीमहाभारत विराटपर्व के अन्तर्गत पाण्डवप्रवेशपर्व में दुर्गास्तोत्र विषयक छठा अध्याय पूरा हुआ।


_____________

"प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया ।लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च।१२।

अर्थ-बिखरे केश बिखरे हुए हैं। तुम्हीं प्राणियों की मृत्यु हो। मधु से युक्त तथा मांस से रहित बलि तुम्हें प्रिय है। 

सावित्री चापि देवानां माता भूतगणस्य च।कन्यानां ब्रह्मचर्यं त्वं सौभाग्यं प्रमदासु च१३।

अर्थ-तुम्ही लक्ष्मी हो तथा दानवों का वध करने के लिये अलक्ष्मी बन जाती हो। तुम्ही सावित्री, देवमाता अदिति तथा समस्ति भूतों की जननी हो। 

____________________

अन्तर्वेदी च यज्ञानामृत्विजां चैव दक्षिणा ।कर्षकाणां च सीतेति भूतानां धरणीति च।। १४ ।।

अर्थ- किसानों की सीता (हल जोतने से उभरी हुई रेखा कूँड़) तथा समस्ती प्राणियों को धारण करने वाली धरणी भी तुम्हीं हो।

__________

"इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि स्वप्नगर्भविधाने आर्यास्तुतौ तृतीयोऽध्यायः ।।3|



मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव।
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च॥१७॥
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव।
नामधेयानि तपसा तानि च ग्रहणं सताम्॥१८॥
~महाभारत शान्ति पर्व(मोक्षधर्म पर्व) अध्याय २९६

पृथ्‍वीनाथ! पहले अंगिरा, कश्‍यप, वसिष्ठ और भृगु - ये ही चार मूल गोत्र प्रकट हुए थे। अन्‍य गोत्र कर्म के अनुसार पीछे उत्‍पन्‍न हुए हैं। वे गोत्र और उनके नाम उन गोत्र-प्रवर्तक महर्षियों की तपस्‍या से ही साधू-समाज में सुविख्‍यात एवं सम्‍मानित हुए हैं।

विद्वानों के अनुसार प्राचीन काल में गुरु के नाम से ही गोत्र का नाम होता था
जैसे पुराणों में राहु केतु का गोत्र पैठिनस था लेकिन जैमिनी ऋषि के शिष्यत्व में केतु का गोत्र जैमिनी हो गया।

कुछ इतिहासकार मानते हैं गुरु,कुल गुरु या पुरोहित के नाम से ही गोत्र का नाम पड़ जाता था जैसा कि राजस्थान के प्रसिद्ध इतिहासकार गौरीशंकर हीराचंद ओझा जी उदयपुर राज्य का इतिहास भाग-१ के क्षत्रियों के गोत्र नामक तृतीय अध्याय की परिशिष्ट संख्या ४ में लिखते हैं कि प्राचीन काल में राजाओं का गोत्र वही माना जाता था जो पुरोहित का होता था...


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें