सहस्त्रजित् तथाज्येष्ठः क्रोष्टुर्नीलोऽजिनोरघुः ।। २२.१२
सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः ।
सुताः शतजितोऽप्यासंस्त्रयः परमधार्मिकाः ।। २२.१३
हैहयश्च हयश्चैव राजा वेणुहयश्च यः।
हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ।। २२.१४
तस्य पुत्रोऽभवद् विप्रा धर्मनेत्रः प्रतापवान् ।
धर्मनेत्रस्य कीर्त्तिस्तु संजितस्तत्सुतोऽभवत् ।। २२.१५
महिष्मान् संजितस्याभूद् भद्रश्रेण्यस्तदन्वयः ।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ।। २२.१६
दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् ।
अन्धकस्य तु दायादाश्चत्वारो लोकसम्मताः ।। २२.१७
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ।
कृतौजाश्च चतुर्थोऽभूत् कार्त्तवीर्योऽर्जुनोऽभवत् ।। २२.१८
सहत्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः ।
तस्य रामोऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ।। २२.१९
तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः ।। २२.२०
शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च ।
जयध्वजश्च बलवान् नारायणपरो नृपः ।। २२.२१
शूरसेनादयः सर्वे चत्वारः प्रथितौजसः ।
रुद्रभक्ता महात्मानः पूजयन्ति स्म शंकरम् ।। २२.२२
जयध्वजस्तु मतिमान् देवं नारायणं हरिम् ।
जगाम शरणं विष्णुं दैवतं धर्मतत्परः ।। २२.२३
तमूचुरितरे पुत्रा नायं धर्मस्तवानघ ।
ईश्वराराधनरतः पिताऽस्माकमिति श्रुतिः ।। २२.२४
तानब्रवीन्महातेजा एष धर्मः परो मम ।
विष्णोरंशेन संभूता राजानो ये महीतले ।। २२.२५
राज्यं पालयिताऽवश्यं भगवान् पुरुषोत्तमः ।
पूजनीयो यतो विष्णुः पालको जगतो हरिः ।। २२.२६
सात्त्विकी राजसी चैव तामसी च स्वयंभुवः ।
तिस्त्रस्तु मूर्त्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ।। २२.२७
सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा ।
सृजेद् ब्रह्मा रजोमूर्त्तिः संहरेत् तामसो हरः ।। २२.२८
तस्मान्महीपतीनां तु राज्यं पालयतामयम् ।
आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ।। २२.२९
निशम्य तस्य वचनं भ्रातरोऽन्ये मनस्विनः ।
प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः ।। २२.३०
अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः ।
तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः ।। २२.३१
या सा घोरतमा मूर्त्तिरस्य तेजोमयी परा ।
संहरेद् विद्यया सर्वं संसारं शूलभृत्तया ।। २२.३२
ततस्तानब्रवीद् राजा विचिन्त्यासौ जयध्वजः ।
सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ।। २२.३३
तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः ।
मोचयेत् सत्त्वसंयुक्तः पूजयेत्सततं हरम् ।। २२.३४
अथाब्रवीद् राजपुत्रः प्रहसन् वै जयध्वजः ।
स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ।। २२.३५
तथा च वैष्णवीं शक्तिर्नृपाणान् दधतां सदा ।
आराधनं परो धर्मो पुरारेरमितौजसः ।। २२.३६
तमब्रवीद् राजपुत्रः कृष्णो मतिमतां वरः ।
यदर्जुनोऽस्मज्जनकः स धर्मं कृतवानिति ।। २२.३७
एवं विवादे वितते शूरसेनोऽब्रवीद् वचः ।
प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत् ।२२.३८
ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः ।
गत्वा सर्वे सुसंरब्धाः सप्तर्षीणां तदाश्रमम् ।२२.३९
तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः ।
या यस्याभिमता पुंसः सा हि तस्यैव देवता ।२२.४०
किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् ।
विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः ।२२.४१
नृपाणां दैवतं विष्णुस्तथैव च पुरंदरः ।
विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ।२२.४२
देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् ।
गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ।२२.४३
विद्याधराणां वाग्देवी सिद्धानां भगवान्हरिः।
रक्षसां शंकरो रुद्रः किंनराणां च पार्वती ।२२.४४
ऋषीणां दैवतं ब्रह्मा महादेवस्त्रिशूलभृत् ।
मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ।२२.४५
गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् ।
वैखानसानामर्कः स्याद् यतीनां च महेश्वरः ।२२.४६
भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः ।
सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ।२२.४७
इत्येवं भगवान् ब्रह्मा स्वयं देवोह्यभाषत ।
तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ।२२.४८
किंतु रुद्रेण तादात्म्यं बुध्वा पूज्यो हरिर्नरैः।
अन्यथा नृपतेः शत्रुं न हरि संहरेद्यतः।।२२.४९
तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् ।
पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे ।२२.५०
ततः कदाचिद् विप्रेन्द्रा विदेहो नाम दानवः ।
भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ।२२.५१
दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः ।
शूलमादाय सूर्याभं नादयन् वै दिशो दश ।२२.५२
तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते ।
तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ।२२.५३
ततः सर्वे सुसंयत्ताः कार्त्तवीर्यात्मजास्तदा ।
शूरसेनादयः पञ्च राजानस्तु महाबलाः।२२.५४
युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः ।।
तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव।२२.५५
युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः ।
शूरोऽस्त्रं प्राहिणोद् रौद्रं शूरसेनस्तु वारुणम् ।२२.५६
प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च ।
जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च ।२२.५७
भञ्जयामास शूलेन तान्यस्त्राणि स दानवः ।
ततः कृष्णो महावीर्यो गदामादाय भीषणाम् ।२२.५८
स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च ।
संप्राप्य सा गादाऽस्योरो विदेहस्य शिलोपमम् ।२२.५९
न दानवं चालयितुं शशाकान्तकसंनिभम् ।
दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् ।२२.६०
जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् ।
विष्णुं जयिष्णुं लोकादिमप्रमेयमनामयम् ।२२.६१
त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् ।
ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् ।२२.६२
आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात् ।
जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः ।२२.६३
प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः ।
संप्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् ।२२.६४
पृथिव्यां पातयामास शिरोऽद्रिशिखराकृति ।
तस्मिन् हते देवरिपौ शूराद्या भ्रातरो नृपाः ।२२.६५
तद्दि चक्रं पुरा विष्णुस्तपसाराध्य शंकरम्
यस्मदवाप तत्तस्मादसुराणां विनाशकम्।।२२.६६
समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् ।
श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् ।२२.६७
कार्त्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः ।
तमागतमथो दृष्ट्वा राजा संभ्रान्तमानसः ।२२.६८
समावेश्यासने रम्ये पूजयामास भावतः ।
उवाच भगवान् घोरः प्रसादाद् भवतोऽसुरः ।२२.६९
निपातितो मया संख्ये विदेहो दानवेश्वरः ।
त्वद्वाक्याच्छिन्नसंदेहो विष्णुं सत्यपराक्रमम् ।२२.७०
प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः ।
यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् ।२२.७१
कथं केन विधानेन संपूज्यो हरिरीश्वरः ।
कोऽयं नारायणो देवः किंप्रभावश्च सुव्रत ।२२.७२
सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे ।
जयध्वजस्य वचनं श्रुत्वा शान्तो मुनिस्ततः।.
दृष्ट्वा हरौ परां भक्तिं विश्वामित्र उवाच ह।.२२.७३
। विश्वामित्र उवाच ।
यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ।२२.७४
स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ।।
यमक्षरात्परतरात्परं प्राहुर्गुहश्रयम्।।२२.७५
आनन्दं परमं व्योम स वै नारायण स्मृतः।.
नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः।।२२.७६
चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम्।
परमैत्मा परन्धाम परं व्योम परं पदम्।२२.७७
त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः।
स वासुदेवो विश्वात्मा योगात्मा पुरुषोत्तमः।।२२.७८
यस्यांश सम्भवो ब्रह्मा रुद्रोऽपि परमेश्वरः।
स्ववर्णाश्रमधर्मेण पुंसां यः पुरुषोत्तमः ।२२.७९
अकामहतभावेन समाराध्यो न चान्यथा ।
एतावदुक्त्वा भगवान् विश्वामित्रो महातपाः।२२.८०
शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् ।। २२.
अथ शूरादयो देवमयजन्त महेश्वरम् ।२२.८१
यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् ।
तान् वसिष्ठस्तु भगवान् याजयामास धर्मवित् २२.८२
गौतमोऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः ।।
विश्वामित्रस्तु भगवान् जयध्वजमरिंदमम् ।२२.८३
याजयामास भूतादिमादिदेवं जनार्दनम् ।।
तस्य यज्ञे महायोगी साक्षाद् देवः स्वयं हरिः ।२२.८४
आविरासीत् स भगवान् तदद्भुतमिवाभवत् ।। २२.८५
जयध्वजोऽपि तं विष्णुं रुद्रस्य परमां तनुम्।
इत्येवं परमं बुद्ध्वा यत्नेनायजदच्युतम्।.२२.८६
य इमं श्रृणुयान्नित्यं जयध्वजपराक्रमम् ।
सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ।। २२.८७
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशोऽध्यायः।।
___________________________________________
।सूत उवाच ।
जयध्वजस्य पुत्रोऽभूत् तालजङ्घ इति स्मृतः ।
शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ।। २३.१
तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः ।
वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ।। २३.२
वृषो वंशकरस्तेषां तस्य पुत्रोऽभवन्मधुः ।
मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ।। २३.३
वीतिहोत्रसुतश्चापि विश्रुतोऽनन्त इत्युत ।
दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ।। २३.४
तस्य भार्या रूपवती गुणैः सर्वैरलंकृता ।
पतिव्रतासीत् पतिना स्वधर्मपरिपालिका ।। २३.५
स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् ।
अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ।। २३.६
______
ततः कामाहतमनास्तत्समीपमुपेत्य वै ।
प्रोवाच सुचिरं कालं देवि रन्तुं मयाऽर्हसि ।। २३.७
सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् ।
रेमे तेन चिरं कालं कामदेवमिवापरम् ।। २३.८
कालात् प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् ।
गमिष्यामि पुरीं रम्यां हसन्ती साऽब्रवीद् वचः ।। २३.९
न ह्यनेनोपभोगेन भवता राजसुन्दर ।
प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः ।। २३.१०
तामब्रवीत् स मतिमान् गत्वा शीघ्रतरं पुरीम् ।
आगमिष्यामि भूयोऽत्र तन्मेऽनुज्ञातुमर्हसि ।। २३.११
तमब्रवीत् सा सुभगा तथा कुरु विशांपते ।
नान्ययाऽप्सरसा तावद् रन्तव्यं भवता पुनः ।। २३.१२
ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् ।
गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतोऽभवन्नृपः ।। २३.१३
_________
संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता ।
भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ।। २३.१४
स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते ।
तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्त्तयेत्विदम् ।। २३.१५
स तस्या वाक्यमाकर्ण्य लज्जावनतमानसः ।
नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ।। २३.१६
न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् ।
भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति ।। २३.१७
तदा स राजा द्युतिमान् निर्गत्य तु पुरात्ततः ।
गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ।। २३.१८
निशम्य कण्ववदनात् प्रायश्चित्तविधिं शुभम् ।
जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ।। २३.१९
सोऽपश्यत् पथि राजेन्द्रो गन्धर्ववरमुत्तमम् ।
भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ।। २३.२०
वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् ।
उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ।। २३.२१
सोऽतीव कामुको राजा गन्धर्वेणाथ तेन हि ।
चकार सुमहद् युद्धं मालामादातुमुद्यतः ।। २३.२२
विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः ।
जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ।। २३.२३
अदृष्ट्वाऽप्सरसं तत्र कामबाणाभिपीडितः ।
बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ।। २३.२४
आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः ।
जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ।। २३.२५
तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् ।
कामं संदधिरे घोरं भूषितं चित्रमालया ।। २२३.२६
संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः ।
न पश्यति स्म ताः सर्वागिरिश्रृङ्गाणिजग्मिवान् ।। २३.२७
तत्राप्यप्सरसं दिव्यामदृष्ट्वा कामपीडितः ।
देवलोकं महामेरुं ययौ देवपराक्रमः ।। २३.२८
स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् ।
भेजे श्रृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ।। २३.२९
स तस्य तीरे सुभगां चरन्तीमतिलालसाम् ।
दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ।। २३.३०
स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः ।
रेमे कृतार्थमात्मानं जानानः सुचिरं तया ।। २३.३१
अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् ।
किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ।। २३.३२
स तस्यै सर्वमाचष्ट पत्न्या यत् समुदीरितम् ।
कण्वस्य दर्शनं चैव मालापहरणं तथा ।। २३.३३
श्रुत्वैतद् व्याहृतं तेन गच्छेत्याह हितैषिणी ।
शापं दास्यति ते कण्वो ममापि भवतः प्रिया ।। २३.३४
तयाऽसकृन्महाराजः प्रोक्तोऽपि मदमोहितः ।
न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः ।। २३.३५
ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् ।
सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ।। २३.३६
तस्यां विरक्तचेतस्कः स्मृत्वा कण्वाभिभाषितम् ।
धिङ्मामिति विनिश्चित्यतपः कर्त्तुं समारभत् ।। २३.३७
संवत्सरद्वादशकं कन्दमूलफलाशनः ।
भूय एव द्वादशकं वायुभक्षोऽभवन्नृपः ।। २३.३८
गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् ।
वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ।। २३.३९
वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः ।
कर्त्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ।। २३.४०
।कण्व उवाच।
गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् ।
आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ।। २३.४१
स्नात्वा संतर्प्य विधिवद् गङ्गायांदेवताः पितॄन् ।
दृष्ट्वा विश्वेश्वरं लिङ्गंकिल्बिषान्मोक्ष्यसेऽखिलात् ।। २३.४२
प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः ।
वाराणस्यां हरं दृष्ट्वा पापान्मुक्तोऽभवत् ततः ।। २३.४३
जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् ।
याजयामास तं कण्वो याचितो घृणया मुनिः ।। २३.४४
तस्य पुत्रोऽथ मतिमान् सुप्रतीक इति श्रुतः ।
बभूव जातमात्रं तं राजानमुपतस्थिरे ।। २३.४५
उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः ।
कन्या जगृहिरे सर्वा गन्धर्व्यो दयिता द्विजाः ।। २३.४६
एष व कथितः सम्यक् सहस्रजित उत्तमः ।
वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ।। २३.४७
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविशोऽध्यायः।।

___________________________________
।सूत उवाच ।
क्रोष्टोरेकोऽभवत् पुत्रो वज्रवानिति विश्रुतः ।
तस्य पुत्रोऽभवतच्छान्तिः कुशिकस्तत्सुतोऽभवत् ।। २४.१
उशद्गोरभवत् पुत्रो नाम्ना चित्ररथो बली ।
अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ।। २४.२
तस्य पुत्रः पृथुयशा राजाऽभूद् धर्मतत्परः ।
पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयोऽभवत् ।। २४.३
पृथुकीर्तिरभूत् तस्मात् पृथुदानस्ततोऽभवत् ।
पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः ।। २४.४
उशनास्तस्य पुत्रोऽभूच्छतेषुस्तत्सुतोऽभवत् ।
तस्याभूद् रुक्मकवचः परावृतश्च तत्सुतः ।। २४.५
परावृतः सुतो जज्ञे यामघो लोकविश्रुतः ।
तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ ।। २४.६
रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः ।
धृतिस्तस्याभवत् पुत्रः संन्तस्तस्याप्यभूत् सुतः ।। २४.७
संन्तस्य पुत्रो बलवान् नाम्ना विश्वसहः स्मृतः।
तस्य पुत्रो महावीर्यः प्रजावान् कौशिक स्मृतः।२४.८
अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतोऽनलः ।
कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः ।२४.९
तेषां प्रधानो द्युतिमान् वपुष्मांस्तत्सुतोऽभवत् ।।
वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतोऽभवत् ।।२४.१०
तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः ।
क्रथस्याप्यभवत् कुन्ती वृष्णी तस्याभवत् सुतः ।२४.११
तस्मान्नवरथो नाम बभुव सुमहाबलः।.
कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् ।२४.१२
दुद्राव महातविष्टो भयेन मुनिपुंगवाः ।
अन्वधावत संक्रुद्धो राक्षसस्तं महाबलः ।२४.१३
दुर्योधनोऽग्निसंकाशः शूलासक्तमहाकरः ।
राजा नवरथो भीत्या नातिदूरादवस्थितम् ।२४.१४
अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम् ।।
स तद्वेगेन महता संप्राप्य मतिमान् नृपः ।२४.१५
ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम् ।
तुष्टाव वाग्भिरिष्टाभिर्बद्धाञ्जलिरमित्रजित् ।२४.१६
पपात दण्डवद् भूमौ त्वामहं शरणं गतः ।
नमस्यामि महादेवीं साक्षाद् देवीं सरस्वतीम् ।२४.१७
वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् ।
नमस्ये जगतां योनिं योगिनीं परमां कलाम् ।२४.१८
हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् ।
नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् ।२४.१९
पाहि मां परमेशानि भीतं शरणमागतम् ।।
एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः ।२४.२०
हन्तुं समागतः स्थानं यत्र देवी सरस्वती ।
समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः ।२४.२१
त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम् ।।
तदन्तरे महद्भूतं युगान्तादित्यसन्निभम् ।२४.२२
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ।
गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः ।२४.२३
इदानीं निर्भयस्तूर्णं स्थानेऽस्मिन् राक्षसो हतः ।
ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् ।२४.२४
पुरीं जगाम विप्रेन्द्राः पुरंदरपुरोपमाम् ।
स्थापयामास देवेशीं तत्र भक्तिसमन्वितः ।२४.२५
ईजे च विविधैर्यज्ञैर्होमैर्देवीं सरस्वतीम् ।।
तस्य चासीद् दशरथः पुत्रः परमधार्मिकः ।२४.२६
देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः ।
तस्मात् करम्भः संभूतो देवरातोऽभवत् ततः ।२४.२७
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ।
मधुस्तस्य तु दायादस्तस्मात् कुरुवशोऽभवत् ।२४.२८
पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च ।
अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य च रिक्थभाक् ।२४.२९
अथांशोःरन्धको नाम विष्णुभक्तः प्रतापवान् ।
महात्मा दाननिरतो धनुर्वेदविदां वरः ।। २४.३०
_____________________________________
स नारदस्य वचनाद् वासुदेवार्चने रतः ।
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ।। २४.३१
तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ।
प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ।। २४.३२
सात्त्वतस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ।
पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ।। २४.३३
_________________
सात्त्वतः सत्त्वसंपन्नः कौशल्यां सुषुवे सुतान् ।
अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् ।२४.३४
__________________________________________
ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् ।
तेषां देवावृधो राजा चचार परमं तपः ।२४.३५
________
पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः ।
तस्य बभ्रुरिति ख्यातः पुण्यश्लोकोऽभवन्नृपः ।२४.३६
धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा ।
भजमानस्य मृञ्जय्यां भजमानाद्विजज्ञिरे ।२४.३७
तेषां प्रधानौ विख्यातौ निमिः कृकण एव च ।
महाभोजकुले जाता भोजा वैमातृकास्तथा ।२४.३८
________________
वृष्णेः सुमित्रो बलवाननमित्रस्तिमिस्तथा ।
अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः ।२४.३९
प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः ।।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ।२४.४०
सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतोऽभवत् ।।
सात्यकिर्युयुधानस्तु तस्यासङ्गोऽभवत् सुतः ।२४.४१
___________________
कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगंधरः ।
माद्र्या वृष्णेः सुतो जज्ञे वृष्णेर्वै यदुनन्दनः ।२४.४२
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च हि ।
श्वफल्कः काशिराजस्यसुतां भार्यामविन्दत।२४.४३।
तस्यामजनयत् पुत्रमक्रूरं नाम धार्मिकम् ।
उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः ।। २४.४४
अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः ।
उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ।। २४.४५
चित्रकस्याभवत् पुत्रः पृथुर्विपृथुरेव च ।
अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ।। २४.४६
अन्धकात् कास्यदुहिता लेभे च चतुरः सुतान् ।
कुकुरं भजमानं च शमीकं बलगर्वितम्।। २४.४७
________________________________
कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् ।
कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ।। २४.४८
तस्यासीत् तुम्बुरुसखा विद्वान् पुत्रस्तलः किल ।
स्थीयते तस्यनाम्नातु तयोरानकदुन्दुभिः ।। २४.४९
स गोवर्धनमासाद्य तताप विपुलं तपः ।
वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ।। २४.५०
वंशस्य चाक्षयां कीर्ति ज्ञानयोगमनुत्तमम् ।
गुरोरप्यधिकं विप्राः कामरूपित्वमेव च ।। २४.५१
स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् ।
पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ।। २४.५२
तस्य गानरतस्याथ भगवानम्बिकापतिः ।
कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ।। २४.५३
तया स सङ्गतो राजा गानयोगमनुत्तमम् ।
अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ।। २४.५४
तस्यामुत्पादयामास सुभुजं नाम शोभनम् ।
रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम् ।। २४.५५
ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् ।
शिक्षयामास विधिवद् गानविद्यां च कन्यकाम् ।। २४.५६
कृतोपनयनो वेदानधीत्य विधिवद् गुरोः ।
उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ।। २४.५७
तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् ।
वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ।। २४.५८
पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः ।
पूजयामास गानेन देवं त्रिपुरनाशनम् ।। २४.५९
ह्रीमती चापि या कन्या श्रीरिवायतलोचना ।
सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ।। २४.६०
तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः ।
सुषेणधीरसुग्रीवसुभोजनरवाहनाः ।।२४.६१
अथासीदभिजित् पुत्रो वीरस्त्वानकदुन्दुभेः ।
पुनर्वसुश्चाभिजितः संबभूवाहुकस्ततः ।। २४.६२
आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ।। २४.६३
देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ।। २४.६४
वृकदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ।२४.६५
देवकी चापि तासां तु वरिष्ठाऽभूत् सुमध्यमा ।
उग्रसेनस्य पुत्रोऽभून्न्यग्रोधः कंस एव च ।२४.६६
सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च ।
भजमानादबूत् पुत्रः प्रख्यातोऽसौ विदूरथः ।२४.६७
तस्य सूरसमस्तस्मात् प्रतिक्षत्रस्ततोऽभवत् ।
स्वयंभोजस्ततस्तस्माद् हृदिकः शत्रुतापनः ।२४.६८
कृतवर्माऽथ तत्पुत्रो देवलस्तत्सुतः स्मृतः ।
स शूरस्तत्सुतो धीमान् वसुदेवोऽथ तत्सुतः ।। २४.६९
वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः ।
बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ।। २४.७०
रोहिणी च महाभागा वसुदेवस्य शोभना ।
असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम् ।। २४.७१
स एव परमात्माऽसौ वासुदेवो जगन्मयः ।
हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः ।। २४.७२
भृगुशापच्छलेनैव मानयन् मानुषीं तनुम् ।
बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ।। २४.७३
उमादेहसमुद्भूता योगनिद्रा च कौशीकी ।
नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत् ।। २४.७४
ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः ।
प्रागेव कंसस्तान् सर्वान् जघान मुनिपुंगवाः ।। २४.७५
सुषेणश्च तथोदायी भद्रसेनो महाबलः ।
ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ।। २४.७६
हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः ।
असूत रामं लोकेशं बलभद्रं हलायुधम् ।। २४.७७
जातेऽथ रामे देवानामादिमात्मानमच्युतम् ।
असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ।। २४.७८
रेवती नाम रामस्य भार्यासीत् सुगुणान्विता ।
तस्यामुत्पादयामास पुत्रौ द्वौ निशितोल्मुकौ ।। २४.७९
षोडशस्त्रीसहस्त्राणि कृष्णस्याक्लिष्टकर्मणः ।
बभूवुरात्मजास्तासु शतशोऽथ सहस्त्रशः ।। २४.८०
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ।
चारुश्रवाश्चारुयशाः प्रद्युम्नः शंख एव च ।। २४.८१
रुक्मिण्यां वासुदेवस्य महाबलपराक्रमाः ।
विशिष्टाः सर्वपुत्राणां संबभूवुरिमे सुताः ।। २४.८२
तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयाञ्जनार्दनात् ।
जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता ।। २४.८३
मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् ।
सुरेशसदृशं पुत्रं देहि दानवसूदन ।। २४.८४
जात्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः ।
समारेभे तपः कर्त्तुं तपोनिधिररिंदमः ।। २४.८५
तच्छृणुध्वं मुनिश्रेष्ठा यथाऽसौ देवकीसुतः ।
दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः ।। २४.८६
_________________________
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विंशोऽध्यायः।।

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें