शनिवार, 20 जनवरी 2024

पद्मपुराण पाताल खण्ड में गोप, गोपिका, राधा गोलोक तथा कृष्ण- का वर्णन -

[1/21, 11:23 AM] yogeshrohi📚: पुनरप्यवनीभारशंकया कृष्णस्तु तानृषिशापव्याजेन संहर्तुमैच्छत्।६०।

कदाचित्सर्वे कुमारा नर्मदायां विहर्तुमाजग्मुः।६१।

तत्र तपन्तं कण्वं महर्षिं दृष्ट्वा जाम्बवत्याः ।
पुत्रं योषिद्वेषं कृत्वा तस्योदरे कात्वायसं मुसलं बद्ध्वा ऋषेः।
समीपमागत्य सर्वे नमस्कृत्वा पत्नीरूपं साम्बं कुमारं तस्य पुरतो निधाय।
अस्या गर्भे स्त्री वा पुरुषो वा भविष्यतीति ब्रूहीत्यूचुः।६२।

प्रकरण समाप्त-
________________________________
असौ तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पञ्चोपनिषन्मयं सकलपुत्रदारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसदृशं दिव्याप्सरोगणाकीर्णं हिरण्मयं वासुदेवेत्येकं जगाम।७७।
***********************************
श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखंडे।
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधामगमननिरूपणंनाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः।२५२।

 

पद्मपुराणम्/खण्डः (५) 
(पातालखण्डः)/अध्यायः (६९)

< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०६८ पद्मपुराणम्
अध्यायः ०६९
वेदव्यासः अध्यायः ०७० →


            "ऋषय ऊचुः -
सम्यक्छ्रुतो महाभाग त्वत्तो रामाश्वमेधकः ।
इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः ।१।
                  "सूत उवाच-
शृण्वन्तु मुनिशार्दूलाः श्रीकृष्णचरितामृतम्।
शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम् ।२।

एकदा पार्वती देवी शिवं संस्निग्धमानसा ।
प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम् ।३।
                    "पार्वत्युवाच-
अनन्तकोटिब्रह्माण्ड तद्बाह्याभ्यन्तरस्थितेः।
विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ।४।

यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम्।
तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो।५।
                     "ईश्वर उवाच-
गुह्याद्गुह्यतरं गुह्यं परमानन्दकारकम्।
अत्यद्भुतं रहःस्थानमानन्दं परमं परम् ।६।

दुर्लभानां च परमं दुर्लभं मोहनं परम् ।
सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ।७।

सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तदुर्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ।८।

पूर्णब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ।९।

गोलोकैश्वर्यं यत्किंचिद्गोकुले तत्प्रतिष्ठितम्।
वैकुण्ठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् ।१०।

यद्ब्रह्मपरमैश्वर्यं नित्यं वृन्दावनाश्रयम् ।
कृष्णधामपरं तेषां वनमध्ये विशेषतः ।११।

तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता।
यस्मान्माथुरकं नाम विष्णोरेकान्तवल्लभम् ।१२।

स्वस्थानमधिकं नामधेयं माथुरमण्डलम् ।
निगूढं विविधं स्थानं पुर्यभ्यन्तरसंस्थितम् ।१३।

सहस्रपत्रकमलाकारं माथुरमण्डलम् ।
विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् ।१४।

कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम् ।
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ।१५।

भद्र श्री लोह भाण्डीर महाताल खदीरकाः ।
बकुलं कुमुदं काम्यं मधु वृन्दावनं तथा ।१६।

द्वादशैतावती संख्या कालिंद्याः सप्त पश्चिमे ।
पूर्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ।१७।

महारण्यं गोकुलाख्यं मधु वृन्दावनं तथा ।
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ।१८।

कदम्बखण्डनं नन्दवनं ननिदीश्वरं तथा ।
नन्दनन्दनखण्डं च पलाशाशोककेतकी ।१९।

सुगन्धमानसं कैलममृतं भोजनस्थलम् ।
सुखप्रसाधनं वत्सहरणं शेषशायिकम् ।२०।

श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा ।
संकेतं द्विपदं चैव बालक्रीडनधूसरम् ।२१।

कामद्रुमं सुललितमुत्सुकं चापि काननम् ।
नानाविधरसक्रीडा नानालीलारसस्थलम् ।२२।

नागविस्तारविष्टम्भं रहस्यद्रुममीरितम् ।
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ।२३।

कर्णिकातन्महद्धाम गोविन्दस्थानमुत्तमम् ।
तत्रोपरि स्वर्णपीठे मणिमंडपमंडितम् ।२४।

कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम् ।
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ।२५।

तस्मिन्दले महापीठं निगमागमदुर्गमम् ।
योगींद्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् ।२६।

द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा ।
संकेतं द्विपदं चैव कुटीद्वौ तत्कुले स्थितौ ।२७।

पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम् ।
गंगादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् ।२८।

चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदम् ।
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ।२९।

वस्त्रालंकारहरणं तद्दले समुदाहृतम् ।
उत्तरे पंचमं प्रोक्तं दलं सर्वदलोत्तमम् ।३०।

द्वादशादित्यमत्रैव दलं च कर्णिकासमम् ।
वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ।३१।

दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते ।
सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ।३२।

यज्ञपत्नीगणानां च तदीप्सितवरप्रदम् ।
अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ।३३।

ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम् ।
नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ।३४।

शंखचूडवधस्तत्र नानाकेलिरसस्थलम् ।
श्रुतमष्टदलं प्रोक्तं वृंदारण्यांतरस्थितम् ।३५।

श्रीमद्वृंदावनं रम्यं यमुनायाः प्रदक्षिणम् ।
शिवलिंगमधिष्ठानं दृष्टं गोपीश्वराभिधम् ।३६।

तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरम् ।
सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ।३७।

महत्पदं महद्धाम स्वधामाधावसंज्ञकम् ।
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ।३८।

तत्र गोवर्द्धनगिरौ रम्ये नित्यरसाश्रये ।
कर्णिकायां महालीला तल्लीला रसगह्वरौ ।३९।

यत्र कृष्णो नित्यवृंदाकाननस्य पतिर्भवेत् ।
कृष्णो गोविंदतां प्राप्तः किमन्यैर्बहुभाषितैः ।४०।

दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् ।
चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ।४१।

नंदीश्वरवनं रम्यं तत्र नंदालयः स्मृतः ।
कर्णिकादलमाहात्म्यं पंचमं दलमुच्यते ।४२।

अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः ।
षष्ठं दलं यदाख्यातं तत्र नंदवनं स्मृतम् ।४३।

सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् ।
तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ।४४।

नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् ।
कामारण्यं च दशमं प्रधानं सर्वकारणम् ।४५।

ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम् ।
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ।४६।

दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ।
निर्माणं सेतुबंधस्य नानावनमयस्थलम् ।४७।

भांडीरं द्वादशदलं वनं रम्यं मनोहरम् ।
कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ।४८।

त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं(रं) स्मृतम् ।
चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ।४९।

श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् ।
कृष्णक्रीडादलमयं श्रीकांतिकीर्तिवर्द्धनम् ।५०।

दलं पंचदशं श्रेष्ठं तत्र लोहवनं स्मृतम् ।
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ।५१।

महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ।
बालक्रीडारतस्तत्र वत्सपालैः समावृतः ।५२।

पूतनादिवधस्तत्र यमलार्जुनभंजनम् ।
अधिष्ठाता तत्र बालगोपालः पंचमाब्दिकः ।५३।

नाम्ना दामोदरः प्रोक्तः प्रेमानंदरसार्णवः ।
दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ।५४।

कृष्णक्रीडा च किंजल्की विहारदलमुच्यते ।
सिद्धप्रधानकिंजल्क दलं च समुदाहृतम् ।५५।
                   पार्वत्युवाच-
वृंदारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम् ।
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ।५६।

                   ईश्वर उवाच-
कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम् ।
रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ।५७।

त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम् ।
ब्रह्मादिवांछितं स्थानं सुरसिद्धादिसेवितम् ।५८।

योगींद्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः ।
अप्सरोभिश्च गंधर्वैर्नृत्यगीतनिरंतरम् ।५९।

श्रीमद्वृंदावनं रम्यं पूर्णानंदरसाश्रयम् ।
भूरिचिंतामणिस्तोयममृतं रसपूरितम् ।६०।

वृक्षं गुरुद्रुमं तत्र सुरभीवृंदसेवितम् ।
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ।६१।

तत्र कैशोरवयसं नित्यमानंदविग्रहम् ।
गतिनाट्यं कलालापस्मितवक्त्रं निरंतरम् ।६२।

शुद्धसत्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम् ।
पूर्णब्रह्मसुखेमग्नं स्फुरत्तन्मूर्तितन्मयम् ।६३।

मत्तकोकिलभृंगाद्यैः कूजत्कलमनोहरम् ।
कपोलशुकसंगीतमुन्मत्तालि सहस्रकम् ।६४।

भुजंगशत्रुनृत्याढ्यं सकलामोदविभ्रमम् ।
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ।६५।

पूर्णेंदुनित्याभ्युदयं सूर्यमंदांशुसेवितम् ।
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ।६६।

अक्रोधं गतमात्सर्यमभिन्नमनहंकृतम् ।
पूर्णानंदामृतरसं पूर्णप्रेमसुखार्णवम् ।६७।

गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् ।
वृक्षादिपुलकैर्यत्र प्रेमानंदाश्रुवर्षितम् ।६८।

किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ।
गोविंदांघ्रिरजः स्पर्शान्नित्यं वृंदावनं भुवि ।६९।

सहस्रदलपद्मस्य वृंदारण्यं वराटकम् ।
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ।७०।

गुह्याद्गुह्यतरं रम्यं मध्ये वृंदावनं भुवि ।
अक्षरं परमानंदं गोविंदस्थानमव्ययम् ।७१।

गोविंददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम् ।
मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते ।७२।

तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु ।
वृंदावनविहारेषु कृष्णं कैशोरविग्रहम् ।७३।

कालिंदी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम् ।
लीलानिर्वाणगंभीरं जलं सौरभमोहनम् ।७४।

आनंदामृत तन्मिश्रमकरंदघनालयम् ।
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ।७५।

चक्रवाकादिविहगैर्मंजुनानाकलस्वनैः ।
शोभमानं जलं रम्यं तरंगातिमनोरमम् ।७६।

तस्योभयतटी रम्या शुद्धकांचननिर्मिता ।
गंगाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ।७७।

कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः ।
कालिंदीकर्णिका कृष्णमभिन्नमेकविग्रहम् ।७८।

                   पार्वत्युवाच।
गोविंदस्य किमाश्चर्यं सौंदर्याकृतविग्रह ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ।७९।

                    ईश्वर उवाच।
मध्ये वृंदावने रम्ये मंजुमंजीरशोभिते ।
योजनाश्रितसद्वृक्ष शाखापल्लवमंडिते ।८०।

तन्मध्ये मंजुभवने योगपीठं समुज्जवलम् ।
तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ।८१।

तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ।८२।

गोविंदस्य परं स्थानं किमस्य महिमोच्यते ।
श्रीमद्गोविंदमंत्रस्थ बल्लवीवृंदसेवितम् ।८३।

दिव्यव्रजवयोरूपं कृष्णं वृंदावनेश्वरम् ।
व्रजेंद्रं संततैश्वर्यं व्रजबालैकवल्लभम् ।८४।

यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।
अनादिमादिं सर्वेषां नंदगोपप्रियात्मजम् ।८५।

श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् ।
परंधाम परं रूपं द्विभुजं गोकुलेश्वरम् ।८६।

बल्लवीनंदनं ध्यायेन्निर्गुणस्यैककारणम् ।
सुश्रीमंतं नवं स्वच्छं श्यामधाममनोहरम् ।८७।

नवीननीरदश्रेणी सुस्निग्धं मंजुकुंडलम् ।
फुल्लेंदीवरसत्कांति सुखस्पर्शं सुखावहम् ।८८।

दलितांजनपुंजाभ चिक्कणं श्याममोहनम् ।
सुस्निग्धनीलकुटिलाशेषसौरभकुंतलम् ।८९।

तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम् ।
नानावर्णोज्ज्वलं राजच्छिखंडिदलमंडितम् ।९०।

मंदारमंजुगोपुच्छाचूडं चारुविभूषणम् ।
क्वचिद्बृहद्दलश्रेणी मुकुटेनाभिमंडितम् ।९१।

अनेकमणिमाणिक्यकिरीटभूषणं क्वचित् ।
लोलालकवृतं राजत्कोटिचंद्रसमाननम् ।९२।

कस्तूरीतिलकं भ्राजन्मंजुगोरोचनान्वितम् ।
नीलेंदीवरसुस्निग्ध सुदीर्घदललोचनम् ।९३।

आनृत्यद्भ्रूलताश्लेषस्मितं साचि निरीक्षणम् ।
सुचारून्नतसौंदर्य नासाग्राति मनोहरम् ।९४।

नासाग्रगजमुक्तांशु मुग्धीकृत जगत्त्रयम् ।
सिंदूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ।९५।

नानावर्णोल्लसत्स्वर्णमकराकृतिकुंडलम् ।
तद्रश्मिपुंजसद्गंड मुकुराभलसद्द्युतिम् ।९६।

कर्णोत्पलसुमंदारमकरोत्तंस भूषितम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ।९७।

विलसद्दिव्यमाणिक्यं मंजुकांचन मिश्रितम् ।
करे कंकणकेयूरं किंकिणीकटिशोभितम् ।९८।

मंजुमंजीरसौंदर्य्यश्रीमदंघ्रि विराजितम् ।
कर्पूरागुरुकस्तूरीविलसच्चंदनादिकम् ।९९।

गोरोचनादिसंमिश्र दिव्यांगरागचित्रितम् ।
स्निग्धपीतपटी राजत्प्रपदांदोलितांजनम् ।१००।

गंभीरनाभिकमलं रोमराजीनतस्रजम् ।
सुवृत्तजानुयुगलं पादपद्ममनोहरम् ।१०१।

ध्वजवज्रांकुशांभोज करांघ्रि तलशोभितम् ।
नखेंदु किरणश्रेणी पूर्णब्रह्मैककारणम् ।१०२।

केचिद्वदंति तस्यांशं ब्रह्मचिद्रूपमद्वयम् ।
तद्दशांशं महाविष्णुं प्रवदंति मनीषिणः ।१०३।

योगींद्रैः सनकाद्यैश्च तदेव हृदि चिंत्यते ।
त्रिभंगं ललिताशेष निर्माणसारनिर्मितम् ।१०४।

तिर्यग्ग्रीवजितानंतकोटिकंदर्पसुंदरम् ।
वामांसार्पित सद्गण्डस्फुरत्कांचनकुंडलम् ।१०५।

सहापांगेक्षणस्मेरं कोटिमन्मथसुंदरम् ।
कुंचिताधरविन्यस्त वंशीमंजुकलस्वनैः ।१०६।

जगत्त्रयं मोहयंतं मग्नं प्रेमसुधार्णवे ।
श्रीपार्वत्युवाच-।
परमं कारणं कृष्णं गोविंदाख्यं महत्पदम् ।१०७।

वृंदावनेश्वरं नित्यं निर्गुणस्यैककारणम् ।
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुंदरम् ।१०८।

तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ।
ईश्वर उवाच-।
यदंघ्रिनखचंद्रांशु महिमांतो न गम्यते १०९।
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ।
अनंतकोटिब्रह्मांडे अनंतत्रिगुणोच्छ्रये ११०।
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः ।
सृष्टिस्थित्यादिना युक्तास्तिष्ठंति तस्य वैभवाः १११।
तद्रूपकोटिकोट्यंशाः कलाः कंदर्पविग्रहाः ।
जगन्मोहं प्रकुर्वंति तदंडांतरसंस्थिताः ११२।
तद्देहविलसत्कांतिकोटिकोट्यंशको विभुः ।
तत्प्रकाशस्य कोट्यंश रश्मयो रविविग्रहाः ११३।
तस्य स्वदेहकिरणैः परानंद रसामृतैः ।
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ११४।
तदंशकोटिकोट्यंशा जीवंति किरणात्मकाः ।
तदंघ्रिपंकजद्वंद्व नखचंद्र मणिप्रभाः ११५।
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ।
तदंशसौरभानंतकोट्यंशो विश्वमोहनः ११६।
तत्स्पर्शपुष्पगंधादि नानासौरभसंभवः ।
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ११७।
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः ।
तस्या अंघ्रिरजः स्पर्शात्कोटिविष्णुः प्रजायते ११८।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये कृष्णचरित्रे।
एकोनसप्ततितमोऽध्यायः ।६९।





विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७०
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०६९ पद्मपुराणम्
अध्यायः ०७०
वेदव्यासः अध्यायः ०७१ →
पार्वत्युवाच-
यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे १।
ईश्वर उवाच।
राधया सह गोविंदं स्वर्णसिंहासनेस्थितम् ।
पूर्वोक्तरूपलावण्यं दिव्यभूषांबरस्रजम् २।
त्रिभंगी मंजु सुस्निग्धं गोपीलोचनतारकम् ।
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ३।
प्रत्यंगरभसावेशाः प्रधानाः कृष्णवल्लभाः ।
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ४।
संमुखे ललिता देवी श्यामला वायुकोणके ।
उत्तरे श्रीमती धन्या ऐशान्यां श्रीहरिप्रिया ५।
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम् ।
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ६।
योगपीठे केसराग्रे चारु चंद्रावती प्रिया ।
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ७।
प्रधानप्रकृतिस्त्वाद्या राधा चंद्रावती समा ।
चंद्रावली चित्ररेखा चंद्रा मदनसुंदरी ८।
प्रिया च श्रीमधुमती चंद्ररेखा हरिप्रिया ।
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ९।
वृंदावनेश्वरी राधा तथा चंद्रावली प्रिया ।
अभिन्नगुणलावण्य सौंदर्याश्चारुलोचनाः १०।
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः ।
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ११।
शुद्धकांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः ।
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः १२।
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः ।
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः १३।
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः ।
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः १४।
नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः ।
तत्र गूढरहस्यानि गायंत्यः प्रेमविह्वलाः १५।
देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः ।
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः १६।
सौंदर्यातिशयेनाढ्याः कटाक्षातिमनोहराः ।
निर्लज्जास्तत्र गोविंदे तदंगस्पर्शनोद्यताः १७।
तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः ।
मंदिरस्य ततो बाह्ये प्रियया विशदावृते १८।
समानवेषवयसः समानबलपौरुषाः ।
समानगुणकर्माणः समानाभरणप्रियाः १९।
समानस्वरसंगीत वेणुवादनतत्पराः ।
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे २०।
सुदामा च तथा पूर्वे किंकिणी चापि दक्षिणे ।
तद्बाह्ये स्वर्णपीठे च सुवर्णमंदिरावृते २१।
स्वर्णवेद्यंतरस्थे तु स्वर्णाभरणभूषिते ।
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः २२।
शृंगवीणावेणुवेत्रवयोवेषाकृतिस्वरैः ।
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः २३।
चित्रार्पितैश्चित्ररूपैः सदानंदाश्रुवर्षिभिः ।
पुलकाकुलसर्वांगैर्योगींद्रैरिव विस्मितैः २४।
क्षरत्ययोभिर्गोविंदैरसंख्यातैरुपावृतम् ।
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले २५।
चतुर्दिक्षुमहोद्यानं मंजुसौरभमोहिते ।
पश्चिमे संमुखे श्रीमत्पारिजातद्रुमाश्रये २६।
तदधस्तु स्वर्णपीठे स्वर्णमंडनमंडिते ।
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले २७।
तत्रोपरि परानंदं वासुदेवं जगत्प्रभुम् ।
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् २८।
इंद्रनीलघनश्यामं नीलकुंचितकुंतलम् ।
पद्मपत्रविशालाक्षं मकराकृतिकुंडलम् २९।
चतुर्भुजं तु चक्रासिगदाशंखांबुजायुधम् ।
आद्यंतरहितं नित्यं प्रधानं पुरुषोत्तमम् ३०।
ज्योतीरूपं महद्धाम पुराणं वनमालिनम् ।
पीतांबरधरं स्निग्धं दिव्यभूषणभूषितम् ३१।
दिव्यानुलेपनं राजच्चित्रितांग मनोहरम् ।
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ३२।
मित्रविंदानुविंदा सुनंदा जांबवती प्रिया ।
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ३३।
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः ।
उत्तरे सुमहोद्याने हरिचंदनसंश्रये ३४।
तत्राधस्तु स्वर्णपीठे मणिमंडपमंडिते ।
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ३५।
तत्रैव सह रेवत्या संकर्षण हलायुधम् ।
ईश्वरस्य प्रियानंतमभिन्नगुणरूपिणम् ३६।
शुद्धस्फटिकसंकाशं रक्तांबुज दलेक्षणम् ।
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगंबरम् ३७।
मधुपाने सदासक्तं मधुघूर्णितलोचनम् ।
प्रवीरदक्षिणेभागे मंजुनाभ्यंतरस्थिते ३८।
संतानवृक्षमूले तु मणिमंदिरमंडितम् ।
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ३९।
प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम् ।
जगन्मोहनसौंदर्य्यसारश्रेणीरसात्मकम् ४०।
असितांभोजपुंजाभमरविंददलेक्षणम् ।
दिव्यालंकारभूषाभिर्दिव्यगंधानुलेपनम् ४१।
जगन्मुग्धीकृताशेष सौंदर्याश्चर्यविग्रहम् ।
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ४२।
तत्राधस्तु स्वर्णपीठे हेममंडपमंडिते ।
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ४३।
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम् ।
सांद्रानंदघनश्यामं सुस्निग्धं नीलकुंतलम् ४४।
सुभ्रून्नतलताभंगीं सुकपोलं सुनासिकम् ।
सुग्रीवं सुंदरं वक्षो मनोहर मनोहरम् ४५।
किरीटिनं कुंडलिनं कंठभूषाविभूषितम् ।
मंजुमंजीरमाधुर्यादतिसौंदर्य विग्रहम् ४६।
प्रियभृत्यगणाराध्यं यत्र संगीतकप्रियम् ।
पूर्णब्रह्मसदानंदं शुद्धसत्वस्वरूपकम् ४७।
तस्योर्द्ध्वे चांतरिक्षे च विष्णुं सर्वेश्वरेश्वरम् ।
अनादिमादिचिद्रूपं चिदानंदं परं विभुम् ४८।
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम् ।
समेघपुंजमाधुर्यसौंदर्यश्यामविग्रहम् ४९।
नीलकुंचितसुस्निग्ध केशपाशातिसुंदरम् ।
अरविंददलस्निग्ध सुदीर्घचारुलोचनम् ५०।
किरीटकुंडलोद्गंड शुद्धसत्वात्मभिर्वृतम् ।
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ५१।
हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः ।
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ५२।
तत्सव्ये यक्षगंधर्वसिद्धविद्याधरादिभिः ।
सुकांतैरप्सरःसंघैर्नृत्यसंगीततत्परैः ५३।
तदंगभजनं कामं वांछद्भिः कृष्णलालसैः ।
तदग्रे वैष्णवैः सर्वैश्चांतरिक्षे सुखासने ५४।
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः ।
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ५५।
पुलकाकुलसर्वांगैः स्फुरत्प्रेमसमाकुलैः ।
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ५६।
मंत्रचूडामणिः प्रोक्तः सर्वमंत्रैककारणम् ।
सर्वदेवस्य मंत्राणां कैशोरं मंत्रहेतुकम् ५७।
सर्वकैशोरमंत्राणां हेतुश्चूडामणिर्मनुः ।
जपं कुर्वंति मनसा पूर्णप्रेमसुखाश्रयाः ५८।
वांछंति तत्पदांभोजे निश्चलं प्रेमसाधनम् ।
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ५९।
कुंकुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः ।
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ६०।
शंखचक्रगदापद्मकिरीटादि विभूषितम् ।
रक्तं चतुर्भुजं पद्मशंखचक्रगदायुधम् ६१।
किरीटकुंडलोद्दीप्त द्वारपालकमुत्तरे ।
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ६२।
किरीटकुंडलाद्यैश्च शोभितं वनमालिनम् ।
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ६३।
कृष्णवर्णं चतुर्बाहुं शंखचक्रादिभूषणम् ।
दक्षिणद्वारपालं तु श्रीविष्णुंकृष्णवर्णकम् ६४।
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः ।
शृणुयाद्वापि यो भक्त्या गोविंदे लभते रतिम् ६५।
इति श्रीपद्मपुराणे पातालखंडे कृष्णचरिते सप्ततितमोऽध्यायः ७०।


विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७१
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७० पद्मपुराणम्
अध्यायः ०७१
वेदव्यासः अध्यायः ०७२ →
श्रीदेव्युवाच-
भगवन्सर्वभूतेश सर्वात्मन्सर्वसंभव ।
देवेश्वर महादेव सर्वज्ञ करुणाकर १।
त्वयानुकंपितैवाहं भूयोऽप्याहानुकंपया ।
त्रैलोक्यमोहना मंत्रास्त्वया मे कथिताः प्रभो २।
तेन देवेन गोपीभिर्महामोहनरूपिणा ।
केन केन विशेषण चिक्रीडे तद्वदस्व मे ३।
महादेव उवाच।
एकदा वादयन्वीणां नारदो मुनिपुंगवः ।
कृष्णावतारमाज्ञाय प्रययौ नंदगोकुलम् ४।
गत्वा तत्र महायोगमयेशं विभुमच्युतम् ।
बालनाट्यधरं देवदर्शनं नंदवेश्मनि ५।
सुकोमलपटास्तीर्णहेमपर्यंकिकोपरि ।
शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम् ६।
अतीव सुकुमारांगं मुग्धं मुग्धविलोकनम् ।
विस्रस्तनीलकुटिलकुंतलावनिमंडलम् ७।
किंचित्स्मितांकुरव्यंजदेकद्विरदकुड्मलम् ।
स्वप्रभाभिर्भासयंतं समंताद्भवनोदरम् ८।
दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह ।
संभाष्य गोपतिं नंदमाह सर्वप्रभुप्रियः ९।
नारायणपराणां तु जीवनं ह्यतिदुर्लभम् ।
अस्य प्रभावमतुलं न जानंतीह केचन १०।
भव ब्रह्मादयोऽप्यस्मिन्रतिं वांच्छन्ति शाश्वतीम् ।
चरितं चास्य बालस्य सर्वेषामेव हर्षणम् ११।
मुदा गायंति शृण्वंति चाभिनंदंति तादृशाः ।
अस्मिंस्तव सुतेऽचिंत्यप्रभावे स्निग्धमानसाः १२।
नराः संति न तेषां वै भवबाधा भविष्यति ।
मुंचेह परलोकेच्छाः सर्वा बल्लवसत्तम १३।
एकांतेनैकभावेन बालेऽस्मिन्प्रीतिमाचर ।
इत्युक्त्वा नंदभवनान्निष्क्रांतो मुनिपुंगवः १४।
तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः ।
अथासौ चिंतयामास महाभागवतो मुनिः १५।
अस्य कांता भगवती लक्ष्मीर्नारायणे हरौ ।
विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः १६।
अवश्यमवतीर्णा सा भविष्यति न संशयः ।
तामहं विचिनोम्यद्य गेहेगेहे व्रजौकसाम् १७।
विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम् ।
प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः १८।
सर्वेषां बल्लवादीनां रतिं नंदसुते पराम् ।
दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह १९।
गोपालानां गृहे बालां ददर्श श्वेतरूपिणीम् ।
स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः २०।
प्रविवेश ततो धीमान्नंदसख्युर्महात्मनः ।
कस्यचिद्गोपवर्य्यस्य भानुनाम्नो गृहं महत् २१।
अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः ।
साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि २२।
तवाहं धनधान्यादि समृद्धिं संविभावये ।
कच्चित्ते योग्यः पुत्रोऽस्ति कन्या वा शुभलक्षणा २३।
यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति ।
इत्युक्तो मुनिवर्य्येण भानुरानीय पुत्रकम् २४।
महातेजस्विनं दृप्तं नारदायाभ्यवादयत् ।
दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि २५।
पद्मपत्रविशालाक्षं सुग्रीवं सुंदरभ्रुवम् ।
चारुदंतं चारुकर्णं सर्वावयवसुंदरम् २६।
तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च ।
ततः स गद्गद प्राह प्रणयेन महामुनिः २७।
नारद उवाच-।
अयं शिशुस्ते भविता सुसखा रामकृष्णयोः ।
विहरिष्यति ताभ्यां च रात्रिंदिवमतंद्रितः २८।
तत आभाष्य तं गोपप्रवरं मुनिपुंगवः ।
यदा गंतुं मनश्चक्रे तत्रैवं भानुरब्रवीत् २९।
एकास्ति पुत्रिका देव देवपत्न्युपमा मम ।
कनीयसी शिशोरस्य जडांधबधिराकृतिः ३०।
उत्साहाद्वृद्धये याचे त्वां वरं भगवत्तम ।
प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम् ३१।
श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः ।
अथ प्रविश्य भवनं लुठंतीं भूतले सुताम् ३२।
उत्थाप्यांके निधायातिस्नेहविह्वलमानसः ।
भानुरप्याययौ भक्तिनम्रो मुनिवरांतिकम् ३३।
अथ भागवतश्रेष्ठः कृष्णस्यातिप्रियो मुनिः ।
दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम् ३४।
अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः ।
विगाह्य परमानंदसिंधुमेकरसायनम् ३५।
मुहूर्त्तद्वितयं तत्र मुनिरासीच्छिलोपमः ।
मुनींद्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने ३६।
महाविस्मयमापन्नस्तूष्णीमेव स्थितोऽभवत् ।
अंतर्हृदि महाबुद्धिरेवमेवं व्यचिंतयत् ३७।
भ्रांतं सर्वेषु लोकेषु मया स्वच्छंदचारिणा ।
अस्या रूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ३८।
ब्रह्मलोके रुद्रलोक इंद्रलोके च मे गतिः ।
न कोपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः ३९।
महामाया भगवती दृष्टा शैलेंद्रनंदिनी ।
यस्या रूपेण सकलं मुह्यते सचराचरम् ४०।
साप्यस्याः सुकुमारांगी लक्ष्मीं नाप्नोति कर्हिचित् ।
लक्ष्मीः सरस्वती कांति विद्याद्याश्च वरस्त्रियः ४१।
छायामपि स्पृशंत्यस्याः कदाचिन्नैव दृश्यते ।
विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः ४२।
मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेत् ।
ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथंचन ४३।
अन्ये चापि न जानंति प्रायेणैनां हरेः प्रियाम् ।
अस्याः संदर्शनादेव गोविंदचरणांबुजे ४४।
या प्रेमर्द्धिरभूत्सा मे भूतपूर्वा न कर्हिचित् ।
एकांते नौमि भवतीं दर्शयित्वातिवैभवम् ४५।
कृष्णस्य संभवत्यस्या रूपं परमतुष्टये ।
विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित् ४६।
निभृते परितुष्टाव बालिकां दिव्यरूपिणीम् ।
अपि देवि महायोगमायेश्वरि महाप्रभे ४७।
महामोहनदिव्यांगि महामाधुर्यवर्षिणि ।
महाद्भुतरसानंदशिथिलीकृतमानसे ४८।
महाभाग्येन केनापि गतासि मम दृक्पथम् ।
नित्यमंतर्मुखादृष्टिस्तव देवि विभाव्यते ४९।
अंतरेव महानंदपरितृप्तैव लक्ष्यसे ।
प्रसन्नं मधुरं सौम्यमिदं सुमुखमंडनम् ५०।
व्यनक्तिपरमाश्चर्यं कमप्यंतः सुखोदयम् ।
रजः संबंधिकलिका शक्तिस्तत्वातिशोभने ५१।
सृष्टिस्थितिसमाहाररूपिणी त्वमधिष्ठिता ।
तत्त्वं विशुद्धसत्वाशु शक्तिर्विद्यात्मिका परा ५२।
परमानंदसंदोहं दधती वैष्णवं परम् ।
का त्वयाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ५३।
योगींद्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित् ।
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ५४।
तवांशमात्रमित्येवं मनीषा मे प्रवर्त्तते ।
मायाविभूतयोऽचिंत्यास्तन्मायार्भकमायिनः ५५।
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः ।
आनंदरूपिणी शक्तिस्त्वमीश्वरि न संशयः ५६।
त्वया च क्रीडते कृष्णो नूनं वृंदावने वने ।
कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ५७।
तारुण्यवयसा स्पृष्टं कीदृक्ते रूपमद्भुतम् ।
कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम् ५८।
हरि मानुषलोभेन वपुराश्चर्यमंडितम् ।
द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे ५९।
येन नंदसुतः कृष्णो मोहं समुपयास्यति ।
इदानीं मम कारुण्यान्निजं रूपं महेश्वरि ६०।
प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि ।
इत्युक्ता मुनिवर्य्येण तदनुव्रतचेतसा ६१।
महामाहेश्वरीं नत्वा महानंदमयीं पराम् ।
महाप्रेमतरोत्कंठा व्याकुलांगीं शुभेक्षणाम् ६२।
ईक्षमाणेन गोविंदमेवं वर्णयतास्थितम् ।
जयकृष्ण मनोहारिञ्जय वृंदावनप्रिय ६३।
जयभ्रूभंगललित जयवेणुरवाकुल ।
जय बर्हकृतोत्तंस जयगोपीविमोहन ६४।
जय कुंकुमलिप्तांग जय रत्नविभूषण ।
कदाहं त्वत्प्रसादेन अनया दिव्यरूपया ६५।
सहितं नवतारुण्य मनोहारि वपुःश्रिया ।
विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पते ६६।
एवं कीर्त्तयतस्तस्य तत्क्षणादेव सा पुनः ।
बभूव दधती दिव्यं रूपमत्यंतमोहनम् ६७।
चतुर्दशाब्दवयसा संमितं ललितं परम् ।
समानवयसश्चान्यास्तदैव व्रजबालिकाः ६८।
आगत्य वेष्टयामासुर्दिव्यभूषांबरस्रजः ।
मुनींद्रः स तु निश्चेष्टो बभूवाश्चर्यमोहितः ६९।
बालायास्तास्तदा सख्यश्चरणांबुकणैर्मुनिम् ।
निषिच्य बोधयामासुरूचुश्च कृपयान्विताः ७०।
मुनिवर्य महाभाग महायोगेश्वरेश्वर ।
त्वयैव परया भक्त्या भगवान्हरिरीश्वरः ७१।
नूनमाराधितो देवो भक्तानां कामपूरकः ।
यदियंब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः ७२।
महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च ।
अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा ७३।
केनाप्यचिंत्य भाग्येन तवदृष्टिपथं गता ।
उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालंब्य सत्वरम् ७४।
एनां प्रदक्षिणीकृत्य नमस्कुरु पुनःपुनः ।
किं न पश्यसि चार्वंगीमत्यंतव्याकुलामिव ७५।
अस्मिन्नेव क्षणे नूनमंतर्धानं गमिष्यति ।
नानया सह संलापः कथंचित्ते भविष्यति ७६।
दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम ।
किंतु वृंदावने कापि भात्यशोकलता शुभा ७७।
सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा ।
गोवर्द्धनाददूरेण कुसुमाख्यसरस्तटे ७८।
तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः ।
श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम् ७९।
यावत्प्रदक्षिणीकृत्य प्रणमेद्दंडवन्मुनिः ।
मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम् ८०।
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम् ।
एवं प्रभावा बालेयं न साध्या दैवतैरपि ८१।
किंतु यद्गृहमेतस्याः पदचिह्नविभूषितम् ।
तत्र नारायणो देवः स्वयं वसति माधवः ८२।
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः ।
अद्य एनां वरारोहां सर्वाभरणभूषणाम् ८३।
देवीमिव परां गेहे रक्ष यत्नेन सत्तम ।
इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः ८४।
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम् ।
अशोकलतिकामूलमासाद्य मुनिसत्तमः ८५।
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि ।
स्थितोऽत्र प्रेमविकलश्चिंतयन्कृष्णवल्लभाम् ८६।
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः ।
पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः ८७।
दृष्ट्वा मनसि संभ्रांतो दंडवत्पतितो भुवि ।
परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः ८८।
प्रष्टुकामोऽपि स मुनिः किंचित्स्वाभिमतं प्रियम् ।
नाशकत्प्रेमलावण्यप्रियभाषाप्रधर्षितः ८९।
अथागता मुनिश्रेष्ठं कृतांजलिमवस्थितम् ।
भक्तिभारानतग्रीवं सविस्मयं ससंभ्रमम् ९०।
सुविनीततमं प्राह तत्रैव करुणान्विता ।
अशोकमालिनी नाम्ना अशोकवनदेवता ९१।
अशोकमालिन्युवाच।
अशोककलिकायां तु वसाम्यस्यां महामुने ।
रक्तांबरधरा नित्यं रक्तमालानुलेपना ९२।
रक्तसिंदूरकलिका रक्तोत्पलवतंसिनी ।
रक्तमाणिक्यकेयूर मुकुटादिविभूषिता ९३।
एकदा प्रियया सार्द्धं विहरंत्यो मधूत्सवे ।
तत्रैव मिलिता गोपबालिकाश्चित्रवाससः ९४।
अहं चाशोकमालाभिर्गोपवेषधरं हरिम् ।
रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम् ९५।
ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा ।
भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम् ९६।
परात्परमहं सर्वं विजानामीह सर्वतः ।
गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम् ९७।
तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम् ।
तां देवीमद्भुताकारामद्भुतानंददायिनीम् ९८।
हरेः प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकाम् ।
कथं पश्यामि लोलाक्षीं कथं वा तत्पदांबुजम् ९९।
आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विमर्शितम् ।
तत्र ते कथयिष्यामि वृत्तांतं सुमहात्मनाम् १००।
मानसे सरसि स्थित्वा तपस्तीव्रमुपेयुषाम् ।
जपतां सिद्धमंत्रांश्च ध्यायतां हरिमीश्वरम् १०१।
मुनीनां कांक्षतां नित्यं तस्या एव पदांबुजम् ।
एकसप्ततिसाहस्रं संख्यातानां महौजसाम् १०२।
तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने १०३।
इति श्रीपद्मपुराणे पातालखंडे श्रीराधाकृष्ण-।
माहात्म्ये एकसप्ततितमोऽध्यायः ७१।



विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७२
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७१ पद्मपुराणम्
अध्यायः ०७२
वेदव्यासः अध्यायः ०७३ →
ईश्वर उवाच-।
तदेकाग्रमना भूत्वा शृणु देवि वरानने ।
आसीदुग्रतपा नाम मुनिरेको दृढव्रतः १।
साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः ।
जजाप परमं जाप्यं मंत्रं पंचदशाक्षरम् २।
काममंत्रेण पुटितं कामं कामवरप्रदात् ।
कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम् ३।
दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम् ।
पीतपट्टधरं वेणुं करेणाधरमर्पितम् ४।
नवयौवनसंपन्नं कर्षंतं पाणिना प्रियाम् ।
एवं ध्यानपरः कल्पशतांते देहमुत्सृजन् ५।
सुनंद नाम गोपस्य कन्याभूत्स महामुनिः ।
सुनंदेति समाख्याता या वीणां बिभ्रती करे ६।
मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः ।
सशुष्कपत्रं भुंक्ते यः प्रजजाप परं मनुम् ७।
रत्यंतं कामबीजेन पुटितं च दशाक्षरम् ।
स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम् ८।
धृत्वा रमाया दोर्वल्लीद्वितयं कंकणोज्ज्वलम् ।
नृत्यंतमुन्मदंतं च संश्लिष्यं तं मुहुर्मुहुः ९।
हसंतमुच्चैरानंदतरंगं जठरांबरे ।
दधतं वेणुमाजानु वैजयंत्या विराजितम् १०।
स्वेदांभः कणसंसिक्त ललाटवलिताननम् ।
त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः ११।
दशकल्पांतरे जातो ह्ययं नंदवनादिह ।
सुभद्र नाम्नो गोपस्य कन्या भद्रेति विश्रुता १२।
यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते ।
हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः १३।
सोऽप्यतप्यत्तपः कृच्छ्रं नित्यं पत्रैकभोजनम् ।
आशुसिद्धिकरं मंत्रं विंशत्यर्णं प्रजप्तवान् १४।
अनंतरं कामबीजादध्यारूढं तदेव तु ।
माया तत्पुरतो व्योम हंसासृग्द्युतिचंद्रकम् १५।
ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम् ।
दध्यौ वृंदावने रम्ये माधवीमंडपे प्रभुम् १६।
उत्तानशायिनं चारुपल्लवास्तरणोपरि ।
कयाचिदतिकामार्त्त बल्लव्या रक्तनेत्रया १७।
वक्षोजयुगमाच्छाद्य विपुलोरः स्थलं मुहुः ।
संचुंब्यमानगंडांतं तृप्यमानरदच्छदम् १८।
कलयंतं प्रियां दोर्भ्यां सहासं समुदाद्भुतम् ।
स मुनिश्च बहून्देहां स्त्यक्त्वा कल्पत्रयांतरे १९।
सारंगनाम्नो गोपस्य कन्याभूच्छुभलक्षणा ।
रंगवेणीति विख्याता निपुणा चित्रकर्मणि २०।
यस्या दंतेषु दृश्यंते चित्रिताः शोणबिंदवः ।
ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः २१।
सतपः सुरतो योगी विचरन्पृथिवीमिमाम् ।
स एकस्मिन्महारण्ये योजनायुतविस्तृते २२।
यदृच्छयागतोऽपश्यदेकां वापीं सुशोभनाम् ।
सर्वतः स्फाटिकाबंधतटां स्वादुजलान्विताम् २३।
विकासिकमलामोदवायुना परिशीलिताम् ।
तस्याः पश्चिमदिग्भागे मूले वटमहीरुहः २४।
अपश्यत्तापसीं कांचित्कुर्वंतीं दारुणं तपः ।
तारुण्यवयसायुक्तां रूपेणाति मनोहराम् २५।
चंद्रांशुं सदृशाभासां सर्वावयवशोभनाम् ।
कृत्वा कटितटे वामपाणिं दक्षिणतस्तदा २६।
ज्ञानमुद्रां च बिभ्राणामनिमेषविलोचनाम् ।
त्यक्ताहारविहारां च सुनिश्चलतयास्थिताम् २७।
जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः ।
तदंते तां समुत्थाप्य चलितां विनयान्मुनिः २८।
अपृच्छत्का त्वमाश्चर्यरूपे किं वा चरिष्यसि ।
यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि २९।
अथाब्रवीच्छनैर्बाला तपसातीव कर्शिता ।
ब्रह्मविद्याहमतुला योगींद्रैर्या विमृग्यते ३०।
साहं हरिपदाम्भोजकाम्यया सुचिरं तपः ।
चराम्यस्मिन्वने घोरे ध्यायंती पुरुषोत्तमम् ३१।
ब्रह्मानंदेन पूर्णाहं तेनानंदेन तृप्तधीः ।
तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ३२।
इदानीमतिनिर्विण्णा देहस्यास्य विसर्ज्जनम् ।
कर्त्तुमिच्छामि पुण्यायां वापिकायामिहैव तु ३३।
तच्छ्रुत्वा वचनं तस्या मुनिरत्यंतविस्मितः ।
पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम् ३४।
पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम् ।
तयोक्तं मंत्रमाज्ञाय जगाम मानसं सरः ३५।
ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम् ।
एकपादस्थितः सूर्यं निर्निमेषं विलोकयन् ३६।
मंत्रं जजाप परमं पंचविंशतिवर्णकम् ।
दध्यौ परमभावेन कृष्णमानंदरूपिणम् ३७।
चरंतं व्रजवीथीषु विचित्रगतिलीलया ।
ललितैः पादविन्यासैः क्वणयंतं च नूपुरम् ३८।
चित्रकंदर्पचेष्टाभिः सस्मितापांगवीक्षितैः ।
संमोहनाख्यया वंश्या पंचमारुणचित्रया ३९।
बिंबौष्ठपुटचुंबिन्या कलालापैर्मनोज्ञया ।
हरंतं व्रजरामाणां मनांसि च वपूंषि च ४०।
श्लथन्नीवीभिरागत्य सहसालिंगितांगकम् ।
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ४१।
श्यामलांगप्रभापूर्णैर्मोहयंतं जगत्त्रयम् ।
स एवं बहुदेवेन समुपास्य जगत्पतिम् ४२।
नवकल्पांतरे जाता गोकुले दिव्यरूपिणी ।
कन्या प्रचंडनाम्नस्तु गोपस्याति यशस्विनः ४३।
चित्रगंधेति विख्याता कुमारी च शुभानना ।
निजांगगंधैर्विविधैर्मोदयंती दिशो दश ४४।
तामेनां पश्य कल्याणीं वृंदशो मधुपायिनीम् ।
अंगेषु स्वपतिं कृत्वा रसावेशसमाकुलाम् ४५।
अस्याः स्तनपरिष्वंगे हारैः सर्वैर्विहन्यते ।
वक्षःस्थलात्प्रच्यवद्भिश्चित्रगंधादिसौरभैः ४६।
अपरे मुनिवर्यास्तु सततं पूतमानसाः ।
वायुभक्षास्तपस्तेपुर्जपंतः परमं मनुम् ४७।
स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने ।
आग्नेयीसहितं कृत्वा मंत्रं पंचदशाक्षरम् ४८।
दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम् ।
दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम् ४९।
मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुंडलाम् ।
सव्यजंघांत आदाय दक्षिणं चरणांबुजम् ५०।
भ्रमंतीं संपुटीकृत्य चारुहस्तांबुजद्वयम् ।
कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम् ५१।
आनंदयंतीं गोपीनां नयनानि मनांसि च ।
परमाश्चर्यरूपेण प्रविष्टां रंगमंडपे ५२।
प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः ।
अथ कल्पांतरे देहं त्यक्त्वा जाता इहाधुना ५३।
यासां कर्णेषु दृश्यंते ताटंका रश्मिदीपिताः ।
रत्नमाल्यानि कंठेषु रत्नपुष्पाणि वेणिषु ५४।
मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः ।
कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ ५५।
ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम् ।
ह्रीं हंस इति कृत्वैव जपंतौ यतमानसौ ५६।
ध्यायंतौ गोकुले कृष्णं बालकं दशवार्षिकम् ।
कंदर्पसमरूपेण तारुण्यललितेन च ५७।
पश्यंतीर्व्रजबिंबोष्ठीर्मोहयंतमनारतम् ।
तौ कल्पांते तनूं त्यक्त्वा लब्धवंतौ जनिं व्रजे ५८।
सुवीरनाम गोपस्य सुते परमशोभने ।
ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी ५९।
जटिलो जंघपूतश्च घृताशी कर्बुरेव च ।
चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ६०।
केवलेनैकभावेन प्रपन्ना बल्लवीपतिम् ।
तेपुस्ते सलिले मग्ना जपंतो मनुमेव च ६१।
रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम् ।
दध्युश्च गाढभावेन बल्लवीभिर्वने वने ६२।
भ्रमंतं नृत्यगीताद्यैर्मानयंतं मनोहरम् ।
चंदनालिप्तसर्वांगं जपापुष्पावतंसकम् ६३।
कल्हारमालयावीतं नीलपीतपटावृतम् ।
कल्पत्रयांते जातास्ते गोकुले शुभलक्षणाः ६४।
इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः ।
यासां धर्मकृतान्येव वलयानि प्रकोष्ठके ६५।
विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः ।
मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके ६६।
तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः ।
सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम् ६७।
विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः ।
स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम् ६८।
अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम् ।
रमया पुटितं मंत्रं जपन्नष्टादशाक्षरम् ६९।
दध्यौ परमभावेन हरिं हैमतरोरधः ।
हैममंडपिकायां च हेमसिंहासनोपरि ७०।
आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम् ।
दक्षिणेन भ्रामयंतं पाणिना हेमपंकजम् ७१।
हेमवर्णेष्टप्रियया परिकॢप्तांगचित्रकम् ।
हसंतमतिहर्षेण पश्यंतं निजमाश्रमम् ७२।
हर्षाश्रुपूर्णः पुलकाचितांगः प्रसीदनाथेति वदन्नथोच्चैः ।
दंडप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः ७३।
तं भक्तिकामं पतितं धरण्यामायासितोस्मीति वदंतमुच्चैः ।
दंडप्रणामस्य भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन ७४।
उवाच च प्रियारूपं लब्धवंतं शुकं हरिः ।
त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममांतिके ७५।
मद्रूपं चिंतयंती च प्रेमास्पदमुपागता ।
द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे ७६।
एकव्रते एकनिष्ठे एकनक्षत्रनामनी ।
तप्तजांबूनदप्रख्या तत्रैवान्या तडित्प्रभा ७७।
एकानिद्रा यमाणाक्षी परा सौम्यायतेक्षणा ।
सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे ७८।
स कल्पांते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः ।
उपनंदस्य दुहिता नीलोत्पलदलच्छविः ७९।
सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा ।
रक्तचोलिकया पूर्णा शातकुंभघटस्तनी ८०।
दधाना रक्तसिंदूरं सर्वांगस्यावगुंठनम् ।
स्वर्णकुंडलविभ्राजद्गंडदेशां सुशोभनाम् ८१।
स्वर्णपंकजमालाढ्या कुंकुमालिप्तसुस्तनी ।
यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम् ८२।
वेणुवाद्यातिनिपुणा केशवस्य निषेवणी ।
कृष्णेन परितुष्टेन कदाचिद्गीतकर्मणि ८३।
विन्यस्ता कंबुकंठेऽस्या भाति गुंजावलि शुभा ।
परोक्षेपि च कृष्णस्य कांतिभिश्च स्मरार्दिता ८४।
सखीभिर्वादयंतीभिर्गायंती सुस्वरं परम् ।
नर्त्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम् ८५।
वारंवारं च गोविंदं भावेनालिंग्य चुंबति ।
प्रियासौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा ८६।
श्वेतकेतोः सुतः कश्चिद्वेदवेदांगपारगः ।
सर्वमेव परित्यज्य प्रचंडं तप आस्थितः ८७।
मुरारेः सेवितपदां सुधामधुरनादिनीम् ।
गोविंदस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम् ८८।
भजंतीमेकभावेन श्रियमेव मनोहराम् ।
ध्यायञ्जजाप सततं मंत्रमेकादशाक्षरम् ८९।
हसितं सकलं कृत्वा बतमायेषु योजयन् ।
कांत्यादिभिर्हसंतीभिर्वासयंत्यभितो जगत् ९०।
वसंते वसतेत्येवं मंत्रार्थं चिंतयन्सदा ।
सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान् ९१।
सेयं बालायते पुत्री कृशांगी कुड्मलस्तनी ।
मुक्तावलिलसत्कंठी शुद्धकौशेयवासिनी ९२।
मुक्ताच्छुरितमंजीरकंकणांगदमुद्रिका ।
बिभ्रती कुंडले दिव्ये अमृतस्राविणी शुभे ९३।
वृत्तकस्तूरिकावेणी मध्ये सिंदूरबिंदुवत् ।
दधाना चित्रकं भाले सार्द्धं चंदनचित्रकैः ९४।
या सैव दृश्यते शांता जपंती परमं पदम् ।
आसीच्चंद्रप्रभो नाम राजर्षिः प्रियदर्शनः ९५।
तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः ।
चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः ९६।
स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम् ।
आदेशयद्द्विजान्मंत्रं परमष्टादशाक्षरम् ९७।
अभिषिच्यमानः स शिशुर्मंत्रामृतमयैर्जलैः ।
तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः ९८।
तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः ।
हारनूपुरसूत्राद्यैर्ग्रैवेयांगदकंकणैः ९९।
विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः ।
विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिंतयत् १००।
कथं भजामि तं भक्तं मोहनं गोपयोषिताम् ।
विक्रीडंतं सदा ताभिः कालिंदीपुलिने वने १०१।
इत्थमत्याकुलमतिश्चिंतयन्नेव बालकः ।
अथापपरमां विद्यां स्वप्नं च समवाप्यत १०२।
आसीत्कृष्णप्रतिकृतिः पुरतस्तस्य शोभना ।
शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता १०३।
साभूदिंदीवरश्यामा स्निग्धलावण्यशालिनी ।
त्रिभंगललिताकार शिखंडी पिच्छभूषणा १०४।
कूजयंती मुदा वेणुं कांचनीमधरेऽर्पिताम् ।
दक्षसव्यगताभ्यां च सुंदरीभ्यां निषेविताम् १०५।
वर्द्धयंतीं तयोः कामं चुंबनाश्लेषणादिभिः ।
दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेषविलासिनम् १०६।
अवनम्य शिरस्तस्मै पुरो लज्जितमानसः ।
अथोवाच हरिर्दक्षपार्श्वगां प्रेयसीं हसन् १०७।
सलज्जं परमं चैनं स्वशरीरासनागतम् ।
निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम् १०८।
चिंतयस्व शरीरेण ह्यभेदं मृगलोचने ।
अथो त्वदंगतेजोभिः स्पृष्टस्त्वद्रूपमाप्स्यति १०९।
ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजांतिकम् ।
निजांगकैस्तदंगानामभेदं ध्यायती स्थिता ११०।
अथास्यास्त्वंगतेजांसि तदंगं पर्यपूरयन् ।
स्तनयोर्ज्योतिषा जातौ पीनौ चारुपयोधरौ १११।
नितंबज्योतिषा जातं श्रोणिबिंबं मनोहरम् ।
कुंतलज्योतिषा केशपाशोऽभूत्करयोः करौ ११२।
सर्वमेवं सुसंपन्नं भूषावासः स्रगादिकम् ।
कलासु कुशला जाता सौरभेनांतरात्मनि ११३।
दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकाम् ।
चित्रध्वजां त्रपाभंगि स्मितशोभां मनोहराम् ११४।
प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा ।
गोविंदवामपार्श्वस्थां प्रेयसीं परिरभ्य च ११५।
उवाच तव दासीयं नाम चास्याश्चकार य ।
सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम् ११६।
अथ चित्रकलेत्येतन्नाम चात्ममतेन सा ।
चकार चाह सेवार्थं धृत्वा चापि विपंचिकाम् ११७।
सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः ।
गुणात्मन्प्राणनाथस्य तवायं विहितो विधिः ११८।
अथ चित्रकला त्वाज्ञां गृहीत्वानम्य माधवम् ।
तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः ११९।
जगौ सुमधुरं गीतं तयोरानंदकारणम् ।
अथ प्रीत्योपगूढा सा कृष्णेनानंदमूर्तिना १२०।
यावत्सुखांबुधौ पूर्णा तावदेवाप्यबुध्यत ।
चित्रध्वजो महाप्रेमविह्वलः स्मरतत्परः १२१।
तमेव परमानंदं मुक्तकंठो रुरोद ह ।
तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम् १२२।
आभाषितोऽपि पित्राद्यैर्नैवावोचद्वचः क्वचित् ।
मासमात्रं गृहे स्थित्वा निशीथे कृष्णसंश्रयः १२३।
निर्गत्यारण्यमचरत्तपो वै मुनिदुष्करम् ।
कल्पांते देहमुत्सृज्य तपसैव महामुनिः १२४।
वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा ।
जाता चित्रकलेत्येव यस्याः स्कंधे मनोहरा १२५।
विपंची दृश्यते नित्यं सप्तस्वरविभूषिता ।
उपतिष्ठति वै वामे रत्नभृंगारमद्भुतम् १२६।
दधाना दक्षिणे हस्ते सा वै रत्नपतद्ग्रहम् ।
अयमासीत्पुरा सर्वं तापसैरभिवंदितः १२७।
मुनिः पुण्यश्रवा नाम काश्यपः सर्वधर्मवित् ।
पिता तस्याभवच्छैवः शतरुद्रीयमन्वहम् १२८।
प्रस्तुवन्देवदेवेशं विश्वेशं भक्तवत्सलम् ।
प्रसन्नो भगवांस्तस्य पार्वत्या सह शंकरः १२९।
चतुर्दश्यामर्द्धरात्रेः प्रत्यक्षः प्रददौ वरम् ।
त्वत्पुत्रो भविता कृष्णे भक्तिमान्बाल एव हि १३०।
उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम् ।
उपदिशैकविंशत्या यो मया ते निगद्यते १३१।
गोपालविद्यानामायं मंत्रो वाक्सिद्धिदायकः ।
एतत्साधकजिह्वाग्रे लीलाचरितमद्भुतम् १३२।
अनंतमूर्तिरायाति स्वयमेव वरप्रदः ।
काममाया रमाकंठ सेंद्रा दामोदरोज्ज्वलाः १३३।
मध्ये दशाक्षरीं प्रोच्य पुनस्ता एव निर्दिशेत् ।
दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहम् १३४।
पूर्णामृतनिधेर्मध्ये द्वीपं ज्योतिर्मयं स्मरेत् ।
कालिंद्या वेष्टितं तत्र ध्यायेद्वृंदावने वने १३५।
सर्वर्तुकुसुमस्रावि द्रुमवल्लीभिरावृतम् ।
नटन्मत्तशिखिस्वानं गायत्कोकिलषट्पदम् १३६।
तस्य मध्ये वसत्येकः पारिजाततरुर्महान् ।
शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः १३७।
तले तस्याथ विमले परितो धेनुमंडलम् ।
तदंतर्मंडलं गोपबालानां वेणुशृंगिणाम् १३८।
तदंतरे तु रुचिरं मंडलं व्रज सुभ्रुवाम् ।
नानोपायनपाणीनां मदविह्वलचेतसाम् १३९।
कृतांजलिपुटानां च मंडलं शुक्लवाससाम् ।
शुक्लाभरणभूषाणां प्रेमविह्वलितात्मनाम् १४०।
चिंतयेच्छ्रुतिकन्यानां गृह्णतीनां वचः प्रियम् ।
रत्नवेद्यां ततो ध्यायेद्दुकूलावरणं हरिम् १४१।
ऊरौ शयानं राधायाः कदलीकांडकोपरि ।
तद्वक्त्रं चंद्र सुस्मेरं वीक्षमाणं मनोहरम् १४२।
किंचित्कुंचितवामांघ्रिं वेणुयुक्तेन पाणिना ।
वामेनालिंग्य दयितां दक्षेण चिबुकं स्पृशन् १४३।
महामारकताभासं मौक्तिकच्छायमेव च ।
पुंडरीकविशालाक्षं पीतनिर्मलवाससम् १४४।
बर्हभारलसच्छीर्षं मुक्ताहारमनोहरम् ।
गंडप्रांतलसच्चारु मकराकृतिकुंडलम् १४५।
आपादतुलसीमालं कंकणांगदभूषणम् ।
नूपुरैर्मुद्रिकाभिश्च कांच्या च परिमंडितम् १४६।
सुकुमारतरं ध्यायेत्किशोरवयसान्वितम् ।
पूजा दशाक्षरोक्तैव वेदलक्षं पुरस्क्रिया १४७।
इत्युक्त्वांतर्दधे देवो देवी च गिरिजा सती ।
मुनिरागत्य पुत्राय तथैवोपदिदेश ह १४८।
पुण्यश्रवास्तु तन्मंत्र ग्रहणादेव केशवम् ।
वर्णयामास विविधैर्जित्वा सर्वान्मुनीन्स्वयम् १४९।
रूपलावण्यवैदग्ध्य सौंदर्याश्चर्यलक्षणम् ।
तदा हृष्टमना बालो निर्गत्य स्वगृहात्ततः १५०।
वायुभक्षस्तपस्तेपे कल्पानामयुतत्रयम् ।
तदंते गोकुले जाता नंदभ्रातुर्गृहे स्वयम् १५१।
लवंगा इति तन्नाम कृष्णेंगित निरीक्षणा ।
यस्या हस्ते प्रदृश्येत मुखमार्जनयंत्रकम् १५२।
इति ते कथिताः काश्चित्प्रधानाः कृष्णवल्लभाः १५३।
हरिविविधरसाद्यैर्युक्तमध्यायमेतद्व्रजवरतनयाभिश्चारुहासेक्षणाभिः ।
पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम १५४।


इति श्रीपद्मपुराणे पातालखंडे श्रीकृष्णमाहात्म्ये द्विसप्ततितमोऽध्यायः ७२।


विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७३
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७२ पद्मपुराणम्
अध्यायः ०७३
वेदव्यासः अध्यायः ०७४ →
ईश्वर उवाच-।
यत्त्वया पृष्टमाश्चर्यं तन्मया भाषितं क्रमात् ।
यत्र मुह्यंति ब्रह्माद्यास्तत्र को वा न मुह्यति १।
तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा ।
महाराजमंबरीषं विष्णुभक्तं शिवान्वितम् २।
बदर्याश्रममासाद्य समासीनं जितेंद्रियम् ।
राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया ३।
वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम् ।
मां त्वं संसारदुष्पारे परित्रातुमिहार्हसि ४।
विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोखिलम् ।
यत्तत्पदमनुद्विग्नं सच्चिदानंदविग्रहम् ५।
परं ब्रह्म पराकाशमनाकाशमनामयम् ।
यत्साक्षात्कृत्य मुनयो भवांभोधिं तरंति हि ६।
तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाम् ।
व्यास उवाच-।
अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति ७।
गदितं स्वसुतं किंतु त्वां वक्ष्यामि हरिप्रियम् ।
आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम् ८।
अव्याकृतमव्यथितं तदीश्वरमयं शृणु ।
मया कृतं तपः पूर्वं बहुवर्षसहस्रकम् ९।
फलमूलपलाशांबु वाय्वाहारनिषेविणा ।
ततो मामाहभगवान्स्वध्याननिरतं हरिः १०।
कस्मिन्नर्थे चिकीर्षाते विवित्सा वा महामते ।
प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् ११।
मद्दर्शनांतः संसार इति सत्यं ब्रवीमि ते ।
ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः १२।
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ।
यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम् १३।
वदंति वेदशिरसश्चाक्षुषं नाथमद्भुतम् ।
श्रीभगवानुवाच-।
ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा १४।
यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ।
मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् १५।
धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम् ।
शून्यमेके भावमेके शिवमेके सदाशिवम् १६।
अपरे वेदशिरसि स्थितमेकं सनातनम् ।
सद्भावं विक्रियाहीनं सच्चिदानंदविग्रहम् १७।
पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् ।
ततोऽपश्यं भूपबालमहं कालांबुदप्रभम् १८।
गोपकन्यावृतं गोपं हसंतं गोपबालकैः ।
कदंबमूलआसीनं पीतवाससमद्भुतम् १९।
वनं वृंदावनं नाम नवपल्लवमंडितम् ।
कोकिलभ्रमरारावं मनोभव मनोहरम् २०।
नदीमपश्यं कालिंदीमिंदीवरदलप्रभाम् ।
गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम् २१।
महेंद्रदर्पनाशाय गोगोपालसुखावहम् ।
गोपालमबलासंगमुदितं वेणुवादिनम् २२।
दृष्ट्वातिहृष्टो ह्यभवं सर्वभूषणभूषणम् ।
ततो मामाह भगवान्वृंदावनचरः स्वयम् २३।
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ।
निष्कलं निष्क्रियं शांतं सच्चिदानंदविग्रहम् २४।
पूर्णं पद्मपलाशाक्षं नातः परतरं मम ।
इदमेववदंत्येतेवेदाःकारणकारणम् २५।
सत्यंनित्यंपरानंदंचिद्घनंशाश्वतंशिवम् ।
नित्यां मे मथुरां विद्धि वनं वृंदावनं तथा २६।
यमुनां गोपकन्याश्च तथा गोपालबालकाः ।
ममावतारो नित्योऽयमत्र मा संशयं कृथाः २७।
ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः ।
सर्वकामश्च सर्वेशः सर्वानंदः परात्परः २८।
मयि सर्वमिदं विश्वं भाति मायाविजृंभितम् ।
ततोऽहमब्रुवं देवं जगत्कारणकारणम् २९।
काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मतः ।
वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः ३०।
कोऽसौ वेणुर्महाभागो लोकानंदैकभाजनम् ।
भगवानाह मां प्रीतः प्रसन्नवदनांबुजः ३१।
गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः ।
देवकन्याश्च राजेंद्र तपोयुक्ता मुमुक्षवः ३२।
गोपाला मुनयः सर्वे वैकुंठानंदमूर्त्तयः ।
कल्पवृक्षः कदंबोऽयं परानंदैकभाजनम् ३३।
वनमानंदकाख्यं हि महापातकनाशनम् ।
सिद्धाश्च साध्या गंधर्वाः कोकिलाद्या न संशयः ३४।
केचिदानंदहृदयं साक्षाद्यमुनया तनुम् ।
अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ३५।
वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा ।
द्विज आसीच्छांतमनास्तपः शांतिपरायणः ३६।
नाम्ना देवव्रतोदांतः कर्मकांडविशारदः ।
स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ३७।
स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते ।
तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः ३८।
स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा ।
कृतवांस्तद्गृहे किंचित्फलं मूलं न्यवेदयत् ३९।
स्नानवारिफलं किंचित्तस्मै मत्या ददौ सुधीः ।
अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः ४०।
तेन पापेन संजातं वेणुत्वमतिदारुणम् ।
तेन पुण्येन तस्याथ मदीय प्रियतां गतः ४१।
अमुना सोपि राजेंद्र केतुमानिव राजते ।
युगांते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति ४२।
अहो न जानंति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम् ।
सुरेंद्र नागेंद्र मुनींद्र संस्तुतां मनोरमां तां मथुरां पुरातनीम् ४३।
काश्यादयो यद्यपि संति पुर्यस्तासां तु मध्ये मथुरैव धन्या ।
यज्जन्ममौंजीव्रतमृत्युदाहैर्नृणां चतुर्द्धा विदधाति मुक्तिम् ४४।
यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरंतरम् ।
तदैव पश्यंति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः ४५।
मथुरावासिनो धन्या मान्या अपि दिवौकसाम् ।
अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः ४६।
मथुरावासिनो ये तु दोषान्पश्यंति मानवाः ।
तेषु दोषं न पश्यंति जन्ममृत्युसहस्रजम् ४७।
अधना अपि ते धन्या मथुरां ये स्मरंति ते ।
यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि ४८।
मम प्रियतमो नित्यं देवो भूतेश्वरः परः ।
यः कदापि मम प्रीत्यै न संत्यजति तां पुरीम् ४९।
भूतेश्वरं यो न नमेन्न पूजयेन्न वास्मरेद्दुश्चरितो मनुष्यः ।
नैनां स पश्येन्मथुरां मदीयां स्वयंप्रकाशां परदेवताख्याम् ५०।
न कथं मयि भक्तिं स लभते पापपूरुषः ।
यो मदीयं परं भक्तं शिवं संपूजयेन्नहि ५१।
मन्मायामोहितधियः प्रायस्ते मानवाधमाः ।
भूतेश्वरं न नमंति न स्मरंति स्तुवंति ये ५२।
बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः ।
प्राप स्थानं परं शुद्धं यत्नयुक्तं पितामहैः ५३।
तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभाम् ।
खंजो भूत्वांधको वापि प्राणानेव परित्यजेत् ५४।
वेदव्यासमहाभाग मा कृथाः संशयं क्वचित् ।
रहस्यं वेदशिरसां यन्मया ते प्रकाशितम् ५५।
इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः ।
शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती ५६।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनादिमथुरामाहात्म्यकथनंनाम त्रिसप्ततितमोऽध्यायः ७३।
[1/21, 12:19 PM] yogeshrohi📚: विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७४
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७३ पद्मपुराणम्
अध्यायः ०७४
वेदव्यासः अध्यायः ०७५ →
ईश्वर उवाच-।
एकदा रहसि श्रीमानुद्धवो भगवित्प्रियः ।
सनत्कुमारमेकांते ह्यपृच्छत्पार्षदः प्रभो १।
यत्र क्रीडति गोविंदो नित्यं नित्यसुरास्पदे ।
गोपांगनाभिर्यत्स्थानं कुत्र वा कीदृशं परम् २।
तत्तत्क्रीडनवृत्तांतमन्यद्यद्यत्तदद्भुतम् ।
ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्त्तते ३।
सनत्कुमार उवाच-।
कदाचिद्यमुनाकूले कस्यापि च तरोस्तले ।
सुवृत्तेनोपविष्टेन भगवत्पार्षदेन वै ४।
यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना ।
दृष्टं कृतं च यद्यत्तत्प्रसंगात्कथितं मयि ५।
तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम् ।
किंत्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन ६।
अर्जुन उवाच-।
शंकराद्यैर्विरिंच्याद्यैरदृष्टमश्रुतं च यत् ।
सर्वमेतत्कृपांभोधे कृपया कथय प्रभो ७।
किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः ।
तास्ताः कतिविधा देव कति वा संख्यया पुनः ८।
नामानि कति वा तासां का वा कुत्र व्यवस्थिताः ।
तासां वा कति कर्माणि वयोवेषश्च कः प्रभो ९।
काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः ।
नित्ये नित्यसुखे नित्यविभवे च वने वने १०।
तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत् ।
कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहार्हसि ११।
यदपृष्टं मयाप्येवमज्ञातं यद्रहस्तव ।
आर्तार्तिघ्न महाभाग सर्वं तत्कथयिष्यसि १२।
श्रीभगवानुवाच-।
तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम ।
अपि प्राणसमानानां सत्यं पुंसामगोचरः १३।
कथिते दृष्टुमुत्कंठा तव वत्स भविष्यति ।
ब्रह्मादीनामदृश्यं यत्किं तदन्य जनस्य वै १४।
तस्माद्विरम वत्सैतत्किं नु तेन विना तव ।
एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम् १५।
दीनः पादांबुजद्वंद्वे दंडवत्पतितोऽर्जुनः ।
ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः १६।
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः ।
तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत् १७।
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ।
लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुंदरीम् १८।
आराध्य परया भक्त्या तस्यै स्वं च निवेदय ।
तां विनैतत्पदं दातुं न शक्नोमि कदाचन १९।
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः ।
श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम् २०।
तत्र गत्वा ददर्शैनां श्रीचिंतामणिवेदिकाम् ।
नानारत्नैर्विरचितैः सोपानैरतिशोभिताम् २१।
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम् ।
सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः २२।
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम् ।
शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः २३।
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम् ।
यत्र गुंजद्भृंगराज कोलाहलसमाकुलम् २४।
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम् ।
श्रीरत्नमंदिरं दिव्यं तले तस्य महाद्भुतम् २५।
रत्नसिंहासनं तत्र महाहैमाभिमोहनम् ।
तत्र बालार्कसंकाशां नानालंकारभूषिताम् २६।
नवयौवनसंपन्नां सृणिपाशधनुः शरैः ।
राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम् २७।
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः ।
विराजितपदांभोजामणिमादिभिरावृताम् २८।
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम् ।
अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः २९।
विहितांजलिरेकांते स्थितो भक्तिभरान्वितः ।
सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः ३०।
उवाच कृपया देवी तस्य स्मरणविह्वला ।
भगवत्युवाच-।
किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् ३१।
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम् ।
भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता ३२।
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत् ।
प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल ३३।
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः ।
नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम् ३४।
स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम् ।
भक्तानां नैव सर्वेषां नैव नैव च नैव च ३५।
प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा ।
तदेहि भज बुद्ध्वैव कुलकुंडं सरो मम ३६।
सर्वकामप्रदा देवी त्वनया सह गम्यताम् ।
तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह ३७।
तदैव तत्र गत्वा स स्नात्वा पार्थस्तथागतः ।
आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम् ३८।
कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ ।
सद्यः सिद्धिकरी बाला विद्यानिगदिता परा ३९।
हकारार्द्धपरा द्वीपा द्वितीया विश्वभूषिता ।
अनुष्ठानं च पूजां च जपं च लक्षसंख्यकम् ४०।
कोरकैः करवीराणां प्रयोगं च यथातथम् ।
निर्वर्त्य तमुवाचेदं कृपया परमेश्वरी ४१।
अनेनैव विधानेन क्रियतां मदुपासनम् ।
ततो मयि प्रसन्नायां तवानुग्रहकारणात् ४२।
ततस्तु तत्र पर्य्यंतेष्वधिकारो भविष्यति ।
इत्ययं नियमः पूर्वं स्वयं भगवता कृतः ४३।
श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयत् ।
ततः पूजां जपं चैव कृत्वा देवी प्रसादिता ४४।
कृत्वा ततः शुभं होमं स्नानं च विधिना ततः ।
कृतकृत्यमिवात्मानं प्राप्तप्रायमनोरथम् ४५।
करस्थां सर्वसिद्धिं च स पार्थः सममन्यत ।
अस्मिन्नवसरे देवी तमागत्य स्मितानना ४६।
उवाच गच्छ वत्स त्वमधुना तद्गृहांतरे ।
ततः ससंभ्रमः पार्थः समुत्थाय मुदान्वितः ४७।
असंख्यहर्षपूर्णात्मा दंडवत्तां ननाम ह ।
आज्ञप्तस्तु तया सार्द्धं देवी वयस्ययार्जुनः ४८।
गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम् ।
ततश्च स उपादिष्टो गोलोकादुपरिस्थितम् ४९।
स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम् ।
नित्यं वृंदावनं नाम नित्यरासमहोत्सवम् ५०।
अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम् ।
तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः ५१।
विवशः पतितस्तत्र विवृद्धप्रेमविह्वलः ।
ततः कृच्छ्राल्लब्धसंज्ञो दोर्भ्यामुत्थापितस्तया ५२।
सांत्वनावचनैस्तस्याः कथंचित्स्थैर्यमागतः ।
ततस्तपः किमन्यन्मे कर्त्तव्यं विद्यते वद ५३।
इति तद्दर्शनोत्कंठाभरेण तरलोऽभवत् ।
ततस्तया करे तस्य धृत्वा तत्पददक्षिणे ५४।
प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः ।
स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम् ५५।
सहस्रदलपद्मस्थ संस्थानं मध्यकोरकम् ।
चतुःसरश्चतुर्धारमाश्चर्यकुलसंकुलम् ५६।
अस्यांतरे प्रविश्याथ विशेषमिह पश्यसि ।
एतस्य दक्षिणे देश एष चात्र सरोवरः ५७।
मधुमाध्वीकपानं यन्नाम्ना मलयनिर्झरः ।
एतच्च फुल्लमुद्यानं वसंते मदनोत्सवम् ५८।
कुरुते यत्र गोविंदो वसंतकुसुमोचितम् ।
यत्रावतारं कृष्णस्य स्तुवंत्येव दिवानिशम् ५९।
भवेद्यत्स्मरणादेव मुनेः स्वांते स्मरांकुरः ।
ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम् ६०।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ।
ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले ६१।
कल्हारकुमुदांभोजरक्तनीलोत्पलच्युतैः ।
परागैरंजिते मंजुवासिते मधुबिंदुभिः ६२।
तुंदिले कलहंसादि नादैरांदोलिते ततः ।
रत्नाबद्धचतुस्तीरे मंदानिलतरंगिते ६३।
मग्ने जलांतः पार्थे तु तत्रैवांतर्दधेऽथ सा ।
उत्थाय परितो वीक्ष्य संभ्रांता चारुहासिनी ६४।
सद्यः शुद्धस्वर्णरश्मिगौरकांततनूलताम् ।
स्फुरत्किशोरवर्षीयां शारदेंदुनिभाननाम् ६५।
सुनीलकुटिलस्निग्धविलसद्रत्नकुंतलाम् ।
सिंदूरबिंदुकिरणप्रोज्ज्वलालकपट्टिकाम् ६६।
उन्मीलद्भ्रूलताभंगि जितस्मरशरासनाम् ।
घनश्यामलसल्लोल खेलल्लोचनखंजनाम् ६७।
मणिं कुंडलतेजोंशु विस्फुरद्गंडमण्डलाम् ।
मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम् ६८।
शरदंबुरुहां सर्वश्रीचौरपाणिपल्लवाम् ।
विदग्धरचितस्वर्णकटिसूत्रकृतांतराम् ६९।
कूजत्कांचीकलापांत विभ्राजज्जघनस्थलाम् ।
भ्राजद्दुकूलसंवीतनितंबोरुसुमंदिराम् ७०।
शिंजानमणिमंजीरसुचारुपदपंकजाम् ।
स्फुरद्विविधकंदर्पकलाकौशलशालिनीम् ७१।
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् ।
आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत् ७२।
विसस्मार च यत्किंचित्पौर्वदेहिकमेव च ।
मायया गोपिकाप्राणनाथस्य तदनंतरम् ७३।
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता ।
अत्रांतरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत् ७४।
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् ।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ७५।
तत्र संति हि सख्यस्ते मा सीद वरवर्णिनि ।
ता हि संपादयिष्यंति तत्रैव वरमीप्सितम् ७६।
इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा ।
नानापूर्वप्रवाहं च नानापक्षिसमाकुलम् ७७।
स्फुरत्कैरवकह्लारकमलेंदीवरादिभिः ।
भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम् ७८।
विविधैः कुसुमोद्दामैर्मंजुकुंजलताद्रुमैः ।
विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम् ७९।
तत्रांतरे क्वणत्कांची मंजुमंजीररंजितम् ।
किंकिणीनां झणत्कारं शुश्रावोत्कर्णसंपुटे ८०।
ततश्च प्रमदावृंदमाश्चर्ययुतयौवनम् ।
आश्चर्यालंकृतिन्यासमाश्चर्याकृतिभाषितम् ८१।
अद्भुतांगमपूर्वं सा पृथगाश्चर्यविभ्रमम् ।
चित्रसंभाषणं चित्रहसितालोकनादिकम् ८२।
मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम् ।
चिल्लावण्यगतानंतमाश्चर्याकुलसुंदरम् ८३।
आश्चर्यस्निग्धसौंदर्यमाश्चर्यानुग्रहादिकम् ।
सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम् ८४।
दृष्ट्वा तत्परमाश्चर्यं चिंतयंती हृदा कियत् ।
पादांगुष्ठेना लिखंती भुवं नम्रानना स्थिता ८५।
ततस्तासां संभ्रमोऽभूद्दृष्टीनां च परस्परम् ।
केयं मदीयजातीया चिरेणानस्तकौतुका ८६।
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम् ।
आमंत्र्य मंत्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः ८७।
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता ।
गिरा मधुरया प्रीत्या तामुवाच मनस्विनी ८८।
प्रियमुदोवाच-।
कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा ।
जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम् ८९।
एतच्च सर्वमस्माकं कथ्यतां चिंतया किमु ।
स्थानेऽस्मिन्परमानंदे कस्यापि दुःखमस्ति किम् ९०।
इति पृष्टा तया सा तु विनयावनतिं गता ।
उवाच सुस्वरं तासां मोहयंती मनांसि च ९१।
अर्जुन उवाच- ।
का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा ।
आनीता केन वा चात्र किं वाथ स्वयमागता ९२।
एतत्किंचिन्न जानामि देवी जानातु तत्पुनः ।
कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि ९३।
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम् ।
तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता ९४।
विषमोत्कंठिता पश्चात्पश्यंती परितो दिशम् ।
एकमाकाशसंभूतं ध्वनिमश्रौषमद्भुतम् ९५।
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् ।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ९६।
तत्र संति हि सख्यस्ते मा सीद वरवार्णिनि ।
ताहि संपादयिष्यंति तत्र ते वरमीप्सितम् ९७।
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता ।
विषादहर्षपूर्णात्मा चिंताकुलसमाकुला ९८।
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम् ।
अश्रौषं च ततः पश्चादपश्यं भवतीः पराः ९९।
एतन्मात्रं विजानामि कायेन मनसा गिरा ।
एतदेव मया देव्यः कथितं यदि रोचते १००।
का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः ।
तच्छ्रुत्वा वचनं तस्याः सा वै प्रियमुदाब्रवीत् १०१।
अस्त्वेवं प्राणसख्यः स्म तस्यैव च वयं शुभे ।
वृंदावनकलानाथ विहारदारिकाः सुखम् १०२।
ता आत्ममुदितास्तेन व्रजबाला इहागताः ।
एताः श्रुतिगणाः ख्याता एताश्च मुनयस्तथा १०३।
वयं बल्लवबाला हि कथितास्ते स्वरूपतः ।
अत्र राधापतेरंगात्पूर्वायाः प्रेयसीतमाः १०४।
नित्या नित्यविहारिण्यो नित्यकेलि भुवश्चराः ।
एषा पूर्णरसा देवी एषा च रसमंथरा १०५।
एषा रसालया नाम एषा च रसवल्लरी ।
रसपीयूषधारेयमेषा रसतरंगिणी १०६।
रसकल्लोलिनी चैषा इयं च रसवापिका ।
अनंगसेना एषैव इयं चानंगमालिनी १०७।
मदयंती इयं बाला एषा च रसविह्वला ।
इयं च ललिता नाम इयं ललितयौवना १०८।
अनंगकुसुमा चैषा इयं मदनमंजरी ।
एषा कलावती नाम इयं रतिकला स्मृता १०९।
इयं कामकला नाम इयं हि कामदायिनी ।
रतिलोला इयं बाला इयं बाला रतोत्सुका ११०।
एषा चरति सर्वस्व रतिचिंतामणिस्त्वसौ ।
नित्यानंदाः काश्चिदेता नित्यप्रेमरसप्रदाः १११।
अतःपरं श्रुतिगणास्तासां काश्चिदिमाः शृणु ।
उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया ११२।
एषा कलसुराख्याता बालेयं कलकंठिका ।
विपंचीयं क्रमपदा एषा बहुहुता मता ११३।
एषा बहुप्रयोगेयं ख्याता बहुकला बला ।
इयं कलावती ख्याता मता चैषा क्रियावती ११४।
अतःपरं मुनिगणास्तासां कतिपया इह ।
इयमुग्रतपा नाम एषा बहुगुणा स्मृता ११५।
एषा प्रियव्रता नाम सुव्रता च इयं मता ।
सुरेखेयं मता बाला सुपर्वेयं बहुप्रदा ११६।
रत्नरेखा त्वियं ख्याता मणिग्रीवा त्वसौ मता ।
सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका ११७।
इयं सौदामिनी सुभ्रूरियं च कामदायिनी ।
एषा च भोगदाख्या ता इयं विश्वमता सती ११८।
एषा च धारिणी धात्री सुमेधा कांतिरप्यसौ ।
अपर्णेयं सुपर्णैषा मतैषा च सुलक्षणा ११९।
सुदतीयं गुणवती चैषासौ कलिनी मता ।
एषा सुलोचना ख्याता इयं च सुमनाः स्मृता १२०।
अश्रुता च सुशीला च रतिसुखप्रदायिनी ।
अतः परं गोपबाला वयमत्रागतास्तु याः १२१।
तासां च परिचीयंतां काश्चिदंबुरुहानने ।
असौ चंद्रावली चैषा चंद्रिकेयं शुभा मता १२२।
एषा चंद्रावली चंद्ररेखेयं चंद्रिकाप्यसौ ।
एषा ख्याता चंद्रमाला मता चंद्रालिकात्वियम् १२३।
एषा चंद्रप्रभा चंद्रकलेयमबला स्मृता ।
एषा वर्णावली वर्णमालेयं मणिमालिका १२४।
वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा ।
इयं हारावली तारा मालिनीयं शुभा मता १२५।
मालतीयमियं यूथी वासंती नवमल्लिका ।
मल्लीयं नवमल्लीयमसौ शेफालिका मता १२६।
सौगंधिकेयं कस्तूरी पद्मिनीयं कुमुद्वती ।
एषैव हि रसोल्लासा चित्रवृंदा समा त्वियम् १२७।
रंभेयमुर्वशी चैषा सुरेखा स्वर्णरेखिका ।
एषा कांचनमालेयं सत्यसंततिका परा १२८।
एताः परिकृताः सर्वाः परिचेयाः परा अपि ।
सहितास्माभिरेताभिर्विहरिष्यसि भामिनि १२९।
एहि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि ।
स्नापयित्वाथ दास्यामि मंत्रं सिद्धिप्रदायकम् १३०।
इति तां सहसा नीत्वा स्नापयित्वा विधानतः ।
वृंदावनकलानाथ प्रेयस्या मंत्रमुत्तमम् १३१।
ग्राहयामास संक्षेपाद्दीक्षाविधिपुरस्सरम् ।
परं वरुणबीजस्य वह्निबीजपुरस्कृतम् १३२।
चतुर्थस्वरसंयुक्तं नादबिंदुविभूषितम् ।
पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्ल्लभम् १३३।
मंत्रग्रहणमात्रेण सिद्धिः सर्वा प्रजायते ।
पुरश्चर्याविधिर्ध्यानं होमसंख्याजपस्य च १३४।
तप्तकांचनगौरांगीं नानालंकारभूषिताम् ।
आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदाम् १३५।
कल्हारैः करवीराद्यैश्चंपकैः सरसीरुहैः ।
सुगंधकुसुमैरन्यैः सौगंधिकसमन्वितैः १३६।
पाद्यार्घ्याचमनीयैश्च धूपदीपैर्मनोहरैः ।
नैवेद्यैर्विविधैर्दिव्यैः सखीवृंदाहृतैर्मुदा १३७।
संपूज्य विधिवद्देवीं जप्त्वा लक्षमनुं ततः ।
हुत्वा च विधिना स्तुत्वा प्रणम्य दंडवद्भुवि १३८।
ततः सा संस्तुता देवी निमेषरहितांतरा ।
परिकल्प्य निजां छायां माययात्मसमीहया १३९।
पार्श्वेऽथ प्रेयसीं तत्र स्थापयित्वा बलादिव ।
सखीभिरावृता हृष्टा शुद्धैः पूजाजपादिभिः १४०।
स्तवैर्भक्त्या प्रणामैश्च कृपयाविरभूत्तदा ।
हेमचंपकवर्णाभा विचित्राभरणोज्ज्वला १४१।
अंगप्रत्यंगलावण्य लालित्य मधुराकृतिः ।
निष्कलंक शरत्पूर्णकलानाथ शुभानना १४२।
स्निग्धमुग्धस्मितालोक जगत्त्रयमनोहरा ।
निजया प्रभयात्यंतं द्योतयंती दिशो दश १४३।
अब्रवीदथ सा देवी वरदा भक्तवत्सला ।
देव्युवाच-।
मत्सखीनां वचः सत्यं तेन त्वं मे प्रिया सखी १४४।
समुत्तिष्ठ समागच्छ कामं ते साधयाम्यहम् ।
अर्जुनी सा वचो देव्याः श्रुत्वा चात्ममनीषितम् १४५।
पुलकांकुरमुग्धांगी बाष्पाकुलविलोचना ।
पपात चरणे देव्याः पुनश्च प्रेमविह्वला १४६।
ततः प्रियंवदां देवीं समुवाच सखीमिमाम् ।
पाणौ गृहीत्वा मत्संगे समाश्वास्य समानय १४७।
ततः प्रियंवदा देव्या आज्ञया जातसंभ्रमा ।
तां तथैव समादाय संगे देव्या जगाम ह १४८।
गत्वोत्तरसरस्तीरे स्नापयित्वा विधानतः ।
संकल्पादिकपूर्वं तु पूजयित्वा यथाविधि १४९।
श्रीगोकुलकलानाथमंत्रं तच्च सुसिद्धिदम् ।
ग्राहयामास तां देवी कृपया हरिवल्लभा १५०।
व्रतं गोकुलनाथाख्यं पूर्वं मोहनभूषितम् ।
सर्वसिद्धिप्रदं मंत्रं सर्वतंत्रेषु गोपितम् १५१।
गोविंदेरितविज्ञासौ ददौ भक्तिमचंचलाम् ।
ध्यानं च कथितं तस्यै मंत्रराजं च मोहनम् १५२।
उक्तं च मोहने तंत्रे स्मृतिरप्यस्य सिद्धिदा ।
नीलोत्पलदलश्यामं नानालंकारभूषितम् १५३।
कोटिकंदर्पलावण्यं ध्यायेद्रासरसाकुलम् ।
प्रियंवदामुवाचेदं रहस्यं पावनेच्छया १५४।
श्रीराधिकोवाच-।
अस्या यावद्भवेत्पूर्णं पुरश्चरणमुत्तमम् ।
तावद्धि पालयैनां त्वं सावधाना सहालिभिः १५५।
इत्युक्त्वा सा ययौ कृष्णपादांबुरुहसन्निधिम् ।
छायामात्मभवामात्मप्रेयसीनां निधाय च १५६।
तस्थौ तत्र यथापूर्वं राधिका कृष्णवल्लभा ।
अत्र प्रियंवदादेशात्पद्ममष्टदलं शुभम् १५७।
गोरोचनाभिर्निर्माय कुंकुमेनापि चंदनैः ।
एभिर्नानाविधैर्द्रव्यैः संमिश्रैः सिद्धिदायकम् १५८।
लिखित्वा यंत्रराजं च शुद्धं मंत्रं तमद्भुतम् ।
कृत्वा न्यासादिकं पाद्यमर्घ्यं चापि यथाविधि १५९।
नानर्तुसंभवैः पुष्पैः कुंकुमैरपि चंदनैः ।
धूपदीपैश्च नैवेद्यैस्तांबूलैर्मुखवासनैः १६०।
वासोलंकारमाल्यैश्च संपूज्य नंदनंदनम् ।
परिवारैः समं सर्वैः सायुधं च सवाहनम् १६१।
स्तुत्वा प्रणम्य विधिवच्चेतसा स्मरणं ययौ ।
ततो भक्तिवशो देवो यशोदानंदनः प्रभुः १६२।
स्मितावलोकितापांग तरंगिततरेंगितम् ।
उवाच राधिकां देवीं तामानय इहाशु च १६३।
आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदां सखीम् ।
तामानिनाय सहसा पुरोवासुरसात्मनः १६४।
श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविह्वला ।
पपात कांचनीभूमौ पश्यंती सर्वमद्भुतम् १६५।
कृच्छ्रात्कथंचिदुत्थाय शनैरुन्मील्य लोचने ।
स्वेदांभः पुलकोत्कंप भावभाराकुलासती १६६।
ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम् ।
ततः कल्पतरुस्तत्र लसन्मरकतच्छदः १६७।
प्रवालपल्लवैर्युक्तः कोमलो हेमदंडकः ।
स्फटिकप्रवालमूलश्च कामदः कामसंपदाम् १६८।
प्रार्थकाभीष्टफलदस्तस्याधो रत्नमंदिरम् ।
रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम् १६९।
शंखपद्मनिधी तत्र स व्यापसव्यसंस्थितौ ।
चतुर्दिक्षु यथा स्थानं सहिताः कामधेनवः १७०।
परितो नंदनोद्यानं मलयानिलसेवितम् ।
ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः १७१।
आमोदैर्वासितं सर्वं कालागुरुपराजितम् ।
मकरंदकणावृष्टिशीतलं सुमनोहरम् १७२।
मकरंदरसास्वाद मत्तानां भृंगयोषिताम् ।
वृंदशो झंकृतैः शश्वच्चैवं मुखरितांतरम् १७३।
कलकंठी कपोतानां सारिकाशुकयोषिताम् ।
अन्यासां पत्रिकांतानां कलनादैर्निनादितम् १७४।
नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम् ।
रसांबुसेकसंसृष्ट तमांजनतनुद्युतिम् १७५।
सुस्निग्धनीलकुटिल कषायावासिकुंतलम् ।
मदमत्तमयूराद्य शिखंडाबद्धचूडकम् १७६।
भृंगसेवितसव्योपक्रमपुष्पावतंसकम् ।
लोलालकालिविलसत्कपोलादर्शकाशितम् १७७।
विचित्रतिलकोद्दाम भालशोभाविराजितम् ।
तिलपुष्पपतंगेश चंचुमंजुलनासिकम् १७८।
चारुबिंबाधरं मंदस्मितदीपितमन्मथम् ।
वन्यप्रसूनसंकाश ग्रैवेयकमनोहरम् १७९।
मदोन्मत्तभ्रमद्भृंगी सहस्रकृतसेवया ।
सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम् १८०।
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम् ।
श्रीवत्सलक्षणं जानुलंबिबाहुमनोहरम् १८१।
गंभीरनाभिपंचास्य मध्यमध्यातिसुंदरम् ।
सुजातद्रुमसद्वृत्त मदूरजानुमंजुलम् १८२।
कंकणांगदमञ्जीरैर्भूषितं भूषणैः परैः ।
पीतांशुकलयाविष्ट नितंबघटनायकम् १८३।
लावण्यैरपि सौंदर्यजितकोटिमनोभवम् ।
वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः १८४।
मोहयंतं सुखांभोधौ मज्जयंतं जगत्त्रयम् ।
प्रत्यंगमदनावेशधरं रासरसालसम् १८५।
चामरं व्यजनं माल्यं गंधंचंदनमेव च ।
तांबूलं दर्पणं पानपात्रं चर्वितपात्रकम् १८६।
अन्यत्क्रीडाभवं यद्यत्तत्सर्वं च पृथक्पृथक् ।
रसालं विविधं यंत्रं कलयंतीभिरादरात् १८७।
यथास्थाननियुक्ताभिः पश्यंतीभिस्तदिंगितम् ।
तन्मुखांभोजदत्ताक्षि चंचलाभिरनुक्रमात् १८८।
श्रीमत्या राधिका देव्या वामभागे ससंभ्रमम् ।
आराधयंत्या तांबूलमर्पयंत्या शुचिस्मितम् १८९।
समालोक्यार्जुनी यासौ मदनावेशविह्वला ।
ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित् १९०।
तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनांतरे ।
यथाकामं रहो रेमे महायोगेश्वरो विभुः १९१।
ततस्तस्याः स्कंधदेशे प्रदत्तभुजपल्लवः ।
आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे १९२।
शीघ्रं स्नापय तन्वंगीं क्रीडाश्रांतां मृदुस्मिताम् ।
ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे १९३।
स्नानं कुर्वित्युवाचैनां सा च श्रांता तथाकरोत् ।
जलाभ्यंतरमाप्तासौ पुनरर्जुनतां गतः १९४।
उत्तस्थौ यत्र देवेशः श्रीमद्वैकुंठनायकः ।
दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमानसम् १९५।
मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः ।
श्रीकृष्ण उवाच-।
धनंजय त्वामाशंसे भवान्प्रियसखो मम १९६।
त्वत्समो नास्ति मे कोपि रहोवेत्ता जगत्त्रये ।
यद्रहस्यं त्वया पृष्टमनुभूतं च तत्पुनः १९७।
कथ्यते यदि तत्कस्मै शपसे मां तदार्जुन ।
सनत्कुमार उवाच-।
इति प्रसादमासाद्य शपथैर्जातनिर्णयः १९८।
ययौ हृष्टमनास्तस्मात्स्वधामाद्भुतसंस्मृतिः ।
इति ते कथितं सर्वं रहो यद्गोचरं मम १९९।
गोविंदस्य तथा चास्मै कथने शपथस्तव ।
ईश्वर उवाच-।
इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः २००।
नरनारायणावासं वृंदारण्यमुपाव्रजत् ।
तत्रास्तेऽद्यापि कृष्णस्य नित्यलीलाविहारवित् २०१।
नारदेनापिपृष्टोऽहं नाब्रवं तद्रहस्यकम् ।
प्राप्तं तथापि तेनेदं प्रकृतित्वमुपेत्यच २०२।
तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणात् ।
तन्नकस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवत् २०३।
इमं श्रीभगवद्भक्तमहिमाध्यायमद्भुतम् ।
यः पठेच्छृणुयाद्वापि स रतिं विंदते हरौ २०४।
इति श्रीपद्मपुराणे पातालखंडे अर्जुन्यनुनयोनाम चतुःसप्ततितमोऽध्यायः ७४।







विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७५
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७४ पद्मपुराणम्
अध्यायः ०७५
वेदव्यासः अध्यायः ०७६ →
पार्वत्युवाच-।
वृंदावनरहस्यं च बहुधा कथितं विभो ।
केन पुण्यविशेषेण नारदः प्रकृतिं गतः १।
ईश्वर उवाच-
एकदाश्चर्यवृत्तांतं मया जिज्ञासितं पुरा ।
ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखांबुजात् २।
नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम् ।
अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथंचन ३।
किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे ।
इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा ४।
तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये ।
त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ५।
ब्रह्मा तदा ममवचो निशम्य सह नारदः ।
जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु ६।
ब्रह्मोवाच-
किमिदं द्वात्रिंशद्वनं वृंदारण्यं विशांपते ।
श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद ७।
श्रीभगवानुवाच-
इदं वृंदावनं रम्यं मम धामैव केवलम् ।
यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः ८।
ये वसंति ममांत्ये ते मृता यांति ममांतिकम् ।
अत्र या गोपपत्न्यश्च निवसंति ममालये ९।
योगिन्यस्तास्तु एवं हि मम देवाः परायणाः ।
पंचयोजनमेवं हि वनं मे देवरूपकम् १०।
कालिंदीयं सुषुम्नाख्या परमामृतवाहिनी ।
यत्र देवाश्च भूतानि वर्त्तंते सूक्ष्मरूपतः ११।
सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित् ।
आविर्भावस्तिरोभावो भवेदत्र युगेयुगे १२।
तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम् ।
रहस्यं मे प्रभावं च पश्य वृंदावनं युगे १३।
ब्रह्मादीनां देवतानां न दृश्यं तत्कथंचन ।
ईश्वर उवाच-
तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च १४।
आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम् ।
तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः १५।
पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद ।
तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम् १६।
श्रुत्वा कृष्णमुखांभोजाद्वृंदावनरहस्यकम् ।
नारद उवाच-
तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः १७।
समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः ।
तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः १८।
शौनकादय ऊचुः -
वृंदारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि ।
तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव १९।
नारद उवाच-
कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः ।
मनस्वी च महादुःखी चिंताकुलितचेतनः २०।
मां दृष्ट्वा गौतमो देवः पपात धरणीतले ।
उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि २१।
कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते ।
गौतम उवाच-
श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् २२।
द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया ।
वृंदावनरहस्यं तु न श्रुतं त्वन्मुखांबुजात् २३।
यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो ।
नारद उवाच-
इदं तु परमं गुह्यं रहस्यातिरहस्यकम् २४।
पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृंदावनोद्भवम् ।
रहस्यं वद देवेश वृंदारण्यस्य मे पितः २५।
इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत् ।
ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम २६।
मयापि तत्र गंतव्यं त्वया सह न संशयः ।
इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि २७।
महाविष्णौ च कथितं मयोक्तं यत्तदेव हि ।
तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत् २८।
त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम् ।
स्नानाय विनियुंक्ष्वामुं सरस्यमृतसंज्ञके २९।
महाविष्णुसमादिष्टः स्वयंभूर्मां तथाकरोत् ।
तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम् ३०।
तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम् ।
सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता ३१।
मां दृष्ट्वा ताः समायांतीमपृच्छंश्च मुहुर्मुहुः ।
स्त्रिय ऊचुः -
का त्वं कुतः समायाता कथयात्मविचेष्टितम् ३२।
तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय ।
कुतः कोऽहं समायातः कथं वा योषिदाकृतिः ३३।
स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले ।
तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः ३४।
वृंदानाम्नी पुरी चेयं कृष्णचंद्रप्रिया सदा ।
अहं च ललितादेवी तुर्यातीता च निष्कला ३५।
इत्युक्त्वा च महादेवी करुणा सांद्रमानसा ।
मां प्रत्याह पुनर्देवी समागच्छ मया सह ३६।
अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः ।
ताश्च मां प्रवदंत्येवं समागच्छानया सह ३७।
ततोनुकृष्णचंद्रस्य चतुर्दशाक्षरो मनुः ।
कृपया कथितस्तस्या देव्याश्चापि महात्मनः ३८।
तत्क्षणादेव तत्साम्यमलभं विविधोपमा ।
ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः ३९।
केवलं सच्चिदानंदः स्वयंयोषिन्मयः प्रभुः ।
योषिदानंदहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः ४०।
समागच्छ प्रिये कांते भक्त्या मां परिरंभय ।
रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम ४१।
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति ।
इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक् ४२।
नीत्वामृतसरो रम्यं स्नानार्थं संनियोजय ।
तया मे रमणस्यांते गदितं प्रियभाषितम् ४३।
अहं च ललितादेवी राधिकाया च गीयते ।
अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ४४।
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी ।
अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ४५।
आवयोरंतरं नास्ति सत्यंसत्यं हि नारद ।
एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ४६।
स समाचारसंकेतं ललिता वत्स मे प्रियः ।
इदं वृंदावनं नाम रहस्यं मम वै गृहम् ४७।
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित् ।
ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे ४८।
स्थित्वा सा कृष्णचंद्रस्य चरणांते गता पुनः ।
ततो निमज्जनादेव नारदोऽहमुपागतः ४९।
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा ।
स्वयंभुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् ५०।
स्वयंभुवा तथा दृष्टं नोक्तं किंचित्तदा पुनः ।
इति ते कथितं वत्स सुगोप्यं च मया त्वयि ५१।
त्वयापि कृष्णचंद्रस्य केवलं धामचित्कलम् ।
गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम् ५२।
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम् ।
तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ५३।
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुंगवाः ।
तदा शापो भवेद्विप्राः कृष्णचंद्रस्य निश्चितम् ५४।
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम् ।
यः पठेच्छृणुयाद्वापि स याति परमं पदम् ५५।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये नारदीयानुनये पंचसप्ततितमोऽध्यायः ७५।


ईश्वर उवाच-।
अत्र शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम १।
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन सह मथुरामाययौ २।
अथ तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा पितरावभिवाद्याश्वास्य ताभ्यामालिंगितः सकल गोपवृद्धान्परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्थान्सर्वान्संतर्पयामास ३।
कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं तत्र समुवास ४।
तत्र स्थले नंदगोपादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षिमृगादयोऽपि वासुदेवप्रसादेन दिव्यरूपधरा विमानसमारूढाः परमं लोकं वैकुंठमवापुः ५।
श्रीकृष्णस्तु नंदगोपव्रजौकसां सर्वेषां निरामयं स्वपदं दत्वा देवगणैः स्तूयमानः।
श्रीमतीं द्वारावतीं विवेश ६।
तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजितः षोडशसहस्राष्टाधिकमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय लतागृहांतरे-।
षु सुरतरुकुसुमार्चितश्लक्ष्णतरपर्यंकेषु रमयामास ७।
एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृतमहांतमुर्वीभारं नाशयित्वा नंदव्रजद्वारिकावासिनः स्थावरजंगमान्भवबंधनान्मोचयित्वा परमे शाश्वते योगिध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्यमहिष्यादिभिः संसेव्यमानो वासुदेवोऽखिलेषूवाच ८।


असीदव्याकृतं ब्रह्मकरकाघृतयोरिव ।
प्रकृतिस्थो गुणान्मुक्तो द्रवीभूत्वा दिवं गतः ९।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमहात्म्ये पार्वती-शिवसंवादे षट्सप्ततितमोऽध्यायः ७६।




विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७७
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७६ पद्मपुराणम्
अध्यायः ०७७
वेदव्यासः अध्यायः ०७८ →
पार्वत्युवाच-
विस्तरेण समाचक्ष्व नामार्थपदगौरवम् ।
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः १।
तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः ।
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर २।
ईश्वर उवाच-
सारे वृंदावने कृष्णं गोपीकोटिभिरावृतम् ।
तत्र गंगा पराशक्तिस्तत्स्थमानंदकाननम् ३।
नाना सुकुसुमामोदसमीरसुरभीकृतम् ।
कलिंदतनया दिव्यतरंगरागशीतलम् ४।
सनकाद्यैर्भागवतैः संसृष्टं मुनिपुंगवैः ।
आह्लादिमधुरारावैर्गोवृंदैरभिमंडितम् ५।
रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम् ।
तत्र श्रीमान्कल्पतरुर्जांबूनदपरिच्छदः ६।
नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः ।
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ७।
तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम् ।
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ८।
कोटिचंद्रप्रतीकाशं कोटिभास्करभास्वरम् ।
कोटिकंदर्पलावण्यं भासयन्तं दिशोदश ९।
त्रिनेत्रं द्विभुजं गौरं तप्तजांबूनदप्रभम् ।
श्लिष्यमाणमंगनाभिः सदामानं च सर्वशः १०।
ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम् ।
सदाघूर्णितनेत्राभिर्नृत्यंतीभिर्महोत्सवैः ११।
चुंबंतीभिर्हसंतीभिः श्लिष्यंतीभिर्मुहुर्मुहुः ।
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः १२।
तत्पादांबुजमाध्वीकचित्ताभिः परितो वृतम् ।
तासां तु मध्ये या देवी तप्तचामीकरप्रभा १३।
द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः ।
प्रधानं या भगवती यया सर्वमिदं ततम् १४।
सृष्टिस्थित्यंतरूपा या विद्या विद्यात्रयीपरा ।
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी १५।
ब्रह्मविष्णुशिवादीनां देहकारणकारणम् ।
चराचरं जगत्सर्वं यन्मायापरिरंभितम् १६।
वृंदावनेश्वरी नाम्ना राधा धात्रानुकारणात् ।
तामालिंग्य वसंतं तं मुदा वृंदावनेश्वरम् १७।
अन्योन्यचुंबनाश्लेष मदावेशविघूर्णितम् ।
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् १८।
मंत्रराजमिमं गुह्यं तस्य मंत्रं च मंत्रवित् ।
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः १९।
राधिंका चित्ररेखा च चंद्रा मदनसुंदरी ।
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया २०।
सुवर्णशोभा संमोहा प्रेमरोमांचराजिता ।
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा २१।
सुवर्णमालिनी शांता सुरासरसिका तथा ।
सर्वस्त्री जीवना दीनवत्सला विमलाशया २२।
निपीतनामपीयूषा सा राधा परिकीर्तिता ।
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा २३।
मूर्च्छत्प्रेमनदी राधा वरणा लोचनांजना ।
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना २४।
सुरतोत्सव संग्रामा चित्ररेखा प्रकीर्तिता ।
गौरांगी नातिदीर्घा च सदा वादनतत्परा २५।
दैन्यानुरागनटना मूर्च्छारोमांचविह्वला ।
हरिदक्षिणपार्श्वस्था सर्वमंत्रप्रिया तथा २६।
अनंगलोभमाधुर्या चंद्रा सा परिकीर्तिता ।
सलीलमंथरगतिर्मंजुमुद्रित लोचना २७।
प्रेमधारोज्ज्वलाकीर्णा दलितांजन शोभना ।
कृष्णानुरागरसिका रासध्वनिसमुत्सुका २८।
अहंकारसमायुक्ता मुखनिंदितचंद्रमाः ।
मधुरालापचतुरा जितेंद्रियशिरोमणिः २९।
सुंदरस्मितसंयुक्ता सा वै मदनसुंदरी ।
विविक्तरासरसिका श्यामा श्याममनोहरा ३०।
प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी ।
जितेंद्रिया जितक्रोधा सा प्रिया परिकीर्तिता ३१।
सुतप्तस्वर्णगौरांगी लीलागमनसुंदरी ।
स्मरोत्थ प्रेमरोमांच वैचित्रमधुराकृतिः ३२।
सुंदरस्मितसंयुक्त मुखनिंदितचंद्रमाः ।
मधुरालापचतुरा जितेंद्रियशिरोमणिः ३३।
कीर्तिता सा मधुमती प्रेमसाधनतत्परा ।
संमोहज्वररोमांच प्रेमधारा समन्विता ३४।
दानधूलिविनोदा च रासध्वनि महानटी ।
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ३५।
कृष्णात्मा सोत्तमा श्यामा मधुपिंगललोचना ।
तत्पादप्रेमसंमोहात्क्वचित्पुलकचुंबिता ३६।
शिवकुंडे शिवानंदा नंदिनी देहिकातटे ।
रुक्मिणी द्वारवत्यां तु राधा वृंदावने वने ३७।
देवकी मथुरायां तु जाता मे परमेश्वरी ।
चंद्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी ३८।
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
वृंदावनाधिपत्यं च दत्तं तस्यै प्रसीदता ३९।
कृष्णेनान्यत्र देवी तु राधा वृंदावने वने ।
नित्यानंदतनुः शौरिर्योऽशरीरीति भाष्यते ४०।
वाय्वग्निनाकभूमीनामंगाधिष्ठितदेवता ।
निरूप्यते ब्रह्मणोऽपि तथा गोविंदविग्रहः ४१।
सेंद्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते ।
तथा कांतियुतः कृष्णः कालं मोहयति ध्रुवम् ४२।
न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसंभवा ।
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ४३।
काठिन्यं देवयोगेन करकाघृतयोरिव ।
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ४४।
वृंदावनरजोवृंदे तत्र स्युर्विष्णुकोटयः ।
आनंदकिरणे वृंदव्याप्तविश्वकलानिधिः ४५।
गुणात्मतात्मनि यथा जीवास्तत्किरणांगकाः ।
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ४६।
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा ।
गोविंद एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ४७।
तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः ।
पुरुषः प्रकृतिश्चाद्यौ राधावृंदावनेश्वरौ ४८।
प्रकृतेर्विकृतं सर्वं विना वृंदावनेश्वरम् ४९।
समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि ।
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ५०।
त्रिगुणादिप्रपंचोऽयं वृंदावनविहारिणः ।
ऊर्म्मीवाब्धेस्तरंगस्य यथाब्धिर्नैव जायते ५१।
न राधिका समा नारी न कृष्णसदृशः पुमान् ।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ५२।
ध्येयं कैशोरकं ध्येयं वनं वृंदावनं वनम् ।
श्याममेव परं रूपमादिदेवं परो रसः ५३।
बाल्यं पंचमवर्षांतं पौगंडं दशमावधि ।
अष्टपंचककैशोरं सीमा पंचदशावधि ५४।
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते ।
तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः ५५।
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम् ।
बालगोपालगोपालं स्मरगोपालरूपिणम् ५६।
वंदे मदनगोपालं कैशोराकारमद्भुतम् ।
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ५७।
अखंडातुलपीयूष रसानंदमहार्णवम् ।
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ५८।
एकमप्यव्ययं पूर्वं बल्लवीवृंदमध्यगम् ।
ध्यानगम्यं प्रपश्यंति रुचिभेदात्पृथग्धियः ५९।
यन्नखेंदुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः ।
गुणत्रयमतीतं तं वंदे वृंदावनेश्वरम् ६०।
वृंदावनपरित्यागो गोविंदस्य न विद्यते ।
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ६१।
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम् ।
तं भजे नंदसूनुं यन्नखतेजः परं मनुः ६२।
पार्वत्युवाच।
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते ।
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ६३।
ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते ।
तत्सर्वं कथयिष्यामि सावधाना निशामय ६४।
स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरंजनम् ।
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ६५।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनंनाम सप्तसप्ततितमोऽध्यायः ७७।






विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७८
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७७ पद्मपुराणम्
अध्यायः ०७८
वेदव्यासः अध्यायः ०७९ →
पार्वत्युवाच-
वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद ।
यत्कृत्वा मानवाः सर्वे भवांभोधिं तरंति हि १।
ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते ।
गृहोपलेपनं चैव तथानुगमनं हरेः २।
भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः ।
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ३।
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते ।
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ४।
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते ।
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ५।
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते ।
पादोदकं च निर्माल्यं मालानामपि धारणम् ६।
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः ।
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ७।
विशुद्धिः स्यादंतरस्य घ्राणस्यापि विधीयते ।
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ८।
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत् ।
पूजा च पंचधा प्रोक्ता तासां भेदं शृणुष्व मे ९।
अभिगमनमुपादानं योगः स्वाध्याय एव च ।
इज्या पंचप्रकारार्चा क्रमेण कथयामि ते १०।
तत्वाभिगमनं नाम देवतास्थानमार्जनम् ।
उपलेपं च निर्माल्यदूरीकरणमेव च ११।
उपादानं नाम गंध पुष्पादिचयनं तथा ।
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना १२।
स्वाध्यायो नाम मंत्रार्थानुसंधापूर्वको जपः ।
सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा १३।
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः ।
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः १४।
इति पंचप्रकारार्चा कथिता तव सुव्रते ।
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् १५।
प्रसंगात्कथयिष्यामि शालग्रामशिलार्चनम् ।
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् १६।
शंखचक्रगदापद्मी केशवाख्यो गदाधरः ।
नारायणः पद्मगदाचक्रशंखायुधैः क्रमात् १७।
माधवश्चक्रशंखाभ्यां पद्मेन गदया भवेत् ।
गदाब्जशंखचक्री च गोविंदाख्यो गदाधरः १८।
पद्मशंखारि गदिने विष्णुरूपाय ते नमः ।
सशंखाब्ज गदाचक्र मधुसूदन मूर्तये १९।
नमो गदारिशंखाब्जयुक्तत्रिविक्रमाय च ।
सारिकौमोदकी पद्मशंख वामन मूर्त्तये २०।
चक्राब्जशंखगदिने नमः श्रीधरमूर्त्तये ।
हृषीकेशसारिगदाशंखपद्मिन्नमोस्तु ते २१।
साब्जशंखगदाचक्रपद्मनाभ स्वमूर्त्तये ।
दामोदरशंखगदाचक्रपद्मिन्नमोस्तु ते २२।
शंखाब्जचक्रगदिने नमः संकर्षणाय च ।
सारिशंखगदाब्जाय वासुदेव नमोस्तुते २३।
शंखचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये ।
नमोऽनिरुद्धाय गदाशंखाब्जारिविधारिणे २४।
साब्जशंखगदाचक्रपुरुषोत्तममूर्त्तये ।
नमोऽधोक्षजरूपाय गदाशंखारि पद्मिने २५।
नृसिंहमूर्त्तये पद्मगदाशंखारिधारिणे ।
पद्मारिशंखगदिने नमोस्त्वच्युतमूर्त्तये २६।
सगदाब्जारिशंखाय नमः श्रीकृष्णमूर्त्तये ।
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् २७।
शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः ।
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः २८।
संकर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ।
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः २९।
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः ।
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ३०।
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिंदुकः ।
अथवा पंचबिंदोस्तु पूजनं ब्रह्मचारिणः ३१।
वराहः स त्रिलिंगो यो विषमद्वयचक्रकः ।
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिंदुकः ३२।
कृष्णः सवर्तुलावर्त्त पांडुरो धृतपृष्ठकः ।
श्रीधरः पंचरेखश्च वनमाली गदांकितः ३३।
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः ।
नानावर्णानेकमूर्ति नागभोगी त्वनंतकः ३४।
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः ।
संकर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ३५।
सुदीर्घरेखासुषिर एकचक्रांबुजः पृथुः ।
पृथुचक्रः स्थूलछिद्रः कृष्णो बिंदुश्च बिंदुमान् ३६।
ह्यग्रीवोंऽकुशाकारः पंचरेखः सकौस्तुभः ।
वैकुंठो मल्लवद्भाति एकचक्रमयोसितः ३७।
मत्स्यो दीर्घांबुजाकारो दीर्घरेखश्च पांडुरः ।
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ३८।
शालग्रामद्वारकायां स्थिताय गदिने नमः ।
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ३९।
लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः ।
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पंचभिः ४०।
प्रद्युम्नः षड्भिरेवाव्यात्संकर्षणश्च सप्तभिः ।
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ४१।
दशावतारो दशभिरनिरुद्धोऽवतादथ ।
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनंतकः ४२।
ब्रह्मा चतुर्मुखो दंडी कमंडलुस्रगुन्नतः ।
महेश्वरः पंचवक्त्रो दशबाहुर्वृषध्वजः ४३।
यथायुधस्तथागौरी चंडिका च सरस्वती ।
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ४४।
गजास्यश्च गजस्कंधः षण्मुखोनेकधा गणाः ।
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ४५।
धर्मार्थकाममोक्षा हि प्राप्यंते पुरुषेण च ४६।
इति श्रीपद्मपुराणे पातालखंडे शालग्रामनिर्णयोनामाष्टसप्ततितमोऽध्यायः ७८।





विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७९
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७८ पद्मपुराणम्
अध्यायः ०७९
वेदव्यासः अध्यायः ०८० →
ईश्वर उवाच-
शालग्रामे मणौयंत्रे मंडले प्रतिमासु च ।
नित्यं तु श्रीहरेः पूजा केवले भवनेन तु १।
गंडक्यामेकदेशे तु शालग्रामस्थलं महत् ।
पाषाणं तद्भवं पातु शालग्राममिति स्थितम् २।
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ।
किं पुनः पूजनं तत्र हरेः सांनिध्यकारणम् ३।
शालग्रामैकयजनाच्छतलिंगीफलं लभेत् ।
बहुभिर्जन्मभिः पुण्यैर्यदिकृष्णशिलां लभेत् ४।
गोष्पदेन च चिह्नेन जनुस्तेन समाप्यते ।
आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम् ५।
आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा ।
सदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते ६।
यथा तथा हरिर्व्यापी शालग्रामे प्रतीयते ।
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ७।
द्वारवत्याः शिलायुक्ताः स वैकुंठे महीयते ।
शालग्रामशिलायां तु गह्वरं लक्षते नरः ८।
पितरस्तस्य तिष्ठंति तृप्ताः कल्पांतकं दिवि ।
वैकुंठभवनं तत्र यत्र द्वारावती शिला ९।
मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम् ।
जपः पूजा च होमश्च सर्वं कोटिगुणं भवेत् १०।
मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः ।
कीटकोऽपि मृतिं याति वैकुंठभवनं यतः ११।
शालग्रामशिलायां यो मूल्यमुद्घाटयेन्नरः ।
विक्रेता चानुमंता च यः परीक्षानुमोदकः १२।
सर्वे ते नरकं यांति यावत्सूर्यश्च संप्लवः ।
अतस्तद्वर्जयेद्देवि चक्रक्रयणविक्रयम् १३।
शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः ।
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः १४।
द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितः ।
चक्रासनशिलाकारचित्स्वरूपो निरंजनः १५।
नमोऽस्त्वोंकाररूपाय सदानंदस्वरूपिणे ।
शालग्राममहाभाग भक्तस्यानुग्रहं कुरु १६।
तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभो ।
अतः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा १७।
यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमाप्नुयुः ।
ललाटे केशवं विद्यात्कंठे श्रीपुरुषोत्तमम् १८।
नाभौ नारायणं देवं वैकुंठं हृदये तथा ।
दामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमम् १९।
मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतः ।
कर्णयोर्यमुनां गंगां बाह्वोः कृष्णं हरिं तथा २०।
यथास्थानेषु तुष्यंति देवता द्वादश स्मृताः ।
द्वादशैतानि नामानि कर्तव्ये तिलके पठेत् २१।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।
ऊर्द्ध्वपुंड्रमूर्द्ध्वरेखं ललाटे यस्य दृश्यते २२।
चांडालोऽपि स शुद्धात्मा पूज्य एव न संशयः ।
यस्योर्द्ध्वपुंड्रं दृश्येत न ललाटे नरस्य हि २३।
तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ।
त्रिपुंड्रं यस्य विप्रस्य ऊर्द्ध्वपुंड्रं न दृश्यते २४।
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचैलं स्नानमाचरेत् ।
सांतरालं प्रकर्त्तव्यं पुंड्रं हरिपदाकृति २५।
निरंतरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमः ।
ललाटे तस्य सततं शुनःपादो न संशयः २६।
नासादिकेशपर्यंतमूर्द्ध्वपुंड्रं सुशोभनम् ।
मध्ये छिद्रसमायुक्तं तं विद्याद्धरिमंदिरम् २७।
वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः ।
मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् २८।
वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः ।
ऊर्द्ध्वपुंड्रं महाभागः सयाति परमां गतिम् २९।
अग्निरापश्च वेदाश्च चंद्रादित्यौ तथानिलः ।
विप्राणां नित्यमेते हि कर्णे तिष्ठंति दक्षिणे ३०।
गंगा च दक्षिणे श्रोत्रे नासिकायां हुताशनः ।
उभयोरपि संस्पर्शात्तत्क्षणादेव शुध्यति ३१।
कृत्वा चैवोदकं शंखे वैष्णवानां महात्मनाम् ।
तुलसीमिश्रितं दद्यात्पिबेन्मूर्ध्नाभिवंदयेत् ३२।
प्राश्नीयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम् ।
विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम् ३३।
तदेवाष्टगुणं पापं भूमौ बिंदुनिपातनात् ।
जलशंखं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम् ३४।
सततं धार्यते वारि तेनाप्तं जन्मनः फलम् ।
शंखो यस्य गृहे नास्ति घंटा वा गरुडान्विता ३५।
पुरतो वासुदेवस्य न स भागवतः कलौ ।
यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ३६।
देवोत्सवेष्वसेवा च अप्रणामस्तदग्रतः ।
उच्छिष्टे चैव चाशौचे भगवद्वंदनादिकम् ३७।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् ।
पादप्रसारणं चाग्रे तथा पर्यंकसेवनम् ३८।
शयनं भक्षणं चापि मिथ्याभाषणमेव च ।
उच्चैर्भाषामिथो जल्पो रोदनानि च विग्रहः ३९।
निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम् ।
केवलावरणं चैव परनिंदापरस्तुतिः ४०।
अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ।
शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ४१।
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ।
विनियुक्तावशिष्टस्य प्रदानं व्यंजनस्य यत् ४२।
स्पष्टीकृत्याशनं चैव परनिंदा परस्तुतिः ।
गुरौ मौनं निजस्तोत्रं देवतानिंदनं तथा ४३।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ४४।
अपराधसहस्राणि क्रियंतेऽहर्निशं मया ।
तवाहमिति मां मत्वा क्षमस्व मधुसूदन ४५।
इति मंत्रं समुच्चार्य प्रणमेद्दंडवद्भुवि ।
अपराधसहस्राणि क्षमते सर्वदा हरिः ४६।
सायंप्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा ।
विष्णुभक्तावशिष्टस्य दिनपापात्प्रमुच्यते ४७।
अन्नं ब्रह्मा रसो विष्णुः खादयेन्मांसमुच्चरन् ।
एवं ज्ञात्वा तु यो भुंक्ते सोऽन्नदोषैर्न लिप्यते ४८।
अलाबुं वर्त्तुलाकारं मसूरं च सवल्कलम् ।
तालं शुक्लं च वृंताकं न खादेद्वैष्णवो नरः ४९।
वटाश्वत्थार्कपत्रेषु कुंभी तिंदुकपत्रयोः ।
कोविदारे कदंबे च न खादेद्वैष्णवो नरः ५०।
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत् ।
आश्विने मासि दुग्धं च कार्त्तिके चामिषं त्यजेत् ५१।
दग्धमन्नं तु जंबीरं यद्विष्णोरनिवेदितम् ।
बीजपूरं च शाकं चप्रत्यक्षलवणं तथा ५२।
यदि दैवाच्च भुंजीत तदा तन्नाम संस्मरेत् ।
हैमंतिकं सिता स्विन्नं धान्यं मुद्गास्तिला यवाः ५३।
कलाप कंगु नीवाराः शाकं च हिलमोचिका ।
कालशाकं च वास्तूकं मूलकं रक्तकेतरत् ५४।
लवणे सिंधुसामुद्रे गव्ये च दधिसर्पिषी ।
पयोनुद्धृतसारं च पनसाम्रहरीतकी ५५।
पिप्पली जीरकं चैव नागरंगक तिंतिडी ।
कदलीलवली धात्री फलान्यगुडमैक्षवम् ५६।
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ।
तुलसीपत्रपुष्पाद्यैर्माल्यं वहति यो नरः ५७।
विष्णुं तमपि जानीयात्सत्यं सत्यं न संशयः ।
धात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः ५८।
कुरुक्षेत्रं विजानीयात्सार्द्धं हस्तशतत्रयम् ।
तुलसीकाष्ठघटितै रुद्राक्षाकारकारितैः ५९।
निर्मितां मालिकां कंठे निधायार्चनमारभेत् ।
तथामलकमालां च सम्यक्पुष्करमालिकाम् ६०।
कंठे मालां च यत्नेन धारयेद्विष्णुपूजकः ।
निर्माल्यं तुलसीमालां शिरस्यपि च धारयेत् ६१।
निर्माल्यचंदनेनांगमंकयेत्तस्य नामभिः ।
ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ६२।
नंदकं चैव हृन्मध्ये शंखं चक्रं भुजद्वये ।
शंखचक्रान्वितो विप्रः श्मशाने म्रियते यदि ६३।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य निश्चिता ।
यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः ६४।
करोति सर्वकार्याणि फलमाप्नोति चाक्षयम् ।
तुलसीकाष्ठमालाभिर्भूषितः कर्म आचरन् ६५।
पितॄणां देवतानां च कृतं कोटिगुणं भवेत् ।
निवेद्य केशवे मालां तुलसीकाष्ठनिर्मिताम् ६६।
वहते यो नरो भक्त्या तस्य नश्यति पातकम् ।
पाद्यादिभिरथाभ्यर्च्य इमं मंत्रमुदीरयेत् ६७।
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी ।
रोगाणामभिवंदिता निरसनी सिक्तांतकत्रासिनी ।
प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता ।
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ६८।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये देवीश्वरसंवादे तिलकादिनिर्णयोनाम नवसप्ततितमोऽध्यायः ७९।




विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८०
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०७९ पद्मपुराणम्
अध्यायः ०८०
वेदव्यासः अध्यायः ०८१ →
पार्वत्युवाच-
घोरे कलियुगे प्राप्ते विषयग्राहसंकुले ।
पुत्रदारधनाद्यार्तैस्तत्कथं धार्यते विभो १।
तदुपायं महादेव कथयस्व कृपानिधे ।
ईश्वर उवाच-
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् २।
हरेराम हरेकृष्ण कृष्णकृष्णेति मंगलम् ।
एवं वदंति ये नित्यं न हि तान्बाधते कलि ३।
अंतरांतरकर्माणि कृत्वा नामानि च स्मरेत् ।
कृष्णकृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः ४।
मन्नाम चैव त्वन्नाम योजयित्वा व्यतिक्रमात् ।
सोऽपि पापात्प्रमुच्येत तूलराशेरिवानलः ५।
जयाद्येतत्त्वया वाप्यथवा श्रीशब्दपूर्वकम् ।
तच्च मे मंगलं नाम जपन्पापात्प्रमुच्यते ६।
दिवानिशि च संध्यायां सर्वकालेषु संस्मरेत् ।
अहर्निशं स्मरन्रामं कृष्णं पश्यति चक्षुषा ७।
अशुचिर्वा शुचिर्वापि सर्वकालेषु सर्वदा ।
नामसंस्मरणादेव संसारान्मुच्यते क्षणात् ८।
नानापराधयुक्तस्य नामापि च हरत्यघम् ।
यज्ञव्रततपोदानं सांगं नैव कलौ युगे ९।
गंगास्नानं हरेर्नाम निरपायमिदं द्वयम् १०।
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च ।
स्तेयान्यथान्यानि हरेः प्रियेण गोविंदनाम्ना न च संति भद्रे ११।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुंडीकाक्षं स बाह्याभ्यंतरः शुचिः १२।
नामसंस्मरणादेव तथा तस्यार्थचिंतनात् ।
सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम् १३।
पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत् ।
दक्षिणस्य पदोंगुष्ठमूले चक्रं बिभर्ति यः १४।
तत्र नम्रजनस्यापि संसारच्छेदनाय च ।
मध्यमांगुलिमूले तु धत्ते कमलमच्युतः १५।
ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम् ।
पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम् १६।
कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम् ।
पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम् १७।
भोगसंपन्मयं धत्ते यवमंगुष्ठपर्वणि ।
मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम् १८।
सर्वविद्याप्रकाशाय धत्ते स भगवानजः ।
पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः १९।
वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः ।
तस्माद्गोविंदमाहात्म्यमानंदरससुंदरम् २०।
शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः ।
मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् २१।
ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः ।
दैनंदिनं तु दुरितं पक्षमासर्त्तुवर्षजम् २२।
ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च ।
स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च २३।
कोटिकोटिसहस्राणि ह्युपपापानि यानि च ।
सर्वाण्यथ प्रणश्यंति पौर्णमास्यां तु वासरे २४।
आसिंचेदच्युतं मूर्ध्नि तदैतत्कलशोदकम् ।
पुरुषसूक्तेन मंत्रेण पावमानीभिरेव च २५।
नालिकेरोदकेनाथ तथा तालफलांबुना ।
रत्नोदकेन गंधेन तथा पुष्पोदकेन च २६।
पंचोपचारैराराध्य यथाविभवविस्तरैः ।
घं घंटायै नम इति घंटावाद्यं प्रदापयेत् २७।
पतितस्य महाध्वानन्यस्तपातकसंचये ।
पाहि मां पापिनं घोरसंसारार्णवपातिनम् २८।
य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः ।
सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति २९।
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् ।
आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिम् ३०।
भाद्रे च जन्मदिवस उपवासपरो भवेत् ।
प्रसुप्तस्य परीवर्तमाश्विने मासि कारयेत् ३१।
उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत् ।
शुभे चैवाश्विने मासि महामायां च पूजयेत् ३२।
सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना ।
हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः ३३।
कार्तिके पुष्यमासे च कामतः पुण्यमाचरेत् ।
दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत् ३४।
सप्तवर्तिप्रमाणेन दीपः स्याच्चतुरंगुलः ।
पक्षांते च प्रकर्तव्या दीपमालावलि शुभा ३५।
मार्गशीर्षे सिते पक्षे षष्ठ्यां च सितवस्त्रकैः ।
पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः ३६।
पौषे पुष्पाभिषेकं च वर्जयेच्चंदनं श्लथम् ।
संक्रांत्यां माघमासे च साधिवासित तंडुलात् ३७।
नैवेद्यं विष्णवे दद्यादिमं मंत्रमुदीरयेत् ।
ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरः स्थितान् ३८।
अभ्यर्च्य भगवद्भक्तान्द्विजांश्च भगवद्धिया ।
एकस्मिन्भोजिते भक्ते कोटिर्भवति भोजिता ३९।
विप्रभोजनमात्रेण व्यंगं सांगं ध्रुवं भवेत् ।
पंचम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ४०।
पूजयित्वा विधानेन चूतपल्लवसंयुतैः ।
फलचूर्णैश्च विविधैर्वासितैः पटसाधितैः ४१।
काननं रमणीयं च प्रदीप्तं दीपदीपितम् ।
द्राक्षेक्षु रंभा जंबीर नागरंगं च पूगकम् ४२।
नालिकेरं च धात्रीं च पनसं च हरीतकीम् ।
अन्यैश्च वृक्षखंडैश्च सर्वर्तुकुसुमान्वितैः ४३।
अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः ।
वितानैः कुसुमोद्दामैर्वारिपूर्णघटैस्तथा ४४।
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः ।
जयकृष्णेति संस्मृत्य प्रदक्षिणपुरस्सरम् ४५।
विशेषतः कलियुगे दोलोत्सवो विधीयते ।
फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके ४६।
अथवा पौर्णमास्यां तु प्रतिपत्संधिसंज्ञके ।
पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ४७।
सितरक्तैर्गौरपीतैः कर्पूरादि विमिश्रितैः ।
हरिद्रारागयोगाच्च रंगरूपैर्मनोहरैः ४८।
अन्यैर्वा रंगरूपैश्च प्रीणयेत्परमेश्वरम् ।
एकादश्यां समारभ्य पंचम्यां तं समापयेत् ४९।
पंचाहानि त्र्यहानि वा दोलोत्सवो विधीयते ।
दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः ५०।
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ।
निक्षिप्य जलपात्रे च मासि माधवसंज्ञके ५१।
सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यथ मृण्मये ।
तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ५२।
प्रतिमां वा महाभागे तस्य पुण्यं न गण्यते ।
दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ५३।
वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणम् ।
पूर्वेपूर्वे तु वातस्थे दमनादिषु कर्मसु ५४।
प्रकर्तव्यं विधानेन अन्यथा निष्फलं भवेत् ।
वैशाखे च तृतीयायां जलमध्ये विशेषतः ५५।
अथवा मंडले कुर्यान्मंडपे वा बृहद्वने ।
सुगंधचंदनेनांगं सुपुष्टं च दिनेदिने ५६।
यथाप्रयत्नतः कुर्यात्कृशांगस्येव पुष्टिदम् ।
चंदनागुरु ह्रीबेर कृष्णकुंकुम रोचना ५७।
जटामांसी मुरा चैव विष्णोर्गंधाष्टकं विदुः ।
तैस्तैर्गंधयुतैश्चापि विष्णोरंगानि लेपयेत् ५८।
धृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।
अथवा केसरैर्योज्यं हरिचंदनमुच्यते ५९।
यात्राकाले च ये कृष्णं भक्त्या पश्यंति मानवाः ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ६०।
सुगंधमिश्रितैस्तोयैर्देवदेवं गलंति ये ।
अथवा पुष्पमध्ये तु स्थापयेज्जगदीश्वरम् ६१।
वृंदावनं तत्र गत्वा उपस्कृत्य फलानि च ।
विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ६२।
नारिकेलफलं बीजकोशं चोद्धृत्य दापयेत् ।
घोंटाफलं च पनसं कोशमुद्धृत्य दापयेत् ६३।
दध्ना विमिश्रितं चान्नं घृतेनाप्लुत्य दापयेत् ।
पाचितं पिष्टकं पूपमष्टादशघृतेन च ६४।
तैलैश्च तिलसंमिश्रैः फलं पक्वं प्रदापयेत् ।
यद्यदेवात्मनः प्रीतं तत्तदीशाय दापयेत् ६५।
दत्वा नैवेद्यवस्त्रादि नाददीत कथंचन ।
त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ६६।
इति ते कथितं किंचित्समासेन महेश्वरि ।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ६७।
श्रीकृष्णरूपगुणवर्णन शास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः ।
तत्प्रेमभावरसभक्तिविलास नामहारेषु चेत्खलु मनः किमु कामिनीभिः ।६८।
तच्चेतसा प्रभजतां व्रजबालकेंद्रं वृंदावनक्षितितलं यमुनाजलं च ।
तल्लोकनाथपदपंकजधूलिमिश्रलिप्तं वपुः किल वृथागरुचंदनाद्यैः ।६९।
__________________
इति श्रीपद्मपुराणे पातालखंडे उमामहेश्वरसंवादे वृंदावनमाहात्म्ये अशीतितमोऽध्यायः ।८०।




विकिस्रोतः

अन्विष्यताम्
चेतावनियाँ (4)
पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८१
पृष्ठम् चर्चा
भाषा
निरीक्षताम्
इतिहासः दृश्यताम्
सम्पाद्यताम्

अधिक
< पद्मपुराणम्‎ | खण्डः ५ (पातालखण्डः)
← अध्यायः ०८० पद्मपुराणम्
अध्यायः ०८१
वेदव्यासः अध्यायः ०८२ →
ऋषय ऊचु-
सूत जीव चिरं साधो श्रीकृष्णचरितामृतम् ।
त्वया प्रकाशितं सर्वं भक्तानां भवतारणम् १।
श्रीकृष्णलीलां निखिलां ब्रूहि दैनंदिनीं प्रभो ।
ययाकर्णितया साधो कृष्णे भक्तिर्विवर्द्धते २।
गुरोः शिष्यस्य मंत्रस्य विधानं लक्षणं पृथक् ।
वदास्माकं महाभाग त्वं हि नः परमः सुहृत् ३।
सूत उवाच-
एकदा यमुनातीरे समासीनं जगद्गुरुम् ।
नारदः प्रणिपत्याह देवदेवं सदाशिवम् ४।
नारद उवाच-
देवदेव महादेव सर्वज्ञ जगदीश्वर ।
भगवद्धर्मतत्त्वज्ञ कृष्णमंत्रविदां वर ५।
कृष्णमंत्रा मया लब्धास्त्वत्तो ये च पितुः परे ।
ते सर्वे साधितास्तत्वान्मंत्रराजादयो मया ६।
बहुवर्षसहस्रैस्तु शाकमूलफलाशिना ।
शुष्कपर्णांबुवाय्वादि भोजिना च निराशिना ७।
स्त्रीणां संदर्शनालापवर्जिना भूमिशायिना ।
कामादिषड्गुणं जित्वा बाह्येंद्रियनियम्यता ८।
एवंकृतेऽपि नैवात्मा संतुष्टो मम शंकर ।
तद्ब्रूहि यत्प्रसिध्येत संस्काराद्यैर्विना प्रभो ९।
सकृदुच्चारणादेव ददाति फलमुत्तमम् ।
यदि योग्योऽस्मि देवेश तदा मे कृपया वद १०।
शिव उवाच-
साधु पृष्टं महाभाग त्वया लोकहितैषिणा ।
सुगोप्यमपि वक्ष्यामि मंत्रचिंतामणिं तव ११।
रहस्यानां रहस्यं यद्गुह्यानां गुह्यमुत्तमम् ।
न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव १२।
वक्ष्यामि युगलं तुभ्यं कृष्णमंत्रमनुत्तमम् ।
मंत्रचिंतामणिर्नाम युगलं द्वयमेव च १३।
पर्याया अस्य मंत्रस्य तथा पंचपदीति च ।
गोपीजनपदं वल्लभां तं तु चरणानिति १४।
शरणं च प्रपद्ये च एष पंचपदात्मकः ।
मंत्रचिंतामणिः प्रोक्तः षोडशार्णो महामनुः १५।
नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः ।
पदद्वयात्मको मंत्रो दशार्णः खलु कथ्यते १६।
एतां पंचपदीं जप्त्वा श्रद्धयाश्रद्धया सकृत् ।
कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः १७।
न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः ।
न देशकालनियमो नारिमित्रादिशोधनम् १८।
सर्वेऽधिकारिणश्चात्र चंडालांता मुनीश्वर ।
स्त्रियः शूद्रादयश्चापि जडमूकादि पंगवः १९।
अन्ये हूणाः किराताश्च पुलिंदाः पुष्कसास्तथा ।
आभीराय वनाः कंकाः खसाद्याः पापयोनयः २०।
दंभाहंकारपरमाः पापाः पैशुन्यतत्पराः ।
गोब्राह्मणादि हंतारो महोपपातकान्विताः २१।
ज्ञानवैराग्यरहिताः श्रवणादिविवर्जिताः ।
एते चान्ये च सर्वे स्युर्मनोरस्याधिकारिणः २२।
यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे ।
तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम २३।
याज्ञिको दाननिरतः सर्वतंत्रोपसेवकः ।
सत्यवादी यतिर्वापि वेदवेदांगपारगः २४।
ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः ।
अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः २५।
तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने ।
न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च २६।
न चाशुश्रूषवे वाच्यं नासंवत्सरसेविने ।
श्रीकृष्णेऽनन्यभक्ताय दंभलोभविवर्जिने २७।
कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः ।
ऋषिश्चैवाहमेतस्य गायत्रीछंद उच्यते २८।
देवता बल्लवीकांतो मंत्रस्य परिकीर्तितः ।
सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः २९।
आचक्राद्यैस्तथा मंत्रैः पंचांगानि प्रकल्पयेत् ।
अथवापि स्वबीजेन करांगन्यासकौ चरेत् ३०।
मंत्रस्य प्रथमो वर्णो बिंदुना मूर्ध्निभूषितः ।
गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता ३१।
अंतिमार्णैर्दशांगानि तैरेव च तथार्चनम् ।
गंधपुष्पादिभिस्तच्च जलैरेवाप्यसंभवे ३२।
न्यासपूर्वविधानेन कर्तव्यं हरितुष्टये ।
अतएवास्य मंत्रस्य न्यासाद्यन्ये वदंति च ३३।
सकृदुच्चारणादेव कृतकृत्यत्वदायिनः ।
तथापि दशधा नित्यं जपाद्यर्थं प्रविन्यसेत् ३४।
अथ ध्यानं प्रवक्ष्यामि मंत्रस्यास्य द्विजोत्तम ।
पीतांबरं घनश्यामं द्विभुजं वनमालिनम् ३५।
बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम् ।
घूर्णायमाननयनं कर्णिकारावतंसिनम् ३६।
अभितश्चंदनेनाथ मध्ये कुंकुमबिंदुना ।
रचितं तिलकं भाले बिभ्रतं मंडलाकृतिम् ३७।
तरुणादित्यसंकाशं कुंडलाभ्यां विराजितम् ।
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम् ३८।
प्रियास्य न्यस्तनयनं लीलापांगोन्नतभ्रुवम् ।
अग्रभागन्यस्तमुक्ता विस्फुरत्प्रोच्चनासिकम् ३९।
दशनज्योत्स्नया राजत्पक्वबिंबफलाधरम् ।
केयूरांगदसद्रत्नमुद्रिकाभिर्लसत्करम् ४०।
बिभ्रतं मुरलद्यं वामे पाणौ पद्मं तथैव च ।
कांचीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ४१।
रतिकेलिरसावेश चपलं चपलेक्षणम् ।
हसंतं प्रियया सार्द्धं हासयंतं च तां मुहुः ४२।
इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि ।
वृंदारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ४३।
वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः ।
नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ४४।
पट्टांचलेनावृतार्द्ध सुस्मेराननपंकजाम् ।
कांतवक्त्रे न्यस्तनेत्रां चकोरी चंचलेक्षणाम् ४५।
अंगुष्ठतर्जनीभ्यां च निजकांतमुखांबुजे ।
अर्पयंतीं पूगफलं पर्णचूर्णसमन्वितम् ४६।
मुक्ताहारस्फुरच्चारु पीनोन्नतपयोधराम् ।
क्षीणमध्यां पृथुश्रोणीं किंकिणीजालमंडिताम् ४७।
रत्नताटंककेयूरमुद्रा वलयधारिणीम् ।
रणत्कटकमंजीर रत्नपादांगुलीयकाम् ४८।
लावण्यसारमुग्धांगीं सर्वावयवसुंदरीम् ।
आनंदरससंमग्नां प्रसन्नां नवयौवनाम् ४९।
सख्यश्च तस्या विप्रेंद्र तत्समानवयोगुणाः ।
तत्सेवनपराभाव्याश्चामरव्यजनादिभिः ५०।
अथ तुभ्यं प्रवक्ष्यामि मंत्रार्थं शृणु नारद ।
बहिरंगैः प्रपंचस्य स्वांशैर्मायादि शक्तिभिः ५१।
अंतरंगैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ।
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ५२।
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ।
ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ५३।
तत्कलाकोटिकोट्यंश दुर्गाद्यास्त्रिगुणात्मिकाः ।
सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः ५४।
नैतयोर्विद्यते भेदः स्वल्पोऽपि मुनिसत्तम ।
इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची ५५।
सावित्रीयं हरिर्ब्रह्मा धूमोर्णासौ यमो हरिः ।
बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किंचन ५६।
चिदचिल्लक्षणं सर्वं राधाकृष्णमयं जगत् ।
इत्थं सर्वं तयोरेव विभूतिं विद्धि नारद ५७।
न शक्यते मया वक्तुं वर्षकोटिशतैरपि ।
त्रैलोक्ये पृथिवी मान्या जंबूद्वीपं ततोवरम् ५८।
तत्रापि भारतं वर्षं तत्रापि मथुरापुरी ।
तत्र वृंदावनं नाम तत्र गोपीकदंबकम् ५९।
तत्र राधासखीवर्गस्तत्रापि राधिका वरा ।
सांनिध्याधिक्यतस्तस्या आधिक्यं स्याद्यथोत्तरम् ६०।
पृथिवी प्रभृतीनां तु नान्यत्किंचिदिहोदितम् ।
सैषा हि राधिका गोपी जनस्तस्याः सखीगणः ६१।
तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ ।
राधाकृष्णौ तयोः पादाः शरणं स्यादिहाश्रये ६२।
प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः ।
सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च ६३।
सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम ।
इत्यसौ कथितो विप्र मंत्रस्यार्थः समासतः ६४।
युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः ।
आत्मार्पणमिमे पंच पर्यायास्ते मयोदिताः ६५।
अयमेव चिंतनीयो दिवानक्तमतंद्रितैः ।६६।
________
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये एकाशीतितमोऽध्यायः ।८१।

पूर्णब्रह्मसुखैश्वर्यं नित्यमानंदमव्ययम् ।
वैकुंठादि तदंशांशं स्वयं वृंदावनं भुवि ९।
गोलोकैश्वर्यं यत्किंचिद्गोकुले तत्प्रतिष्ठितम् ।
वैकुंठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् १०।
यद्ब्रह्मपरमैश्वर्यं नित्यं वृंदावनाश्रयम् ।
कृष्णधामपरं तेषां वनमध्ये विशेषतः ११।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें