बुधवार, 10 अगस्त 2022

सात्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्द्धनः।इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।।प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः


सात्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्द्धनः।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः।। ४४.४६ ।।

सात्वतान् सत्वसम्पन्नान् कौसल्या सुषुवे सुतान्।
भजिनं भजमानन्तु दिव्यं देवावृधं नृप!।। ४४.४७ ।।

अन्धकञ्च महाभोजं वृष्णिं च यदुनन्दनम्!
तेषां तु सर्गा श्चत्वारो विस्तरेणैव तच्छृणु।। ४४.४८ ।।

भजमानस्य सृञ्जय्यां बाह्यकायाञ्च बाह्यकाः।
सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन्।। ४४.४९ ।।

तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून् सुतान्।
निमिंश्च कृमिलं श्चैव वृष्णिं पर पुरञ्जयम्।।
ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे।। ४४.५० ।।

जज्ञे देवावृधो राजा बन्धूनां मित्रवर्द्धनः।
अपुत्रस्त्वभवद्राजा चचार परमन्तपः।।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्।। ४४.५१ ।।

संयोज्य मन्त्रमेवाथ पर्णाशा जलमस्पृशत्।
तदोपस्पशेनात्तस्य चकार प्रियमापगा।। ४४.५२ ।।

कल्याणत्वान्नरपते स्तस्मै सा निम्नगोत्तमा।
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्।। ४४.५३ ।।

नाधिगच्छाम्यहं नारीं यस्यामेवं विधः सुतः।
जायेत तस्माद्दद्याहं भवाम्यथ सहस्रशः।। ४४.५४ ।।

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः।
ज्ञापयामास राजानं तामियेष महाव्रतः।। ४४.५५ ।।

अथ सा नवमे मासि सुषुवे सरितां वरा।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात्।। ४४.५६ ।।

अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्।
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।। ४४.५७ ।।

यथैवं श्रृणुमो दूरादपश्यामस्तथान्तिकात्।
बभ्रुः श्रेष्ठो मनुष्याणां देवै र्देवावृधः समः।। ४४.५८ ।।

षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः।
एतेऽमृतत्वं संप्राप्ता बभ्रो र्देवावृधान्नृप!।। ४४.५९ ।।

यज्वा दान पतिर्वीरो ब्रह्मण्यश्च दृढव्रतः।
रूपवान् सुमहातेजाः श्रुतवीर्य्य धरस्तथा।। ४४.६० ।।

अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान्।
कुकुरं भजमानञ्च शशिं कम्बलबर्हिषम्।। ४४.६१ ।।

कुकुरस्य सुतो वृष्णि वृष्णेस्तु तनयो धृतिः।
कपोत रोमा तस्याथ तैत्तिरिस्तस्य चात्मजः।। ४४.६२ ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें