शनिवार, 11 अप्रैल 2020

अग्नि पुराण में आभीर कन्या गायत्री वर्णन ______________________________________

अग्नि पुराण में वेदों की अधिष्ठात्री देवी  आभीर कन्या गायत्री का वर्णन ...


______________________________________
   वेद की अधिष्ठात्री देवी गायत्री अहीर की कन्या  और ज्ञान के अधिष्ठाता  कृष्ण अहीर( गोप) वसुदेव के पुत्र देखें प्रमाणों के दायरे में --- पुराणों के आधार पर --- 
________________________
वेद की अधिष्ठात्री देवी गायत्री अहीर ( गोप ) की कन्या  और ज्ञान के अधिष्ठाता  कृष्ण भी अहीर( गोप) वसुदेव के पुत्र देखें प्रमाणों के दायरे में ---
पुराणों के आधार पर ---
__________________________________________
पद्म पुराण के सृष्टि खण्ड के अध्याय १६ में गायत्री को  नरेन्द्र सेन आभीर (अहीर)की कन्या के रूप में वर्णित किया गया है ।
________________________________________
एवमुक्तास्तदा ब्रह्मा किञ्चित्कोपसमन्वित:।
पत्नीं चान्यां मदर्थे वै शीघ्रं शक्र इहानय।।१२७।।

यथा प्रवर्तते यज्ञ: कालहीनो 'न जायते।तथा शीघ्रं विधत्स्वत्वं नारीं  काञ्चिदुपानय।।१२८।

यावद्यज्ञसमाप्तिर्मे वर्णेत्वंमाकृथामन:।
भूयो८पि तां प्रमोक्ष्यामि समाप्तौतुक्रतोरिह।।।।१२९।।
________________________
यह सुन कर ब्रह्मा क्रोधित हो गये ।उन्होंने इन्द्र को आदेश दिया – ---हे इन्द्र ! तुम मेरे लिए एक पत्नी लाओ ! जिससे यज्ञ प्रारम्भ हो तथा पुण्य मुहूर्त 'न बीत पाये ।
यह व्यवस्था शीघ्र करो कोई भा एक नारी लेकर आओ 
इसमें ब्राह्मण, क्षत्रिय वैश्य आदि वर्ण का -विचार मत करना  जब तक यज्ञ सम्पन्न न हो !
तब तक के लिए एक स्त्री की आवश्यकता है यज्ञ सम्पन्न होने पर स्त्री त्याग दुँगा।१२७–से १२९ तक ।

एवमुक्तास्तदा शक्रोगत्वा सर्वंधरातलं । 
स्त्रियोदृष्टास्तु यास्तेन सर्वास्ता: सपरिग्रहा:
।१३०।।

आभीर कन्या रूपाढ्या सुनासा चारुलोचना।
न देवी नच गन्धर्वी नासुरी,न च पन्नगी।१३१।।

नचास्ति तादृशी कन्या यादृशी वराङ्गना।
 ददर्श तां  सुचार्वंगीं श्रियंदेवीमिवापराम्।१३२।।

संक्षिपन्तीं मनोवृत्तिविभवं रूपसम्पदा।यद्यत्तु वस्तुसौन्दर्या  द्विशिष्टं लभ्यते क्वचित् ।।१३३।

तत्तच्छरीरसंलग्नतन्वंग्या ददृशे वरम् ।
तां दृष्ट्वा चिन्तयामास यद्येषा कन्यका भवेत्।१३४
________
यह आदेश पाकर इन्द्र 'ने तत्काल समस्त पृथ्वी का परिभ्रमण किया। इन्द्र 'ने पृथ्वी पर जितनी भी नारीयाँ देखीं वे सब पति युक्त थीं । 
इन्द्र को मनोनुकूल एक भी स्त्री 'न मिली कभी उन्होंने एक उत्तम नासिका वाली उत्तम नेत्रयुक्ता सुन्दरी आभीर कन्या को देखा ।
 देखा कि समस्त देवीयों गन्धर्वी नारीयाँ ,आसुरी पन्नगी आदि में एक भी नारी इस वरांगना जैसी सुन्दर नहीं ।

यह अन्य द्वित्तीय लक्ष्मी के समान इस उत्तम अंगों वाली कन्या के समान रूप सम्पन्न अन्य कन्या नहीं थी।
उन्होंने देखा मानो यह द्वित्तीय लक्ष्मी के समान 
यह कन्या अपनी रूप सम्पदा के द्वारा 
मनोवृत्ति को विक्षिप्त कर दे रही है।

यहाँ वहाँ जिन जिन वस्तुओं में जो सौन्दर्य है वह सब इस कृशांगी के अंगों में संलग्न है ।
यह देख कर इन्द्र -विचार करने लगे कि क्या यह कन्या स्थिति में तो है ? ।।१३०-से १३४।।
______________________
पद्म-पुराण षोडशो८ध्याय।सृष्टिखण्ड



" स्त्रियो दृष्टास्तु यास्त्व ,
      सर्वास्ता: सपरिग्रहा : |
आभीरः कन्या रूपाद्या 
      शुभास्यां चारू लोचना ।७।
न देवी न च गन्धर्वीं ,
नासुरी न च पन्नगी ।
वन चास्ति तादृशी कन्या , 
यादृशी सा वराँगना ।८।
अर्थात् जब इन्द्र ने पृथ्वी पर जाकर देखा 
तो वे पृथ्वी पर कोई सुन्दर और शुद्ध कन्या न पा सके 
परन्तु एक नरेन्द्र सेन आभीर की कन्या गायत्री को सर्वांग सुन्दर और शुद्ध 
देखकर आश्चर्य चकित रह गये ।७।
उसके समान सुन्दर  कोई देवी न कोई गन्धर्वी  न सुर और न  असुर की स्त्री ही थी और नाहीं कोई पन्नगी (नाग कन्या ) ही थी।
इन्द्र ने तब  उस कन्या गायत्री से पूछा कि तुम कौन हो  ? और कहाँ से आयी हो ? 
और किस की पुत्री हो ८।
________________________________________
गोप कन्यां च तां दृष्टवा , गौरवर्ण महाद्युति:।
एवं चिन्ता पराधीन ,यावत् सा गोप कन्यका ।।९ ।।
पद्म पुराण सृष्टि खण्ड अध्याय १६ १८२ श्लोक में 
इन्द्र ने कहा कि तुम बड़ी रूप वती हो , गौरवर्ण वाली महाद्युति से युक्त हो  इस प्रकार की गौर वर्ण महातेजस्वी कन्या को देखकर इन्द्र भी चकित रह गया   कि यह गोप कन्या इतनी सुन्दर है !

यहाँ विचारणीय तथ्य यह भी है कि पहले आभीर-कन्या शब्द गायत्री के लिए आया है फिर गोप कन्या शब्द । अत: अहीर और गोप शब्द परस्पर पर्याय हैं ।
जो कि यदुवंश का वृत्ति ( व्यवहार मूलक ) विशेषण है ।
क्योंकि यादव प्रारम्भिक काल से ही गोपालन वृत्ति ( कार्य) से सम्बद्ध रहे है ।
आगे के अध्याय १७ के ४८३ में इन्द्र ने कहा कि यह
______________________________________
  गोप कन्या पराधीन चिन्ता से व्याकुल है ।९।
देवी चैव महाभागा , गायत्री नामत: प्रभु ।
गान्धर्वेण विवाहेन ,विकल्प मा कथाश्चिरम्।१०।

१८४ श्लोक में विष्णु ने ब्रह्मा जी से कहा कि हे प्रभो इस कन्या का नाम गायत्री है ।
अब यहाँ भी देखें---
भागवत पुराण :--१०/१/२२ में भी स्पष्टत: गायत्री  आभीर अथवा गोपों की कन्या है । 

और गोपों को भागवतपुराण तथा महाभारत हरिवंश पुराण आदि मे देवताओं का अवतार बताया गया है ।

" अंशेन त्वं पृथिव्या वै ,प्राप्य जन्म यदो:कुले ।
भार्याभ्याँश संयुतस्तत्र ,गोपालत्वं करिष्यसि ।१४।
वस्तुत आभीर और गोप शब्द परस्पर पर्याय वाची हैं 
पद्म पुराण में पहले आभीर- कन्या शब्द आया है फिर गोप -कन्या भी गायत्री के लिए ..
तथा अग्नि पुराण मे भी आभीरों (गोपों) की कन्या गायत्री को कहा है ।
_______________________________________
आभीरा स्तच्च कुर्वन्ति तत् किमेतत्त्वया कृतम्
अवश्यं यदि ते कार्यं भार्यया परया मखे । ४०।
एतत्पुनर्महादुःखं यद् आभीरा विगर्दिता
वंशे वनचराणां च स्ववोडा बहुभर्तृका । ५४।
आभीर इति सपत्नीति प्रोक्तवंत्यः हर्षिताः

(इति श्रीवह्निपुराणे (अग्नि पुराणे )ना नान्दीमुखोत्पत्तौ ब्रह्मयज्ञ समारंभे प्रथमोदिवसो नाम षोडशोऽध्यायः संपूर्णः)

ऋग्वेद भारतीय संस्कृति में ही नहीं अपितु विश्व- संस्कृतियों में प्राचीनत्तम है ।
हरिवंश पुराण यादवों का गोप (अहीर) अथवा आभीर 
रूप में ही वर्णन करता है ।
यदुवंशीयों का गोप अथवा आभीर विशेषण ही वास्तविक है ;  क्योंकि गोपालन ही इनकी शाश्वत् वृत्ति (कार्य) वंश परम्परागत रूप से विख्यात है ।।         अग्नि पुराण में गायत्री वर्णन 👇
                           अध्याय १५
                 
                        ब्रह्मोवाच
एतस्मिन्नंतरे तत्रविप्रैर्नांदीमुखोद्भवैः ।१
मध्यगःप्रेषितश्चात्र गर्ता तीर्थसमुद्भवः।

रे रे मध्यग गत्वा तं ब्रूहित्वं प्रपितामहम् । २
विप्रवृत्तिप्रहर्तारं नीतिमार्गविवर्जितम्

एतत्क्षेत्रं प्रदत्तं नः पूर्वेषां च द्विजन्मनाम् । ३
मायेश्वरेण तुष्टेन पूरिते वनजेऽखिले

तस्य दत्तस्य चाद्यैव पितामहशतं गतम् । ४
पंचोत्तरमसंदिग्धं यावत्त्वं तु पितामहः

न केनापि कृतोऽस्माकं तिरस्कारस्त्वया यथाः । ५
त्वं ब्रूहि पापकर्माणं न्यायमार्गविवर्जितम्

विप्रैर्नांदीमुखैर्वाह्यं योत्र यज्ञं समाचरेत् । ६
श्राद्धं वा स हि वध्यः स्यात्सर्वेषां च द्विजन्मनाम्

न तस्य जायते श्रेयोऽभ्युदयश्च कथंचन । ७
एतत्प्रोक्तं तथा तेन यथा स्वस्थानदो हिनः

तस्माद्यत्कुरुषे यज्ञं विप्रैर्नांदीमुखैः कुरु । ८
नान्यथा लप्स्यसे कर्तुं जीवन्नांदीमुखैर्विना

एवमुक्तस्ततो गत्वा मध्यगो यत्र पद्मजः । ९
यज्ञमंडपमध्यस्थो ब्राह्मणैः परिवारितः

प्रोक्तं नांदीमुखैर्यत्तु सविशेषं तदाह सः । १०
तंच्छ्रुत्वा पद्मजः प्राह धैर्यपूर्वमिदं वचः

मानुषं भावप्रापन्न ऋत्विग्भिः परिवारितः । ११
त्वया सत्यमिदं प्रोक्तं सर्वं मध्यगसत्तम।

किं करोमि वृताः सर्वेमया ते यज्ञकर्मणि । १२
ऋत्विजोऽध्वर्युपूर्वा ये प्रमादेन न काम्यया

तस्मादानय तान्सर्वानत्र स्थाने द्विजोत्तमान् । १३
अनुज्ञातस्तुतैर्येन गच्छामि मखमंडपे।


               मध्यग उवाच
त्वं देवत्वं परित्यज्य मानुषं भावमाश्रितः  ।१४
तत्कथं ते द्विजश्रेष्ठाः समागच्छन्ति तेंऽतिकम्  

श्रेष्ठागावः पशूनां च यथा पद्मसमुद्भव । १५
विप्राणामिहसर्वेषां तथा नांदीमुखाः वराः

तस्माच्चेद्वांच्छसि प्राप्तिं त्वमेतां यज्ञसंभवाम् ।१६
भक्त्या नांदीमुखान्सर्वान्प्रसादय पितामह
                  वह्निरुवाच
तच्श्रुत्वा पद्मजोभीत ऋत्विग्भिः परिवारितः । १७
जगाम तत्र यत्रस्थाः क्रुद्धा नांदीमुखा द्विजाः

प्रणिपत्य ततः सर्वान् विनयेन समन्वितः । १८
प्रोवाच वचनं श्रुत्वा कृतांजलिपुरःस्थितः

जानाम्यहं द्विजश्रेष्ठाः स्थाने कापालिकोद्भवे । १९
युष्मद्बाह्यं वृथा श्राद्धं यज्ञकर्म तथैव च

कलिभीत्या मयानीतं स्थाने च पुष्करं निजम् । २०
तीर्थं च युष्मदीयं च निक्षेपोयं समर्पितः

ऋत्विजो मां समानीता गुरुणा यज्ञसिद्धये । २१
अजानता द्विजश्रेष्ठाः स्थानं नांदीमुखात्मकम्

तस्माच्च क्षम्यतां मह्यं यतस्तद्वरणं कृतम् । २२
एतेषामेव विप्राणां मग्निष्टोमकृते मया।

एतच्च मामकं तीर्थं युष्माकं पापनाशनम् । २३
भविष्यति न संदेहः कलिकालेऽपि संस्थिते
                 ब्राह्मणा ऊचुः
अस्माभिर्यदि बाह्यं च यज्ञं चात्रकरिष्यसि । २४
अवमन्य द्विजान्सर्वान् क्षिप्रं गच्छास्मदंतिकात्

                      ब्रह्मोवाच
अद्यप्रभृति यःकश्चिद्यज्ञमत्र करिष्यति । २५
श्राद्धं नांदीमुखैर्बाह्यं वृथा तत्संभविष्यति

नांदीमुखोऽपि योऽन्यत्र कश्चिद्यज्ञं करिष्यति । २६
एतत्क्षेत्रं परित्यज्य वृथा तत्संभविष्यति

मर्यादेयं कृता विप्रा युष्माकं च मयाधुना । २७
कृत्वा प्रसादमस्माकं यज्ञार्थं दातुमर्हसि

एवमुक्त्वा तु तान् विप्रानवृणोच्च पितामहः । २८
 वह्निरुवाच ततस्तैर्ब्राह्मणैस्तुष्टैरनुज्ञातः पितामहः

चकार विधिवद्यज्ञं वृता ये ब्राह्मणास्तु तैः । २९
विश्वकर्मा समागत्य ततो मस्तकमुण्डनम्

चकार ब्राह्मणश्रेष्ठ नांदीमुखमते स्थितः । ३०
ब्रह्मापि परमं तोषं गत्वा नारदमब्रवीत्

सावित्रीमानय क्षिप्रं येन गच्छामि मंडपे । ३१

वाद्यमानेषु वाद्येषु सिद्धचारणगुह्यकैः । ३२
अरणीं समुपादाय पुलस्त्यो वाक्यमब्रवीत्

यत्रपत्नीति विप्रेन्द्रा: ! प्रोच्चैस्तत्र व्यवस्थिताः । ३३
एतस्मिन्नंतरे ब्रह्मा नारदं मुनिसत्तमम्।

संज्ञया प्रेषयामास पत्नीमानीयतामिति । ३४
सोपिमंदं समागत्य सावित्रीं प्राह लीलया

युद्धप्रियोऽतरं वांछन् सावित्र्! याः सदृशं पुनः । ३५
अहं संप्रेषितः पित्रातव पार्श्वं महेश्वरि।

आगच्छ प्रस्थितः स्नातः सांप्रतं यज्ञमंडपे । ३६
परमेकाकिनी तत्र गच्छन्ती त्वं सुरेश्वरि

कीदृक्रूपा सदा यासि दृश्यसे त्वमनाथवत् । ३७
तस्मादानयतात् सर्वा याः काश्चिद्देवयोपितः

याभिः परिवृता देवि यास्यसि त्वं महामखे । ३८
एवमुक्त्वा मुनिश्रेष्ठ नारदो मुनिसत्तम।

अब्रवीत्पितरं गत्वा तातांबाकारिता मया । ३९
परं तस्याः स्थिरोभावः किंचित्संलक्षितो मया

तस्य तद्वचनं श्रुत्वा ततो मन्युसमन्वितः । ४०
पुलस्त्यं प्रेषयामास सावित्र्! याः संनिधौ ततः

गच्छवत्स समानीय स्थानं तां शिथिलात्मिकां । ४१
सोमभारपरिश्रान्तं पश्य त्वं मम मस्तकम्

एषकालात्ययो भावी यज्ञकर्मणि सांप्रतम् । ४२
यज्ञयानमुहूर्तोयं सविशेषो व्यवस्थितः

तस्य तद्वचनं श्रुत्वा पुलस्त्यः सत्वरं ययौ । ४३
सावित्री तिष्ठते यत्र गीतनृत्यसमाकुला

ततः प्रोवाच किं देवि त्वं तिष्ठसि निराकुला । ४४
यज्ञयानोचितः काल सोऽयं शेषस्तु तिष्ठति

तस्मादागच्छ गच्छामो धाता कृच्छ्रेण तिष्ठति । ४५
सोमभारार्दितः सोपि तस्मात्त्वं कुरु सत्वरम्
            सावित्र्युवाच
सर्वदेववृतो वत्स तव तातो व्यवस्थितः । ४६
एकाकिनी कथं तत्र गच्छाम्यह मनाथवत्

तद्ब्रूहि पितरं गत्वा मुहूर्तं परिपालय । ४७
यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथापराः

देवकन्यासमाजोऽयं ताभिरेष्याम्यहं द्रुतम् । ४८
सर्वासां प्रेषितो वायुर्निमन्त्रणकृते मया

आगमिष्यन्ति ताः शीघ्रमेवं वाच्यस्त्वया पिता । ४९
वह्निरुवाचसोपि गत्वा द्रुतं प्राह सोमभारार्दितं विधिम्

नैषाभ्येति जगन्नाथ प्रसक्ता गृहकर्मणि । ५०
सा मां प्राह च देवानां पत्नीभिः सहिता मखे

अहं यास्यामि तासां च नैकाद्यापि प्रदृश्यते । ५१
एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते

अतिक्रामति कालोऽयं यज्ञयानसमुद्भवः । ५२
तिष्ठते च गृहव्यग्रा सावित्री शिथिलात्मिका

तच्छ्रुत्वा वचनं तस्य पुलस्त्यस्य पितामहः । ५३
समीपस्थं तदा शक्रं प्रोवाच वचनं द्विजाः

ब्रह्मोवाचशक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका  ।५४।

अन्यया भार्यया साकं यज्ञोऽयं क्रियतां ग्रया
पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः  ।५५

शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः
अथ तत्र घटव्यग्रमस्तका तेन वीक्षिता  ।५६
_______________
कन्यका गोपजा तन्वी चंद्रा स्या पद्मलोचना
कुमारी वा सनाथा वा सुता कस्यब्रवीहिनः । ५७

कन्योवाच गोपकन्यास्मि भद्रं  ते तक्रं विक्रेतुमागता
परिगृह्णासि चेन्तक्रं मूल्यं मेदेहि माचिरम् । ५८

तच्छ्रुत्वा त्रिदिवेन्द्रो पि नत्वा तां गोपकन्यकाम्
जगृहे त्वरया युक्तस्तक्रंचोत्सृज्य भूतले । ५९।

नांदीमुखैश्च विप्रैश्च समादिष्टस्तदा हिसः
अथ तां रुदतीं शक्रः समादाय त्वरान्वितः ।६०

गोवक्त्रेण प्रवेश्याऽथ गुह्येनाकर्षयत्ततः । ६१
एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः

ज्येष्ठकुंडस्य विप्रेन्द्रा:! परिधाय सुवाससी । ६२
ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम्

द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे । ६३
कन्येयं च सुरश्रेष्ठ समानीता मया शुभा

तवार्थाय सुरूपाङ्गी सर्वलक्षणलक्षिता । ६४
गोपकन्यां विदित्वेमां गोवक्त्रेण प्रविश्य च
_______
आकर्षिता च गुह्येन पावनार्थं चतुर्मुख । 
वासुदेव उवाचगवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ।६५

एकत्र मंत्रास्तिष्ठन्ति हविरेकत्र तिष्ठति । ६६
धेनूदराद्विनिष्क्रान्ता तज्जातेयं द्विजन्मनाम्।

अस्याः पाणिग्रहं देव त्वं कुरुष्व यथाविधि 
यावन्न चलते कालो यज्ञयानसमुद्भवः ६७।

                      रुद्र  उवाच
प्रतिष्ठा गोमुखे यस्मादपानेन विनिर्गता  
गायत्री नाम ते पत्नी तस्मादेषा भविष्यति।६८

                       ब्रह्मोवाच
वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि  
संभूय ब्राह्मणी श्रेष्ठा यथा पत्नी भवेन्मम।६९

                      नान्दीमुखा ऊचुः
एषा स्याद्ब्राह्मणी श्रेष्ठा गोपजाति विवर्जिता  
अस्माद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम् ।७०

                           वह्निरुवाच
ततः पाणिग्रहं चक्रे तस्या देवः पितामहः  
कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः।७१

तत्रस्था च महादेवी संतिष्ठति सुपावनी  
अद्यापि लोके विख्याता धनसौभाग्यदायिनी।७२

यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः  
समस्तफलमाप्नोति राजसूयाश्वमेधयोः । ७३।

कन्या हस्तग्रहं तत्र प्राप्नोति पतिना सह
सा स्यात्पुत्रवती साध्वी सौभाग्यसुखसंयुता  ।७४।

पिंडदानं नरस्तत्र यः करोति द्विजोत्तम
पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थतः । ७५।
_____________________________________________
इति श्रीवह्निपुराणे नान्दीमुखोत्पत्तौ गायत्रीविवाहो नाम पंचदशोऽध्यायः
__________________________________________

                      (अध्याय  १६)
                         
                       वह्निरुवाच
एवं पत्नी समासाद्य गायत्रीं चतुराननः
संप्रहृष्टमना भूत्वा प्रस्थितो यज्ञमंडपम्  ।१।

गायत्र्! यपि समादाय मूर्ध्नि तामरणिं मुदा
प्रतस्थे संपरित्यज्य गोपभावं विनिर्गतम् । २।

वाद्यमानेषु वाद्येषु ब्रह्मघोषे दिवं गते
गीतेषु गीयमानेषु गंधर्वेषु समंततः । ३।

सर्वदेवद्विजोपेतः संप्राप्तो यज्ञमंडपम्
गायत्र्! या सहितो ब्रह्मा मानुषं भावमाश्रितः  ।४।

एतस्मिन्नंतरे विप्र केशनिर्वापणं ततः
विश्वकर्मा नखानां च गायत्र्! या स्तदनंतरम् । ५।

औदुम्बरं ततो दण्डं पुलस्त्योऽसौ समाददे
एणशृङ्गान्वितं चर्म मंत्रवद्विजसत्तम  ।६।

पत्नीशालां गृहीत्वा तु गायत्रीं मौनधारिणीं
मेखलां निदधे चान्यां कट्यां मौंजीमयीं शुभाम् । ७।

ततश्चक्रे परं कर्म यदुक्तं यज्ञमंडपे
ऋत्विग्भिः सहितो वेधा वेदवाक्यं समादृतः । ८।

प्रवर्ग्य जायमाने च तत्राश्चर्यमभून्महत्
जाल्मरूपधरः कश्चिद्दिग्वासा विकृताननः । ९।

कपालपाणिरायातो भोजनं दीयतामिति
निषेध्यमानोऽपि च तैः प्रविष्टो याज्ञिकं सदः । १०।

स कृत्वाटनमन्याय्यं तर्ज्यमानोऽपि तापसैः
                         सदस्या ऊचुः
कस्मात्पापसमेत स्त्वं प्रविष्टो यज्ञमंडपम्  ।११।

कपाली नग्नरूपोयं यज्ञकर्मविवर्जितः
तस्माद्गच्छ द्रुतं मूढ यावद्ब्रह्मा न कुप्यति । १२।

तथान्ये ब्राह्मणश्रेष्ठास्तथा देवाः सवासवाः
                       जाल्म उवाच
ब्रह्मयज्ञमिमं श्रुत्वा सुदूरादहमागतः । १३।

बुभुक्षितो द्विजश्रेष्ठास्तत्किमर्थं विगर्हथ
दिवांधकृपणैः सर्वैस्तर्पितैः क्रतुरुच्यते । १४।

अन्यथाऽसौ विनाशाय यदुक्तं ब्राह्मणैर्वचः
अन्नहीनो दहेद्रा ष्ट्रं मंत्रहीन स्तथर्त्विजम् । १५।

यजमानमदाक्षिण्यं नास्तियज्ञसमोरिपुः
                   ब्राह्मणा ऊचुः
यदि त्वं भोक्तुकामस्तु समायातो व्रज द्रुतम्  ।१६।

एतस्यां सत्रशालायां भुंजते यत्र तापसाः
दीनाधाः कृपणाश्चैव ततः क्षुत्क्षामकांठिताः।१७।

अथवा धनकामस्त्वं वस्त्रकामोऽथ तापसः
व्रज वित्तपतिर्यत्र दानशालां समाश्रितः । १८।

अनिन्द्योयं महामूर्ख यज्ञः पैतामहोयतः
अर्थिभ्यः सर्वतः पुण्यं तत्किंनिन्दसि दुर्गते।१९।

एवमुक्तः कपालं सः परिक्षिप्य धरातले
अन्तर्हितस्ततः सद्यो दीपवद्द्विजसत्तम  ।२०।

                    ऋत्विज ऊचुः

कथं यज्ञक्रिया कार्या कपाले सदसि स्थिते
तस्मिन्नपि तथा क्षिप्ते भूयोऽन्यत्समपद्यत । २१।

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च
तत्र जातानि तैर्व्याप्तो यज्ञवाटः समंततः । २२।

हाहाकारस्ततो जज्ञे समस्ते यज्ञमंडपे
दृष्ट्वा कपालसंघातान् यज्ञकर्मप्रदूषकान्  ।२३।

अथ संचिंतयामास ध्यानं कृत्वा पितामहः
हरेच्छया समाज्ञाय तत्सर्वं हररूपधृक्  ।२४।

कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम्
महेश्वरं समासाद्य यज्ञवाटसमाश्रयम्  ।२५।

किमिदं युज्यते देव यज्ञेऽस्मिन् कर्मणः क्षतिः
तस्मात्संहर सर्वाणि कपालानि सुरेश्वर  ।२६।

यज्ञकर्मविलोपोयं माभूत्त्वयिसमागते
ततः प्रोवाच संक्रुद्धो भगवान् शशिशेखरः । २७।

तन्मे हीष्टतमं पात्रं भोजनाय सदास्थितम्
एतद्विधममी कस्माद्विद्विषन्ति पितामह  ।२८।

तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि
यथान्या देवतास्तद्वन्मंत्रपूतं यथाविधि । २९।

तस्माद्यदि विधेकार्या समाप्तिर्यज्ञकर्मणः
तत्कपालाश्रितं हव्यं कर्तव्यंसकलं विधे । ३०।

तथा मामेवमुद्दिश्य विशेषाज्जातवेदसि
होतव्यं हविरेवात्र समाप्तिं यास्यतिक्रतुः । ३१।

नान्यथा सत्यमेवोक्तं तवाग्रे चतुरानन
                  पितामह उवाच
रूपाणि तवदेवेश पृथग्भूतान्यनेकशः  ।३२।

संख्यया परिहीनानि ध्येयानि स्कलानि च
एतन्महाव्रतं रूप माख्यातं ते त्रिलोचन । ३३।

नैव च मखकर्म स्यात्तत्रैवं हि न युज्यते,
अद्यैतत्कर्म कर्तुं च श्रुतिवाक्यं कथंचन । ३४।

तत्रवाक्यमपि त्र्! यक्ष नान्यथा कर्तुमुत्सहे
मृण्मयेषु कपालेषु हविः श्राव्यं कथंचन  ।३५।

अद्यप्रभृति यज्ञेषु पुरोडाशात्मकं द्विजैः
तत्त्वोद्देशेन होतव्यं देवेश शतरुद्रि यम् । ३६।

विशेषात्सर्वयज्ञेषु जप्यं चैव विशेषतः
कपालानां तु द्वारेण त्वयारूपं निजंकृतम् । ३७।

प्रकटं च सुरश्रेष्ठ कपालेश्वरसंज्ञितः
तस्मात्वं भविता रुद्र  क्षेत्रेऽस्मिन्द्वादशोऽपरः  ।३८।

अत्र यज्ञं समारभ्य यस्त्वां प्राक्पूजयिष्यति
अविघ्नेन मख स्तस्य समाप्तिं प्रव्रजिष्यति  ।३९।

एवमुक्ते ततस्तेन कपालानि द्विजोतय
तानिसर्वाणि नष्टानि संख्यया रहितानि च । ४०।

एवमुक्त्वा चतुर्वक्त्रः पूजयामास तत्क्षणात्
लिंगं माहेश्वरं तत्र कपालेश्वरसंज्ञितम्  ।४१।

अब्रवीच्च ततो वाक्यं यश्चैतत्पूजयिष्यति
लिंगं नद्यांच संस्नाय स यास्यति परां गतिम् । ४२।

शुक्लपक्षे चतुर्दश्यां कार्तिके जागरन्तु यः
करिष्यति पुनश्चास्य लिंगस्य तु समाहितः  ।४३।

आजन्मप्रभवात्पापात्स वै मुक्तिमवाप्स्यसि
एत ते कथितं यस्तु शृणुयाज्जागरे सति  ।४४।

तस्य पुण्यप्रभावं तु न कश्चित्कथितुं क्षमः
एवमुक्तेथ विधिना प्रहृष्टस्त्रिपुरान्तकः । ४५।

यज्ञमंडपमास्थाय प्रस्थितो वेदिसंनिधौ
ब्राह्मणैश्च ततः कर्म प्रारब्ध यज्ञसंभवम् । ४६।

विस्मयोत्फुल्लनयनैर्नमस्कृत्य महेश्वरम्
                            वह्निरुवाच
 एवं च यजतस्तस्य चतुर्वक्त्रस्य तत्र च ।४७।

ऋषीणां कोटिरायाता दक्षिणापथवासिनाम्
श्रुत्वापि तं महायज्ञं कौतुकेनसमन्विताः  ।४८।

कीदृशो भविता यज्ञोदीक्षितो यत्र पद्मजः
कीदृक् क्षेत्रं च तत्पुण्यं कपालेश्वरसंज्ञितम्। ४९।

कीदृशास्तेन विप्रेन्द्रा  ऋत्विजस्तत्र ये स्थिताः
अथ ते सुपरिश्रान्ताः मध्यं दिनगते रवौ । ५०।

रविवारे च संप्राप्ते नक्षत्रे चाश्विसंज्ञिते
वैवस्वत्यां तिथौ चैव संप्राप्ते धर्मपीडिताः । ५१।

कंचिज्जलाशयं प्राप्य प्रविष्टाः सलिलं शुभम्
शंकुकर्णा महाकर्णा वक्रनासास्तथा परे  ।५२।

कृष्णांगा स्फुरितैः पादैर्नखैर्दीर्घैः समुच्छ्रितैः
ततो यावद्विनिष्क्रांताः पश्यन्ति च परस्परम् । ५३।

तद्वैरूप्याद्विनिर्मुक्ताः संजाताः कामसन्निमाः
ततो विस्मयसंपन्ना मिथः प्राचुः प्रहर्पिताः  ।५४।

रूपव्यत्ययमालोक्य ज्ञात्वा तीर्थं तदुत्तमम्
अत्र स्नानादिदं रूपमस्माभिः प्राप्तमुत्तमम्  ।५५।

यस्मात्तस्मादिदं तीर्थं रूपतीर्थं भविष्यति
त्रैलोक्ये सकले ख्यातं सर्वपातकनाशनम्  ।५६।

येऽत्रस्नानं करिष्यन्ति श्रद्धया परया युताः
सुरूपास्ते भविष्यन्ति सदा जन्मनि जन्मनि  ।५७।

पितरस्तर्पयिष्यन्ति येऽत्र श्रद्धासमन्विताः
जलेनापि गया श्राद्धा त्ते लास्यन्तेऽधिकंफलम्  ।५८।

येऽत्र रत्नप्रदानं च प्रकरिष्यन्ति मानवाः
भविष्यन्ति न संदेहो राजानस्ते भवे भवे  ।५९

स्थास्यामो वयमत्रैव सांप्रतं कृतसंश्रयाः
न यास्यामो वयं तत्र यद्यपि स्यात्सुशोभनम् । ६०।

एवमुक्त्वाथ व्यभजं स्तत्सर्वं मुनयश्च तत्
यज्ञोपवीतमंत्राणि तानि तीर्थानि चक्रिरे  ।६१।

                       वह्निरुवाच
अद्यापि च द्विजश्रेष्ठ तत्रतीर्थे जगद्गुरुः
प्रथमं स्पृशते तोयं नित्यं स्याद्दयितं शुभम् । ६२।

निष्कामः स पुनर्मर्त्यो यः स्नानं तत्र श्रद्धया
कुरुते स परंश्रेयः प्राप्नुया त्सिद्धलक्षणम्  ।६३।

एवं ते मुनयः सर्वे विभज्य तन्महानदम्
सायं तनं च तत्रैव कृत्वा कर्म सुविस्तरम्  ।६४।

ततो निशामुखे प्राप्ता यत्र देवः पितामहः
दिक्षितस्त्वथ मौनी च यज्ञमंडपसंस्थितः  ।६५।

ते प्रणम्य स्थितास्सर्वे आगता ऋत्विजस्ततः
अमिवाद्याथ तान्सर्वा नुपविष्ट स्ततोऽग्रतः  ।६६।

चक्रुश्चाथ कथाः सर्वा यज्ञकर्मसमुद्भवाः
सोमपानस्य संबंधे व्यत्ययं च समुद्भवम्  ।६७।

उद्गातृप्रभवंचैव तथाऽध्वर्यं परस्परम्
प्रोचुस्ते तत्वमाश्रित्य तथान्ये दूषयन्तितत्  ।६८।

अन्ये मीमांसका स्तत्र कोपसंरक्तलोचनाः
हन्युस्तेषां मतं वादमाश्रिता वाग्विचक्षणाः  ।६९।

परिशिष्टविदश्चान्ये मध्यस्था द्विजसत्तमाः
प्रोचुर्वादं परित्यज्य सामिप्रायं यथोदितम्  ।७०।

महावीरपुरोडाश वचनप्रमुखां स्तथा
विवादं चक्रुरप्यन्ये स्वं स्वं पक्षं ।७१।

           समाश्रिताः  ७१
एषा सा रजनी तेषामतिक्रान्ता द्विजन्मनाम्  ७२
इति श्रीवह्निपुराणे नांदीमुखोत्पत्तौ ब्रह्मयज्ञ समारंभे प्रथमोदिवसो नाम षोडशोऽध्यायः संपूर्णः
___________________________________

                    अध्याय  १७
                    वह्निरुवाच
द्वितीये दिवसे प्राप्ते यज्ञकर्मसमुद्भवे  १
________________________________

द्वादश्यामभवत्तत्र शृणुध्वं तद्द्विजोत्तमाः
वृत्तांतं सर्वदेवानां महाविस्मयकारकम् ।२।

मखकर्मणि प्रारब्धे ऋत्विग्भिर्वेदपारगैः
जलसर्पं समादाय वटुः कश्चित्सुकर्मकृत् । ३।

प्रविश्य च सदस्तत्र सर्पं तं ब्राह्मणान्तिकम्
चिक्षेप प्रहसंश्चैव स वटुर्वै भयंकरम्  ।४।

ततस्तु दुंदुभिस्तूर्णं भ्रममाण इतस्ततः
विप्राणां सदसिस्थानां सक्तानां यज्ञकर्मणि  ।५।

होतर्युपस्थिते प्रैषे दीर्घसत्रसमुद्भवे
स सर्पो वेष्टयामास तस्य कायं समंततः । ६।

न चचाल निजस्थानात्प्रायश्चित्त विमीषया
नोवाच वचनं सोऽत्र चयनन्यस्तलोचनः  ।७।

हाहाकारो महानासीत्तं दृष्ट्वा सर्पवेष्टितम्
तस्य पुत्रो विनीतात्मा मैत्रावारुणकर्मणि । ८।

संस्थितस्तेन संदृष्टः पिता सर्पाभिवेष्टितः
ज्ञात्वातु वेष्टितं तस्यभये सर्पसमुद्भवे । ९।

शशाप क्रोधसंयुक्तस्ततस्तं स वटुं मुनिः
यस्मात्पापत्वया सर्पः क्षिप्तः सदसि दुर्मते  ।१०।

तस्माद्भव द्रुतं सर्पो मम वाक्यादसंशयम्
                      वटुरुवाच
हास्येन जलसर्पोऽयं मया मुक्तोऽत्र लीलया  ।११।

न ते तातं समुद्दिश्य तत्किं मां शपसे द्विज
एतस्मिन्नंतरे मुक्त्वा तस्य गात्रं स पन्नगः । १२।

जगामान्यत्र तस्यापि सर्पत्वं समपद्यत
सोपि सर्पत्वमापन्नः सनातनसुतो वटुः  ।१३।

दुःखशोकसमापन्नो ब्राह्मणैः परिवेष्टितः
अथ गत्वा भृगुं सोऽपि वाष्पव्याकुललोचनः।१४।

प्रोवाच गद्गदं वाक्यं प्रणिपातपुरः सरम्
सनातनसुतश्चापि पौत्रस्तु परमेष्ठिनः  ।१५।

शप्तस्तवसुतेनास्मि च्यवनेन महात्मना
निर्दोषो ब्राह्मणश्रेष्ठ तस्माच्छापाच्च रक्ष माम् । १६।

तच्छ्रुत्वा वचनं प्राह कृपाविष्टो भृगुः स्वयम्
अयुक्तं विहितं तात यच्छप्तोऽयं वटुस्त्वया  ।१७।

न मां धर्षयितुं शक्तो विषाक्तोपि भुजंगमः
किं पुनर्जलसर्पोयं निर्विषो रज्जुसंन्निभः । १८।

न मामुद्दिश्य निर्मुक्तः सर्पोऽनेन द्विजन्मना
शापमोक्षं कुरुष्वास्य तस्माच्छीघ्रं द्विजन्मनः । १९।

                          च्यवन उवाच
यदि त्यजति मर्यादामब्धिः शैत्यंव्रजेद्र विः
ऊष्णत्वं च क्षपानाथस्तन्मेस्यादनृतं वचः । २०

तच्छ्रुत्वा वचनं तस्य स्वयमेव पितामहः
ततःशीघ्रं तत्रयातः सपौत्रः सर्परूपधृक्  ।२१


प्रोवाच न विषादस्ते पुत्र कार्यः कथंचन
यत्सर्पत्वमनुप्राप्तः शृणुष्वात्र वचो मम  ।२२।

पुरा संसृष्टुकामोहं नागानां नवमं कुलम्
तद्भविष्यति त्वत्पार्श्वात्समर्यादं धरातले  ।२३।

मंत्रौषधियुजां पुंसां न पीडामाचरिष्यति
संप्राप्स्यसि परां पूजां समस्ते जगतीतले  ।२४।

अत्रास्ति सुशुभं तोयं क्षेत्रे कापालिके शुभे
तत्रस्थित्वा समावासः पुत्र कार्यस्त्वया सदा  ।२५।

तत्रस्थस्य तपःस्थस्य नागः ककोटको महान्
तव दास्यति तत्कन्यां ततःसृष्टिर्भविष्यति  ।२६।

नवमस्य कुलस्यात्र समर्यादस्य भूतले
श्रावणे कृष्णपक्षे तु संप्राप्ते पंचमीदिने  ।२७।

संप्राप्स्यति परां पूजां पृथिव्यां नवमं कुलम्
अद्यप्रभृति तत्तोयं नागतीर्थमिति स्मृतम्  ।२८।

ख्यातिं यास्यति भूपृष्ठे सर्वपातकनाशनम्
येऽत्र स्नानं करिष्यन्ति संप्राप्ते पंचमीदिने  ।२९

न तेषां वत्सरं यावद्भविष्य त्यहितं भयम्
विषार्दितस्तु यो मर्त्यस्तत्रस्नानं करिष्यति  ।३०।

तत्क्षणेनिर्विषो भूत्वा संप्राप्स्यति परं सुखम्
पुत्रकामा तु या नारी पचम्यां भासकरोदये । ३१।

करिष्यति तथा स्नानं फलहस्ता प्रभक्तितः
भविष्यति च शीघ्रं सा वन्ध्यापि च सपुत्रिणी  ।३२।

                 ✨वह्निरुवाच✨
एवं प्रवदतस्तस्य ब्रह्मणोऽव्यक्तजन्मनः
अन्येनागाः समायातास्तत्र यज्ञे निमंत्रिताः ।३३।

वासुकिस्तक्षकश्चैवपुंडरीकः कृशोदरः
कंबलाश्वतरौ नागौ शेषः कालीय एव च । ३४।

ते प्रणम्य वचः प्रोचुःप्रोच्चैर्देव मृषन्प्रति
                   नागा ऊचुः
यज्ञोद्देशाद्वयं प्राप्ता यज्ञेऽत्र प्रपितामह  ।३५।

येन कुर्मो वदं शीघ्रं नागराज्येऽधितिष्ठतः
                         ब्रह्मोवाच
नागतीर्थे सदा स्थेयं सर्वैस्तत्र समाहितैः  ।३६।

यः कश्चिन्मम यज्ञेऽत्र दुष्टभावं समाश्रितः
समागच्छति विघ्नाय रक्षणीयः स सत्वरम् । ३७।

राक्षसो वा पिशाचो वा भूतो वा मानुषोपि वा
एतत्कृत्यं तु वो नागा मम यज्ञस्य रक्षणम् । ३८।

तथा यूयमपि प्राप्ते मासि भाद्र पदे तथा
पंचम्यां कृष्णपक्षस्य तत्र पूजामवाप्स्यथ । ३९।

                     वह्निरुवाच
बाढमित्येव ते प्रोच्य प्रणिपत्य पितामहम्
सनातनसुतोपेता नागास्तीर्थं समाश्रिताः  ।४०।

कामप्रदं च भक्तानां नराणां स्नानकारिणाम्
यस्तत्र कुरुते स्नानं सकृद्भक्त्या समन्वितः । ४१।

नान्वयेपि भयं तस्य जायते सर्पसंभवम्
तत्र यच्छतिमिष्टान्नं द्विजेभ्यः सज्जनैः सह । ४२।

पूजयित्वा तु नागेन्द्रा न् सनातनपुरःसरान्
सप्तजन्मान्तरं यावन्न स दुःख मवाप्नुयात्  ।४३।

भूतप्रेतपिशाचानां शाकिनीनां विशेषतः
न छिद्रं  न च रोगाश्च नाधिर्न च रिपोर्भयम् ।४४।

यश्चेदं शृणुयाद्भक्त्या वाच्यमानं द्विजोत्तम
सोपिसंवत्सरं यावत्पन्नगैर्न च पीड्यते । ४५।

सर्पदष्टस्य यस्यैतत् पुरतः पाठ्यते भृशम्
एतत्तीर्थस्य माहात्म्यं कालदष्टोपि जीवति । ४६।

पुस्तके लिखितं यत्र एतत्तीर्थसमुद्भवम्
माहात्म्यं तिष्ठति यत्र कलिस्तत्र न तिष्ठति । ४७।
________________________________
इति श्रीवह्निपुराणे नांदीमुखोत्पत्तौ द्वितीयदिवसकृत्यं नाम सप्तदशोऽध्यायः संपुर्णः


                           (अध्याय  १८)
                      वह्निरुवाच
तृतीये दिवसे प्राप्ते त्रयोदश्यां द्विजोत्तम
प्रातःसवनमादाय ऋत्विजः सर्व एव ते  ।१।

स्वे स्वे कर्मणि संलग्ना यज्ञकर्मसमुद्भवे
ततः प्रववृते यज्ञस्तदा पैतामहो महान् । २।

सर्वकामसमृद्धस्तु सर्वैः समुदितो गुणैः
दीयतां दीयतां तत्र भुज्यतां भुज्यतामिति  ।३


एकः संश्रूयते शब्दो तथर्त्विक्सम्भवोऽपरः
नान्यस्तत्र तृतीयस्तु यज्ञे पैतामहे शुभे । ४।

योयं कामयते कामं हेमरत्नसमुद्भवम्
स तत् प्राप्नोत्यसंदिग्धं वांछिताच्च चतुर्गुणम्  ।५।

पक्वान्नस्य कृतास्तत्र दृश्यन्ते पर्वताः शुभाः
घृतक्षीरमहानद्यो दानार्थं वित्तराशयः  ।६।

एतस्मिन्नंतरे कश्चिज्ज्ञानी प्राप्तो द्विजोत्तमः
अतीतानागतं वेत्ति वर्तमानं च यः सदा  ।७।

स ब्राह्मणान्नमस्कृत्य निविष्टश्च तदग्रतः
जन्मान्तरेषु विप्राणां सर्वेषां च द्विजोत्तमः  ।८।

कथयामास यद्वृत्तं वाल्यात्प्रभृति कृत्स्नशः
ततस्त ऋत्विजः सर्वे कौतुकाविष्टचेतसः  ।९।

पप्रच्छुर्ज्ञानिनं तं च विस्मयोत्फुल्ललोचनाः
विस्मृतानि स्मरंतश्च निजकृत्यानि वै ततः । १०।

प्रोक्तानि गर्हणीयानि ह्यसंख्यातानि सर्वशः
ततस्ते पुनरेवाथ पप्रच्छुर्ज्ञानिनं च तम्  ।११

लोकोत्तरमिदं ज्ञानं कथं ते संस्थितं द्विज
को गुरुस्ते समाचक्ष्व परं कौतुहलं हि नः।  १२।

अहोज्ञानमहोज्ञानं नैतत् दृष्टं श्रुतं न च
यादृशं ते द्विजश्रेष्ठ दृश्यते पार्श्वसंस्थितम्  ।१३।

किं ब्रह्मणा स्वयं विप्र त्वमेवं प्रतिबोधितः
किंवा हरेण तुष्टेन किंवा देवन चक्रिणा ।१४।

नान्यप्रबोधितस्यैवं ज्ञानं संजायते स्फुटम्
            अतिथिरुवाच
पिंगला कुररःपक्षी सर्पः सारंग एव च  ।१५।

इषुकारः कुमारी च षडेते गुरवो मम
एतेषां चेष्टितं दृष्ट्वा ज्ञानं मे समुपस्थितम्  ।१६


                  ब्राह्मणा ऊचुः
कथयस्व प्रसादेन कथं ते गुरवः स्थिताः
कीदृशं च त्वया दृष्टं तेषां चैव विचेष्टितम् । १७।

कस्मिन् देशे समुत्पन्नः कस्मिन्स्थाने ब्रवीहिनः
कीदृशं हि त्वयादृष्टं तेषां चैव विचेष्टितम्।  १८

नाम ते किं नु गोत्रं च सर्वं विस्तरतो वद
         अतिथिरुवाच
चंद्रा दित्यकुलेऽत्रापि चत्वारो ये व्यवस्थिताः । १९।

शुनः शेपोऽथ शाक्रेयो बुद्धो दांत इति स्मृतः
तेषां मध्ये तु यो बुद्धः शांतो दान्त इति स्मृतः । २०।

चंद्रा दित्ये च गोत्रे च विख्यातो वेदपारगः
नांदीमुखः समुत्पन्नः पश्चिमे वयसि स्थिते । २१।

तस्याहं प्रथमः पुत्रः प्राणेभ्योऽपि सुहृत् प्रियः
ततोऽहं यौवनं प्राप्तो यदा द्विजवरोत्तमाः । २२।

तदामे दयितस्तातः पंचत्वं समुपागतः 
एतस्मिन्नंतरे राजा ह्यस्मद्देशाधिपो द्विजाः ।२३।

सुतपास्तेन निर्दिष्टो ह्यहं किन्तु विकर्मणि
शांतं दांतं समालोक्य विश्वस्तेन महात्मना  ।२४।

तस्य चान्तः पुरे ह्यासीत् पिंगला नाम नायिका
दौर्भाग्येन समोपेता रूपेणापि समन्विता  ।२५।

अथान्याः शतशस्तस्य भार्याश्चांतः पुरे स्थिताः
ताः सर्वा रजनीवक्त्र व्याकुलत्वं प्रयान्ति च  ।२६

आहरन्ति परान् गंधान् धूपांश्च कुसुमानि च
पुष्पाणि च विचित्राणि ह्यन्याः सूक्ष्मांवराणि च  ।२७।

तावद्यावत्स्थितः कालः स्वामिसंयोगसंभवः
मन्मथोत्सवसंयुक्ताः पुलकेन समन्विताः  ।२८।

एकाजानाति मां सुप्तां नूनमाकारयिष्यति
अन्या जानाति मां चैव परस्पर मयुध्यताम्  ।२९।

स्पर्धयन्ति प्रयुध्यन्ति विरूपाणि वदन्ति च
तासां मध्यात्ततश्चैका प्रयाति नृपसंनिधौ  ।३०।

शेषा वैलक्ष्यमासाद्य निःश्वस्य प्रस्वपन्ति च
दुःखार्ता न लभन्ते च ताश्च निद्राम् पराभवात् ।३१।

कामेन पीडितांग्यश्च बाष्पपूर्णेक्षणाः स्थिताः
आशा हि परमं दुःखं निराशा परमं सुखम्  ।३२।

आशं निराशां कृत्वा च सुखं स्वपिति पिंगला
ततो मयापि तद्दृष्टं तस्याश्चेष्टितमुत्तमम्  ।३३।

न करोति च शृंगारं न स्पर्धां च कथंचन
न व्याकुलत्वमापेदे सुखं स्वपिति पिंगला ।३४।।

आशाः सर्वाः परित्यज्य स्वपिमीह सुखं ततः
ये स्वपंति सुखं रात्रौ तेषां कायाग्नि रिध्यते ।३५।

आहारं प्रतिगृह्णन्ति ततः पुष्टिकरं परम्
तदेतत् कारणं जातं मम तेजोभिवृद्धये । ३६।

गुरुत्वे पिंगला जाता तेन मेसा द्विजोत्तमाः
आशापाशैः परीतांगा ये भवन्ति नरार्दिताः  ।३७।

ते रात्रौ शेरते नैव तदा प्राप्तिविचिन्तया
नैवाग्निर्दीप्यते तेषां जागरश्च ततः परम् । ३८।

आहारं वांछते नैव ततस्तेजोभिवर्धनम्
सर्वत्र विद्यते जंतुर्नवांच्छति कदाचन । ३९।

यथा यथा भवेल्लाभो वांच्छितस्य नृणामिह
हविषा कृष्णवर्त्मेव वृद्धिं याति तथा तथा । ४०।

यथा शृंगं करोः काये वर्धमानस्य वर्धते
एवं तृष्णापि वित्तेन वर्धमानेन वर्धते । ४१।

एवं ज्ञात्वा महाभागा पुरुषेण विजानता
दिवा तत्कर्म कर्तव्यं येनरात्रौ सुखं भवेत्  ।४२।

इति श्रीवह्निपुराणे नांदीमुखोत्पत्तौ पिंगलोपाख्यान नामाष्टादशोऽध्यायः संपूर्णः।

____________________________________________
आभीरस्य कन्याया: गायत्रै: वर्णनम् 
_
                अध्याय  २६

                 वह्निरुवाच
इति श्रुत्वा महानादं वाद्यानां समुपस्थितम्
नारदः सन्मुखः प्रायात् ज्ञात्वा च जननीं निजाम् । १।

प्रणिपत्य  मुदीनात्मा भूत्वा योऽश्रुपरिप्लुतः
प्राह गद्गदया वाचा कंठे वाष्पसमाकुले । २।

आत्मनः शापरक्षार्थं तस्याः कोपविवृद्धये
कलिप्रियस्तदा विप्रो देवस्त्रीणां पुरस्थितः । ३।

मेघगंभीरया वाचा प्रस्खलन्त्या पदेपदे
मया त्वं देवि चाहूता पुलस्त्येन ततःपरम् । ४।

स्त्रीस्वभावं समाश्रित्य दीक्षाकालेऽपि नागता
ततो विधेः समादेशात् शक्रेणान्या समाहृता । ५।

काचिद्गोपसमुद्भूता कुमारी देवरूपिणी
गोवक्त्रेण प्रविश्याथ गुह्यमार्गेण तत्क्षणात् ।६।

आकर्षिता महाभागे समानीता च तत्क्षणात्
सा विष्णुना विवाहार्थं ततश्चैवानुमोदिता । ७।

ईश्वरेण कृतं नाम सावित्रीति तवानुजम्
ब्राह्मणैः सकलैः प्रोक्तं ब्रह्माणी च भवत्वियम्  ।८।

अस्माकं वचनाद् ब्रह्मन् कुरु परिग्रहं विभो
देवैः सर्वैः सुसंप्रोक्तं ततस्तां च वराननाम्  ।९।

तां च पत्न्युक्तधर्मेण योजयामास सत्वरम्
किंवा ते बहुनोक्तेन पत्नीशालां समागता  ।१०।

रसना योजिता तस्यास्तत्र कट्यां सुरेश्वरि
तद्दृष्ट्वा गर्हितं कर्म निष्क्रान्तो यज्ञमंडपात्  ।११।

अनर्थवशमापन्नो न शक्तो वीक्षितुं च ताम्
एतज्ज्ञात्वा महाभागे यत्क्षमं तत्समाचर  ।१२।

गच्छ वा तिष्ठ वा तत्र मंडपे धर्मवर्जिते
तच्छ्रुत्वा सा तदा देवी सावित्री द्विजसत्तम ।१३।

प्रम्लानवदना जाता पद्मिनीव हिमागमे
लतेव छिन्नमूला सा चक्रीव प्रियविच्युता  ।१४।

शुचिशुक्रोदये काले सरसीव गतोदका
प्रक्षीणचन्द्र लेखेव मृगीव मृगवर्जिता  ।१५।

सेनेव हतभूपाला सतीव गतभर्तृका
संशुष्कपुष्पमालेव मृतवत्सेव सौरभिः ।१६।

वैमनस्यं परं गत्वा निश्चलत्वमुपस्थिता
तां दृष्ट्वा देवपत्न्यस्ताः प्रजगुर्नारदं तदा  ।१७।

धिग् धिक् कलिप्रियत्वं च रागे वैराग्यकारकः
त्वया कृतं सर्वमेतत् विधेस्तस्या स्तथांतरम्  ।१८।
                   गौर्युवाच
अयं कलिप्रियो ब्रूते मुनिः सत्यानृतं वचः
अनेन कर्मणा प्राणान् बिभर्त्येष सदा मुनिः  ।१९।

अत्र त्र्! यक्षेण सावित्री पुरा प्रोक्ता मुहुर्मुहुः
नारदस्यमुनेर्वाक्यं न श्रद्धेयं त्वया प्रिये । २०।

यदि वांच्छसि सौरव्यानि मम जातानि पार्वति
ततः प्रभृति नैवाहं श्रद्दधेऽस्य वचः क्वचित्  ।२१।

तस्माद्गच्छेम तत्रैव यत्र तिष्ठति ते पतिः
स्वयं दृष्टे च वृतान्तं कर्तव्यं यत्क्षमं ततः । २२।

नात्रास्य वचनादद्य स्थातव्यं तत्र गम्यताम्
                 सूत उवाच
गौर्यास्तद्वचनं श्रुत्वा सावित्री हर्षवर्जिता । २३।

मखमंडपमुद्दिश्य प्रस्खलन्ती पदे पदे
प्रजगाम द्विजश्रेष्ठाः शून्येन मनसा तदा ।२४
प्रतिभाव्यं तदा गीतं तस्या मधुरमप्यहो
कर्णशूलं व्यजायेत ह्यसक्तं द्विजसत्तमाः  ।२५।

वंध्यदाद्यं यथा वाद्यं मृदंगानकपूर्वकम्
प्रेतसंस्पर्शनं यद्वत्नृत्यगीते महासती । २६।

वीक्षितुं न च शक्नोति गच्छंतीसा महामखे
शृंगारं च यथा भारं मन्यते सा तनुस्थितम्  ।२७।

बाष्पपूर्णेक्षणा दीना प्रजगाम महासती
ततः कृच्छात्समासाद्य सेवमानं च मण्डपे । २८।

कृच्छ्रात्काराग्रह तद्वत् दुष्प्रेक्ष्यं दृक्पथस्थितम्
अथ दृष्ट्वा तु संप्राप्तां सावित्रीं यज्ञमंडपे । २९।

तत्क्षणाच्च चतुर्वक्त्रः संस्थितो हिमहामखे
तथा शंभुश्च शक्रश्च वासुदेवस्तथैव च  ।३०।

येचान्ये विबुधास्तत्र संस्थिता यज्ञमंडपे
ते च ब्राह्मणशार्दूला स्त्यक्त्वा वेदध्वनिं ततः। ३१।

मूकीभावं गताः सर्वे भयसंत्रस्तमानसाः
अथ संवीक्ष्य सावित्री सपत्न्या सहितं प्रभुम् ।। ३२।

कोपसंरक्तनयना स्वपतिं वाक्यमब्रवीत्
                सावित्र्! युवाच
किमेतद्युज्यते कर्तुं तव वृद्धस्य च प्रभो । ३३।

ऊढवानसि यत्पत्नीमेतां गोपसमुद्भवाम्
उभयोः पक्षयोर्यास्युः शुद्धास्ता हि स्त्रियः सताम्  ।३४।

शौचाचारपरित्यक्ता धर्मकृत्यपराङ्मुखाः
यस्यान्वये जनाः सर्वे पशुधर्मरतोत्सवाः  ।३५।

सदयं भगिनीं त्यक्त्वा जननीं च तथा परम्
यस्याः कुले प्रसेवन्ते सर्वां नारीं द्विजोत्तमाः । ३६

यथाहि पशवोऽश्नंति तृणानि जलपानगाः
विण्मूत्रं केवलं चक्रुर्भारोद्वाहनमेव च  ।३७।

तद्वदस्याः कुलं सर्वं तक्रमश्नाति केवलम्
कृत्वा मूत्रपुरीषं च जन्मभोगविवर्जितम् ।। ३८।

नान्यज्जानाति कर्तव्यं धर्मः स्वोदरपूरणात्
अन्त्यजा अपि नो कर्म ये कुर्वन्ति विगर्हितम्  ३९।

______________________________________________________
आभीरा स्तच्च कुर्वन्ति तत् किमेतत्त्वया कृतम्
अवश्यं यदि ते कार्यं भार्यया परया मखे । ४०।

तत्त्वया ब्राह्मणी कापि ह्यन्वीक्ष्या भुवनत्रये
महाविधे वृथा मुंडं नृनं कर्तासि मे मतिः 
_______________________________________________
यत्त्वया शौचसंत्यक्ता कन्याभायप्रदूषका । ४१।

याभुक्ता बहुभिः पूर्वमियं गोपकुमारिका
एषा प्राप्ता सुपापाद्या वेश्याजनसमाधिका  ।४२।

अंत्यजातिसमा कन्या कथमर्हां मखे शुभे 
तथा गोपकुमारी च काचित्तादृक् प्रजायते । ४३।

मातृकं पैतृकं वंशं श्वशुरं च प्रतापयेत्
तस्मादेतेन कृत्येन गर्हितेन धरातले  ।४४

न त्वं प्राप्स्यसि तां पूजां यथान्ये विबुधोत्तमाः
अनेन कर्मणा चैव यदि मेऽस्ति हुतं क्वचित्  ।४५।

पूजां ये च करिष्यन्ति भविष्यन्ति च निर्धनाः
कथं न लज्जितोऽसित्वमेतत्कर्म विगर्हितम् । ४६।

पुत्राणामथ पौत्राणामन्येषां च दिवौकसाम्
अयोग्यं चैव विप्राणां यदेतत् कृतवानसि  ।४७


अथवा नैव दोषस्ते नकामवशगा नराः
लज्जन्ते च विजानन्ति कृत्याकृत्यं शुभाशुभम् । ४८।

अकृत्यं मन्यते कृत्यं मित्रं शत्रुं च मन्यते
शत्रुं च मन्यते मित्रं जनः कामवशं यतः  ।४९

द्युतकारे यथा सत्यं तथा चौरे च सौहृदम्
यथा नृपस्य नो मित्रं तथा मज्जा न कामिलाम्  ।५०।

अपि स्याच्छीतलो वह्निश्चंद्र मा दहनात्मकः
क्षरोऽब्धिर्यदि मिष्टः स्यान्न कामी सज्जते ध्रुवम्  ।५१।।

न मेऽस्य दुःखमेतद्धि यत्सापत्न्यमुपस्थितम्
सहस्रमपि नारीणां पुरुषाणां यथा भवेत् । ५२।

कुलीनानां च शुद्धानां खजात्यानां विशेषतः
त्वं कुरुष्वापराणां च यदि कामवशंगतः  ।५३।

एतत्पुनर्महादुःखं यदाभीरा विगर्दिता
वंशे वनचराणां च स्ववोडा बहुभर्तृका  ।५४।

तस्मादहं प्रयास्यामि यत्र नाम न ते विधं
श्रूयते कामलुब्धस्य ह्रिया परिहृतस्य च  ।५५।

अहं विडम्बिता यस्मादत्रानीव वया विभो
पुरतो देवपत्नीनां देवानां च द्विजन्मनाम्  ।५६।

तस्मात्पूजां न ते कश्चित्सांप्रतं प्रकरिष्यति
अद्यप्रभुति यः शूनां मंत्रयूतां करिष्यति  ।५७।

तव मर्त्यो धरापृष्ठे त्तथान्येऽपि दिवौकसः
भविष्यति च तद्वंशो दरिद्रो  दुःखसंयुतः । ५८।

ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रो ऽपि चालये
एषा भीरसुतां यस्मान्मयस्वाने च यार्चयेत्  । ५९।

सा भविष्यति दुःखार्ता वंध्या दौर्भाग्यसंयुता
पापिष्ठा नष्टचारित्रा यथैषा पंचभर्तृका । ६०।

विख्यातिं यास्यते लोके यथा चासौ तथैव स्म
एतस्या अन्वये पापा भविष्यन्ति न संशयः  ।६१।

एव शप्त्वा विधिं साध्वी गायत्रीं च ततः परम्
भविष्यति न संतानं मम वाक्यान्न संशयः ।६२।

न पूजां लप्स्यते लोके यथान्या देवयोजितः
पूजां तव करिष्यन्ति योषितो न सतां क्वचित्  ।६।

भो भो नान्दीमुखाः सर्वे शृण्वन्तु वचनं मम
यस्मादियं तु युष्माभिः स्थापिता च महामखे  ।६४।

तपोविद्यामदेनैव नैव जानन्ति मां सदा
तस्माद्विद्याविहीनात्र तपोहीना भवन्तु भोः  ।६५।

कलौ संमर्ध्यमाने च वाणिज्यनिरताः सदः
ततो देवगणान् सर्वाञ्शशाय च तता सती  ।६६।

भो भोः शुक्र त्वया नीता यदेषां पंचभर्तृका
तदाप्नुहि फलं सम्यक् शुभं कृत्वा मुरोरिदम्  ।६७।

त्वं शत्रुभिर्जितो युद्धे बंधनं समवाप्स्यसि
कारागारं चिरं कालं वै गमिष्यस्यशंसयम्  ।६८।

वासुदेव त्वया यस्मादेषा वै पंचभर्तृका
अनुमोदिताविधेः पूर्वं तस्माच्छाप्स्याम्यसंशयम् । ६९।

त्वं द्वापरे च भृत्यत्वं संप्राप्स्यसि सुदुर्मते
समीपस्थोऽपि रुद्र त्वं कर्मैतद्यदुपेक्षसे  ।७०।

निषेधयति नो मूढ तस्माच्छृणु वचो मम
जीवमानस्य कान्तस्य मया ते विरहोद्भवम् । ७१।

ससेवितं मृतायां ते दयितायां भविष्यति
अत्र यज्ञे प्रतिष्ठेयं गर्हिता पंचभर्तृका । ७२।

भवानपि विधेयत्वं यस्तु मृङ्मासि लौल्यतः
तथान्येषु च यज्ञेषु सम्यक्श काविवर्जितः  ।७३।

तस्माद्वह्ने दुराचार सर्वभक्ष्यो भविष्यति
स्वधया स्वाहया सार्वं सदा दुःखसमन्वितः।  ७४


नैराप्स्यसि परं सौरभ्यं सर्वकालं यथा पुरा
एते च ब्राह्मणाः सर्वे लोभोपहतचेतसः  ।७५।

होमं प्रकुर्वते य च मखे चापि विगर्हिते
वित्तलोभेन मम्रैषा निविष्टा पंचभर्तृका  ।७६।

तथा च वचनं प्रोक्तं ब्राह्मणीयं भविष्यति
दरिद्रो  पहतास्तस्माद्वृषलीपतयस्तथा  ।७७।

वेदविक्रयकर्तारो भविष्यन्ति न संशयः
भो भो वित्तपते चित्तं ददासि मखविप्लवे  ।७८।

तस्मात्तवाखिलं वित्त अभोग्यं संभविष्यति
सदा देवगणाः सर्वे साहाय्ये ये समागताः । ७९।

कृत्वा कुर्वन्ति दोषाद्वये यज्ञे यत्पंचभर्तृका
ह्यंतातेन परित्यक्तास्ते भविष्यन्ति सांप्रतम्  ।८०।

दानवैश्च पदाभूता दुःखं प्राप्स्यंति ते परम्
एतस्याः पार्श्वतश्चान्याश्चतस्रो या व्यवस्थिताः  ।८१।

भाभीरीति सपत्नीति प्रोक्तवंत्यः हर्षिताः
मम द्वेपपरा नित्यं शिवदूतीपुरःसराः  ।८२।

तासां परस्परं संगः कदाचिन्न भविष्यति
नाम्येनापि परेणापि दृष्टिमात्रमपि क्षितौ  ।८३।

पर्वताग्नेषु सर्वेषु अगम्येषु च देहिनाम्
वासः संपत्स्वते नित्यं सर्वयोगैर्विवर्जितः  ।८४।

                   (सूत उवाच)
एवमुक्त्वाप सावित्री कोपोपहतचेतसा
विसृज्य देवपत्न्यस्ताः सर्वा याः पार्श्वराः स्थिताः  ।८५।

उदङ्मुखी प्रतस्थे तु वार्यमाणापि सर्वतः
सर्वाभिर्देवपत्नीभिर्लक्ष्मीपूर्वाभिरेव च। ८६।

तत्र यास्यामि नो यत्र नामापि किल नो यतः
श्रूयते च विधेरस्य तत्र यास्याम्यहं द्रुतम्  ।८७।

पादः पुष्पकुतोयस्य वामः पर्वतरोधसि
अपि पापसमाचारो यस्तां संपूजयेन्नरः । ८८।

सर्वपापहरं पुण्यं स याति परमं पदम्
यं यं काममभिव्यायेत्तंतमाप्नोति मानवः  ।८९।

अवश्यं भावमाप्नोति यद्यपि स्यात्सुदुर्लभम्
                  वह्निरुवाच
एवं तत्रस्थिता देवी सावित्री पर्वताश्रया । ९०।

अपभान महत्प्राप्य ब्रह्मणः परमेष्ठिनः
यस्तामर्चयते सम्यक् पूर्णमास्यां विशेषतः । ९१।

सर्वान्कामानवाप्नोति सयाति परमं पदम्
दिधेरनुभयादेव देवानां च विशेषतः । ९२।

स्थिता तत्र विशालाक्षी हित्वातद्ब्रह्मणॐतिकम्
या नारी कुरुते भक्त्या दीपदानं च तत्कृते  ।९३।

रक्ततंतुभिराज्येन श्रूयतां तस्य यत्कलम्
यावंतस्तंतवस्तस्य दह्यन्ते दीपसंभवाः । ९४।

मुहूर्तानि च यावन्ति घृतदीपश्च तिष्ठति
तावज्जन्मसहस्राणि सा स्यात्सौभाग्य भागिनी  ।९५।

पुत्रपौत्रसमोपेता धनिनी शी--मंडिता
न दुर्भगा न वंध्या च न काणा न विरूपिका । ९६।

या नारी कुरुते नृत्यं विधवापि तदग्रतः
गीतं वा कुरुते तत्र शृणु तस्यापि तत्फलम्  ९७।

यथा च नृत्यमग्नावै स्वं गात्रं विधुनोति च
तथा तथा धुनोत्येव यत्पापं प्राकृतं भवेत्  ।९८।

यावन्तो जंतवो गीतं तस्याः शृण्वन्ति तत्र च
तावन्ति दिवि चर्षाणि सहस्राणि वसेच्चसा । ९९।

सावित्रीं या समुद्दिश्य फलदानं करोति या
फलसंख्याप्रमाणानि युगानि दिवि मोदते  ।१००।

मिष्टान्नं यच्छते या च नारीणां च विशेषतः
तस्याः दाक्षिण्यमूर्तिश्च स्त्रीणां मध्ये विशिष्यते ।१०१।

सस्यकणप्रमाणानि युगाणि दिवि मोदतेयः
श्राद्धं कुरुते सम्यक् तत्र श्रद्धासमन्वितः  ।१०२।

रसेनैकेन सस्येन तथा नेकैर्द्विजोत्तमैः
तस्यापि जायते पुण्यं गयाश्राद्धेन यद्भवेत्  ।१०३।

यःकरोति द्विजस्तस्या उत्तरां दिशमाश्रितः
संध्योपासनमेकं तु स्वपत्न्याक्षिपितैर्जलैः  ।
१०४।
सायंतने तु संप्राप्ते काले ब्राह्मणसत्तमाः
तेन स्याद्वंदिता संध्या सम्यक् द्वादश वार्षिकी  ।१०५।

यो जपेद्ब्राह्मणस्तत्र सावित्रीं च त्रिकालिकीम्
तस्ययत्स्यात्फलं विप्र श्रूयतांतद्वदामि ते  ।१०६।

दश जन्मकृतं यच्च शतेन च पुरा कृतम्
त्रियुगं तु सहस्रेण सावित्री हन्ति किल्बिषम्  ।१०७।

तस्मात्सर्वप्रयत्नेन सावित्रीं कुंडके जपेत्
तत्र तां पूजयेद्देवीं स्तोतव्यां च विशेषतः । १०८।

सावित्र्! या इदमाख्यानं यः पठेच्छृणुयाच्च वा
सर्वपापविनिर्मुक्तः सुखभाग्यत्रजायते । १०९।

एतद्वः सर्वमाख्यातं यत्पृष्टोहं द्विजोत्तमाः
सावित्र्! याः कृत्स्नं माहात्म्यं किं भूयः प्रवदामि वः।११०।

इति श्रीवह्निपुराणे नांदीमुखोत्पत्तो सावित्रीमाहात्म्यं नाम षड्विंशोऽध्यायः


गायत्री मन्त्र की व्याख्या व्याकरणिक समन्वित।
_______________________________________👇
ऊँ तत् सवितुर्वरेण्यं। भर्गोदेवस्य धीमहि। 
धियो यो न: प्र च उदयात्। (ऋ० ३/६२/१०)
_________________________________________👇

(१) ॐ= सूर्य का वाचक तथा रवि का भावक रूप 
(२) भूर्भव: स्व: = पृथ्वी पर जिसके कारण प्रकाश हो !
(३) तत्सवितुर्वरेण्यं भर्गो देवस्य  = उस सूर्य का वरण करना चाहिए  !  --जो अग्नि देव का रूप है ।
यह अग्नि रूप सूर्य देव के प्र - प्रकृष्ट  च-और  उदयात् = उदय होने से (प्रचोदयात् ) ।
धीमहि = हम सब धारण करें । 
धियो = बुद्धि में स्वर् = प्रकाश  यो = जो  न: = हम सबके लिए है ।

वेद की अधिष्ठात्री देवी गायत्री 
अहीरों की एक कन्या थी । 
जैसे राधा अहीरों की एक कन्या थी ।

  गायत्री मन्त्र' की अश्लीलता जिनको समझ में आती है वे नि:सन्देह मूर्ख तो हैं ही ; उनका अन्त: करण भी वासनाओं के द्वारा मलिन है । 
फिर इस प्रकार के लोग अर्थ का अनर्थ तो करेंगे ही--  ***************************************** गायत्री यद्यपि एक प्रसिद्ध वैदिक छन्द का नाम है ।
---जो ऋग्वेद में बहुतायत से प्रयुक्त हुआ है जिसमें गायत्री ( ज्ञान की अधिष्ठात्री देवी का मानवीय करण अलंकार रूप में कर स्तवन (गायन)किया गया है । गायत्री मन्त्र को अश्लीलता परक बताने वाले मूर्खों को वैदिक भाषा का कुछ भी ज्ञान नहीं है !

इसलिए वे गायत्री मन्त्र का किस प्रकार अश्लील अर्थ करते हैं - जैसे यदि उनके सामने यह संस्कृत वाक्य  प्रस्तुत कर दिया जाए " भो ! श्री पश्ये चूतात् फलानि पतन्ति "  तो वे इसकी व्याख्या करेंगे :--भोसरी पस्साद चूत से फलान पकरते हैं" 
_________________________________________
गायत्री मन्त्र को अश्लील बताने वाले वही मूर्ख हैं ; जो "भो ! श्री पश्ये चूतात् फलानि पतन्ति " संस्कृत वाक्य का अर्थ करते हैं :- भोसरी पस्साद चूत से फलान को पकरते हैं " परन्तु इसमें वाक्य का अर्थ अश्लील कभ नहीं  अपितु सही  अर्थ तो इस प्रकार है --
" भो अर्थात् (हे )।
श्री अर्थात् (लक्ष्मी ) पश्ये अर्थात् (देखें- )।
" चूतात् (आम्र वृक्षात्)  फलानि पतन्ति अर्थात् (फल गिरते हैं )

उपर्युक्त वाक्य का अर्थ इस प्रकार है :- हे लक्ष्मी देखो !
 आम के वृक्ष से फल गिरते हैं ! 
_________________________________________
गायत्री मन्त्र का अर्थ करने वाले को गायत्री और सावित्री ब्रह्मा की पुत्री दिखाई देती हैं ।

---जो कि किसी संस्कृत शास्त्र में वर्णित नहीं है। 

गायत्री नरेन्द्र सेन अहीर की कन्या थी । 
जो ब्रह्मा ने ज्ञान की अधिष्ठात्री देवी नियुक्त की। 
और सावित्री को कर्म की अधिष्ठात्री देवी नियुक्त किया । _________________________________________

गायत्री को वेदों की माता कहा जाता है।
.. कहते हैं गायत्री की व्याख्या करने के लिए ही ब्रह्मा ने 4 वेदों की रचा की थी। 

इन वेदों से शास्त्र, दर्शन, ब्राह्मण ग्रन्थ, आरण्यक, सूत्र, उपनिषद, आदि का निर्माण हुआ।

इन्हीं-ग्रन्थों से शिल्प, वाणिज्य, शिक्षा, रसायन, वास्तु और संगीत आदि 64 कलाओं का निर्माण हुआ। 
इस प्रकार गायत्री समस्त ज्ञान विज्ञान की जननी हुई।

 जिस प्रकार बीज में विशालकाय पीपल का वृक्ष छिपा होता है ठीक वैसे ही गायत्री मन्त्र के 24 अक्षरों में संसार का पूरा ज्ञान छिपा है। 
यद्यपि गायत्री एक वैदिक छन्द का नाम है ।

परन्तु परवर्ती साहित्य में यह एक मन्त्र रूप में प्रकट हुआ ।

 गायत्री का शाब्दिक अर्थ :- गायन शक्ति । 
विदित हो कि  वाणी का सौम्य रूप गायन अथवा पद्य ही है । और यही सृष्टि का आदि रूप है ।

विचार करो ! 
जब एक शिशु का  प्रसव (जन्म) होता है !
तब वह भी स्वरों के आलापमयी प्रवाह के रूप में रुदन करता है । अत: पद्य गेय है । 

वेदौं का प्रारम्भिक रूप भी पद्य ही है । 

मनुष्यों की वाणी की प्रखरता उसके ज्ञान का प्रतिबिम्ब है ।
सूर्य का रवि विशेषण रूप ध्वन्यात्मक है ।

ओ३म् भी सूर्य का वाचक रहा है ।
मिश्र की हैमेटिक संस्कृति में दौनों शब्द आज भी उपस्थित है । (अमोन- रा )के रूप में ।

जगत और कुछ भी नहीं बल्कि गायत्री का ही ज्ञान मय विस्तार और सावित्री का कर्म मय विस्तार  है।
क्यों कर्म से ही सृष्टि उत्पन्न होती है .
सवित्र सूर्य का वाचक है क्यों वही प्राणीयों का सवन (प्रसवन) करता है | 

सर्व्वलोकप्रसवनात् सविता स तु कीर्त्त्यते । 
यतस्तद्देवता देवी सावित्रीत्युच्यते ततः । 
वेदप्रसवनाच्चापि सावित्री प्रोच्यते बुधैः ॥ 
 “ इति वह्निपुराणे ब्राह्मणप्रशंसानामाध्यायः ॥
 गायत्त्री ।  इति त्रिकाण्डशेषः ॥  

वस्तुत: ज्ञानऔर कर्म जीवन का सम्यक् रूप हैं ! 
_____________________

प्रतिदिन गायत्री मन्त्र का उच्चारण और जप करने से आत्मबल बढ़ता है ।

एकाग्रता बढ़ती है... और व्यक्ति अधिक शान्त होता जाता है।
यूं तो हजारों साल लम्बे सनातन धर्म में ऋषियों ने बहुत से प्रभावशाली मन्त्रों का अविष्कार किया है 
...ज्यादातर बीज मन्त्र ऐसी ध्वनियाँ होती हैं जिन्हें उचित तरीके से उच्चारित करने पर अदृश्य शक्तियां जागृत होती हैं ।

ठीक यही गायत्री मन्त्र के साथ भी है... इसके उच्चारण से भी शक्ति प्रकट होती है ।

विशेष  बात तो ये है कि इस मन्त्र के शब्दों का एक सुन्दर अर्थ भी विधमान है।

देखें--- शब्द अन्वय सहित अर्थ:-
ऊँ = प्लुत  स्वर जो आध्यात्म से पूर्ण 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें