शनिवार, 16 मार्च 2024

श्रीकृष्ण की पूजा का पौराणिक विधान -

करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥ ६९ ॥
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद्‌ ध्रुवम् ॥ ७० ॥
इहैव भारते वर्षे शिवरात्रिं करोति यः ।
मोदते शिवलोके स सप्तमन्वन्तरावधि ॥ ७१ ॥
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।
पत्रमानयुगं तत्र मोदते शिवमन्दिरे ॥ ७२ ॥
पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्‌ध्रुवम् ।
विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत् ॥ ७३ ॥
चैत्रमासेऽथवा माघे शङ्‌करं योऽर्चयेद्‌व्रती ।
करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७४ ॥
मासं वाप्यर्धमासं वा दश सप्त दिनानि च ।
दिनमानयुगं सोऽपि शिवलोके महीयते ॥ ७५ ॥
श्रीरामनवमीं यो हि करोति भारते पुमान् ।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ ७६ ॥
पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्‌ध्रुवम् ।
जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत् ॥ ७७ ॥
शारदीयां महापूजां प्रकृतेर्यः करोति च ।
महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति ॥ ७८ ॥
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्‌गलम् ॥ ७९ ॥
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।
पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम् ॥ ८० ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें