मार्कण्डेयपुराणम् -अध्याया १०६-११०! |
सूर्याधिकारं वहतो विष्णोरीशस्य वेधसः ।
मनुस्तस्याभवत्पुत्रश्छिन्नसर्वार्थसंशयः । । ३
मन्वन्तराधिपो विप्र यस्य सप्तममन्तरम् ।
इक्ष्वाकुर्नाभगो रिष्टो महाबलपराक्रमः । । ४
नरिष्यन्तोऽथ नाभागः पृषध्रो धृष्ट एव च ।
एते पुत्रा मनोस्तस्य पृथग्राज्यस्य पालकाः । । ५
विख्यातकीर्त्तयः सर्वे सर्वे शस्त्रास्त्रपारगाः ।
विशिष्टतरमन्विच्छन्मनुः पुत्रं तथा पुनः । । ६
मित्रावरुणयोरिष्टिं चकार कृतिनां वरः ।
यत्र चापहुते होतुरपचारान्महामुने । । ७
इला नाम समुत्पन्ना मनोः कन्या सुमध्यमा ।
तां दृष्ट्वा कन्यकां तत्र समुत्पन्नां ततो मनुः । । ८
तुष्टाव मित्रावरुणौ वाक्यं चेदमुवाच ह ।
भवत्प्रसादात्तनयो विशिष्टो मे भवेदिति । । ९
कृते मखे समुत्पन्ना तनया मम धीमतः ।
यदि प्रसन्नौ वरदौ तदियं तनया मम । । 108.१०
प्रसादाद्भवतो पुत्रो भवत्वतिगुणान्वितः ।
तथेति चाभ्यामुक्ते देवाभ्यां सैव कन्यका । । ११
इला समभवत्सद्यः सुद्युम्न इति विश्रुतः ।
पुनश्चेश्वरकोपेन मृगयामटता वने । । १२
स्त्रीत्वमासादितं तेन मनुपुत्रेण धीमता ।
पुरूरवसनामानं चक्रवर्तिनमूर्जितम् । । १३
जनयामास तनयं यत्र सोमसुतो बुधः ।
जाते सुते पुनः कृत्वा सोऽश्वमेधं महाक्रतुम् । । १४
पुरुषत्वमनुप्राप्तः सुद्युम्नः पार्थिवोऽभवत् ।
सुद्युम्नस्य त्रयः पुत्रा उत्कलो विनयो गयः।१५।
पुरुषत्वे महावीर्या यज्विनः पृथुलौजसः ।
पुरुषत्वे तु ये जातास्तस्य राज्ञस्त्रयः सुताः।१६।
बुभुजुस्ते महीमेतां धर्मे नियतचेतसः।
स्त्रीभूतस्य तु यो जातस्तस्य राज्ञः पुरूरवाः।१७।
न स लेभे महाभागं यतो बुधसुतो हि सः ।
ततो वसिष्ठवचनात्प्रतिष्ठानं पुरोत्तमम् ।
तस्मै दत्तं स राजाभूत्तत्रातीव मनोहरे । १८।
इति श्रीमार्कण्डेयपुराणे वंशानुक्रमो नामाष्टाधिकशततमोऽध्यायः ।१०८।
अथ नवाधिकशततमोऽध्यायः
पृषध्रोपाख्यानवर्णनम्
मार्कण्डेय उवाच
पृषध्राख्यो मनोः पुत्रो मृगयामगमद्वनम् ।
तत्र चंक्रममाणोऽसौ विपिने निर्जने वने ।१।
नाससाद मृगं कञ्चिद्भानुदीधितितापितः ।
क्षुत्तृट्तापपरीताङ्गः इतश्चेतश्च चंक्रमन् । । २।
स ददर्श तदा तत्र होमधेनुं मनोहराम् ।
लतान्तर्देहछिन्नार्धां ब्राह्मणस्याग्निहोत्रिणः ।३।
स मन्यमानो गवयमिषुणा तामताडयत् ।
पपात सापि तद्बाणविभिन्नहृदया भुवि ।४।
ततोऽग्निहोत्रिणः पुत्रो ब्रह्मचारी तपोरतिः ।
शप्तवान्स पितुर्दृष्ट्वा होमधेनुं निपातिताम् ।५।
गोपालः प्रेषितः पुत्रो बाभ्रव्यो नाम नामतः ।
कोपामर्षपराधीनचित्तवृत्तिस्ततो मुने ।६।
चुकोप विगलत्स्वेदजललोलाविलेक्षणः ।
तं क्रुद्धं प्रेक्ष्य स नृपः पृषध्रो मुनिदारकम् । । ७
प्रसीदेति जगौ कस्माच्छूद्रवत्कुरुषे रुषम् ।
न क्षत्रियो न वा वैश्य एवं क्रोधमुपैति वै । ।
यथा त्वं शूद्रवज्जातो विशिष्टे ब्रह्मणः कुले ।८।
मार्कण्डेय उवाच
इति निर्भत्सितस्तेन स राज्ञा मौलिनः सुतः ।
शशाप तं दुरात्मानं शूद्र एव भविष्यसि । । ९
प्रयास्यति क्षयं ब्रह्मन्यत्तेऽधीतं गुरोर्मुखात् ।
होमधेनुर्मम गुरोर्यदियं हिंसिता त्वया ।109.१०।
एवं शप्तो नृपः क्रुद्धस्तच्छापपरिपीडितः ।
प्रतिशापपरो विप्र तोयं जग्राह पाणिना । । ११
सोऽपि राज्ञो विनाशाय कोपं चक्रे द्विजोत्तमः ।
तमभ्येत्य त्वरायुक्तो वारयामास वै पिता । । १२
वत्सालमलमत्यर्थं कोपेनातीव वैरिणा ।
ऐहिकामुष्मिकहितः शम एव द्विजन्मनाम् । । १३
कोपस्तपो नाशयति क्रुद्धो भ्रश्यत्यथायुषः ।
क्रुद्धस्य गलते ज्ञानं क्रुद्धश्चार्थाच्च हीयते । । १४
न धर्मः क्रोधशीलस्य नार्थं चाप्नोति रोषणः ।
नालं सुखाय कामास्ति कोपेनाविष्टचेतसाम् । । १५
यदि राज्ञा हता धेनुरियं विज्ञानिना सता ।
युक्तमत्र दयां कर्तुमात्मनो हितबोधिना । । १६
अथवाऽजानता धेनुरियं व्यापादिता मम ।
तत्कथं शापयोग्योऽयं दुष्टं नास्य मनो यतः । । १७
आत्मनो हितमन्विच्छन्बाधते योऽपरं नरः ।
कर्तव्या मूढविज्ञाने दया तत्र दयालुभिः । । १८
अज्ञानतः कृते दण्डं पातयन्ति बुधा यदि ।
बुधेभ्यस्तमहं मन्ये वरमज्ञानिनो नराः । । १९
नाद्य शापस्त्वया देयः पार्थिवस्यास्य पुत्रक ।
स्वकर्मणैव पतिता गौरेषा दुःखमृत्युना । । 109.२०
मार्कण्डेय उवाच
पृषध्रोऽपि मुनेः पुत्रं प्रणम्यानम्रकन्धरः ।
प्रसीदेति जगादोच्चैरज्ञानाद्घातितेति च ।।२ १
मया गवयबुद्ध्या गौरवध्या घातिता मुने ।
अज्ञानाद्धोमधेनुस्ते प्रसीद त्वं च नो मुने ।२२।
ऋषिपुत्र उवाच
आजन्मनो महीपाल न मया व्याहतं मृषा ।
क्रोधश्चाद्य महाभाग नान्यथा मे कदाचन ।।२३
तन्नाहमेनं शक्नोमि शापं कर्तुं नृपान्न्यथा ।
यस्ते समुद्यतः शापो द्वितीयः स निवर्तितः ।।२४
इत्युक्तवन्तं तं बालमादाय स पिता ततः ।
जगाम स्वाश्रमं सोऽपि पृषध्रः शूद्रतामगात् ।।२५
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते पृषध्रोपाख्याने नवाधिकशततमोऽध्यायः । १ ०९।
अथ दशाधिकशततमोऽध्यायः
नाभागाख्यानवर्णनम्
मार्कण्डेय उवाच
कारुषाः क्षत्रियाः शूराः करुषस्याभवन्सुताः ।
ते तु सप्तशतं वीरास्तेभ्यश्चान्ये सहस्रशः ।। १
दिष्टपुत्रस्तु नाभागः स्थितः प्रथमयौवने ।
ददर्श वैश्यतनयामतीव सुमनोहराम् ।।२
तस्यां संदृष्टमात्रायां मदनाक्षिप्तमानसः ।
बभूव भूपतनयो निःश्वासाक्षेपतत्परः ।।३
तस्याः स गत्वा जनकं वव्रे तां वैश्यकन्यकाम् ।
ततोऽनङ्गपराधीनमनोवृत्तिं नृपात्मजम् । । ४
तं चाह स पिता तस्या राजपुत्रं कृताञ्जलिः ।
बिभ्यत्तस्य पितुर्विप्र प्रश्रयावनतं वचः । । ५
भवन्तो भूभुजो भृत्या वयं वः करदायकाः ।
कथं सम्बन्धमसमैरस्माभिरभिवाच्छसि । । ६
राजपुत्र उवाच
साम्यं मानुषदेहस्य काममोहादिभिः कृतम् ।
तथापि काले तैरेव योज्यते मानुषं वपुः । ७।
तथैव चोपकाराय जायन्ते तस्य तान्यपि ।
अन्यानि चान्ये जीवन्ति भिन्नजातिमतां सताम्।८।
तथान्यान्यप्ययोग्यानि योग्यतां यान्ति कालतः ।
योग्यान्ययोग्यतां यान्ति कालवश्या हि योग्यता । । ९
आप्याय्यते यच्छरीरमाहारादिभिरीप्सितैः ।
कालं ज्ञात्वा तथा भुक्तं तदेव परिशिष्यते । । 110.१०।
इत्थं ममैषाभिमता तनया दीयतां त्वया ।
अन्यथा मच्छरीरस्य विपत्तिरुपलक्ष्यते । । ११
वैश्य उवाच
परतन्त्रा वयं त्वं च परतन्त्रो महीभुजः ।
पित्रा तेनाभ्यनुज्ञातस्त्वं गृहाण ददाम्यहम् । । १२
राजपुत्र उवाच
प्रष्टव्या सर्वकार्येषु गुरवो गुरुवर्तिभिः ।
न त्वीदृशेष्वकार्येषु गुरूणां वाक्यगोचरः । । १३
क्व मन्मथ कथालापो गुरूणां श्रवणं क्व च ।
विरुद्धमेतदन्यत्र प्रष्टव्या गुरवो नृभिः । । १४
वैश्य उवाच
एवमेतत्स्मरालापस्तवायं पृच्छ मा गुरुम् ।
अहं पृच्छामि नालापो मम कामकथाश्रयः । । १५
मार्कण्डेय उवाच
इत्युक्तः सोऽभवन्मौनी राजपुत्रः स चापि तत् ।
तत्पित्रे सर्वमाचष्ट राजपुत्रस्य यन्मतम् । । १६
ततस्तस्य पिता विप्रानृचीकादीन्द्विजोत्तमान् ।
प्रवेश्य राजपुत्रं च यथाख्यानं न्यवेदयत् । । १७
निवेद्य च ततः प्राह मुनीनेवं व्यवस्थिते ।
यत्कर्तव्यं तदादेष्टुमर्हन्ति द्विजसत्तमाः । । १८
ऋषयः ऊचु
राजपुत्रानुरागस्ते यद्यस्यां वैश्यसन्ततौ ।
तदस्तु धर्म एवैष किं तु न्यायक्रमेण सः । । १९
मूर्धाभिषिक्ततनयापाणिग्राहोत्सवः पुरा ।
भवत्वनन्तरं चेयं तव भार्या भविष्यति । । 110.२०
एवं न दोषो भवति तथेमामुपभुञ्जतः ।
अन्यथाऽभ्येति ते जातिरुत्कृष्टा बालकानयात् । । २१
मार्कण्डेय उवाच
इत्युक्तस्तदपास्येव वचस्तेषां महात्मनाम् ।
विनिष्क्रम्य गृहीत्वा तामुद्यतासिरथाब्रवीत् । । २२
राक्षसेन विवाहेन मया वैश्यसुता हृता ।
यस्य सामर्थ्यमत्रास्ति स एतां मोचयत्विति । । २३
ततः स वैश्यस्तां दृष्ट्वा गृहीतां तनयां द्रुतम् ।
त्राहीति पितरं तस्य प्रययौ शरणं द्विज । । २४
ततस्तस्य पिता क्रुद्ध आदिदेश बलं महत् ।
हन्यतां हन्यतां दुष्टो नाभागो धर्मदूषकः । । २५
ततस्तद्युयुधे सैन्यं तेन भूभृत्सुतेन वै ।
कृतास्त्रेण तदास्त्रेण तत्प्राचुर्येण पातितम् । । २६
स श्रुत्वा निहतं सैन्यं राजपुत्रेण भूपतिः ।
स्वयमेव ययौ योद्धुं स्वसैन्यपरिवारितः । । २७
_________________
ततो युद्धमभूत्तस्य भूभुजः स्वसुतेन यत् ।
राजपुत्रेण शस्त्रास्त्रैस्तत्रातिशयितः पिता ।२८।
ततोऽन्तरिक्षादागत्य परिव्राट् सहसा मुनिः ।
प्रत्युवाच महीपालं विरमस्वेति संयुगात् ।२९।
त्वत्पुत्रस्य महाभाग विधर्मोऽयं महात्मनः ।
तवापि वैश्येन सह न युद्धं धर्मवन्नृप ।110.३०।
ब्राह्मण्या ब्राह्मणः पूर्वं कुर्वन्दारपरिग्रहम् ।
ब्राह्मण्यात्सर्ववर्णेषु न हानिमुपगच्छति ।३१।
तथैव क्षत्रियसुतां क्षत्रियः पूर्वमुद्वहन् ।
इतरे च ततो राजंश्च्यवते न स्वधर्मतः ।३२।
पूर्वं वैश्यस्तथा वैश्यां पश्चाच्छूद्रकुलोद्भवाम् ।
न हीयते वैश्यकुलादयं न्यायः क्रमोदितः ।३३।
ब्राह्मणः क्षत्रिया वैश्याः सवर्णापाणिसंग्रहम् ।
अकृत्वाऽन्यभवापाणेः पतन्ति नृप संग्रहात् । । ३४
यस्या यस्या हि हीनाया कुरुते पाणिसंग्रहम् ।
अकृत्वा वर्णसयोगं सोऽपि तद्वर्णभाग्भवेत् ।३५।
__________________
सोऽयं वैश्यत्वमापन्नस्तव पुत्रः सुमन्दधीः ।
नास्याधिकारो युद्धाय क्षत्रियेण त्वया सह ।३६।
वयमेतन्न जानीमः कारणं नृपनन्दन ।
यथा भविष्यतीदं च निवर्त्त रणकर्मतः ।३७।
इति श्रीमार्कण्डेयपुराणे वंशानुचरिते नाभागाख्यानं नाम दशाधिकशततमोऽध्यायः । ११०।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें