श्लोकःश्रीमद्भगवद्गीता-
सञ्जय उवाच. तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥ १ ॥
पदच्छेदः
तम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥
अन्वयः
मधुसूदनः तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं तम् इदं वाक्यम् उवाच ।
शब्दार्थः
अन्वयः | विवरणम् | संस्कृत में अर्थ |
मधुसूदनः | अ.पुं.प्र.एक. | श्रीकृष्णः |
तथा | अव्ययम् | तेन प्रकारेण |
कृपया | आ.स्त्री.तृ.एक. | दयया |
आविष्टम् | अ.नपुं.द्वि.एक. | आक्रान्तम् |
अश्रुपूर्णाकुल ईक्षणम् | अ.नपुं.द्वि.एक. | बाष्पपूर्णनेत्रम् |
विषीदन्तम् | विषीदत्-त.पुं.द्वि.एक. | दुःखितम् |
तम् | तद्-द.सर्व.पुं.द्वि.एक. | तम् (अर्जुनम् ) |
इदम् | इदम्-म.सर्व.नपुं.द्वि.एक. | एतत् |
वाक्यम् | अ.नपुं.द्वि.एक. | वचनम् |
उवाच | √वच् परिभाषणे-पर.कर्मणि, लिट्.प्रपु.एक. | अवदत् । |
व्याकरणम्-
सन्धिः-
- कृपयाविष्टम् = कृपया + आविष्टम् - सवर्णदीर्घसन्धिः
समासः
- अश्रुपूर्णाकुलेक्षणम् = अश्रुभिः पूर्णे अश्रुपूर्णे – तृतीयातत्पुरुषः ।
- अश्रुपूर्णे च आकुले च = अश्रुपूर्णाकुले – कर्मधारयः ।
कृदन्तः
- विषीदन्तम् = वि + सद् + शतृ (कर्तरि) तम् ।
- आविष्टम् = आ + विश् + क्त (कर्तरि) तम् ।
- मधुसूदनः = मधुं (तन्नामकं) दैत्यं सूदयति इति मधुसूदनः ।
- मधु + सूद् + णिच् (स्वार्थे) + ल्यु (अन)
अर्थः
भगवान् श्रीकृष्णः अर्जुनस्य शोचनीयाम् अवस्थां दृष्टवान् । ततः दयया आक्रान्तं शोकं च अनुभवन्तं तं सः एवम् उक्तवान् ।
भावार्थः-
'तं तथा कृपयाविष्टम्' – अर्जुनः रथे सारथित्वेन स्थितं श्रीकृष्णम् आज्ञापयति यत्, "हे अच्युत ! रथं मे उभयोः सेनयोः मध्ये स्थापय, येनाहं विरोधपक्षस्य के योद्धारः मया सह योत्स्यन्ति इति द्रष्टुं शक्नोमि" इति । अर्थात् मत्सदृशेन शूरवीरेण सह के योद्धुं साहसं कुर्वन्तः सन्ति ? स्वकालं (मां) सम्मुखं दृष्ट्वापि के योद्धुं तत्पराः सन्ति ? एतादृशेन उत्साहेन परिपूर्णः अर्जुनः स्वपरिवारस्य जनानां मृत्योः आशङ्कायां मोहग्रसितः अभवत् । मोहग्रसितस्य शोकातुरस्य तस्य शरीरं दुर्बलम् अभवत्, तस्य मुखं शुष्कं जातं, शरीरे कम्पनम् उद्भूतं, हस्तात् धनुः अस्रंसत च । अत्र "न दैन्यं न पलायनम्" इति स्वभावयुक्तः अर्जुनः कापुरुषत्वं प्रदर्श्य व्याकुलतया सह रथस्य पृष्ठभागे अवस्थितः इति आश्चर्यभावः सञ्जयेन बहुधा रक्षितः ।
पूर्वमपि अर्जुनस्य भावान् प्रत्यक्षीकुर्वन् सञ्जयः अर्जुनस्य कृते "कृपया परयाविष्ट" इत्यस्य पदस्य उपयोगम् अकरोत् । अत्र "अश्रूपूर्णकुलेक्षणम्" इत्यनेन पदेन महतः शूरवीरस्य अर्जुनस्य मनसि अपि कौटुम्बिकः मोहः समुद्भूतः इति प्रदर्शितम् । सः मोहः अपि सामान्यः न । तेन मोहेन ग्रस्तस्य तस्य शूरवीरस्य नेत्रयोः अश्रूणि निर्गतानि । अश्रूपूर्णनेत्राभ्यां सः किमपि स्पष्टतया द्रष्टुम् असमर्थः अभवत् ।
"विषीदन्तमिदं वाक्यमुवाच मधुसूदनः" – एवं कापुरुषतायाः कारणेन शोकमग्नम् अर्जुनं मधुसूदनः एतादृशानि वचनानि अकथयत् । अत्र "विषीदन्तमुवाच" इत्युक्ते एव "इदं वाक्यम्" इत्यस्यार्थः अन्तर्भवति । यतः "उवाच" इत्यनेन क्रियापदेन एव "वाक्यम्" इत्यस्य अवबोधः जायते एव । तर्हि अत्र "वाक्यम्" इत्यस्य पदस्य भिन्नतया उपयोगस्य किं प्रयोजनम् ? अस्य प्रश्नस्य उत्तरमस्ति यत्, भगवतः वचनानि अद्भुतानि सन्ति । अर्जुनस्य मनसि धर्मस्य आवरणं धृत्वैव कर्तव्यत्यागरूपी दोषः समुद्भूतः अस्ति । तस्मिन् दोषे भगवतः एतानि वचनानि साक्षादाघातं करिष्यन्ति । भगवतः वचनानि अर्जुनस्य मनसि स्वदोषस्य अनुभूतिं कारयित्वा स्वकल्याणस्य जिज्ञासाम् उद्भावयिष्यन्ति । भगवतः गभीरवचनानि श्रुत्वैव अग्रे अर्जुनः शिष्यत्वेन श्रीकृष्णस्य सान्निध्यं स्वीकरोति ।
सञ्जयः अस्मिन् श्लोके श्रीकृष्णस्य कृते "मधुसूदनः" इति पदम् उपायुङ्क्त । तस्य तात्पर्यम् अस्ति यत्, भगवान् श्रीकृष्णः "मधु"-आख्यस्य राक्षसस्य हन्ता अस्ति । अर्थात् दुष्टस्वभावयुक्तानां संहारकः अस्ति । अतः सः दुष्टस्वभावयुक्तानां दुर्योधनादीनां नाशं कारयिष्यति एव इति ततात्पर्यम् ।
_________________________________
।श्रीभगवानुवाच |
(कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2||)
परमात्मा ने कहा: तुझको कहाँ से यह मूर्च्छा विषम परिस्थितियों में उत्पन्न हुई है।
यह अनार्य (जो वीर न हो) उसके अनुकूल है। यह न स्वर्ग को देने वाला और नहीं यश को देने वाला।
शब्द का अर्थ:-
श्रीभगवानुवाच - परमात्मा ने कहा
कुतः - कहां से
त्वां - आप को
कश्मल -पाप ।
इदं - यह
विषमे - विषम स्थति में।
समुपस्थितम् -। उपस्थित हुए को।
अनार्य - ।कायर अनाड़ी जो युद्ध से भागे।
जुष्टम - । अवशिष्ट
अस्वर्ग्यम - जो उच्च निवास स्थान स्वर्ग को नहीं देता है
अकीर्तिकरम -! अपयश करने वाले को।
अर्जुन - हे अर्जुन !
|
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें