मंगलवार, 1 अक्तूबर 2019

ब्रह्म वैवर्तपुराण

ब्रह्मणो बाहुदेशाच्चैवान्याः क्षत्रियजातयः ।। १५ ।। ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ।। 

 तासां सङ्करजातेन बभूवुर्वर्णसङ्कराः ।। १६ ।। गोपनापितभिल्लाश्च तथा मोदककूबरौ ।। 

 ताम्बूलिस्वर्णकारौ च वणिग्जातय एव च ।। १७ ।। इत्येवमाद्या विप्रेन्द्र सच्छूद्राः परिकीर्त्तिताः ।। 

 शूद्राविशोस्तु करणोऽम्बष्ठो वैश्यद्विजन्मनोः ।। १८ ।। विश्वकर्मा च शूद्रायां वीर्य्याधानं चकार सः ।। 

 ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ।। १९ ।। मालाकारः शङ्खकारः कर्मकारः कुविन्दकः ।।

 कुम्भकारः कांस्यकारः षडेते शिल्पिनां वराः ।। 

1.10.२० ।। सूत्रकारश्चित्रकारः स्वर्णकारस्तथैव च ।। पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः ।। ।।२१।। शौनक उवाच ।। 

 कथं देवो विश्वकर्मा वीर्य्याधानं चकार सः ।। शूद्रायामधमायां च कथं ते पतितास्त्रयः ।। २२ ।।

 कथं तेषु ब्रह्मशापो ह्यभवत्केन हेतुना ।। 
 हे पुराणविदां श्रेष्ठ तन्नः शंसितुमर्हसि ।। २३ ।। सौतिरुवाच ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें