रविवार, 6 मार्च 2022

गायत्री कथा स्कन्द पुराण-

स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४
< स्कन्दपुराणम्‎ | खण्डः ४ (काशीखण्डः)
             ।।स्कंद उवाच।।
शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः ।।
दानवानां वधार्थाय भुवोभारापनुत्तये ।। १ ।।

आविरासीत्स्वयं कृष्णः कृष्णवर्त्मप्रतापवान् ।।
वासुदेवो जगद्धाम देवक्या वसुदेवतः।।२।।

साशीतिलक्षं तस्यासन्कुमारा अर्कवर्चसः ।
स्वर्गे पितादृशा बालाः सुशीला न हि कुंभज।३।

अतीवरूपसंपन्ना अतीव सुमहाबलाः।
अतीव शस्त्रशास्त्रज्ञा अतीव शुभलक्षणाः ।४ ।

तांद्रष्टुं मानसः पुत्रो ब्रह्मणस्तपसांनिधिः।
कृतवल्कलकौपीनो धृत कृष्णाजिनांबरः।५।

गृहीतब्रह्मदंडश्च त्रिवृन्मौंजी सुमेखलः।
उरस्थलस्थ तुलसी मालया समलंकृतः ।६ ।

गोपीचंदननिर्यास लसदंगविलेपनः ।।
तपसा कृशसर्वांगो मूर्तो ज्वलनवज्ज्वलन् ।।७।।

आजगामांबरचरो नारदो द्वारकापुरीम् ।
विश्वकर्मविनिर्माणां जितस्वर्गपुरीश्रियम् ।८।।

तंदृष्ट्वा नारदं सर्वे विनम्रतरकंधराः ।
प्रबद्ध मूर्धांजलयः प्रणेमुर्वृष्णिनंदनाः ।९ ।

सांबः स्वरूपसौंदर्य गर्वसर्वस्वमोहितः ।।
न ननाम मुनिं तत्र हसंस्तद्रूपसंपदम् ।। 4.1.48.१० ।।

सांबस्य तमभिप्रायं विज्ञाय स महामुनिः ।।
विवेश सुमहारम्यं नारदः कृष्णमंदिरम् ।। ११ ।।

कृष्णोथ दृष्ट्वाऽऽगच्छंतं प्रत्युद्गम्य च नारदम् ।।
मधुपर्केण संपूज्य स्वासने चोपवेशयत् ।। १२ ।।

कृत्वा कथा विचित्रार्थास्तत एकांतवर्तिनः ।।
कृष्णस्य कर्णेऽकथयन्नारदः सांबचेष्टितम् ।१३ ।।

अवश्यं किंचिदत्राऽस्ति यशोदानंदवर्धन ।।
प्रायशस्तन्न घटतेऽसंभाव्यं नाथ वास्त्रियाम् ।१४।

यूनां त्रिभुवनस्थानां सांबोऽतीव सुरूपवान् ।।
स्वभावचंचलाक्षीणां चेतोवृत्तिः सुचंचला ।१५।

अपेक्षंते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम् ।।
रूपमेव समीक्षंते विषमेषु विमोहिताः ।।१६।।

अथवा विदितं नो ते वल्लवीनां विचेष्टितम् ।।
विनाष्टौनायिकाः कृष्ण कामयंतेऽबलाह्यमुम् ।४३।

वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः ।।
विज्ञाताऽऽखिलवृत्तांतस्तथ्यं कृष्णोप्यमन्यत ।१८।

तावद्धैर्यंचलाक्षीणां तावच्चेतोविवेकिता ।।
यावन्नार्थी विविक्तस्थो विविक्तेर्थिनि नान्यथा । १९।

इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् ।।
विवेकसेतुनाऽऽस्तभ्य नारदं प्राहिणोत्सुधीः ।।4.1.48.२०।।

सांबस्य वैकृतं किंचित्क्वचित्कृष्णोनवैक्ष।
गते देवमुनौ तस्मिन्वीक्षमाणोप्यहर्निशम् ।।२१।।

कियत्यपि गते काले पुनरप्याययौ मुनिः ।।
मध्ये लीलावतीनां च ज्ञात्वा कृष्णमवस्थितम् ।। २२ ।।

बहिः क्रीडंतमाहूय सांबमित्याह नारदः ।।
याहि कृष्णांतिकं तूर्णं कथयागमनं मम ।।२३ ।।

सांबोपि यामि नोयामि क्षणमित्थमचिंतयत् ।।
कथं रहःस्थ पितरं यामि स्त्रैणसखंप्रति ।। २४ ।।

न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः।
ज्वलदंगारसंकाश स्फुरत्सर्वांगतेजसः ।। २५।।

प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा ।।
इदानीमपि नो यायामस्य वाक्यान्महामुनेः ।२६ ।।

अत्याहितं तदस्तीह तदागोद्वयदर्शनात् ।।
पितुः कोपोपि सुश्लाघ्यो मयि नो ब्राह्मणस्य तु ।। २७।।

ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहंति न जातुचित् ।।
अपराग्निविनिर्दग्धारो हंते दावदग्धवत् ।। २८।।

इति ध्यात्वा क्षणं सांबोऽविशदंतःपुरंपितुः ।।
मध्ये स्त्रैणसभंकृष्णं यावज्जांबवतीसुतः।२९।।

दूरात्प्रणम्य विज्ञप्तिं स चकार सशंकितः ।।
तावत्तमन्वगच्छच्च नारदः कार्यसिद्धये ।। 4.1.48.३० 

ससंभ्रमोथ कृष्णोपि दृष्ट्वा सांबं च नारदम् ।।
समुत्तस्थौ परिदधत्पीतकौशेयमंबरम् ।। ३१ ।।

_________________________________
उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः ।।
विलज्जिताः समुत्तस्धुर्गृह्णंत्यः स्वंस्वमंबरम् ३२ 
महार्हशयनीये तं हस्ते धृत्वा महामुनिम् ।।
समुपावेशयत्कृष्णः सांबश्च क्रीडितुं ययौ ।। ३३ ।।

तासां स्खलितमालोक्य तिष्ठंतीनां पुरो मुनिः ।।
कृष्णलीलाद्रवीभूतवरांगानां जगौ हरिम् ।। ३४ ।।

पश्यपश्य महाबुद्धे दृष्ट्वा जांबवतीसुतम् ।।
इमाः स्खलितमापन्नास्तद्रूपक्षुब्धचेतसः ।। ३५ ।।

कृष्णोपि सांबमाहूय सहसैवाशपत्सुतम् ।।
सर्वा जांबवतीतुल्याः पश्यंतमपि दुर्विधेः ।३६ ।।

यस्मात्त्वद्रूपमालोक्य गोपाल्यः स्खलिता इमाः।
तस्मात्कुष्ठी भव क्षिप्रमकांडागमनेन च।३७।

वेपमानो महाव्याधिभयात्सांबोपि दारुणात् ।।
कृष्णं प्रसादयामास बहुशः पापशांतये।। ३८।

कृष्णोप्यनेन संजानन्सांबं स्वसुतमौरसम् ।।
अब्रवीत्कुष्ठमोक्षाय व्रज वैश्वेश्वरीं पुरीम् ।। ३९ ।।

तत्र ब्रध्नं समाराध्य प्रकृतिं स्वामवाप्स्यसि ।।
महैनसां क्षयो यत्र नास्ति वाराणसीं विना ।। 4.1.48.४० ।।

यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गापगा च सा ।।
येषां महैनसां दृष्टा मुनिभिर्नैव निष्कृतिः ।।
तेषां विशुद्धिरस्त्येव प्राप्य वाराणसीं पुरीम् ।। ४१ 

न केवलं हि पापेभ्यो वाराणस्यां विमुच्यते ।।
प्राकृतेभ्योपि पापेभ्यो मुच्यते शंकराज्ञया ।। ४२।

पुरा पुरारिणा सृष्टमविमुक्तं विमुक्तये ।।
सर्वेषामेव जंतूनां कृपयांते तनुत्यजाम् ।। ४३ ।।

तत्रानंदवने शंभोस्तवशाप निराकृतिः ।
सांब तत्त्वेरितं याहि नान्यथा शापनिर्वृतिः ।४४।

ततः कृष्णं समापृच्छ्य कर्मनिर्मुक्तचेष्टितः ।।
नारदः कृतकृत्यः सन्ययावाकाशवर्त्मना ।। ४५ ।।

सांबो वाराणसीं प्राप्य समाराध्यांशुमालिनम् ।।
कुंडं तत्पृष्ठतः कृत्वा निजां प्रकृतिमाप्तवान् ।।४६।

सांबादित्यस्तदारभ्य सर्वव्याधिहरो रविः ।।
ददाति सर्वभक्तेभ्योऽनामयाः सर्वसंपदः ।। ४७ ।।

सांबकुंडे नरः स्नात्वा रविवारेऽरुणोदये।।
सांबादित्यं च संपूज्य व्याधिभिर्नाभिभूयते ।४८।

न स्त्री वैधव्यमाप्नोति सांबादित्यस्य सेवनात् ।।
वंध्या पुत्रं प्रसूयेत शुद्धरूपसमन्वितम् ।। ४९।

शुक्लायां द्विज सप्तम्यां माघे मासि रवेर्दिने ।।
महापर्व समाख्यातं रविपर्व समं शुभम् ।। 4.1.48.५०।

महारोगात्प्रमुच्येत तत्र स्नात्वारुणोदये ।।
सांबादित्यं प्रपूज्यापि धर्ममक्षयमाप्नुयात् ।। ५१।

सन्निहत्यां कुरुक्षेत्रे यत्पुण्यं राहुदर्शने ।।
तत्पुण्यं रविसप्तम्यां माघे काश्यां न संशयः।५२।

मधौमासि रवेर्वारे यात्रा सांवत्सरी भवेत् ।।
अशोकैस्तत्र संपूज्य कुंडे स्नात्वा विधानतः ।५३।

सांबादित्यं नरो जातु न शोकैरभिभूयते ।।
संवत्सरकृतात्पापाद्बहिर्भवति तत्क्षणात् ।। ५४ ।।

विश्वेशात्पश्चिमाशायां सांबेनात्र महात्मना ।।
सम्यगाराधिता मूर्तिरादित्यस्य शुभप्रदा ।। ५५ ।।

इयं भविष्या तन्मूर्तिरगस्ते त्वत्पुरोऽकथि ।।
तामभ्यर्च्य नमस्कृत्य कृत्वाष्टौ च प्रदक्षिणाः।
नरो भवति निष्पापः काशीवास फलं लभेत् ।। ५६।

सांबादित्यस्य माहात्म्यं कथितं ते महामते ।।
यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ।५७ ।।

इदानीं द्रौपदादित्यं कथयिष्यामि तेनघ ।।
तथा द्रौपदआदित्यः संसेव्यो भक्तसिद्धिदः।५८ ।।

 ______
 इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सांबादित्यमाहात्म्यकथनं नामाष्टचत्वारिंशोध्यायः ।।४८।
__________________________
स्कन्दपुराणम् -खण्डः ७ (प्रभासखण्डः)-प्रभासक्षेत्र माहात्म्य अध्याय- १६५
< स्कन्दपुराणम्‎ | खण्डः ७ (प्रभासखण्डः)‎ | प्रभासक्षेत्र माहात्म्यम्
              ॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि सावित्रीं लोकमातरम् ॥
महा पापप्रशमनीं सोमेशादीशदिक्स्थिताम् ॥ १॥

संयतात्मा नरः पश्येत्तत्र तां नियतात्मवान् ॥ २ ॥

ब्रह्मणा यष्टुकामेन सावित्री सहधर्मिणी ॥
कृता तां बलतो ज्ञात्वा गायत्रीं कोपमाविशत् ॥३ ।

ततः संत्यज्य सा देवी ब्रह्माणं कमलोद्भवम् ॥
सपत्नीरोषसन्तप्ता प्रभासं क्षेत्रमाश्रिता ॥ ४ ॥

तपः करोति विपुलं देवैरपि सुदुःसहम् ॥
तत्र स्थले स्थिता देवी साऽद्यापि प्रियदर्शना ॥ ५।

  ॥ श्रीदेव्युवाच ॥ ॥
किमर्थं सा परित्यक्ता सावित्री ब्रह्मणा पुरा ॥
गायत्री च कथं प्राप्ता केन चास्य निवेदिता ॥ ६ ॥

कीदृशीं तां च गायत्रीं लब्धवान्पद्मसंभवः ॥
यस्तां पत्नीं समुत्सृज्य तस्यामेव मनो दधौ ॥ ७ ॥

कस्य सा दुहिता देव किमर्थं च विवाहिता ॥
एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥ ८ ॥

॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि सावित्र्याश्चरितं महत् ॥
यथा सा ब्रह्मणा त्यक्ता गायत्री च विवाहिता ॥ ९ ॥

पुरा बुद्धिः समुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ॥
इति वेदा मया प्रोक्ता यज्ञार्थं नात्र संशयः ॥ 7.1.165.१०।

यज्ञैः संतर्पिता देवा वृष्टिं दास्यंति भूतले ॥
ततश्चौषधयः सर्वा भविष्यंति धरातले ॥ ११ ॥

तस्मात्संजायते शुक्रं शुक्रात्सृष्टिः प्रवर्तते ॥
सृष्ट्यर्थं सर्वलोकानां ततो यज्ञं करोम्यहम् ॥ १२ ॥

दृष्ट्वा मां यज्ञ आसक्तं ये च विप्रा धरातले ॥
ते यज्ञान्प्रचरिष्यंति शतशोऽथ सहस्रशः ॥ १३। 

एवं स निश्चयं कृत्वा यज्ञार्थं सुरसुंदरि ॥
तीर्थं निवेशयामास पुष्करं नाम नामतः ॥ १४ ॥

यज्ञवाटो महांस्तत्र आसीत्तस्य महात्मनः ॥
तत्र देवर्षयः सर्वे देवाः सेन्द्रपुरोगमाः ॥ १५ ॥

समायाता महादेवि यज्ञे पैतामहे तदा ॥
पुण्यास्तेऽपि द्विजश्रेष्ठास्तत्रर्त्विजः प्रजज्ञिरे ॥ १६ ॥

सावित्री लोकजननी पत्नी तस्य महात्मनः ॥
गृहकार्ये समासक्ता दीक्षा कालव्यतिक्रमात् ॥
अध्वर्युणा समाहूता सावित्री वाक्यमब्रवीत् ।१७ ।

        ॥ सावित्र्युवाच ॥
अद्यापि न कृतो वेषो न गृहे गृहमण्डनम् ॥
लक्ष्मीर्नाद्यापि संप्राप्ता न भवानी न जाह्नवी ॥१८।

न स्वाहा न स्वधा चैव तथा चैवाप्यरुंधती ॥
इन्द्राणी देवपत्न्योऽन्याः कथमेकाकिनी व्रजे ॥१९।

उक्तः पितामहो गत्वा पुलस्त्येन महात्मना ॥
सावित्री देव नायाति प्रसक्ता गृहकर्मणि ॥ 7.1.165.२० ॥

त्वत्पत्नी किमिदं कर्म फलेन संप्रवर्तते ॥
तच्छ्रुत्वा दीक्षितो वाचं शिखी मुंडी मृगाजिनी ॥ २१ ॥

पत्नीकोपेन संतप्तः प्राह देवं पुरंदरम् ॥ २२ ॥

गच्छ मद्वचनाच्छक्र पत्नीमन्यां कुतश्चन ॥
गृहीत्वा शीघ्रमागच्छ न स्यात्कालात्ययो यथा ।२३।

जगाम बलहा तूर्णं वचनात्परमेष्ठिनः ॥
अपश्यमानः कांचित्स्त्रीं या योग्या हंसवाहने ॥ २४ ॥

अथ शापाद्बिभीतेन सहस्राक्षेण धीमता ॥
दृष्टा गोपालकन्यैका रूपयौवनशालिनी ॥ २५ ॥

बिभ्रती तत्र पूर्णं सा कुम्भं कन्येत्यचोदयत् ॥
तां गृहीत्वा ततः शक्रः समायाद्यत्र दीक्षितः ॥
 देवदेवश्चतुर्वक्त्रो विष्णुरुद्रसमन्वितः ।२६ ॥

संप्रदानं तु कृतवान्कन्याया मधुसूदनः ॥२७॥

प्रेरितः शंकरेणैव ब्रह्मा देवर्षिभिस्तथा॥
परिणीयतां ततो दीक्षां तस्याश्चक्रे यथात्मनः ॥२८।

ततः प्रवर्तितो यज्ञः सर्वकामसमन्वितः ॥२९॥

अत्रिर्होतार्चिकस्तत्र पुलस्त्योऽध्वर्युरेव च॥
उद्गाताऽथो मरीचिश्च ब्रह्माहं सुरपुंगवः॥7.1.165.३०॥

सनत्कुमारप्रमुखाः सदस्यास्तस्य निर्मिताः॥
वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः ॥ ३१ ॥

भूषिता भूषणोपेता एकैकस्य पृथक्पृथक् ॥
त्रयस्त्रयः पृष्ठतोऽन्ये ते चैवं षोडशर्त्विजः ॥३२॥

प्रोक्ता भवद्भि र्यज्ञेऽस्मिन्ननुगृह्योऽस्मि सर्वदा ॥
पत्नी ममेयं गायत्री यज्ञेऽस्मिन्ननुगृह्यताम् ॥३३।

मृदुवस्त्रधरां साक्षात्क्षौमवस्त्रावगुण्ठिताम् ॥
निष्क्रम्य पत्नीशालात ऋत्विग्भिर्वेदपारगैः ।३४ ॥

औदुम्बरेण दण्डेन संवृतो मृगचर्मणा ॥
तया सार्धं प्रविष्टश्च ब्रह्मा तं यज्ञमण्डपम् ॥३५॥

॥ ईश्वर उवाच ॥ 
एतस्मिन्नेव काले तु संप्राप्ता देवयोषितः ॥
संप्राप्ता यत्र सावित्री यज्ञे तस्मिन्निमंत्रिताः ॥ ३६ ॥

भृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी ॥
आमन्त्रिता सा लक्ष्मीश्च तत्रायाता त्वरान्विता ।३७।

तत्र देवी महाभागा योगनिद्रादिभूषिता ॥
देवी कांतिस्तथा श्रद्धा द्युतिस्तुष्टिस्तथैव च ॥३८॥

सती या दक्षतनया उमा या पार्वती शुभा ॥
त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायका ॥३९॥

जया च विजया चैव गौरी चैव महाधना ॥
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया ॥ 7.1.165.४०॥

देवकन्यास्तथाऽऽयाता दानव्यो दनुवंशजाः ॥
सप्तर्षीणां तथा पत्न्य ऋषीणां च तथैव च ॥४१॥

प्लवा मित्रा दुहितरो विद्याधरगणास्तथा ॥
पितरो रक्षसां कन्यास्तथाऽन्या लोकमातरः ॥ ४२।

वधूभिश्चैव मुख्याभिः सावित्री गन्तुमिच्छति ॥
अदित्याद्यास्तथा देव्यो दक्षकन्याः समागताः ॥ ४३ ।

ताभिः परिवृता सार्धं ब्रह्माणी कमलालया ॥
काश्चिन्मोदकमादाय काश्चित्पूपं वरानने ॥ ४४ ॥

फलानि तु समादाय प्रयाता ब्रह्मणोऽन्तिकम् ॥
आढकीश्चैव निष्पावान्राजमाषांस्तथाऽपराः ॥ ४५।

दाडिमानि विचित्राणि मातुलिंगानि शोभने॥
करीराणि तथा चान्या गृहीत्वा करमर्दकान्॥४६॥

कौसुंभं जीरकं चैव खर्जूरं चापरास्तथा॥
उततीश्चापरा गृह्य नालिकेराणि चापराः॥४७॥

द्राक्षया पूरितं चाम्रं शृङ्गाराय यथा पुरा॥
कर्बुराणि विचित्राणि जंबूकानि शुभानि च॥४८॥

अक्षोडामलकान्गृह्य जंबीराणि तथा पराः ॥
बिल्वानि परिपक्वानि चिर्भटानि वरानने ॥ ४९ ॥

अन्नपानाधिकाराणि बहूनि विविधानि च ॥
शर्करापुत्तलीं चान्या वस्त्रे कौसुम्भके तथा ॥ 7.1.165.५० ॥

एवमादीनि चान्यानि गृह्य पूर्वे वरानने ॥
सावित्र्या सहिताः सर्वाः संप्राप्तास्तु तदा शुभाः ॥ ५१ ॥

सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरंदरः ॥
अधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति ।५२।

त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः ॥
सभासदस्तथा भीतास्तथैवान्ये दिवौकसः ॥ ५३ ॥

पुत्रपौत्रा भागिनेया मातुला भ्रातरस्तथा ॥
ऋतवो नाम ये देवा देवानामपि देवताः ॥ ५४ ॥

विलक्षास्तु तथा सर्वे सावित्री किं वदिष्यति ॥
ब्रह्मवाक्यानि वाच्यानि किं नु वै गोपकन्यया ।५५।

मौनीभूतास्तु शृण्वानाः सर्वेषां वदतां गिरः ॥
अध्वर्युणा समाहूता नागता वरवर्णिनी ॥ ५६ ॥

शक्रेणान्या तथाऽऽनीता दत्ता सा विष्णुना स्वयम् ॥
अनुमोदिता च रुद्रेण पित्रा दत्ता स्वयं तथा ॥ ५७ ॥

कथं सा भविता यज्ञः समाप्तिं वा कथं व्रजेत् ॥
एवं चिन्तयतां तेषां प्रविष्टा कमलालया ॥ ५८ ॥

वृतो ब्रह्मा भार्यया स ऋत्विग्भिर्वेदपारगैः ॥
हूयन्ते चाग्नयस्तत्र ब्राह्मणैर्वेदपारगैः ॥ ५९ ॥

पत्नीशाले तथा गोपी रौप्यशृंगा समेखला ॥
क्षौमवस्त्रपरीधाना ध्यायन्ती परमेश्वरम् ॥ 7.1.165.६० ॥

पतिव्रता पतिप्राणा प्राधान्येन निवेशिता ॥
कृपान्विता विशालाक्षी तेजसा भास्करोपमा ।६१।

द्योतयंती सदस्तत्र सूर्यस्येव यथा प्रभा ॥
ज्वलमानस्तथा वह्निर्भ्रमंते चर्त्विजस्तथा ॥ ६२ ॥

पशूनामवदानानि गृह्णंति द्विजसत्तमाः ॥
प्राप्ता भागार्थिनो देवा विलंबसमयोऽभवत् ।६३॥

कालहीनं न कर्तव्यं कृतं न फलदं भवेत् ॥
वेदेष्वयमधीकारो दृष्टः सर्वो मनीषिभिः ॥ ६४ ॥

प्रवर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः ॥
क्षीरद्वये हूयमाने मंत्रेणाध्वर्युणा तथा ।६५ ॥

उपहूतोपहूतेन आगतेषु द्विजन्मसु ॥
क्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी क्रुधान्विता ॥
उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम्। ६६।

किमेवं बुध्यते देव कृतमेतद्विचेष्टितम् ॥
मां परित्यज्य यः कामात्कृतवानसि किल्बिषम् ॥ ६७ ॥

न तुल्या पादरजसा समा साऽधिशिरः कृता ॥ ६८ ॥

यद्वदंति नराः सर्वे संगताः सदसि स्थिताः ॥
आश्चर्यं च प्रभूणां तु कुरुते यं यमिच्छति ॥ ६९ ॥

भवता रूपलोभेन कृतं कर्म विगर्हितम् ॥ 7.1.165.७०।

न पुत्रेषु कृता लज्जा पौत्रेषु च न ते विभो ॥
कामकारकृतं मन्ये ह्येतत्कर्म विगर्हितम् ॥ ७१।

पितामहोऽसि देवानामृषीणां प्रपितामहः।
कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम् ॥ ७२ ॥

लोकमध्ये कृतं हास्यमिह चैव विगर्हितः ॥
यद्येष ते स्थितो भावस्तिष्ठ देव नमोऽस्तु ते ॥७३॥

अहं कथं सखीनां तु दर्शयिष्यामि वै मुखम् ॥
भर्त्रा मे विहिता पत्नी कथमेतदहं वदे ॥ ७४ ॥

          ॥ ब्रह्मोवाच ॥
ऋत्विग्भिरहमाज्ञप्तो दीक्षा कालोऽतिवर्तते ॥
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय ॥ ७५ ॥

शक्रेणैषा समानीता दत्ता चैवाऽथ विष्णुना ॥
गृहीता च मया त्वं हि क्षमस्वैकं मया कृतम् ॥
न चापराध्यं भूयोऽन्यं करिष्ये तव सुव्रते ॥ ७६॥

        ॥ ईश्वर उवाच ॥
एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता॥
यदि मेऽस्ति तपस्तप्तं गुरवो यदि तोषिताः ॥ ७७ ॥

सर्वब्राह्मणशालासु स्थानेषु विविधेष्वपि ॥
न तु ते ब्राह्मणाः पूजां करिष्यंति कदाचन ॥ ७८ ।

ऋते वै कार्तिकीमेकां पूजां सांवत्सरीं तव ॥
करिष्यंति द्विजाः सर्वे सत्येनानेन ते शपे ॥
एतद्बुद्ध्वा न कोपोस्तु हतो हन्ति न संशयः ॥ ७९।

     ॥ सावित्र्युवाच ॥
भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोऽन्तिकम् ॥
यस्मादीदृक्कृतं कर्म तस्मात्त्वं लप्स्यसे फलम् ॥7.1.165.८०॥

यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि ॥
तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम् ॥ ८१ ॥

अकिंचनो नष्टसुतः शत्रूणां नगरे स्थितः॥
पराभवं महत्प्राप्य अचिरादेव मोक्ष्यसे ।८२ ॥

शक्रं शप्त्वा तदा देवी विष्णुं चाऽथ वचोब्रवीत् ॥ ८३ ॥

गुरुवाक्येन ते जन्म यदा मर्त्ये भवि ष्यति ॥
भार्याविरहजं दुःखं तदा त्वं तत्र भोक्ष्यसे ॥ ८४ ॥

हृतां शत्रुगणैः पत्नीं परे पारे महोदधेः ॥
न च त्वं ज्ञायसे सीतां शोकोपहचेतनः ॥ ८५ ॥

भ्रात्रा सह परां काष्ठामापदं दुःखितस्तथा ॥
पशूनां चैव संयोगश्चिरकालं भविष्यति ॥ ८६ ॥

तथाऽऽह रुद्रं कुपिता यदा दारुवने स्थितः ॥
तदा ते मुनयः क्रुद्धाः शापं दास्यंति ते हर ॥ ८७ ॥

भोभोः कापालिक क्षुद्र पत्न्योऽस्माकं जिहीर्षसि ॥
तदेतद्भूषितं लिंग भूमौ रुद्र पतिष्यति ॥ ८८ ॥

विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः ॥
गंगातीरे स्थिता पत्नी सा त्वामाश्वासयिष्यति ॥ ८९।

अग्ने त्वं सर्वभक्षोऽसि पूर्वं पुत्रेण मे कृतः ॥
भ्रूणहा धर्म इत्येष कथं दग्धं दहाम्यहम् ॥ 7.1.165.९०।

जातवेदस रुद्रस्त्वां रेतसा प्लावयिष्यति ॥
मेध्येषु च कृतज्वाला ज्वालया त्वां ज्वलिष्यति ॥ ९१ ॥

ब्राह्मणानृत्विजः सर्वान्सावित्री ह्यशपत्तदा ॥ ९२ ॥

प्रतिग्रहाग्निहोत्राश्च वृथा दारा वृथाश्रमाः ॥
सदा क्षेत्राणि तीर्थानि लोभादेव गमिष्यथ ॥ ९३।

परान्नेषु सदा तृप्ता अतृप्ताः स्वगृहेषु च ॥
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम् ॥९४।

वृथा धनार्जनं कृत्वा व्यवश्चैव तथा वृथा ॥
मृतानां तेन प्रेतत्वं भविष्यति न संशयः ।९५ ॥

एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा ॥
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानशपत्तदा ॥ ९६ ॥

शापं दत्त्वा तथा तेषां तदा सावस्थिता स्थिरा ॥ ९७ ॥

लक्ष्मीः प्राह सखीं तां च इन्द्राणी च वरानना ॥
अन्या देव्यस्तथा प्राहुः साऽऽह स्थास्यामि नात्र वै।
तत्र चाहं गमिष्यामि यत्र श्रोष्ये न तु ध्वनिम् ॥ ९८ ॥

ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वं निकेतनम् ॥
सावित्री कुपिता तासां पुनः शापाय चोद्यता ॥ ९९ ॥

यस्मान्मां संपरित्यज्य गतास्ता देवयोषितः ॥
तासामपि तथा शापं प्रदास्ये कुपिता भृशम् ॥ 7.1.165.१०० ॥

नैकत्र वासो लक्ष्म्यास्तु भविष्यति कदाचन ॥
रुद्रापि चंचला तावन्मूर्खेषु च वसिष्यसि ॥ १०१ ॥

म्लेच्छेषु पर्वतीयेषु कुत्सिते कुष्ठिते तथा ॥
वाचाटे चावलिप्ते च अभिशस्ते दुरात्मनि ॥
एवंविधे नरे तुभ्यं वसतिः शापकारिता ॥ १०२ ॥

शापं दत्त्वा ततस्तस्या इन्द्राणीमशपत्तदा ॥ १०३।

त्वष्टुर्वाचा गृहीतेन्द्रे पत्यौ ते दुष्टकारिणि ॥
नहुषाय गते राज्ये दृष्ट्वा त्वां याचयिष्यति ॥१०४ ॥

अहमिन्द्रः कथं चैषा नोपतिष्ठति चालसा ॥
सर्वान्देवान्हनिष्यामि लप्स्ये नाहं शचीं यदि ॥ १०५ ॥

नष्टा त्वं च तदा शस्ता वने महति दुःखिता ॥
वसिष्यसि दुराचारे शापेन मम गर्विते ॥ १०६॥

देवभार्यासु सर्वासु तदा शापमयच्छत ॥ १०७ ॥

न चापत्यकृता प्रीतिः सर्वास्वेव भविष्यति ॥
दह्यमाना दिवारात्रौ वंध्याशब्देन दुःखिताः ॥१०८॥

गौरीमेवं तथा शप्त्वा सा देवी वरवर्णिनी ॥
उच्चै रुरोद सावित्री भर्तृ यज्ञाद्बहिः स्थिता ॥ १०९ ॥

रोदमाना तु सा दृष्टा विष्णुना च प्रसादिता ॥
मा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदः शुभे ॥ 7.1.165.११० ॥

प्रविष्टा च शुभे यागे मेखलां क्षौमवाससी ॥
गृहाण दीक्षां ब्रह्माणि पादौ ते प्रणमे शुभे ॥ १११ ॥

एवमुक्ताऽब्रवीदेनं नाहं कुर्यां वचस्तव ॥
तत्राहं च गमिष्यामि यत्र श्रोष्ये न च ध्वनिम् ॥११२।

एतावदुक्त्वा व्यरमदुच्चैः स्थाने क्षितौ स्थिता ॥११३।

विष्णुस्तदग्रतः स्थित्वा बद्ध्वा च करसंपुटम् ॥
तुष्टाव प्रणतो भूत्वा भक्त्या परमया युतः ॥ ११४ ॥

    ॥ विष्णुरुवाच ॥
नमोऽस्तु ते महादेवि भूर्भुवःस्वस्त्रयीमयि ॥
सावित्रि दुर्गतरिणि त्वं वाणी सप्तधा स्मृता ॥ ११५ ॥

सर्वाणि स्तुतिशास्त्राणि लक्षणानि तथैव च ॥
भविष्या सर्वशास्त्राणां त्वं तु देवि नमोऽस्तु ते ॥ ११६।

श्वेता त्वं श्वेतरूपासि शशांकेन समानना ॥
शशिरश्मिप्रकाशेन हरिणोरसि राजसे ॥
दिव्यकुंडलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ॥ ११७ ॥

त्वं सिद्धिस्त्वं तथा ऋद्धिः कीर्तिः श्रीः संततिर्मतिः ॥
संध्या रात्रि प्रभातस्त्वं कालरात्रिस्त्वमेव च ॥ ११८ ॥

कर्षुकाणां यथा सीता भूतानां धारिणी तथा ॥
एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता ॥ ११९ ॥

सम्यक्स्तुता त्वया पुत्र अजेयस्त्वं भविष्यसि ॥
अवतारे सदा वत्स पितृमातृसु वल्लभः ॥ 7.1.165.१२० ॥

अनेन स्तवराजेन स्तोष्यते यस्तु मां सदा ॥
सर्वदोषविनिर्मुक्तः परं स्थानं गमिष्यति ॥ १२१ ॥

गच्छ यज्ञं चिरं तस्य समाप्तिं नय पुत्रक ॥ १२२।

कुरुक्षेत्रे प्रयागे च भविष्ये यज्ञकर्मणि ॥
समीपगा स्थिता भर्तुः करिष्ये तव भाषितम् ॥ १२३ ॥

एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तमम् ॥
सावित्री तु समायाता प्रभासे वरवर्णिनि ॥१२४॥

गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत् ॥१२५॥

शृण्वंतु मुनयो वाक्यं मदीयं भर्तृसन्निधौ ॥
यदहं वच्मि संतुष्टा वरदानाय चोद्यता ॥ १२६।

ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः ॥
तेषां वस्त्रं धनं धान्यं दाराः सौख्यं सुताश्च वै ॥ १२७ ॥

अविच्छिन्नं तथा सौख्यं गृहं वै पुत्रपौत्रिकम् ॥
भुक्त्वाऽसौ सुचिरं कालं ततो मोक्षं गमिष्यति ॥१२८॥

शक्राहं ते वरं वच्मि संग्रामे शत्रुभिः सह ॥
तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम् ॥ १२९ ॥

सपुत्रशत्रुनाशात्त्वं लप्स्यसे च परं मुदम् ॥
अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति ॥ 7.1.165.१३० ॥

मर्त्यलोके यदा विष्णो ह्यवतारं करिष्यसि ॥
भ्रात्रा सह परं दुःखं स्वभार्या हरणं च यत् ॥ १३१ ॥

हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ ॥
गृहीत्वा तां पुनः प्राज्यं राज्यं कृत्वा गमिष्यसि ॥ १३२ ॥

एकादश सहस्राणि कृत्वा राज्यं पुनर्दिवम्॥
ख्यातिस्ते विपुला लोके चानुरागो भविष्यति ।१३३।

गायत्री ब्राह्मणांस्तांश्च सर्वानेवाब्रवीदिदम् ॥१३४।

युष्माकं प्रीणनं कृत्वाऽ तृप्तिं यास्यंति देवताः॥
भवंतो भूमिदेवा वै सर्वे पूज्या भविष्यथ ॥ १३५ ॥

युष्माकं पूजनं कृत्वा दत्त्वा दानान्यनेकशः॥
प्राणायामेन चैकेन सर्वमेतत्तरिष्यथ॥१३६॥

प्रभासे तु विशेषेण जप्त्वा मां वेदमातरम्॥
प्रतिग्रहकृतान्दोषान्न प्राप्स्यध्वं द्विजोत्तमाः॥१३७ ॥

पुष्करे चान्नदानेन प्रीताः सर्वे च देवताः ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवतिभोजिता ॥ १३८ ॥

ब्रह्महत्यादिपापानि दुरितानि च यानि च ॥
तरिष्यंति नराः सर्वे दत्ते युष्मत्करे धने ॥ १३९ ॥

महीयध्वे तु जाप्येन प्राणायामैस्त्रिभिः कृतैः ॥
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति ॥ 7.1.165.१४० ॥

दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ॥
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम् ॥ १४१ ॥

एवं ज्ञात्वा सदा पूज्या जाप्ये च मम वै कृते ॥
भविष्यध्वं न सन्देहो नात्र कार्या विचारणा ॥ १४२ ॥

ओंकारेण त्रिमात्रेण सार्धेन च विशेषतः ॥
पूज्याः सर्वे न सन्देहो जप्त्वा मां शिरसा सह ॥ १४३ ॥

अष्टाक्षरस्थिता चाहं जगद्व्याप्तं मया त्विदम् ॥
माताऽहं सर्ववेदानां वेदैः सर्वैरलङ्कता ॥ १४४॥

जत्वा मां परमां सिर्द्धि पश्यन्ति द्विजसत्तमाः ॥
प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति ॥ १४५ ॥

गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः॥
नायंत्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी॥१४६॥

यस्माद्भवतां सावित्र्या शापो दत्तो सदे त्विह॥
अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्॥
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः ॥ १४७ ॥

अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः।
स्वर्गं ते तु गमिष्यंति एकविंशतिभिः कुलैः ॥ १४८ ॥

एवं शक्रे च विष्णौ च रुद्रे वै पावके तथा ॥
ब्रह्मणो ब्रह्मणानां च गायत्री सा वरं ददौ ॥
तस्मिन्काले वरं दत्त्वा ब्रह्मणः पार्श्वगाऽभवत् ॥ १४९ ॥

हरिणा तु समाख्यातं लक्ष्म्याः शापस्य कारणम् ॥
युवतीनां च सर्वासां शापस्तासां पृथक्पृथक् ॥ 7.1.165.१५० ॥

लक्ष्म्यास्तदा वरं प्रादाद्गायत्री ब्रह्मणः प्रिया ॥ १५१ ॥

अकुत्सिताः सदा पुत्रि तव वासेन शोभने ॥
भविष्यति न संदेहः सर्वेभ्यः प्रीतिदायकाः ॥ १५२ ॥

ये त्वया वीक्षिताः सर्वे सर्वे वै पुण्यभाजनाः ॥
तेषां जातिः कुलं शीलं धर्मश्चैव वरानने ॥ १५३ ॥

परित्यक्तास्त्वया ये तु ते नरा दुःखभागिनः ॥
सभायां ते न शोभन्ते मन्यन्ते न च पार्थिवैः ॥ १५४ ॥

आशिषश्चैव तेषां तु कुर्वते वै द्विजोत्तमाः ॥
सौजन्यं तेषु कुर्वन्ति नप्ता भ्राता पिता गुरुः ॥ १५५ ॥

बांधवोऽसि न संदेहो न जीवेऽहं त्वया विना ॥
त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना ॥
मनः प्रसीदतेऽत्यर्थं सत्यंसत्यं वदामि ते ।१५६ ।

एवंविधानि वाक्यानि त्वया दृष्ट्या निरीक्षिते ॥
सज्जनास्ते वदिष्यन्ति जनानां प्रीतिदायकाः ॥ १५७ ॥

इन्द्राणि नहुषः प्राप्य स्वर्गं त्वां याचयिष्यति ॥
अदृष्ट्वा तु हतः पापो अगस्त्यवचनाद्द्रुतम्॥ १५८ ॥

सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं मुनिम् ॥
दर्पेणाहं विनष्टोऽस्मि शरणं मे मुने भव ॥ १५९ ॥

वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः ॥
कृत्वा मनसि कारुण्यमिदं वचनमब्रवीत् ॥ 7.1.165.१६० ॥

उत्पत्स्यति कुले राजा त्वदीये कुरुनंदन ॥
सार्पं कलेवरं दृष्ट्वा प्रश्नैस्त्वामुद्धरिष्यति ॥ १६१ ॥

सोऽप्यजगरतां त्यक्त्वा पुनः स्वर्गं गमिष्यति ॥
अश्वमेधे कृते भर्त्रा सह यासि पुनर्दिवि ॥
प्राप्स्यसे वर दानेन ममानेन सुलोचने ॥ १६२ ॥

देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः ॥
अपत्यैरपि हीनाः स्युर्नैव दुःखं भविष्यति ॥ १६३ ॥

इति दत्त्वा वरान्देवी गायत्री लोकसंमता ॥
जगामादर्शनं देवी सर्वेषां पश्यतां तदा ॥ १६४ ॥

सावित्री तु तदा देवी प्रभासं क्षेत्रमागता ॥
कृतस्मरस्य शृङ्गे तु श्रीसोमेश्वरपूर्वतः ॥ १६५।

मन्वन्तरे चाक्षुषे च द्वितीये द्वापरे शुभे ॥
तत्र यज्ञः समारब्धो ब्रह्मणा लोककारिणा ॥ १६६ ॥

यज्ञे याता महात्मानो देवाः सप्तर्षयो वराः ॥
स्वायंभुवे तु ये शस्ताः शप्तास्ते चाभवन्पुरा ॥ १६७ ॥

तस्मात्कालात्समारभ्य प्रभासं क्षेत्रमाश्रिताः ॥ १६८ ॥

सावित्री लोकजननी लोकानुग्रहकारिणी ॥
यस्तां पूजयते भक्त्या पक्षमेकं निरंतरम् ॥
ब्रह्मपूजाविधानेन तस्य पुत्रो ध्रुवो भवेत् ॥ १६९ ॥

पाण्डुकूपे नरः स्नात्वा दृष्ट्वा लिंगानि पञ्च वै ॥
पाण्डवैः स्थापितानीह दृष्ट्वा यज्ञफलं लभेत् ॥ 7.1.165.१७० ॥

ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलसंनिधौ ॥
पठेद्यो ब्रह्मसूक्तानि मुच्यते सर्वपातकैः ॥ १७१ ॥

एतत्ते सर्वविख्यातमाख्यातं कल्मषापहम् ॥
यश्चेदं शृणुयाद्भक्त्या स गच्छेत्परमं पदम् ॥ १७२।

____________
"इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम पञ्चषष्ट्युतरशततमोऽध्यायः॥ १६५ ॥

_____________________

विष्णुपुराणम् -पञ्चमांशः/अध्यायः ३८
< विष्णुपुराणम्‎ | पञ्चमांशः
श्रीविष्णुपुराणम्-पञ्चमांशः
★श्रीपराशर उवाच★
अर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरे
संस्कारं लंभयामास तथान्येषामनुक्रमात् ।१।

अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः
उपगुह्य हरेर्देहं विविशुस्ता हुताशनम् ।२।

रेवती चापि रामस्य देहमाश्लिष्य सत्तमा
विवेश ज्वलितं वह्निं तत्संगाह्लादशीतलम् ।३।

उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुंदुभिः
देवकी रोहिणी चैव विविशुर्जातवेदसम् ।४।

ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि
निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ।५।

द्वारवत्या विनिष्क्रांताः कृष्णपत्न्यः सहस्रशः
वज्रं जनं च कौंतेयः पालयञ्छनकैर्ययौ ।६।

सभा सुधर्मा कृष्णेन मर्त्यलोके समुज्झिते
स्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ।७।

यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम्
तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ।८।

प्लावयामास तां शून्यां द्वारकां च महोदधिः
वासुदेवगृहं त्वेकं न प्लावयति सागरः ।९।
नातिक्रांतुमलं ब्रह्मंस्तदद्यापि महोदधिः
नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ।१०।

तदतीव महापुण्यं सर्वपातकनाशनम्
विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते ।११।

पार्थः पंचनदे देशो! बहुधान्यधनान्विते
चकार वासं सर्वस्य जनस्य मुनिसत्तमः ।१२।

ततो लोभस्समभवत्पार्थेनैकेन धन्विना
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ।१३।
_______________
ततस्ते पापकमाणो लोभोपहृतचेतसः
आभीरा मंत्रयामासुस्समेत्यात्यंतदुर्मदाः ।१४।

अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम्
नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् ।१५।

हत्वा गर्वसमारूढो भीष्मद्रो णजयद्र थान्
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ।१६।

यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिस्स दुर्मतिः
सर्वानेवावजानाति किं वो बाहुभिरुन्नतैः ।१७।

ततो यष्टिप्रहरणादस्यवो लोष्टधारिणः
सहस्रशोभ्यधावंत तं जनं निहतेश्वरम् ।१८।

ततो निर्भर्त्स्य कौंतेयः प्राहाभीरान्हसन्निव
निवर्त्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः ।१९।

अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम्
स्त्रीधनं चैव मैत्रेय विष्वक्सेन परिग्रहम् ।२०।

ततोर्जुनो धनुर्दिव्यं गांडीवमजरं युधि
आरोपयितुमारेभे न शशाक च वीर्यवान् ।२१।

चकार सज्यं कृच्छ्राच्च तच्चाभूच्छिथिलं पुनः
न सस्मार ततोस्त्राणि चिंतयन्नपि पांडवः ।२२।

शरान्मुमोच चैतेषु पार्थो वैरिष्वमर्षितः
त्वग्भेदं ते परं चक्रुरस्ता गांडीवधन्विना ।२३।

वह्निना येऽक्षया दत्ताश्शरास्तेपि क्षयं ययुः
युद्ध्यतस्सह गोपालैरर्जुनस्य भवक्षये। २४।

अचिंतयच्च कौंतेयः कृष्णस्यैव हि तद्बलम्
यन्मया शरसंघातैस्सकला भूभृतो हताः ।२५।

मिषतः पांडुपुत्रस्य ततस्ताः प्रमदोत्तमाः
आभीरैरपकृष्यंत कामं चान्याः प्रदुद्रु वुः ।२६।

ततश्शरेषु क्षीणेषु धनुष्कोट्या धनंजयः
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने ।२७।

प्रेक्षतस्तस्य पार्थस्य वृष्ण्यंधकवरस्त्रियः
जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम ।२८।

ततस्सुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन्
अहो भगवतानेन मुष्टोस्मीति रुरोद वै ।२९।

तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः
सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ।३०।

अहोतिबलबद्दैवं विना तेन महात्मना
यदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम् ।३१।

तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनः
पुण्येनैव विना तेन गतं सर्वमसारताम् ।३२।

ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम्
विना तेन यदा भीरैर्जितोहं रथिनां वरः ।३३।

श्रीपराशर उवाच
इत्थं वदन्ययौ जिष्णुरिंद्र प्रस्थं पुरोत्तमम्
चकार तत्र राजानं वज्रं यादवनंदनम् ।३४।

स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम्
तमुपेत्य महाभागं विनयेनाभ्यवादयत् ।३५।

तं वंदमानं चरणाववलोक्य मुनिश्चिरम्
उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ।३६।

अवीरजोनुगमनं ब्रह्महत्या कृताथ वा
दृढाशाभंगदुःखीव भ्रष्टच्छायोऽसि सांप्रतम् ।३७।

सांतानिकादयो वाते याचमाना निराकृताः
अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ।३८।

भुङ्तेऽप्रदाय विप्रेभ्यो मृष्टमेकोथ वा भवान्
किं वा कृपणवित्तानि हृतानि भवताऽर्जुन ।३९।

कचिन्नु शूर्पवातस्य गोचरत्वं गतोऽर्जुन
दुष्टचक्षुर्हतो वासि निश्श्रीकः कथमन्यथा ।४०।

स्पृष्टो नखांभसा वाथ घटवचार्युक्षितोपि वा
केन त्वं वासि विच्छायो न्यूनैर्वा युधि निर्जितः ।४१।

श्रीपराशर उवाच
ततः पार्थो विनिश्वस्य श्रूयतां भगवन्निति
प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ।४२।

अर्जुन उवाच
यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः
या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः। ४३।

ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा
हीना वयं मुने तेन जातास्तृणमया इव ।४४।

अस्त्राणां सायकानां च गांडीवस्य तथा मम
सारता याभवन्मूर्त्तिस्स गतः पुरुषोत्तमः ।४५।

यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिः
न तत्याज स गोविंदस्त्यक्त्वास्मान्भगवान्गतः ।४६।

भीष्मद्रो णांगराजाद्यास्तथा दुर्योधनादयः
यत्प्रावेन निर्दग्धास्स कृष्णस्त्यक्तवान्भुवम् ।४७।

निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी
विभाति तात नैकोहं विरहे तस्य चक्रिणः ।४८।

यस्य प्रभावाद्भीष्माद्यैर्मय्यग्नौ शलभायतम्
विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ।४९।
___________________
गांडीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः
गतस्तेन विनाऽऽभीरलगुडैस्स तिरस्कृतः ।५०।
______
स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने
यततो मम नीतानि दस्युभिर्लगुडायुधैः ।५१।
____________
आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम्
हृतं यष्टिप्रहरणैः परिभूय बलं मम ।५२।

निश्श्रीकता न मे चित्रं यज्जीवामि तदद्भुतम्
नीचावमानपंकांकी निर्लज्जोस्मि पितामह ।५३।
 
           ★व्यास उवाच★
अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ।५४।

कालो भवाय भूतानामभवाय च पांडव
कालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ।५५।

नद्यः समुद्रा गिरयस्सकला च वसुंधरा
देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ।५६।

सृष्टाः कालेन कालेन पुनर्यास्यंति संक्षयम्
कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ।५७।

कालस्वरूपी भगवान्कृष्णः कमललोचनः
यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनंजय ।५८।

भारावतारकार्यार्थमवतीर्णस्स मेदिनीम्
भाराक्रांता धरा याता देवानां समितिं पुरा ।५९।

तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनः
तच्च निष्पादिनं कार्यमश्षोआ! भूभुजो हताः। ६०।

वृष्ण्यंधककुलं सर्वं तथा पार्थोपसंहृतम्
न किंचिदन्यत्कर्त्तव्यं तस्य भूमितले प्रभोः ।६१।

अतो गतस्स भगवान्कृतकृत्यो यथेच्छया
सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम्
अंतेंताय समर्थोयं सांप्रतं वै यथा गतः ।६२।

तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवे
भवंति भावाः कालेषु पुरुषाणां यतः स्तुतिः ।६३।

त्वयैकेन हता भीष्मद्रो णकर्णादयो रणे
तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ।६४।

विष्णोस्तस्य प्रभावेन यथा तेषां पराभवः
कृतस्तथैव भवतो दस्युभ्यस्स पराभवः ।६५।

स देवेशश्शरीराणि समाविश्य जगत्स्थितिम्
करोति सर्वभूतानां नाशमंते जगत्पतिः ।६६।

भगोदये ते कौंतेय सहायोऽभूज्जनार्दनः
तथांते तद्विपक्षास्ते केशवेन विनाशिताः ।६७।

कश्श्रद्दद्ध्यात्सगांगेयान्हन्यास्त्वं कौरवानिति
आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ।६८।

पार्थैतत्सर्वभूतस्य हरेर्लीलाविचेष्टितम्
त्वया यत्कौरावा ध्वस्ता यदाभीरैर्भवाञ्जितः ।६९।

गृहीता दस्युभिर्याश्च भवाञ्छोचति तास्स्त्रियः
एतस्याह यथावृत्तं कथयामि तवार्जृन ।७०।

अष्टावकः पुरा विप्रो जलवासरतोऽभवत्
बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ।७१।

जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः
बभूव तत्र गच्छंत्यो ददृशुस्तं सुरस्त्रियः ।७२।

रंभातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पांडव। ७३।

आकंठमग्नं सलिले जटाभारवहं मुनिम्
विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ।७४।

यथायथा प्रसन्नोऽसौ तुष्टुवुस्तं तथातथा
सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम्। ७५।

अष्टावक्र उवाच
प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते
मत्तस्तद्व्रियतां सर्वं प्रदास्याम्यतिदुर्लभम् ।७६।

रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन्
प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज। ७७।

इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि
तदिच्छामः पतिं प्राप्तुं विप्रेंद्र पुरुषोत्तमम् ।७८।

व्यास उवाच
एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः
तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ।७९।

तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत्
ताश्शशाप मुनिः कोपमवाप्य कुरुनंदन ।८०।

यस्माद्विकृतरूपं मां मत्वा हीसावमानना
भवतीभिः कृता तस्मादेतं शापं ददामि वः ।८१।

मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम्
मच्छापोपहतास्सर्वा दस्युहस्तं गमिष्यथ ।८२।

व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः
पुनस्सुरेंद्र लोकं वै प्राह भूयो गमिष्यथ ।८३।

एवं तस्य मुनेश्शापादष्टावक्रस्य चक्रिणम्
भर्त्तारं प्राप्य ता याता दस्युहस्तं सुरांगनाः ।८४।

तत्त्वया नात्र कर्त्तव्यश्शोकोऽल्पोपि हि पांडव
तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ।८५।

भवतां चोपसंहार आसन्नस्तेन पांडव
बलं लेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ।८६।

जातस्य नियतो मृत्युः पतनं च तथोन्नतेः
विप्रयोगावमानस्तु संयोगः संचये क्षयः ।८७।

विज्ञाय न बुधाश्शोकं न हर्षमुपयांति ये
तेषामेवेतरे चेष्टां शिक्षंतस्संति तादृशाः ।८८।

तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिस्सह
परित्यज्याऽखिलं तंत्रं गंतव्यं तपसे वनम् ।८९।

तद्गच्छ धर्मराजाय निवेद्यैतद्वचो मम
परश्वो भ्रातृडभिस्सार्द्धं यथा यासि तथा कुरु ।९०।

इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः
दृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ।९१।

व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम्
राज्ये परीक्षितं कृत्वा ययुः पांडुसुता वनम् ।९२।

इत्येतत्तव मैत्रेय विस्तरेण मयोदितम्
जातस्य यद्यदोर्वंशो! वासुदेवस्य चेष्टितम् ।९३।

यश्चैतच्चरितं तस्य कृष्णस्य शृणुयात्सदा
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।९४।
_________
इति श्रीविष्णुमहापुराणे पंचमांशो!ऽष्टात्रिंशोऽध्यायः ।३८।
_________________

★ गायत्री माता की कथा★

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९३

      ॥ ऋषय ऊचुः॥
एवं गतायां सावित्र्यां सकोपायां च सूतज॥
किं कृतं तत्र गायत्र्या ब्रह्माद्यैश्चापि किं सुरैः॥१॥

एतत्सर्वं समाचक्ष्व परं कौतूहलं हि नः॥
कथं शापान्विता देवाः संस्थितास्तत्र मण्डपे ॥२॥

         ॥सूत उवाच॥
गतायामथ सावित्र्यां शापं दत्त्वा द्विजोत्तमाः॥
गायत्री सहसोत्थाय वाक्यमेतदुदैरयत् ॥३॥

सावित्र्या यद्वचः प्रोक्तं तन्न शक्यं कथंचन।
अन्यथा कर्तुमेवाथ सर्वैरपि सुरासुरैः ॥४॥

महासती महाभागा सावित्री सा पतिव्रता॥
पूज्या च सर्वदेवानां ज्येष्ठा श्रेष्ठा च सद्गणैः॥५॥

परं स्त्रीणां स्वभावोऽयं सर्वासां सुरसत्तमाः॥
अपि सह्यो वज्रपातः सपत्न्या न पुनः कथा॥६॥

मत्कृते येऽत्र शपिता सावित्र्या ब्राह्मणाः सुराः॥
तेषामहं करिष्यामि शक्त्या साधारणां स्वयम्।७।

अपूज्योऽयं विधिः प्रोक्तस्तया मंत्रपुरःसरः॥
सर्वेषामेव वर्णानां विप्रादीनां सुरो त्तमाः॥८॥

ब्रह्मस्थानेषु सर्वेषु समये धरणीतले॥
न ब्रह्मणा विना किंचित्कृत्यं सिद्धिमुपैष्यति॥९।

कृष्णार्चने च यत्पुण्यं यत्पुण्यं लिंगपूजने ॥
तत्फलं कोटिगुणितं सदा वै ब्रह्मदर्शनात् ॥
भविष्यति न सन्देहो विशेषात्सर्वपर्वसु ॥ ६.१९३.१०॥

त्वं च विष्णो तया प्रोक्तो मर्त्यजन्म यदाऽप्स्यसि ॥
तत्रापि परभृत्यत्वं परेषां ते भविष्यति ॥११॥
__________________
तत्कृत्वा रूपद्वितयं तत्र जन्म त्वमाप्स्यसि ॥
यत्तया कथितो वंशो ममायं गोपसंज्ञितः ॥
तत्र त्वं पावनार्थाय चिरं वृद्धिमवाप्स्यसि ॥ १२ ॥

एकः कृष्णाभिधानस्तु द्वितीयोऽर्जुनसंज्ञितः ॥
तस्यात्मनोऽर्जुनाख्यस्य सारथ्यं त्वं करिष्यसि१३।

तेनाकृत्येऽपि रक्तास्ते गोपा यास्यंति श्लाघ्यताम् ॥
सर्वेषामेव लोकानां देवानां च विशेषतः ॥१४॥

यत्रयत्र च वत्स्यंति मद्वं शप्रभवानराः ॥
तत्रतत्र श्रियो वासो वनेऽपि प्रभविष्यति ॥ १५॥

भोभोः शक्र भवानुक्तो यत्तया कोपयुक्तया ॥
पराजयं रिपोः प्राप्य कारा गारे पतिष्यति ॥१६॥

तन्मुक्तिं ते स्वयं ब्रह्मा मद्वाक्येन करिष्यति ॥ १७।

ततः प्रविष्टः संग्रामे न पराजयमाप्स्यसि ॥
त्वं वह्ने सर्वभक्षश्च यत्प्रोक्तो रुष्टया तया ॥ १८॥

तदमेध्यमपि प्रायः स्पृष्टं तेऽर्च्चिर्भिरग्रतः ॥
मेध्यतां यास्यति क्षिप्रं ततः पूजामवाप्त्यसि।१९॥

स्वाहा नाम च भार्या या देवान्सन्तर्पयिष्यति॥
स्वधा चाऽपि पितॄन्सर्वान्मम वाक्यादसंशयम्॥६.१९३.२॥

यद्रुद्र प्रियया सार्धं वियोगः कथितस्तया॥
तस्याः श्रेष्ठ तरा चान्या तव भार्या भविष्यति॥
गौरीनामेति विख्याता हिमाचलसुता शुभा॥२१।
___________________
"इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीवरप्रदानोनाम त्रिनवत्युत्तरशततमोऽध्यायः ॥१९३॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें