गुरुवार, 17 मार्च 2022

उग्रसेनं नरपतिं काश्यं चापि पुरोहितम् ।सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुङ्गवम्। 2.58.८०। हरिवंशपुराण विष्णुपर्व- यादवानां कुलकरान् स्थविरान् दश तत्र वै।मतिमान् स्थापयामास सर्वकार्येष्वनन्तरान् ।८१। उग्रसेन के पुरोहित काश्य- सान्दीपन-

पद्मपुराणम् - प्रथम  (सृष्टिखण्डम्) अध्यायः ४५

           भीष्म उवाच-
इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्
नरसिंहस्य माहात्म्यं तथा पापविनाशनम्।१।

           पुलस्त्य उवाच-
पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः
दैत्यानामादिपुरुषश्चकार सुमहत्तपः।२।

दशवर्षसहस्राणि दशवर्षशतानि च
जलवासी समभवत्स्नानमौनधृतव्रतः।३।

वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च।४।

ततः स्वयंभूर्भगवान्स्वयमागत्य तत्र हि
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता।५।

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः।६।

दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा
नक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः।७।

देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा
राजर्षिभिः पुण्यकृद्भिर्गंधर्वाप्सरसांगणैः।८।

चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैः
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्।९।

प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि।१०।

           हिरण्यकशिपुरुवाच-
न देवासुरगंधर्वा न यक्षोरगराक्षसाः
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम।११।

ऋषयो मानवाः शापैर्न शपेयुः पितामह
यदि मे भगवान्प्रीतो वर एष वृतो मया।१२।

न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा
न शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः।१३।

भवेयमहमेवार्कः सोमो वायुर्हुताशनः
सलिलं चांतरिक्षं च नक्षत्राणि दिशो दश।१४।

अहं क्रोधश्च कामश्च वरुणो वासवो यमः
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः।१५।

                  ब्रह्मोवाच -
एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतः
सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः।१६।

एवमुक्त्वा स भगवान्जगामाकाशमेव हि
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्।१७।

ततो देवाश्च गंधर्वा ऋषिभिः सह चारणाः
वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः।१८।

                    ★देवा ऊचुः-★
वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरः
तत्प्रसादश्च भगवन्वधोप्यस्य विचिंत्यताम्।१९।

भगवान्सर्वभूतानामादिकर्त्ता स्वयंप्रभुः
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः।२०।

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
आश्वासयामास तदा सुशीतैर्वचनांबुभिः।२१।

अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलं
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति।२२।

तच्छ्रुत्वा विबुधा वाक्यं सर्वे पंकजजाननात्
स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः।२३।

लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधत
हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः।२४।

आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्
सत्यधर्मपरान्दान्तान्धर्षयामास दानवः।२५।

देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः।२६।

यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा
यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान्।२७।

तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः।२८।

शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्
देवदेवं यज्ञमयं वासुदेवं सनातनम्।२९।
__________
                 देवा ऊचुः-
नारायण महाभाग देवास्त्वां शरणं गताः
त्रायस्व जहि दैत्येंद्रं हिरण्यकशिपुं प्रभो।३०।

त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः।३१।

                  विष्णुरुवाच-
भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम्।३२।

एनं हि सगणं दैत्यं वरदानेन गर्वितम्
अवध्यममरेंद्राणां दानवेंद्रं निहन्म्यहम्।३३।

एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः
हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः।३४।

तेजसा भास्काराकारः शशीकांत्येव चापरः
नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा।३५।

नारसिंहेन वपुषा पाणिं संगृह्य पाणिना
ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्।३६।

सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्
विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्।३७।

वैहायसीं कामगमां पंचयोजनमुच्छ्रिताम्
जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्।३८।

वेश्मासनवतीं रम्यां ज्वलंतीमिव तेजसा
अंतःसलिलसंयुक्तां विहितां विश्वकर्मणा।३९।

दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्
नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि।४०।

अवदातैस्तथा गुल्मै रक्तमंजरिधारिभिः
सिताभ्रघनसंकाशां प्लवंतीं च ददर्श सः।४१।

रश्मिमती स्वभावेन दिव्यगंधमनोरमा
सुसुखा न च दुःखा सा न शीता न च घर्मदा।४२।

न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवंति ते
नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः।४३।

अतिचंद्रातिसूर्याति शिखिकान्ति स्वयंप्रभा
दीप्यते नाकपृष्ठस्था भासयंती विभासुरा।४४।

सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः
रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं।४५।

पुण्यगंधास्रजश्चापि नित्यकालफला द्रुमाः
उष्णे शीतानि तोयानि शीते चोष्णानि संति वै।४६।

पुष्पिताग्रान्महाशाखान्प्रवालांकुरधारिणः
लतावितानसंछन्नान्कल्पानैक्षिष्ठ स प्रभुः।४७।

गंधवंति च पुष्पाणि रसवंति फलानि च
तानि शीतानि चोष्णानि तत्रतत्र सरांसि च।४८।

अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः
नलिनैः पुंडरीकैश्च शतपत्रैः सुगंधिभिः।४९।

रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा
नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45.५०
______________________
कारंडवैश्चक्रवाकैः सारसैः कुररैरपि
विमलस्फटिकाभानि पांडुरच्छदनैर्द्विजैः।५१।

बहुहंसोपगीतानि सारसानां रुतानि च
गंधयुक्ता लतास्तत्र पुष्पमंजरिधारिणीः।५२।

दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्
चूतानिम्बानागवृक्षाः कदंबा बकुला धवाः।५३।

प्रियंगवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः
शालास्तालास्तमालाश्च चंपकाश्च मनोरमाः।५४।

तथैवान्ये व्यराजंत सभायां पुष्पिता द्रुमाः
एलाक कुभकंकोल लवली कर्णपूरकाः।५५।

मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः
अंजनाशोकपर्णासा बहवश्चित्रका द्रुमाः।५६।

वरुणाश्च पलाशाश्चा पनसास्सह चंदनैः
नीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिंदुकाः।५७।

पारिजाताश्च तरवो मल्लिका भद्रदारवः
अटरूषाः पीलूकाश्च तथा चैवैलवालुकाः।५८।

मंदारकाः कुरवका पुन्नागाः कुटजास्तथा
रक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह।५९।

किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाः
कालेयका दुकूलाश्च हिंगवस्तैलवर्त्तिकाः।६०।

खर्जूरा नालिकेराश्च हरीतक मधूककाः
सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः।६१।

असनाश्च तमालाश्च नानागुल्मसमावृताः
लताश्च विविधाकाराः पुष्पपत्रफलोपगाः।६२।

एते चान्ये च बहवस्तत्र काननजा द्रुमाः
नानापुष्पफलोपेता व्यराजंत समंततः।६३।

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः
पुष्पितान्पुष्पिताग्रांश्च संपतंति महाद्रुमान्।६४।

रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः
परस्परमवैक्षंत प्रहृष्टा जीवजीविकाः।६५।

तस्यां सभायां दैत्येंद्रो हिरण्यकशिपुस्तदा
आसीन आसने चित्रे दशनल्वे प्रमाणतः।६६।

दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते
हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुंडलः।६७।

उपचेरुर्महादैत्या हिरण्यकशिपुं तदा
दिव्यतालानि गीतानि जगुर्गंधर्वसत्तमाः।६८।

विश्वाची सहजन्या च प्रम्लोचेति च पूजिता
दिव्याथ सौरभेयी च समीची पुंजिकस्थला।६९।

मिश्रकेशी च रंभा च चित्रभा श्रुतिविभ्रमा
चारुनेत्रा घृताची च मेनका चोर्वशी तथा।७०।

एतास्सहस्रशश्चान्या नृत्यगीतविशारदाः
उपातिष्ठंत राजानं हिरण्यकशिपुं प्रभुम्।७१।

उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा
बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः।७२।

प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः
सुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा।७३।

घटोदरो महापार्श्वः क्रथनः पिठरस्तथा
विश्वरूपस्वरूपश्च विश्वकायो महाबलः।७४।

दशग्रीवश्च वाली च मेघवासा महासुरः
घटाभो विटरूपश्च ज्वलनश्चेंद्रतापनः।७५।

दैत्यदानवसंघास्ते सर्वे ज्वलितकुंडलाः
स्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः।७६।

सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवः
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्।७७।

उपासते महात्मानं सर्वे दिव्यपरिच्छदाः
विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः।७८।

महेन्द्रवपुषः सर्वे विचित्रांगदबाहवः
भूषितांगा दितेः पुत्रास्तमुपासत सर्वतः।७९।

ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः
न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये।८०।

रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम्
स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम्।८१।

कनकवलयहारभूषितांगं दितितनयं स मृगाधिपो ददर्श
दिवसकरकरप्रभं ज्वलंतं दितिजसहस्रशतैर्निषेव्यमाणम्।८२।

ततो दृष्ट्वा महाभागं कालचक्रमिवागतम्
नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम्।८३।

हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्
दिव्येन वपुषा सिंहमपश्यद्देवमागतम्।८४।

तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम्
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः।८५।

                  प्रह्लाद उवाच-
महाराज महाबाहो दैत्यानामादिसंभव
न श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः।८६।

अव्यक्तं परमं दिव्यं किमिदं रूपमागतम्
दैत्यांतकरणं घोरं शंसतीव मनो मम।८७।

अस्य देवाः शरीरस्थाः सागराः सरितस्तथा
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः।८८।

चंद्रमास्सहनक्षत्रैरादित्या रश्मिभिः सह
धनदो वरुणश्चैव यमः शक्रः शचीपतिः।८९।

मरुतो देवगंधर्वा ऋषयश्च तपोधनाः
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः।९०।

ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमंति हि
स्थावराणि च सर्वाणि जंगमानि तथैव च।९१।

भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतः
विमानशतसंकीर्णा सर्वा या भवतः सभा।९२।

सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतः
दृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत्।९३।

प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च।९४।

सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वे
क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे।९५।

प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः
उवाच दानवान्सर्वान्गणांश्च सगणाधिपः।९६।

मृगेंद्रो गृह्यतामेष अपूर्वां तनुमास्थितः
यदि वा संशयः कश्चिद्वध्यतां वनगोचरः।९७।

ते दानवगणास्सर्वे मृगेंद्रं भीमविक्रमम्
परिक्षिपंतो मुदितास्त्रासयामासुरोजसा९८।

सिंहनादं विमुच्याथ नरसिंहो महाबलः
बभंज तां सभां सर्वां व्यादितास्य इवांतकः।९९।

सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः1.45.१००
_________
सर्वास्त्राणामथ श्रेष्ठं दंडमस्त्रं सुदारुणम्
कालचक्रं तथा घोरं विष्णुचक्रं तथापरं।१०१।

पैतामहं महात्युग्रं त्रैलोक्यनिर्मितं महत्
विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयम्।१०२।

रौद्रं तथोग्रशूलं च कंकालं मुसलं तथा
अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च।१०३।

नारायणास्त्रमैंद्रं च आग्नेयं शैशिरं तथा
वायव्यं मथनं चैव कपालमथ किंकरम्।१०४।

तथा प्रतिहतां शक्तिं क्रौंचमस्त्रं तथैव च
मोहनं शोषणं चैव संतापनविलापने।१०५।

कंपनं शातनं चैव महास्त्रं चैव रोधनम्
कालमुद्गरमक्षोभ्यं तापनं च महाबलम्।१०६।

संवर्तनं मोहनं च तथा मायाधरं वरम्
गान्धर्वमस्त्रं दयितमसिरत्नं च नंदकम्।१०७।

प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्
अस्त्रं पाशुपतं चैव यस्या प्रतिहता गतिः।१०८।

एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम्।१०९।

अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमः
विवस्वान्घर्मसमये हिमवंतमिवांशुभिः।११०।

स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः
क्षणेनाप्लावयत्सर्वं मैनाकमिव सागरः।१११।

प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा
वज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः।११२।

मुद्गरैः कूटपाशैश्च शिलोलूखलपर्वतैः
शतघ्नीभिश्च दीप्ताभिर्दंडैरपि सुदारुणैः।११३।

ते दानवाः पाशगृहीतहस्ता महेंद्रतुल्याशनितुल्य वेगाः
समंततोभ्युद्यतबाहुकायाः स्थिताः सशीर्षा इव नागपोताः।११४।

सुवर्णमालाकुलभूषितांगाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः
स्फुरत्प्रभास्ते च सशृंगदेहाश्चीनांशुका भांति यथैव हंसाः।११५।

सोसृजद्दानवो मायामग्निं वायुं समीरितम्
तमिंद्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः।११६।

महता तोयवर्षेण शमयमास पावकम्
तस्यां प्रतिहतायां तु मायायां युधि दानवः।११७।

असृजद्घोरसंकाशं तमस्तीव्रं समंततः
तमसा संवृते लोके दैत्येष्वात्तायुधेषु च।११८।

स्वतेजसा परिवृतो दिवाकर इवोद्गतः
त्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे।११९।

ललाटस्थां त्रिकूटस्थां गंगां त्रिपथगामिव
ततः सर्वासु मायासु हतासु दितिनंदनाः।१२०।

हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुः
ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा।१२१।

तस्मिन्क्रुद्धे तु दैत्येंद्रे तमोभूतमभूज्जगत्
आवहः प्रवहश्चैव विवहोथ समीरणः।१२२।

परावहस्संवहश्च उद्वहश्च महाबलः
तथा परिवहः श्रीमानुत्पातभयशंसिनः।१२३।

इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः
ये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवंति हि।१२४।

ते सर्वे गगने हृष्टाव्यचरंश्च यथासुखम्
अयोगतश्चाप्यचरद्योगं निशि निशाचरः।१२५।

सग्रहः सह नक्षत्रैस्तारापतिररिंदम
विवर्णतां च भगवान्गतो दिवि दिवाकरः।१२६।

कृष्णः कबंधश्च तदा लक्ष्यते सुमहान्दिवि
असृजच्चासितां सूर्यो धूमवत्तां विभावसुः।१२७।

गगनस्थश्च भगवानभीक्ष्णं परिविष्यते
सप्तधूमनिभा घोराः सूर्यादि विसमुत्थिताः।१२८।

सोमस्य गगनस्थस्य ग्रहास्तिष्ठंति शृंङ्गगाः
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती।१२९।

शनैश्चरो लोहितांगो लोहितांगसमद्युतिः
समं समधिरोहंत सर्वे वै गगनेचराः।१३०।

शृंगाणि शनकैर्घोरा युगांता वर्त्तन ग्रहाः
चंद्रमाश्च सनक्षत्रो ग्रहैः सह तमोनुदः।१३१।

चराचरविनाशाय रोहिणीं नाभ्यनंदत
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते।१३२।

उल्काः प्रज्वलिताश्चंद्रे व्यचरंत यथासुखम्
देवानामधिपो देवः सोप्यवर्षत शोणितम्।१३३।

अपतद्गगनादुल्का विद्युद्रूपा महास्वना
अकाले च द्रुमास्सर्वे पुष्प्यंति च फलंति च।१३४।

लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः
फले फलान्यजायंत पुष्पे पुष्पं तथैव च।१३५।

उन्मीलंति निमीलंति हसंति प्ररुदंति च
विक्रोशंति च गंभीरं धूमायंते ज्वलंति च।१३६।

प्रतिमास्सर्वदेवानां कथयंत्यो महद्भयम्
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः।१३७।

चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते
नद्यश्च प्रतिकूलानि वहंति कलुषोदकाः।१३८।

न प्राकाशंत च दिशो रक्तरेणुसमाकुलाः
वानस्पत्या न पूज्यंते पूजनार्हाः कथंचन।१३९।

वायुवेगेन हन्यंते भज्यंते प्रणमंति च
तथा च सर्वभूतानां छाया न परिवर्त्तते।१४०।

अपरेण गते सूर्ये सलोकानां युगक्षये
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः।१४१।

भांडागारायुधागारे निविष्टमभवन्मधु
असुराणां विनाशाय सुराणां विजयाय च।१४२।

दृश्यंते विविधोत्पाता घोराघोरनिदर्शनाः
एते चान्ये च बहवो घोररूपाः समुत्थिताः।१४३।

दैत्येंद्रस्य विनाशाय दृश्यंते रणशंसिनः
मेदिन्यां कंपमानायां दैत्येंद्रेण महात्मनः।१४४।

महीधरा नागगणा निपेतुरमितौजसः
विषज्वालाकुलैर्वक्त्रैर्विमुंचंतो हुताशनम्।१४५।

चतुःशीर्षाः पंचशीर्षाः सप्तशीर्षाश्च पन्नगाः
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ।१४६।

एलामुखः कालियश्च महापद्मश्च वीर्यवान्
सहस्रशीर्षश्शुद्धांगो हेमतालध्वजः प्रभुः।१४७।

शेषोनंतो महानागो ह्यप्रकंप्यश्च कंपिताः
दीप्यंतेंतर्जलस्थानि पृथिवीविवराणि वै।१४८।

सप्तदैत्येंद्रकोपेन कंपितानि समंततः
नानातेजोधराश्चापि पातालतलचारिणः।१४९।

पाताले सहसा क्षुब्धे दुष्प्रकंप्याः प्रकंपिताः
हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्1.45.१५०

संदष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजः
गंगा भागीरथी चैव कौशिकी सरयूरपि।१५१।

यमुना चाथ कावेरी कृष्णवेणी च निम्नगा
तुंगभद्रा महावेगा नदी गोदावरी तथा।१५२।

चर्मण्वती च सिंधुश्च तथा नदनदीपतिः
मेलकप्रभवश्चैव शोणो मणिनिभोदकः।१५३।

नर्मदा च शुभस्रोतास्तथा वेत्रवती नदी
गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती
।१५४।

महाकालमहीचैव तमसा पुष्पवाहिनी
जंबूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम्।१५५।

सुवर्णपुटकं चैव सुवर्णाकरमंडितम्
महानदश्च लौहित्यश्शैलः कांचनशोभितः।१५६।

पत्तनं कोशकाराणां कशं च रजताकरम्
मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च।१५७।

स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाः
भवनं वैनतेयस्य दैत्येंद्रेणाभिकंपितम्।१५८।

कैलासशिखराकारं यत्कृतं विश्वकर्मणा
रत्नतोयो महाभीमो लौहित्यो नाम सागरः।१५९।

उदयश्च महाशैल उच्छ्रितः शतयोजनम्
सवर्णवेदिकः श्रीमान्मेघपंक्तिनिषेवितः।१६०।

भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैः
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः।१६१।

अयोमुखश्च विख्यातः सर्वतो धातुमंडितः
तमालवनगंधश्च पर्वतो मलयः शुभः।१६२।

सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च
भोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः।१६३।

तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाः
क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः।१६४।

अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा
सिद्धचारणसंघैश्च विप्रकीर्णं मनोहरम्।१६५।

विचित्रनानाविहगं सपुष्पितमहाद्रुमम्
जातरूपमयैः                       श्रृंगैरप्सरोगणसेवितम्।१६६।

गिरिः पुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः
उत्थितः सागरं भित्वा विश्रामश्चंद्रसूर्ययोः।१६७।

रराज स महाशृंगैर्गगनं विलिखन्निव
चंद्रसूर्यांशुसंकाशैः सागरांबुसमावृतैः।१६८।

विद्युत्त्वान्पर्वतः श्रीमानायतः शतयोजनम्
विद्युतां यत्र संपाता निपात्यंते नगोत्तमे।१६९।

ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः
कुंजरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम्।१७०।

विमलाख्या च दुर्द्धर्षा सर्पाणां मालती पुरी
तथा भोगवती चापि दैत्येंद्रेणाभिकंपिता।१७१।

महासेनगिरिश्चैव पारियात्रश्च पर्वतः
चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः।१७२।

प्राग्ज्योतिषपुरं चापि जातरूपमयं शुभम्
यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः।१७३।

मेघश्च पर्वतश्रेष्ठो मेघगंभीरनिस्स्वनः
षष्टिस्तत्र सहस्राणि पर्वतानां विशांपते।१७४।

तरुणादित्यसंकाशो मेरुश्चैव महान्गिरिः
यक्षराक्षसगंधर्वैर्नित्यं सेवितकंदरः।१७५।

हेमगर्भो महासेनस्तथा मेघसखो गिरिः
कैलासश्चैव शैलेंद्रो दानवेंद्रेण कंपितः।१७६।

हेमपुष्करसञ्छन्नं तेन वैखानसं सरः
कंपितं मानसं चैव हंसकारंडवाकुलम्।१७७।

त्रिशृंगः पर्वतश्रेष्ठः कुमारी च सरिद्वरा
तुषारचयसंच्छन्नो मंदरश्चापि पर्वतः।१७८।

उशीरबीजश्च गिरिर्भद्रप्रस्थस्तथाद्रिराट्
प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः।१७९।

देवाभः पर्वतश्चैव तथा वै वालुकागिरिः
क्रौंचः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः।१८०।

एते चान्ये च गिरयो देशा जनपदास्तथा
नद्यः ससागराः सर्वाः दानवेनाभिकंपिताः।१८१।

कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकंपितः
खेचराश्च निशापुत्राः पातालतलवासिनः।१८२।

गणस्तथापरो रौद्रो मेघनामांकुशायुधः
ऊर्द्ध्वगो भीमवेगश्च सर्व एतेभिकंपिताः।१८३।
___________________________
गदी शूली करालश्च हिरण्यकशिपुस्तथा
जीमूतघननिर्घोषो जीमूत इव वेगवान्।१८४।

देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत्
स तु तेन ततस्तीक्ष्णैर्मृगेंद्रेण महानखैः।१८५।

तदोंकारसहायेन विदार्य निहतो युधि
मही च कालश्च शशीनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः।१८६।

नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात्
ततः प्रमुदिता देवा ऋषयश्च तपोधनाः।१८७।

तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम्
यत्त्वया विधृतं देव नारसिंहमिदं वपुः।१८८।

एतदेवार्चयिष्यंति परापरविदो जनाः
ब्रह्मोवाच-
भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः।१८९।

भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः
परां च सिद्धिं च परं च सत्वं परं रहस्यं परमं हविश्च।१९०।

परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणम्
परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं।१९१।

परं च यज्ञं परमं च होत्रं त्वामाहुरग्य्रं परमं पुराणम्
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम्।१९२।

परं रहस्यं परमां गतिं च त्वामाहुरग्य्रं परमं पुराणम्
एवमुक्त्वा तु भगवान्सर्वलोकपितामहः।१९३।

स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः
ततो नदत्सु तूर्येषु नृत्यंतीष्वप्सरःसु च।१९४।

क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान्।१९५।

पौराणं रूपमास्थाय प्रययौ गरडध्वजः
अष्टचक्रेण यानेन भूतियुक्तेन भास्वता।१९६।

अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः।१९७।


_________________________
सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च
भोजाः पांड्याश्च वंगाश्च कलिंगास्ताम्रलिप्तकाः।१६३।★

तथैव पौंड्राः शुभ्राश्च वामचूडास्सकेरलाः
क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः।१६४।

अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा
सिद्धचारणसंघैश्च विप्रकीर्णं मनोहरम्।१६५।


इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे नरसिंहप्रादुर्भावो नाम पंचचत्वारिंशत्तमोऽध्यायः४५
_________________________________

ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ४९


< ब्रह्मवैवर्तपुराणम्‎ | खण्डः २ (प्रकृतिखण्डः)
← अध्यायः ४८ ब्रह्मवैवर्तपुराणम्
अध्यायः ४९

                  पार्वत्युवाच ।।
कथं सुदामशापञ्च सा देवी ललाभ ह ।।
कथं शशाप भृत्यो हि स्वाभीष्टां देवकामिनीम् ।। १ ।।
                ।श्रीभगवानुवाच ।
शृणु देवी प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।।
गोप्यं सर्वपुराणेषु शुभदं भक्तिमुक्तिदम् ।। २ ।।

एकदा राधिकेशश्च गोलोके रासमण्डले ।।
शतशृंगाख्यगिर्येकदेशे वृन्दावने वने ।।३।।

गृहीत्वा विरजां गोपीं सुभाग्यां राधिकासमाम् ।।
क्रीडां चकार भगवान्रत्नभूषणभूषितः ।। ४ ।।

रत्नप्रदीपसंयुक्ते रत्ननिर्माणमण्डले ।।
अमूल्यरत्नखचितमञ्चके पुष्पतल्पके ।। ५ ।।

कस्तूरीकुंकुमारक्ते सुचन्दनसुधूपिते ।।
सुगन्धिमालतीमालासमूहपरिमण्डिते ।। ६ ।।

सुरताद्विरतिर्नास्ति दम्पती रतिपण्डितौ ।।
तौ द्वौ परस्पराक्तौ सुखसम्भोगतन्त्रितौ ।। ७ ।।

मन्वन्तराणां लक्षश्च कालः परिमितो गतः ।।
गोलोकस्य स्वल्पकाले जन्मादिरहितस्य च ।८ ।।

दूत्यश्चतस्रो ज्ञात्वाऽथ जगदुस्तां तु राधिकम् ।।
श्रुत्वा परमरुष्टा सा तत्याज हरिमीश्वरी ।।९।।

प्रबोधिता च सखिभिः कोपरक्तास्यलोचना ।।
विहाय रत्नालङ्कारं वह्निशुद्धांशुके शुभे ।। 2.49.१० ।।

क्रीडापद्मं च सद्रत्नामूल्यदर्पणमुज्ज्वलम् ।।
निर्मार्जयामास सती सिन्दूरं चित्रपत्रकम् ।। ११ ।।

प्रक्षाल्य तोयाञ्जलिभिर्मुखरागमलक्तकम् ।।
विस्रस्तकबरीभारा मुक्तकेशी प्रकम्पिता ।। १२ ।।

शुक्लवस्त्रपरीधाना रूक्षा वेषादिवर्जिता ।।
ययौ यानान्तिकं तूर्णं प्रियालीभिर्निवारिता।।१३।।

आजुहाव सखीसंघं रोषविस्फुरिताधरा ।।
शश्वत्कम्पान्वितांगी सा गोपीभिः परिवारिता ।।१४।।

ताभिर्भक्त्या युताभिश्च कातराभिश्च संस्तुता ।।
आरुरोह रथं दिव्यममूल्यं रत्ननिर्मितम् ।।
दशयोजनविस्तीर्णं दैर्घ्ये तच्छतयोजनम् ।।१५।।

सहस्रचक्रयुक्तं च नानाचित्रसमन्वितम् ।।
नानाविचित्रवसनैः सूक्ष्मैः क्षौमैर्विराजितम् ।१६ ।

अमूल्यरत्ननिर्माणदर्पणैः परिशोभितम् ।।
मणीन्द्रजालमालाभैः पुष्पमालासहस्रकैः ।। १७।

सद्रत्न कलशैर्युक्तं रम्यैर्मन्दिरकोटिभिः ।।
त्रिलक्षकोटिभिः सार्द्ध गोपीभिश्च प्रियालिभिः।१८।

ययौ रथेन तेनैव सुमनोमालिना प्रिये ।।
श्रुत्वा कोलाहलं गोपः सुदामा कृष्णपार्षदः ।१९।

कृष्णं कृत्वा सावधानं गोपैः सार्द्धं पलायितः ।।
भयेन कृष्णः सन्त्रस्तो विहाय विरजां सतीम् ।। 2.49.२० ।।

स्वप्रेममग्नः कृष्णोऽपि तिरोधानं चकार सः ।।
सा सती समयं ज्ञात्वा विचार्य्य स्वहृदि क्रुधा ।२१।

राधाप्रकोपभीता च प्राणांस्तत्याज तत्क्षणम् ।।
विरजालिगणास्तत्र भयविह्वलकातराः ।। २२ ।।

प्रययुः शरणं साध्वीं विरजां तत्क्षणं भिया ।।
गोलोके सा सरिद्रूपा जाता वै शैलकन्यके ।२३ ।।

कोटियोजनविस्तीर्णा दीर्घे शतगुणा तथा ।।
गोलोकं वेष्टयामास परिखेव मनोहरा ।। २४ ।।

बभूवुः क्षुद्रनद्यश्च तदाऽन्या गोप्य एव च ।।
सर्वा नद्यस्तदंशाश्च प्रतिविश्वेषु सुन्दरि ।। २५ ।।

इमे सप्त समुद्राश्च विरजानन्दना भुवि ।।
अथागत्य महाभागा राधा रासेश्वरी परा ।। २६ ।।

न दृष्ट्वा विरजां कृष्णं स्वगृहं च पुनर्ययौ ।।
जगाम कृष्णस्तां राधां गोपालैरष्टभिः सह ।। २७।

गोपीभिर्द्वारि युक्ताभिर्वारितोऽपि पुनः पुनः ।।
दृष्ट्वा कृष्णं च सा देवी भर्त्सयामास तं तदा ।। २८ ।।

सुदामा भर्त्सयामास तां तथा कृष्णसन्निधौ ।।
क्रुद्धा शशाप सा देवी सुदामानं सुरेश्वरी ।। २९ ।।

गच्छ त्वमासुरीं योनिं गच्छ दूरमतो द्रुतम् ।।
शशाप तां सुदामा च त्वमितो गच्छ भारतम् ।। 2.49.३० ।

भव गोपी गोपकन्यामुख्याभिः स्वाभिरेव च ।।
तत्र ते कृष्णविच्छेदो भविष्यति शतं समाः।३१।

तत्र भारावतरणं भगवांश्च करिष्यति ।।
इति शप्त्वा सुदामाऽसौ प्रणम्य जननीं हरिम् ।।
साश्रुनेत्रो मोहयुक्तस्ततो गन्तुं समुद्यतः ।। ३२ ।।

राधा जगाम तत्पश्चात्साश्रुनेत्राऽतिविह्वला ।।
वत्स क्व यासीत्युच्चार्य्य पुत्रविच्छेदकातरा ।३३।

कृष्णस्तां बोधयामास विद्यया च कृपानिधिः ।।
शीघ्रं संप्राप्स्यसि सुतं मा रुदस्त्वं वरानने ।। ३४।

स चासुरः शङ्खचूडो बभूव तुलसीपतिः ।।
मच्छूलभिन्नकायेन गोलोकं वै जगाम सः ।३५।

राधा जगाम वाराहे गोकुलं भारतं सती ।।
वृषभानोश्च वैश्यस्य सा च कन्या बभूव ह ।३६ ।

अयोनिसम्भवा देवी वायुगर्भा कलावती ।।
सुषुवे मायया वायुं सा तत्राविर्बभूव ह ।३७।

अतीते द्वादशाब्दे तु दृष्ट्वा तां नवयौवनाम् ।।
सार्धं रायाणवैश्येन तत्सम्बन्धं चकार सः ।३८ ।

छायां संस्थाप्य तद्गेहे साऽन्तर्द्धानमवाप ह ।।
बभूव तस्य वैश्यस्य विवाहश्छायया सह ।३९।

गते चतुर्दशाब्दे तु कंसभीतेश्छलेन च ।।
जगाम गोकुलं कृष्णः शिशुरूपी जगत्पतिः। 2.49.४० ।।
__________________________________
कृष्णमाता यशोदा या रायाणस्तत्सहोदरः ।।
गोलोके गोपकृष्णांशःसम्बन्धात्कृष्णमातुलः।४१।

कृष्णेन सह राधायाः पुण्ये वृन्दावने वने ।।
विवाहं कारयामास विधिना जगतां विधिः।।४२।।

स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः।।
स्वयं राधा हरेः क्रोडे छाया रायाणमन्दिरे।।४३।।

षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः।।
राधिकाचरणाम्भोजदर्शनार्थी च पुष्करे ।४४।

भारावतरणे भूमेर्भारते नन्दगोकुले ।।
ददर्श तत्पदाम्भोजं तपसस्तत्फलेन च।४५।।

किञ्चित्कालं स वै कृष्णः पुण्ये वृन्दावने वने ।।
रेमे गोलोकनाथश्च राधया सह भारते।। ४६ ।।

ततः सुदामशापेन विच्छेदश्च बभूव ह ।।
तत्र भारावतरणं भूमेः कृष्णश्चकार सः ।। ४७ ।।

शताब्दे समतीते तु तीर्थयात्राप्रसंगतः ।।
ददर्श कृष्णं सा राधा स च तां च परस्परम् ।४८।

ततो जगाम गोलोकं राधया सह तत्त्ववित् ।।
कलावती यशोदा च पर्यगाद्राधया सह ।४९ ।

वृषभानुश्च नन्दश्च ययौ गोलोकमुत्तमम् ।।
सर्वे गोपाश्च गोप्यश्च ययुस्ता याः समागताः। 2.49.५० ।।

छाया गोपाश्च गोप्यश्च प्रापुर्मुक्तिं च सन्निधौ ।।
रेमिरे ताश्च तत्रैव सार्द्धं कृष्णेन पार्वति ।। ५१ ।।

षट्त्रिंशल्लक्षकोट्यश्च गोप्यो गोपाश्च तत्समाः ।।
गोलोकं प्रययुर्मुक्ताः सार्धं कृष्णेन राधया ।। ५२ ।।

द्रोणः प्रजापतिर्नन्दो यशोदा तत्प्रिया धरा ।।
संप्राप पूर्वतपसा परमात्मानमीश्वरम् ।। ५३ ।।

वसुदेवः कश्यपश्च देवकी चादितिः सती ।।
देवमाता देवपिता प्रतिकल्पे स्वभावतः ।। ५४ ।।

पितॄणां मानसी कन्या राधामाता कलावती ।।
वसुदामापि गोलोकाद् वृषभानुः समाययौ ।५५।

इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम् ।।
सम्पत्करं पापहरं पुत्रपौत्रविवर्धनम् ।। ५६ ।।

श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः ।।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।५७।

चतुर्भुजस्य पत्नी च महालक्ष्मीः सरस्वती ।।
गंगा च तुलसी चैव देव्यो नारायणप्रियाः ।।५८।।

श्रीकृष्णपत्नी सा राधा तदर्द्धाङ्गसमुद्भवा ।।
तेजसा वयसा साध्वी रूपेण च गुणेन च ।। ५९ ।

आदौ राधां समुच्चार्य पश्चात्कृष्णं वदेद्बुधः ।।
व्यतिक्रमे ब्रह्महत्यां लभते नात्र संशयः ।। 2.49.६० ।।

कार्त्तिकीपूर्णिमायां च गोलोके रासमण्डले ।।
चकार पूजां राधायास्तत्सम्बन्धिमहोत्सवम् ।६१।

सद्रत्नघुटिकायाश्च कृत्वा तत्कवचं हरिः ।।
दधार कण्ठे बाहौ च दक्षिणे सह गोपकैः ।। ६२ ।।

कृत्वा ध्यानं च भक्त्या च स्तोत्रमेतच्चकार सः ।।
राधाचर्वितताम्बूलं चखाद मधुसूदनः ।। ६३ ।।

राधा पूज्या च कृष्णस्य तत्पूज्यो भगवान्प्रभुः ।।
परस्पराभीष्टदेवे भेदकृन्नरकं व्रजेत् ।। ६४ ।।

द्वितीये पूजिता सा च धर्मेण ब्रह्मणा मया ।।
अनन्तवासुकिभ्यां च रविणा शशिना पुरा ।६५।

महेन्द्रेण च रुद्रैश्च मनुना मानवेन च ।।
सुरेन्द्रैश्च मुनीन्द्रैश्च सर्वविश्वैश्च पूजिता ।। ६६ ।।

तृतीये पूजिता सा च सप्तद्वीपेश्वरेण च ।।
भारते च सुयज्ञेन पुत्रैर्मित्रैर्मुदाऽन्वितैः ।। ६७ ।।

ब्राह्मणेनाभिशप्तेन देवदोषेण भूभृता ।।
व्याधिग्रस्तेन हस्तेन दुःखिना च विदूयता ।। ६८ ।।

संप्राप राज्यं भ्रष्टश्रीः स च राधावरेण च ।।
स्तोत्रेण ब्रह्मदत्तेन स्तुत्वा च परमेश्वरीम् ।। ६९ ।।

अभेद्यं कवचं तस्याः कण्ठे बाहौ दधार सः ।।
ध्यात्वा चकार पूजां च पुष्करे शतवत्सरान् ।। 2.49.७० ।।

अन्ते जगाम गोलोकं रत्नयानेन भूमिपः ।।
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।७१ ।।

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गत हरगौरीसंवादे राधोपाख्याने राधायाः सुदामशापादिकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ।४९ ।


हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ००३

आर्यायाः स्तुतिः
                 तृतीयोऽध्यायः

                  वैशम्पायन उवाच
आर्यास्तवं प्रवक्ष्यामि यथोक्तमृषिभिः पुरा ।
नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम् ।। १।।

त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या संनतिर्मतिः ।
संध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च ।२ ।।

आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
जननी सिद्धसेनस्य उग्रचारी महाबला ।। ३ ।।

जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया ।
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ।। ४।।

बहुरूपा विरूपा च अनेकविधिचारिणी ।
विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ।। ५

पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।
वासस्ते च महादेवि वनेषूपवनेषु च ।। ६ ।।

शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता ।
मयूरपिच्छध्वजिनी लोकान् क्रमसि सर्वशः ।७।

____

कुकुटैश्छागलैर्मेषैः सिंहैर्व्याघ्रैः समाकुला ।
घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता ।। ८।

त्रिशूलपट्टिशधरा सूर्यचन्द्रपताकिनी ।
नवमी कृष्णपक्षस्य शुक्लस्यैकादशी तथा ।९ ।________

भगिनी बलदेवस्य रजनी कलहप्रिया ।
आवासः सर्वभूतानां निष्ठा च परमा गतिः। 2.3.१०।।

नन्दगोपसुता चैव देवानां विजयावहा ।
चीरवासाः सुवासाश्च रौद्री संध्याचरी निशा ।११।


प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया ।
लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ।।१२ ।।

__________
सावित्री चापि देवानां माता भूतगणस्य च ।
कन्यानां ब्रह्मचर्यं त्वं सौभाग्यं प्रमदासु च ।१३ ।

अन्तर्वेदी च यज्ञानामृत्विजां चैव दक्षिणा ।
कर्षकाणां च सीतेति भूतानां धरणीति च ।१४ ।

सिद्धिः सांयात्रिकाणां तु वेला त्वं सागरस्य च।। ।
यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ।। १५ ।।

ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा ।
ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी।१६।

राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च ।
पूर्णा च पूर्णिमा चन्द्रे कृत्तिवासा इति स्मृता ।१७।

सरस्वती च वाल्मीके स्मृतिर्द्वैपायने तथा ।
ऋषीणां धर्मबुद्धिस्तु देवानां मानसी तथा ।१८।

सुरा देवी तु भूतेषु स्तूयसे त्वं स्वकर्मभिः ।
इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च ।। १९ ।।

तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम्।
क्षुधा च सर्वभूतानां तृप्तिस्त्वं दैवतेषु च ।। 2.3.२०।।

स्वाहा तृप्तिर्धृतिर्मेधा वसूनां त्वं वसूमती ।
आशा त्वं मानुषाणां च पुष्टिश्च कृतकर्मणाम्।२१।

दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ।
शकुनी पूतना त्वं च रेवती च सुदारुणा ।। २२ ।।

निद्रापि सर्वभूतानां मोहिनी क्षत्रिया तथा ।
विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽथ वषट् तथा ।। २३ ।।

नारीणां पार्वतीं च त्वां पौराणीमृषयो विदुः ।
अरुन्धती च साध्वीनां प्रजापतिवचो यथा ।। २४ ।

पर्यायनामभिर्दिव्यैरिन्द्राणी चेति विश्रुता ।
त्वया व्याप्तमिदं सर्वं जगत् स्थावरजङ्गमम् ।२५। 

संग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च।
नदीतीरेषु चौरेषु कान्तारेषु भयेषु च ।।२६।।

प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने।
प्रणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः।। २७।।

त्वयि मे हदयं देवि त्वयि चित्तं मनस्त्वयि ।
रक्ष मां सर्वपापेभ्यः प्रसादं कर्तुमर्हसि ।। २८ ।।

इमं यः सुस्तवं दिव्यमिति व्यासप्रकल्पितम् ।
यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः ।। २९ ।।

त्रिभिर्मासैः काङ्क्षितं च फलं वै सम्प्रयच्छसि ।
षड्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छसि ।। 2.3.३०।

अर्चिता तु त्रिभिर्मासैर्दिव्यं चक्षुः प्रयच्छसि ।
संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छसि ।।३१ ।।

सत्यं ब्रह्म च दिव्यं च द्वैपायनवचो यथा ।
नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् ।। ३२ ।।

व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि ।
भविष्यसि महाभागे वरदा कामरूपिणी ।। ३३ ।।

मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् ।
अहमप्यात्मनो वृत्तिं विधास्ये गोषु गोपवत् ।। ३४।

समृद्ध्यर्थमहं चैव करिष्ये कंसगोपताम् ।
एवं तां स समादिश्य गतोऽन्तर्धानमीश्वरः ।। ३५।

सा चापि तं नमस्कृत्य तथास्त्विति च निश्चिता ।। ३६ ।।
यश्चैतत् पठते स्तोत्रं शृणुयाद् वाप्यभीक्ष्णशः ।
सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः ।। ३७ ।।

___________
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि स्वप्नगर्भविधाने आर्यास्तुतौ तृतीयोऽध्यायः ।। ३ ।


विष्णुपुराणम्/चतुर्थांशः/अध्यायः १९
< विष्णुपुराणम्‎ | चतुर्थांशः
           श्रीविष्णुपुराणम्-चतुर्थांशः
                श्रीपराशर उवाच
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युस्सुद्यो र्बहुगतः तस्यापि संयातिस्संयातेरहंयातिः ततो रौद्रा श्वः। १।

ऋतेषुकक्षेषुस्थंडिलेषुकृतेषुजलेषुधर्मेषुधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्रा श्वस्य दश पुत्रा बभूवुः २।
ऋतेषोरंतिनारः पुत्रोऽभूत् ३।
सुमतिमप्रतिरथं ध्रुवं चाप्यंतिनारः पुत्रानवाप ४।
अप्रतिरथस्य कण्वः पुत्रोऽभूत् ५।
तस्यापि मेधातिथिः ६।
यतः कण्वायना द्विजा बभूवुः ७।
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ८।

____
ऐलीनस्य दुष्यंताद्याश्चत्वारः पुत्रा बभूवुः ९।
दुष्यंताच्चक्रवर्त्ती भरतोऽभूत् १०।

यन्नामहेतुर्देवैश्श्लोको गीयते ११।

माता भस्त्र पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुष्यंतमावमंस्थाश्शकुंतलाम् १२।

रेतोधाः पुत्रो नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुंतला १३।

भरतस्य पत्नित्रये नव पुत्रा बभूवुः १४।
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः १५।

ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्बृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः १६।


तस्यापि नामनिर्वचनश्लोकः पठ्यते १७।
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् इति १८।

भरद्वाजस्स तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप १९।

वितथस्यापि मन्युः पुत्रोऽभवत् २०।
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः २१।

नगरस्य संकृतिस्संकृतेर्गुरुप्रीतिरंतिदेवौ २२।
गर्गाच्छिनिः ततश्च गार्ग्याश्शैन्याः क्षत्रोपेता द्विजातयो बभूवु २३।

महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् २४।
तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत् २५।

तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम २६।
बृहत्क्षत्रस्य सुहोत्रः २७।
____________________________
सुहोत्राद्धस्ती य इदं हस्तिनपुरमावासयामास २८।
अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः २९।


अजमीढात्कण्वः ३०
कण्वान्मेधातिथिः ३१
यतः कण्वायना द्विजाः ३२।

अजमीढस्यान्यः पुत्रो बृहदिषुः ३३
बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्र थस्तस्मादपिविश्वजित् ३४

ततश्च सेनजित् ३५।

रुचिराश्वकाश्यदृढहनुवत्सहनुसंज्ञास्सेनजितः पुत्राः ३६।

रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ३७।
पारान्नीलः ३८।

तस्यैकशतं पुत्राणाम् ३९।
तेषां प्रधानः कांपिल्याधिपतिस्समरः ४०।


समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ४१।


सुपारात्पृथुः पृथोस्सुकृतेर्विभ्राजः ४२।

तस्माच्चाणुहः ४३।


यश्शुकदुहितरं कीर्त्तिं नामोपयेमे ४४।
अणुहाद्ब्रह्यदत्तः ४५।


ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ४६।
भल्लाभस्तस्य चात्मजः ४७।


द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ४८।
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततस्सुमतिस्ततश्च सन्नतिमान् ४९।


सन्नतिमतः कृतः पुत्रोऽभूत् ५०।
यं हिरण्यनाभो योगमध्यापयामास ५१।
यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ५२
कृताच्चोग्रायुधः ५३।

येन प्राचुर्येण नीपक्षयः कृतः ५४।
उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रि पुंजयः तस्माच्च बहुरथ इत्येते पौरवाः ५५।

____________
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ५६।

तस्मादपि शांतिः शांतेस्सुशांतिस्सुशांतेः पुरंजयः तस्माच्च ऋक्षः ५७।


ततश्च हर्यश्वः ५८।

तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पंचानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पांचालाः ५९।


मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ६०।
मुद्गलाद्धर्यश्वः ६१।
हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ६२।

शरद्वतश्चाहल्यायां शतानंदोऽभवत् ६३।

शतानंदात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ६४।

सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ६५।

तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ६६।
तौ च मृगयामुपयातश्शंतनुर्दृष्ट्वा कृपया जग्राह ६७।
ततः कुमारः कृपः कन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ६८।
दिवोदासस्य पुत्रो मित्रायुः ६९।
मित्रायोश्च्यवनो नाम राजा ७०।
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ७१।
सोमकाज्जंतुः पुत्रशतज्येष्ठोऽभवत् ७२।
तेषां यवीयान् पृषतः पृषताद्द्रु पदस्तस्माच्च धृष्टद्युम्नस्ततो धृष्टकेतुः ७३।
 अजमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ७४।
तस्य संवरणः ७५।
संवरणात्कुरुः ७६।
य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ७७।
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः ७८।
सुधनुषः पुत्रस्सुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः ७९।
ततश्चोपरिचरो वसुः ८०।
बृहद्र थप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्रास्सप्ताजायंत ८१।
बृहद्र थात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ८२।
बृंहद्र थाच्चान्यश्शकलद्वयजन्मा जरया संधितो जरासंधनामा ८३।
तस्मात्सहदेवस्सहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ८४।
इत्येते मया मागधा भूपालाः कथिताः ८५।
इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः १९।

______

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७६
                    ईश्वर उवाच-
अत्र शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम १।
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन सह मथुरामाययौ २।
अथ तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा पितरावभिवाद्याश्वास्य ताभ्यामालिंगितः सकल गोपवृद्धान्परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्थान्सर्वान्संतर्पयामास ३।
कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं तत्र समुवास ४।
तत्र स्थले नंदगोपादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षिमृगादयोऽपि वासुदेवप्रसादेन दिव्यरूपधरा विमानसमारूढाः परमं लोकं वैकुंठमवापुः ५।

श्रीकृष्णस्तु नंदगोपव्रजौकसां सर्वेषां निरामयं स्वपदं दत्वा देवगणैः स्तूयमानः
श्रीमतीं द्वारावतीं विवेश ६।

तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजितः षोडशसहस्राष्टाधिकमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय लतागृहांतरे-
षु सुरतरुकुसुमार्चितश्लक्ष्णतरपर्यंकेषु रमयामास ७।

एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृतमहांतमुर्वीभारं नाशयित्वा नंदव्रजद्वारिकावासिनः स्थावरजंगमान्भवबंधनान्मोचयित्वा परमे शाश्वते योगिध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्यमहिष्यादिभिः संसेव्यमानो वासुदेवोऽखिलेषूवाच ८।

असीदव्याकृतं ब्रह्मकरकाघृतयोरिव
प्रकृतिस्थो गुणान्मुक्तो द्रवीभूत्वा दिवं गतः ९
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमहात्म्ये पार्वती-शिवसंवादे षट्सप्ततितमोऽध्यायः ७६।



हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०५८

द्वारकापुर्याः विश्वकर्मणा निर्माणं, निधिपतेः शङ्खस्य एवं सुधर्मासभायाः आनयनम्, श्रीकृष्णेन तत्र यादवानां वसतिहेतु व्यवस्थाकरणम्, बलरामस्य रेवत्या सह विवाहः
अष्टपञ्चाशत्तमोऽध्यायः

                वैशम्पायन उवाच
ततः प्रभाते विमले भास्करे उदिते तदा ।
कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह ।। १ ।।

परिचक्राम तं देशं दुर्गस्थानदिदृक्षया ।
उपतस्थुः कुलप्राग्यात यादवा यदुनन्दनम् ।। २ ।।

रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् ।
पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान् क्रियाम् ।। ३ ।।

ततः पङ्कजपत्राक्षो यादवान् केशिसूदनः ।
प्रोवाच वदतां श्रेष्ठो देवान् वृत्ररिपुर्यथा ।। ४ ।।

कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् ।
नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति ।५।

इयं द्वारवती नाम पृथिव्यां निर्मिता मया ।
भविष्यति पुरी रम्या शक्रस्येवामरावती ।। ६ ।।

तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च ।
चत्वरान् राजमार्गांश्च सम्यगन्तःपुराणि च ।। ७ ।।

देवा इवात्र मोदन्तु भवन्तो विगतज्वराः ।
बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः ।। ८ ।।

गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः ।
मीयन्तां राजमार्गाश्च प्रासादस्य च या गतिः ।। ९ ।

प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता वेश्मकर्मसु ।
नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः ।। 2.58.१० ।।

एवमुक्ते तु यदवो गृहसंग्रहतत्पराः ।
यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् ।। ११ ।।

सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः ।
पुण्येऽहनि महाराज द्विजातीनभिपूज्य च ।। १२ ।

वास्तुदैवतकर्माणि विधिना कारयन्ति च ।
स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः ।। १३ ।।

अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।
विविक्तचत्वरपथं सुनिविष्टेष्टदैवतम् ।। १४ ।।

ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा ।
दुर्गकर्माणि संस्कारानुपकल्प्य यथाविधि ।। १५ ।

यथान्यायं निर्मिमिरे दुर्गाण्यायतनानि च ।
स्थानानि निदधुश्चात्र ब्रह्मादीनां यथाक्रमम् ।। १६।

अपामग्नेः सुरेशस्य दृषदोलूखलस्य च ।
चातुर्दैवानि चत्वारि द्वाराणि निदधुश्च ते ।। १७ ।।

शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च ।
तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु ।। १८ ।।

पुर्याः क्षिप्तं निवेशार्थं चिन्तयामास माधवः ।
तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ।१९।

पुर्याः प्रियकरी सा वै यदूनामभिवर्द्धिनी ।
शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः ।। 2.58.२० ।।

विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति ।
मनसा समनुध्याय तस्यागमनकारणात् ।
त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत ।२१ ।।

तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः ।
विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः।२२ ।।

                  विश्वकर्मोवाच
शक्रेण प्रेषितः क्षिप्रं तव विष्णो धृतव्रत ।
किङ्करः समनुप्राप्तः शाधि मां किं करोमि ते ।। २३ ।।

यथासौ देवदेवो मे शङ्करश्च यथाव्ययः ।
तथा त्वं देव मान्यो मे विशेषो नास्ति वः प्रभो ।। २४ ।।

त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज ।
एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् ।। २५ ।।

श्रुत्वा विनीतं वचनं केशवो विश्वकर्मणः ।
प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः ।। २६ ।।

श्रुतार्थो देवगुह्यस्य भवान् यत्र वयं स्थिताः ।
अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम ।। २७ ।।

तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत ।
मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः ।। २८ ।।

उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती ।
तथेयं हि त्वया कार्या शक्तो ह्यसि महामते ।। २९।

मम स्थानमिदं कार्यं यथा वै त्रिदिवे तथा ।
मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च ।। 2.58.३० ।।

एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः ।
कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् ।। ३१ ।।

सर्वमेतत् करिष्यामि यत् त्वयाभिहितं प्रभो ।
पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति ।। ३२।

भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना ।
चत्वारः सागराह्यस्यां विचरिष्यन्ति रूपिणः ।। ३३।

यदीच्छेत्सागरः किंचिदुत्स्रष्टुमपि तोयराट् ।
ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तम ।। ३४ ।।

एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः ।
सागरं सरितां नाथमुवाच वदतां वरः ।। ३५ ।।

समुद्र दश च द्वे च योजनानि जलाशये ।
प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता ।। ३६ ।

अवकाशे त्वया दत्ते पुरीयं मामकं बलम् ।
पर्याप्तविषया रम्या समग्रं विसहिष्यति ।। ३७ ।।

ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः ।
स मारुतेन योगेन उत्ससर्ज जलाशयम् ।। ३८ ।।

विश्वकर्मा ततः प्रीतः पुर्याः संलक्ष्य वास्तु तत् ।
गोविन्दे चैव सम्मानं कृतवान् सागरस्तदा ।। ३९ ।

विश्वकर्मा ततः कृष्णमुवाच यदुनन्दनम् ।
अद्यप्रभृति गोविन्द सर्वे समधिरोहत ।। 2.58.४०।

मनसा निर्मिता चेयं मया पूः प्रवरा विभो ।
अचिरेणैव कालेन गृहसम्बाधमालिनी ।। ४१ ।।

भविष्यति पुरी रम्या सुद्वारा प्राग्र्यतोरणा ।
चयाट्टालककेयूरा पृथिव्यां ककुदोपमा ।। ४२ ।।

अन्तःपुरं च कृष्णस्य परिचर्याक्षयं महत् ।
चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते ।। ४३ ।।

ततः सा निर्मिता कान्ता पुरी द्वारावती तदा ।
विधानविहितद्वारा प्राकारवरशोभिता ।
परिखाचयसंगुप्ता साट्टप्राकारतोरणा ।। ४५ ।।

कान्तनारीनरगणा वणिग्भिरुपशोभिता ।
नानापण्यगणाकीर्णा खेचरीव च गां गता ।। ४६।

प्रपावापीप्रसन्नोदा उद्यानैरुपशोभिता ।
समन्ततः संवृताङ्गी वनितेवायतेक्षणा ।। ४७ ।।

समृद्धचत्वरवती वेश्मोत्तमघनाचिता ।
रथ्याकोटिसहस्राढ्या शुभ्रराजपथोत्तरा ।। ४८ ।।

भूषयन्ती समुद्रं सा स्वर्गमिन्द्रपुरी यथा ।
पृथिव्यां सर्वरत्नानामेका निचयशालिनी ।। ४९ ।।

सुराणामपि सुक्षेत्रा सामन्तक्षोभकारिणी ।
अप्रकाशं तदाकाशं प्रासादैरुपकुर्वती ।। 2.58.५० ।।

पृथिव्यां पृथुराष्ट्रायां जनौघप्रतिनादिता ।
ओघैश्च वारिराजस्य शिशिरीकृतमारुता ।। ५१ ।।

अनूपोपवनैः कान्तैः कान्त्या जनमनोहरा ।
सतारका द्यौरिव सा द्वारका प्रत्यराजत ।। ५२ ।।

प्राकारेणार्कवर्णेन शातकौम्भेन संवृता ।
हिरण्यप्रतिवर्णैश्च गृहैर्गम्भीरनिःस्वनैः ।। ५३ ।।

शुभ्रमेघप्रतीकाशैर्द्वारैः सौधैश्च शोभिता ।
क्वचित् क्वचिदुदग्राग्रैरुपावृतमहापथा ।। ५४ ।।

तामावसत् पुरीं कृष्णः सर्वे यादवनन्दनाः ।
अभिप्रेतजनाकीर्णा सोमः खमिव भासयन् ।। ५५।

विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव ।
जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः ।। ५६ ।।

भूयश्च बुद्धिरभवत् कृष्णस्य विदितात्मनः ।
जनानिमान् धनौघैश्च तर्पयेयमहं यदि ।। ५७ ।।

स वैश्रवणसंस्पृष्टं निधीनामुत्तमं निधिम् ।
शङ्खमाह्वयतोपेन्द्रो निशि स्वं भवने प्रभुः ।। ५८।

स शङ्खः केशवाह्वानं ज्ञात्वा हि निधिराट् स्वयम्।
आजगाम समीपं वै तस्य द्वारवतीपतेः ।। ५९ ।।

स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः ।
कृष्णं विज्ञापयामास यथा वैश्रवणं तथा ।। 2.58.६० ।।

भगवन् किं मया कार्यं सुराणां वित्तरक्षिणा ।
नियोजय महाबाहो यत् कार्यं यदुनन्दन ।। ६१ ।।

तमुवाच हृषीकेशः शङ्खं गुह्यकमुत्तमम् ।
जनाः कृशधना येऽस्मिंस्तान् धनेनाभिपूरय ।। ६२।
नेच्छाम्यनशितं द्रष्टुं कृशं मलिनमेव च ।
देहीति चैव याचन्तं नगर्यां निर्धनं नरम् ।। ६३ ।।

     वैशम्पायन उवाच
गृहीत्वा शासनं मूर्ध्ना निधिराट् केशवस्य ह ।
निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे ।। ६४ ।।

धनौघैरभिवर्षध्वं चक्रुः सर्वं तथा च ते ।
नाधनो विद्यते तत्र क्षीणभाग्योऽपि वा नरः ।। ६५ ।।
कृशो वा मलिनो वापि द्वारवत्यां कथंचन ।
द्वारवत्यां पुरि पुरा केशवस्य महात्मनः ।। ६६ ।।

चकार वायोराह्वानं भूयश्च पुरुषोत्तमः ।
तत्रस्थ एव भगवान् यादवानां प्रियंकरः ।। ६७ ।।

प्राणयोनिस्तु भूतानामुपतस्थे गदाधरम् ।
एकमासीनमेकान्ते देवगुह्यधरं प्रभुम् ।। ६८ ।।

किं मया देव कर्तव्यं सर्वगेनाशुगामिना ।
यथैव दूतो देवानां तथैवास्मि तवानघ ।। ६९ ।।

तमुवाच ततः कृष्णो रहस्यं पुरुषो हरिः ।
मारुतं जगतः प्राणं रूपिणं समुपस्थितम् ।। 2.58.७० ।।

गच्छ मारुत देवेशमनुमान्य सहामरैः ।
सभां सुधर्मामादाय देवेभ्यस्त्वमिहानय ।। ७१ ।।

यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः ।
तस्यां विशेयुरेते वै न तु या कृत्रिमा भवेत् ।७२ ।।

या ह्यक्षया सभा रम्या कामगा कामरूपिणी ।
सा यदून् धारयेत्सर्वान्यथैव त्रिदशास्तथा ।। ७३ ।।

संगृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः ।
वायुरात्मोपगतिर्जगाम त्रिदिवालयम् ।।७४।।

सोऽनुमान्य सुरान्सर्वान् कृष्णवाक्यं निवेद्य च ।
सभां सुधर्मामादाय पुनरायान्महीतलम् ।। ७५ ।।

सुधर्माय सुधर्मां तां कृष्णायाक्लिष्टकारिणे ।
देवो देवसभां दत्त्वा वायुरन्तरधीयत ।। ७६ ।।

द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता ।
सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा ।। ७७ ।।

एवं दिव्यैश्च भोगैश्च जलजैश्चाव्ययो हरिः ।
द्रव्यैरलंकरोति स्म पुरीं स्वां प्रमदामिव ।। ७८ ।।

मर्यादाश्चैव संचक्रे श्रेणीश्च प्रकृतीस्तथा ।
बलाध्यक्षांश्च युक्तांश्च प्रकृतीशांस्तथैव च ।। ७९ ।।

उग्रसेनं नरपतिं काश्यं चापि पुरोहितम् ।
सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुङ्गवम् ।। 2.58.८० ।।

यादवानां कुलकरान् स्थविरान् दश तत्र वै ।
मतिमान् स्थापयामास सर्वकार्येष्वनन्तरान् ।८१।

रथेष्वतिरथो यन्ता दारुकः केशवस्य वै ।
योधमुख्यश्च योधानां प्रवरः सात्यकिः कृतः ।८२ 
विधानमेवं कृत्वाथ कृष्णः पुर्यामनिन्दितः ।
मुमुदे यदुभिः सार्द्धं लोकस्रष्टा महीतले ।। ८३ ।।

रेवतस्याथ कन्यां च रेवतीं शीलसम्मताम् ।
प्राप्तवान् बलदेवस्तु कृष्णस्यानुमते तदा ।। ८४ ।।

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारावतीनिर्माणेऽष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।

____     


ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०७२

< ब्रह्मवैवर्तपुराणम्‎ | खण्डः ४ (श्रीकृष्णजन्मखण्डः)
← अध्यायः ७१ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७२

          अथ द्विसप्ततितमोऽध्यायः
                  नारायण उवाच
अथ कृष्णो गुरुं नत्वा निर्गम्य शिबिरान्मुने ।
आरुह्य स्वर्गयानं च शुभां मधुपुरीं ययौ ।। १ ।।

विवेश मथुरां रम्यां सहाक्रूरगणैः समम् ।
निर्जित्य शक्रनगरी शोभायुक्तां मनोहराम् ।। २ ।।

रत्नश्रेष्ठेन खचितां रचितां विश्वकर्मणा ।
अमूल्यरत्नकलशो राजितैश्च विराजनाम् ।। ३ ।।

राजमर्गशतैरिष्टैर्वैष्टितां रुचिरैर्वरैः ।
चन्द्राकारैश्चन्द्रसारैर्मणिमिः परिसंस्कृतैः ।। ४ ।।

विचित्रैर्मणिसारैश्च वीथीशतविनिर्मितैः ।
शोभितैर्वणिजैः श्रेष्ठैः पुण्यवस्तुसमन्वितैः ।। ५ ।।

सरोवरसहस्रैश्च परितः परिशोभितम् ।
शुध्धस्फटिसंकाशैः पद्मरागविराजितैः ।। ६ ।।

रत्नालंकारभूषाढ्यैः शोभितां पद्मिनीगणैः ।
स्यिरयौवनसंयुक्तैर्निमेषरहितैः परैः ।। ७।।

शाक्षरैरूर्ध्ववदनैः कृष्णदर्शनलालसैः ।
भ्रूभङ्गलीलालोलैश्च शश्वच्चञ्चललोचनैः ।। ८ ।।

शश्वत्कामसमायुक्तैः पीनश्रोणिपयोधरेः ।
कोमलाङ्गैर्मध्यकूपै रतिरासविशारदैः ।। ९ ।।

रत्ननिर्माणयानानां कोटिभिः परिशोभिताम् ।
भूषणैर्भूषिताभिश्च चित्रेताभिश्च चित्रकैः ।। १० ।।

नानाप्रकारश्रीयुक्तां पुष्पोद्यानत्रिकोटिभिः ।
नानापुष्पैः पुष्पिताभिर्युक्ताभिर्मधुसूदनैः ।। ११ ।।

माधुर्यमधुसंयुक्तैर्मधुलुब्धैर्मुदाऽन्वितैः ।
माध्वीकमधुमत्तैश्च युक्तैर्मंधुकरीचयैः ।। १२ ।।

नानाप्रकारदुर्गेश्च दुर्गम्यां वैरिणां गणैः ।
रणितां रणकैः शाश्चद्रक्षाशास्त्रविशारदैः ।। १३ ।।

त्रिकोट्ट्याट्टालिकाभिश्च संयुक्तां सुमनोहराम् ।
रचितां किल सद्रत्नैर्विचित्रैर्विश्वकर्मणा ।। १४ ।।

एवंभूतां च मथुरां दृष्ट्वा कमललोचनः ।
ददर्श पथि कुब्जां तां वृद्धामतियरादुराम् ।। १५ ।।

यान्तों दण्डसहायेन चातिनम्रां नमद्वलीम् ।
रूक्षितां विकृताकारां बिभ्रतीं चन्दनद्रवम् ।। १६ 

कस्तूरीकुङ्कुमाक्तं च स्पर्शमात्रेण नारद ।
सुगन्धिमकरन्देन गन्धाढ्यं सुमनोहरम् ।। १७ ।।

सादृष्ट्वा सस्मिता वृद्धा श्रीकान्तं शान्तमीश्वरम् ।
श्रीयुक्तं श्रीनिवासं तं श्रीबीजं श्रीनिकेतनम् ।। १८ 

प्रणम्य सहसा मूधर्ना भक्तिनम्रा पुटाञ्जलिः ।
प्रददौ चन्दनं तस्य गात्रेश्यामलसुन्दरे ।। १९ ।।

गात्रेषु तद्गणानां च स्वर्णपात्रकरा वरा ।
कृत्वा प्रदक्षिणं कृष्णं प्रणनाम पुनः पुनः ।। २० ।।

श्रीकृष्णदृष्टिमात्रेण श्रीयुक्ता सा बभूव ह ।
सहसा श्रीसमा रम्या रूपेण यौवनेन च ।। २१ ।।

वहिशुद्धांशुवसना रत्नभूषणभूषिता ।
यथा द्वादशवर्षोया कन्या धन्या मनोहरा ।। २२ ।।

बिम्बोष्ठी सस्मिता श्यामा तप्तकाञ्चनसंनिभा ।
सुश्रोणी सुदती बिल्वफलतुल्यपयोधरा ।। २३ ।।

अमूल्यरत्ननिर्माणहारसारविराजिता ।
गजेन्द्रराजगमना रत्नमञ्जीररञ्जिता ।। २४ ।।

बिभ्रती कबरीभारं मालतीमाल्यवेष्टितम् ।
रक्षितं वामभागेन रुचिरं वर्तुलाकृतिम् ।। २५ ।।

सिन्दूरबिन्दुं दधतों दाडिमीकुसुमाकृतिम् ।
कस्तूरी बिन्दुमुपरि सार्ध चन्दनबिन्दुभिः ।। २६ ।।

रन्नदर्पणाहस्ता च प्रशस्ता रतिकर्मसु ।
श्रीकृष्णं वरयामास लोललोचनकोणतः ।। २७ ।।

श्रीवासस्तां समाश्वस्य ययौ स्थानान्तरं परम् ।
कृतार्थरूपा सा प्रीत्या ययौ पद्मयथाऽऽलयम् ।। २८ ।।

स ददर्श स्वभवनं यया पद्यालयालयम् ।
रत्नशय्याविरचितं सद्रत्नसारनिर्मितम् ।। २९ ।।

रत्नप्रदीपराजीभी राजिताभिश्च राजितम् ।
रत्नदर्पणराजैश्च राजितं परितस्ततः ।। ३० ।।

सिन्दूरवस्त्रताम्बूलं श्चेतचामरमाल्यकम् ।
बिभ्रतीभिश्च दासीभिर्वेष्टितं दाससंघकैः ।। ३१ ।।

तत्र गत्वा च भुक्त्वा च मिष्टान्नं परमं मुदा ।
सुष्वाप रत्नपर्यङ्के सा दासीभिश्च सेविता ।। ३२ 

सकर्पूरं च ताम्बूलं कस्तूरीकुङ्कुमान्वितम् ।
चन्दनं स्थापयामास स्वतल्पे हरये सती ।। ३३ ।।

मालतीमाल्ययुगलं कर्पूरादिसुवासितम् ।
शीतलं सलिलं स्वादु मिष्टान्नं स्वसमीपतः ।। ३४।

कर्मणा मनसा वाचा चिन्तयन्ती हरेः पदम् ।
हरेरागमनं चापि मुखचन्द्रं मनोहरम् ।। ३५ ।।

जगत्कृष्णमयं शश्वत्पश्यन्ती कामुकी मुने ।
कोटिकन्दर्पलीलाभं कामसक्तं च कामुकम् ।। ३६।

ततो तदर्श श्रीकृष्णो मालाकारं मनोहरम् ।
मालासमूहं बिभ्रन्तं गच्छन्तं राजमन्दिरम् ।। ३७।

सोऽपि दृष्ट्वा च श्रीकान्तं प्रणम्य शिरशा भुवि ।
ददौ माल्यसमूहं च कृष्णाय परमात्मने ।। ३८ ।।

कृष्णस्तस्मै वरं दत्तवा स्वदास्यमतिदुर्लभम् ।
माल्यं गृहीत्वा प्रययौ राजमार्गे वरं वरः ।। ३९ ।।

ततो ददर्श रजकं बिभ्रतं वस्त्रपुञ्जकम् ।
अहंकृतिबलिष्ठं च सततं योवनोद्वतम् ।। ४० ।।

वस्त्रं ययाचे तं कृष्णो विनयेन महामुने ।
स तस्मै न ददौ वस्त्रं तमुवाच च निष्ठुरम् ।। ४१ ।।

गोरक्षकाणां त्वद्योग्यं वस्त्रमेतत्सुदुर्लभम् ।
राजयोग्यं च हे मूढ हे गोपजनवल्लभ ।। ४२ ।।

गृहीत्वा गोपकन्याश्च कन्यालोलुप लम्पट ।
यद्विहारः कृतस्तत्र वृन्दारण्येऽप्यराजके ।। ४३ ।।

न चात्र तादृशं कर्म राज्ञः कंसस्य वर्त्मंनि ।
विद्यमानोऽत्र राजेन्द्रः शास्ता दुष्टस्य तत्क्षणम् ।। ४४ ।।

रजकस्य वचः श्रुत्वा जहास मधुसूदनः ।
जहास बलदेवश्च साक्रूरो गोपवर्गकः ।। ४५ ।।

तं निहत्य चपेटेन जग्राह वस्त्रपुञ्जकम् ।
वस्त्रं संधारयामास श्रीकृष्णः सगणस्तथा ।। ४६।

रत्नयानेन गोनोकं पार्षदेर्वेष्टितेन च ।
ययौ रजकराजश्च धृत्वा दिव्यकलेवरम् ।। ४७ ।।

शश्वद्यौवनयुक्तं च जरामृत्युहरं वरम् ।
पीतवस्त्रसमायुक्तं सस्मितं श्यामसुन्दरम् ।। ४८ ।।

बभूव सोऽपि गोलोके पार्षदेषु च पार्षदः ।
कृष्णस्याऽऽगमनं तत्र सस्मार सततं वशी ।। ४९।

अस्तं गतो दिनकरोऽप्यक्रूरः स्वगृहं ययौ ।
कृष्णस्यानुमतिं प्राप्य कृष्णोऽपि कस्यचिद्गृहम् ।। ५० ।।

वैष्णवस्य कुविन्दस्य तस्मिन्नस्तधनस्य च ।
सानन्दो नन्दसहितो बलदेवादिभिर्युतः ।। ५१ ।।

स भक्तः पूजयामास प्रणम्य श्रीनिकेतनम् ।
तस्मै ददौ स्वदास्यं च वरं ब्रह्मादिदुर्लभम् ।। ५२।

पर्यङ्के सुषुपुः सर्वे भुक्त्वा मिष्टान्नसुत्तमम् ।
निद्रां च लेभे सा कुब्जा निद्रेशोऽपिययौ मुदा ।। ५३ ।।

गत्वा ददर्श कुब्जां तां रत्नतल्पे च निद्रिताम् ।
दासीगणैः परिवृतां सुन्दरीं कमलामिव ।। ५४ ।।

बोधयामास तां कृष्णो न दासीस्वपि निद्रिताः ।
तामुवाच जगन्नाथो जगन्नाथप्रियां सतीम् ।। ५५।

                   श्रीभगवानुवाच
त्यज निद्रां महाभागे शृङ्गारं देहि सुन्दरि ।
पुरा शूर्पणखा त्वं च भगिनीं रावणस्य च ।। ५६ ।।

रामजन्मनि मद्धेतोस्त्वया कान्ते तपः कृतम् ।
तपःप्रभावान्मां कान्तं भज श्रीकृष्णजन्मनि । ५७ 

अधुना सुखसंयोगं कृत्वा गच्छ ममाऽऽलयम् ।
सुदुर्लभं च गोलोकं जरासृत्युहरं परम् ।। ५८ ।।

इत्युकत्वा श्रीनिवासश्च कृत्वातामेव वक्षसि ।
नग्नां चकार शृङ्गारं चुम्बनं चापि कामुकीम् । ५९।

स सस्मिता च श्रीकृष्णं नवसंगमलज्जिता ।
चुचुम्ब गण्डे क्रोडे तं चकार कमला यथा । ६०।

सुरतेर्विरतिर्नास्ति दंपती रतिपण्डितौ ।
नानाप्रकारसुरतं बभूव तत्र नारद ।। ६१ ।।

स्तनश्रोणियुगं तस्या विक्षतं च चकार ह ।
भगवान्नखरैस्तीक्ष्णैर्दशनैरधरं वरम् ।। ६२ ।।

निशावसानसमये वीर्याधानं चकार सः ।
सुखसंभोगभोगेन मूर्च्छामाप च सुन्दरी ।। ६३ ।।

तत्राऽऽजगामतां तन्द्रा कृष्णवक्षःस्थलस्थिताम् ।
बुबुधे न दिवारात्रं स्वर्ग मर्त्य जलं स्थलम् ।। ६४ ।

सुप्रभाता च रजनी बभूव रजनीपतिः ।
पत्युर्व्यतिक्रमेणैव लज्जयेव मलीमसः ।। ६५ ।।

अथाजगाम गोलोकाद्रथो रत्नविनिर्मितः ।
जगाम तेन तं लोकं धृत्वा दिव्यकलेवरम् ।। ६६ ।।

वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् ।
प्रतप्तकाञ्चनाभासं नित्यं जन्मादिवर्जितम् ।। ६७।

सा बभूव च तत्रैव गोपी चन्द्रमुखी मुने ।
गोप्यः कतिविधास्तस्या बभूवुः परिचारिकाः।६८।

भगवानपि तत्रैव क्षणं स्थित्वा स्वमन्दिरम् ।
जगाम यत्र नन्दश्च सानन्दो नन्दनन्दनः ।। ६९।।

अथ कंसो निशायां च निद्रायां भयविह्वलः ।
ददर्श दुःखदुःस्वप्नमात्मनो मृत्युसूचकम् ।। ७० ।।

ददर्श सूर्यं भूमिस्थं चतुःखण्डं नभश्च्युतम् ।
दशखण्डे चन्द्रबिम्बं भूमिस्थं खाच्च्युतं मुने ।। ७१।

पुरुषान्विकृताकारान्रज्जुहस्तान्दिगम्बरान् ।
विधवां शूद्रपत्नीं च नग्नां च च्छिन्ननासिकाम् ।। ७२ ।।

हसन्तीं चूर्णतिलकां श्वेतकृष्णोच्चमूर्धजाम् ।
खड्गखर्परहस्तां च लोलजिह्वां च बिभ्रतीम् ।७३।

रुण्डमालासमायुक्तां गर्दभं महिषं वृषम् ।
भल्लूकं सूकरं काकं गृध्रं कह्कं च वानरम् । ७४।

विरजं कुक्कुरं नक्रं शृगालं भस्मपुञ्जकम् ।
अस्थिराशिं तालफलं केशं कार्पासमुल्बणम् ।७५ ।

निर्वाणाङ्गारमिल्कां च शवं सर्त्यं चिताश्रितम् ।
कुलालतैलकाराणां चक्रं वक्रं कपर्दकम् ।७६ ।

श्मशानं दग्धकाष्ठं च शुष्ककाष्ठं कुणं तृणाम् ।
गच्छन्तं च कबन्धं च नदन्तं मृतमस्तकम् ।। ७७।

दग्धस्थानं भस्मयुतं तडागं जलवर्जितम् ।
दग्धमत्स्यं च लोहं च निर्वाणदग्धकाननम् ।। ७८।

गलत्कुष्ठं च वृषलं नग्नं च सुक्तसूर्धचम् ।
अतीव रूपटं विप्रं च शपन्तं गुरुमीदृशाम् ।। ७९।

अतीवरुष्टं भिक्षुं च योगिनं वैष्णवं नरम् ।
एवं दृष्ट्वा समुत्थाय कथयामास मातरम् ।। ८०।

पितरं भ्रातरं पत्नीं रुदतीं प्रेमविह्वलम् ।।
मञ्चकान्कारयामस स्थापयामास हस्तिनम् । ८१।

मल्लसैन्यं च योद्धारं कारयामास मङ्गलम् ।
सभां च कारयामास पुण्यं स्वस्त्ययनं शिवम् ।८२।

यत्नेन योजयामास योगे युक्तं पुरोहितम् ।
उवास मञ्चके रम्ये धृत्वा खड्गं विलक्षणम् ।८३।

रणे नियोजयामास योद्धारं युद्धकोविदम् ।
वासयामास राजेन्द्रान्ब्राह्मणांश्च मुनीश्वरान् । ८४।

ब्राह्मणाश्च सुहृद्वर्गान्धर्मिष्ठान्रणकोविदान् ।
अथाऽऽजगम गोविन्दो रामेण सह नारद ।८५ ।

महेशस्य धनुर्मध्यं बभञ्ज तत्र लीलया ।
शब्देन तस्य मथुरा बधिरा च बभूव ह ।८६।

विषादं प्राप कंसश्च मुदं च देवकीसुतः ।
उपस्थितः सभामद्धे गजं मल्लं निहत्य च ।।
योगी ददर्श तं देवं परमात्मानमीश्वरम् ।८७ ।

यथा हृत्पद्ममध्यस्थं तादृशं बहिरेव च ।
राजेन्द्ररूपं राजानः शास्तारं दण्डधारिणा म् ।८८।

पिता माता दुग्धमुखं स्तनान्धं बालकं यथा ।
कामिन्यः कोटिकन्दर्पलीलालावप्यधारिणम् । ८९।

कंसश्च कालपुरुषं वैरिणं तस्य बान्धवाः ।
मल्ला मृत्युप्रदं चैव प्राणतुल्यं च यादवाः ।। ९० ।।

नमस्कृत्य मुनीन्विप्रान्पितरं मातरं गुरुम् ।
जगाम मञ्चकाम्याशं हस्ते कृत्वा सुदर्शनम् ।। ९१।

दृष्टावा भक्तं भक्तबन्धुः कृपया च कृपानिधिः ।
आकृष्य मञ्चकात्कंकं जघान लीलया मुने ।। ९२।

राजा ददर्श विश्वं च सर्वं कृष्णमयं परम् ।
पुरतो रत्नयानं च हीरकाहारभूषितम् ।। ९३ ।।

ययौ विष्णुपदं स्फीतो दिब्यरूपं विधाय च ।
तेजो विवेश परमं कृष्णपादाम्बुजे मुने ।। ९४ ।।

निवृत्य तस्य सत्कारं ब्राह्मणेम्यो धरं ददौ ।
ददौ राज्यं राजछत्रमुग्रसेनाय धीमते ।। ९५ ।।

स बभूव नृपेन्द्रश्च चन्द्रवंशसमुद्भवः ।
विललाप कंसमाता पत्नीवर्गश्च तत्पिता ।। ९६ ।।

बान्धवा मातृवर्गश्च भगिनी भ्रातृकामिनी ।
दर्शनं देहि राजेन्द्र समुत्तिष्ठ नृपासने ।। ९७ ।।

राज्यं रक्ष धनं रक्ष बान्धवं बलमेव च ।
क्व यासि बान्धवान्हित्वा त्वमनाथान्महाबल ।९८।

ब्रह्मादिस्तम्बपर्यन्तमसंख्यं विश्वमेव च ।
सर्वं चराचराधारं यः सृजत्येव लीलया ।। ९९ ।।

ब्रह्मेशशेषधर्माश्च दिनेशश्च गणेश्वरः ।
मुनीन्द्रवर्गो देवेन्द्रो ध्यायते यमहर्निशम् ।। १००।

वेदाः स्तुपन्ति यं कृष्णं स्तौति भीता सरस्वती ।
स्तौति यं प्रकृतिर्हृष्टा प्राकृतं प्रकृतेः परम् ।। १०१।

स्वेच्छामयं निरीहं च निर्गुणं च निरञ्जनम् ।
परात्परतरं ब्रह्म परमात्मानमीश्वरम् ।। १०२ ।।

नित्यं ज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ।
नित्यानन्दं च नित्यं च नित्यमक्षरविग्रहम् ।। १०३।

सोऽवतीर्णों हि भगवान्भारावतरणाय च ।
गोपालबालवेषश्च मायेशो मायया प्रभुः ।। १०४ ।।

स यं हन्ति च सर्वेशो रक्षिता तस्य कः पुमान् ।
स यं रक्षति सर्वात्मा तस्य हन्ता न कोऽपि च ।। १०५ ।।

इत्येवमुक्त्वा सर्वश्च विरराम महामुने ।
ब्राह्मणान्भोजयामास तेभ्यः सर्वं धनं ददौ ।। १०६।

भगवानपि सर्वात्मा जगाम पितुरन्तिकम् ।
छित्तवा च लोहनिगडं तयोर्मोक्षं चकार सः ।। १०७ ।।

ननाम दण्डवद्भमौ मातरं पितरं तथा ।
तुष्टाव भक्त्तया देवेशो भक्तिनम्रात्मकंधरः ।। १०८ ।।

               श्रीभगवानुवाच
पितरं मातरं विद्यामन्त्रदं गुरुमेव च ।
यो न पुष्णाति पुरुषो यावज्जीवं च सोऽशुचिः ।। १०९ ।।

सर्वेषामपि पूज्यानां पिता वन्द्यो महान् गुरुः ।
पितुः शतगुणैर्माता गर्भधारणपोषणात् ।। ११० ।।

माता च पृथिवीरूपा सर्वेभ्यश्च हिरैषिणी ।
नास्ति मातुः परो बन्धुः सर्वेषां जगतीतले ।। १११।

विद्यामन्त्रप्रदः कत्यं मातुः परतनो गुरुः ।
न हि तस्मात्परः कौऽपि वन्द्यः पूज्यश्च वेदतः ।। ११२ ।।

इत्येवमुक्त्वा श्रीकृष्णो बलभद्रो ननाम च ।
माता चकारतौ क्रोडे पिता च सादरं मुने ।। ११३।

मिष्टान्नं परमं तौ च भोजयामास ब्राह्मणान् ।
वसुर्वसुसमूहं च ब्राह्मणेभ्यो ददौ मुदा ।११४ ।
__________________

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ..कंसवधवसुदेव-
देवकीमोक्षणं नाम द्विसप्ततितमोध्यायः।७२।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें