बुधवार, 7 फ़रवरी 2018

अत्रेदमुसन्धेयम्, निषादस्य संकरजातिविशेषस्य शूद्रान्तर्गततया "स्त्रीशूद्रौ नाधीयताम्" इत्यनेन निषिद्धत्त्वाद् वेदसामान्यानधिकारेsपि "निषादस्थपतिं याजयेत्" इति विशेषश्रुतियाजनान्यथानुपपत्त्यैव यागमात्रोपयुक्तमध्ययनं निषादस्य कल्पयते ।

Book Name : परिष्कार दर्पण्
Author : व्याकरण सिरोमणि पण्डिट् वेनिमाधव शुक्ल
Editor : पण्डिट् राजा नारायण शुक्ल
Published by : Jai Krishnadas-Haridas Gupta
Year of Publishing : 1955
Project Name : Development of Tagged Corpora for Sanskrit Texts (DTCS), CIIL Project
Center : Department of Sanskrit Studies, School of Humanities, University of Hyderabad
Typed by :
Proofed by :
Sandhi Splitted by
                                                                          श्री सरस्वत्यै नमः
                                                                      अथ परिष्कारदर्पणः प्रारभ्यते।
अन्ये तु-समासप्रयुक्तलक्षणाशून्यातुल्यार्थकोभयनामकसमासः कर्मधारयः ।
यथा नीलोत्पलमित्यादौ ।
अत्र पञ्चमूलोत्यदावापि तुल्यर्थकोभयनामकत्त्वसत्त्वात्तद्वारणाय समासप्रयुक्तलक्षणाशून्येति नामविशेषणम् । धवखदिरादिति द्वन्द्ववारणाय तुल्यार्थकेति नामविशेषणम् ।
नीलोत्पलमित्यत्र यद्यपि नीलपदे नीलगुणाश्रये निरूढलक्षणा तथापि तस्याः समासप्रयुक्तत्त्वाभावात् नाव्याप्तिः ।
नामद्वयस्य तुल्यार्थत्वाच्च लक्षणसमन्वयः सम्भवतीति बोध्यम् ? स्तोकपक्ता इत्यादौ क्रियाविशेषणैः कर्मधारय एव ।
महाकविर्महाविज्ञः इत्यादौ कवित्त्वादाविव प्रकृतेsप्यनेकनामार्थैकदेशे पचनादावपरनामार्थस्य अभेदान्वयबोधकतया कर्मधारयत्त्वस्य सम्भवात् । स्तोकपक्ता इत्यादौ अमः तादात्म्यवाचित्त्वे तु तत्पुरुषः सम्भवत्येव ।
क्रियाविशेषणैः समास एवाव्युत्पन्न इति तु न युक्तम् ! स्तोकनम्रा स्तनाभ्यामित्यादेः कालिदासाद्यैः प्रयुक्तत्त्वात् । कर्मधारये समासे न शक्तिर्नवा लक्षणा, नीलपदार्थस्योत्पलपदार्थो अभेदसम्बन्धेनैवान्वयोपपत्तौ शक्तिलक्षणानङ्गीकारात् ।
अत एव तत्पुरुषात् कर्मधारयो लघीयान् भवति । तथाहि निषादस्थपतिं याजयेत् इतिश्रुतौ बहुव्रीहितत्पुरुषसमासावपेक्ष्य कर्मधारय एव लक्षणाद्यभावाल्लघीयानिति ।
अत्रेदमुसन्धेयम्, निषादस्य संकरजातिविशेषस्य शूद्रान्तर्गततया "स्त्रीशूद्रौ नाधीयताम्" इत्यनेन निषिद्धत्त्वाद् वेदसामान्यानधिकारेsपि "निषादस्थपतिं याजयेत्" इति विशेषश्रुतियाजनान्यथानुपपत्त्यैव यागमात्रोपयुक्तमध्ययनं निषादस्य कल्पयते । तथा च स्रीशूद्राविति सामान्यशास्त्रघटकाध्ययनपदस्य विशेषतः प्राप्ताध्ययनेतराध्ययनपरत्त्वं वाच्यम् ।
तेन निषादस्य यागोपयुक्ताध्ययनेतराध्ययननिषेधः, शूद्रान्तरस्य तु अध्ययनमात्रनिषेधः सिद्ध्यति इति । कारकम्-- यद्धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः सुबर्थः तद्धातूपस्थाप्यतादृशक्रियायां कारकम् । यथा वृक्षात् पतति, व्याघ्राद् बिभेतीत्यादौ ब्राह्मणाय ददाति, पुत्राय क्रुध्यतीत्यादौ दात्रेण छिनत्ति, घटत्त्वेन जानातीत्यादौ-स्थाल्यां पचति, शुक्तौ भासत इत्यादौ-ग्रामे गच्छति, घटम्पश्यतीत्यादौ-चैत्रेण पच्यते, घटेन भूयत इत्यादौ च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थापितो विभागादिः प्रकारीभूय भासत इति । तत्तद्धातृपस्थापिततत्तत्क्रियायां विभागादिकं प्रकृते कारकम् ।
अन्ये तु-यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेsन्वयः स तादृशधात्वर्थे कारकतया व्यपदिश्यते ।
तेन वृक्षात् पततीत्यादौ वृक्षादेरपि पतनादिक्रियायामपादानादिकारकव्यवहारः । परे तु-क्रियाप्रकारीभूतोsर्थः कारकमिति शाब्दिकाः । केचित्तु-कारकत्त्वञ्च-क्रियान्वितविभक्त्यर्थान्वितत्त्वम् । अस्ति च कर्मादौ क्रियान्वितसुब्विभक्त्यर्थान्वय इति समन्वयः ।
चैत्रस्य तण्डुलं पचतीत्यादौ तु सम्बन्धिनि चैत्रादौ षष्ठ्यर्थसम्बन्धस्य तण्डुलादिनामार्थान्विततया क्रियानन्वितत्वान्नातिव्याप्तिः ।
चैत्रस्य पचतीत्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः ।
षष्ठ्यर्थसम्बन्धस्य नामार्थेनैव तथा क्रियायाः कर्मत्त्वादिनैव साकाङ्क्षतया परस्पराकाङ्क्षाविरहात् ।
ओदनस्य पक्ता मैत्रस्य पाक इत्यादौ कर्मत्त्वकर्तृत्त्वार्थिका षष्ठी कारकविभक्तिरेव "कर्तृकर्मणोः कृति" इत्यनेन विधानात् ।
अत एव सम्बन्धस्य न कारकत्त्वम्' क्रियायोगाभावात् । परेतु-क्रियाप्रकारभूतोsर्थः कारकं तच्च षड्विधम् । कर्तृकर्मादिभेदेन शेषः सम्बन्ध इष्यते इति शाब्दिकाः । अत एव "गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः" इत्यादौ "सा लक्ष्मीरूपकुरुते यथा परेषाम्" इत्यादौ च रोगे विपत्तौ इत्यादिनाम्नोः यथाक्रमम् अध्याहारणैव बोधः ।
अयम्भावः, अत्रोध्याहृतनामार्थेनैव षष्ठ्यर्थसम्बन्धस्यान्वयः न तु क्रियया इति नात्र कारकषष्ठी इति ।
अत्र गदाधरभट्टाचार्य्यास्तु रोग इत्यस्य नाध्याहारः कार्य्यः ।
षष्ठ्यर्थसम्बन्धस्य धात्वर्थेsन्वयेsपि नेयं कारकविभक्तिः किन्तूपपदविभक्तिरेवेत्याहुः ।
यदि अध्याहारमन्तरा क्रियायां षष्ठ्यर्थसम्बन्धान्वयः प्रामाणिकस्तदा क्रियान्वितकर्तृत्त्वकर्मत्त्वादिषट्कान्यतमान्वयित्त्वम् कारकत्त्वम् बोध्यम् ।
अत एव च "चर्मणि द्वीपिनं हन्ति" इत्यादौ निमित्तादेरपि न कारकत्त्वम् ।
शाब्दिकास्तु-क्रियाजनकत्त्वयोग्यताबुद्धिविषयत्त्वम् कारकत्त्वमित्याहुः ।
अथ सङ्गतिनिरूपणम् । स प्रसङ्ग उपोद्घातो हेतुताsवसरस्तथा ।
निर्वाहकैककार्यैक्ये षोढा सङ्गतिरिष्यते ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें