बुधवार, 31 जुलाई 2024

"राधा तन्त्रम्-



  •            "श्री पार्वत्युवाच—
  • गणेशनन्दिचन्द्रेशविष्णुना परिसेविते। देव देव महादेव मृत्युञ्जय सनातन।।१।।          
  • रहस्यं वासुदेवस्य राधातन्त्रं मनोहरम्।पूर्वं हि सूचितं देव कथामात्रेण शङ्कर।कृपया कथयेशान तन्त्रं परमदुर्लभम्।।२।।                     "ईश्वर उवाच—
  • रहस्यं वासुदेवस्य राधातन्त्रं वरानने।अत्यन्तगोपनं तन्त्रं विशुद्धं निर्मलं सदा।।कालीतन्त्रं यथा देवि तोलनं च तथा प्रिये।सर्वशक्तिमयं विद्या विद्यायाः साधनाय वै।निगमामि वरारोहे सावधानावधारय।।३।।
  • वासुदेवो महाभागः सत्तरं मम सन्निधिम्।आगत्य परमेशानि यदुक्तं तच्छृणु प्रिये।।४।।
  • "वासुदेव उवाच—
  • मृत्युञ्जय महाबाहो किं करोमि जपं प्रभो।तन्मे वद महाभाग वृषध्वज नमो ऽस्तु ते।।५।।
  • संसारतरणे देव तरणिस्त्वं तपोधन।त्वां विना परमेशानि नहि सिद्धिं प्रजायते।।६।।
  • एतच्छ्रुत्वा महेशानि विष्णोरमिततेजसः।पीयुषसंयुतं वाक्यं वासुदेवस्य योगिनि।यदुक्तं वासुदेवाय तत्सर्वं शृणु पार्वति।।७।।
  • मा भयं कुरु भो विष्णो त्रिपुरां भजसुन्दरीम्।दशविद्या विना देव नहि सिद्धिं प्रजायते।।८।।
  • तस्माद्दशसु विद्यासु प्रधानं त्रिपुरा परा।चतुर्वर्गप्रदां देवीमीश्वरीं विश्वमोहिनीम्।।९।।
  • सुन्दरीं परमाराध्यां विश्वपालनतत्पराम्।सदा मम हृदिस्थातां नमस्कृत्या वदाम्यहम्।।१०।।
  • ब्रह्माणीं च समुद्धृत्य भगबीजं समुद्धर।रतिबीजं समुद्धृत्य पृथ्विबीजं समुद्धर।मायामन्ते ततो दत्त्वा वाग्भावं कुरु यत्नतः।इदं हि वाग्भं कूटं सदा त्रैलोक्यमोहनम्।।११।।
  • शिवबीजं समुद्धृत्य भृगुबीजं ततः परम्।कुमुद्वतीं ततो देवि शून्यं च तदनन्तरं।पृथ्वीबीजं ततश्चोक्त्वा अन्ते माया पराक्षरीम्।कामबीजमिदं देवि कूटं परमदुर्लभम्।।१२।।
  • भृगुबीजं समुद्धृत्य समुद्धर कुमद्वतीम्।इन्द्रबीजं ततो देवि तदन्ते विकटोपरा।।१३।।
  • वासुदेवोऽपितं श्रुत्वा द्रुतं काशीपुरं ययौ।यत्र काशी महामाया नित्या योनिस्वरूपिनी।सा काशी परमाराध्या ब्रह्माद्यैः परिसेविता।।१४।।
  • मुहूर्तं यत्र यज्जप्तं लक्षवर्षफलं लभेत्।तत्र गत्वा वासुदेवः संपूज्यजपमारभेत्।।१५।।
  • संपूज्य विधिवद्देवीं भवनीं परमेश्वरीम्।आत्मना मनसा वाचा एकीकृत्य वरानने।सदाशिवपुरे रम्ये पुष्करे शक्तिसंयुते।भूमौ शिरः प्रोथनं च पादोर्ध्वं परमेश्वरि।।१६।।
  • कृत्वा सुदुष्करं कर्म नहि सिद्धिं प्रजायते।एवं कृते महेशानि सहस्रादित्यसंज्ञकम्।गतवान्वासुदेवस्य विष्णोरमिततेजसः।तथापि परमेशानि नहि सिद्धिः प्रजायते।।१७।।
  • आविर्भूय महामाया त्रिपुरा परमेश्वरी।विलोकयेद्वासुदेवं श्वासधारणमात्रकम्।विलोक्य कृपया दृष्ट्यामृतैः सिञ्चेदिव प्रिये।।१८।।
  • "त्रिपुरोवाच—
  • उत्तिष्ठ वत्स हे पुत्र किमर्थं तप्यसे तपः।भो पुत्र शीघ्रमुत्तिष्ठ वरं वरय रे सुत।।१९।।
  • एतच्छ्रुत्वा परमं वाक्यं त्रिपुरायाः सुधाश्रवम्।वाक्यं तस्यां ततः श्रुत्वा त्यक्त्वा योगं तु तत्क्षणात्।पपात चरणोप्रान्ते त्रिपुरायाः शुचिस्मिते।।२०।।
  • "वासुदेव उवाच—
  • नमस्ते त्रिपुरे मातर्नमस्ते दुःखनाशिनि।नमस्ते शङ्कराराध्ये कृष्णाराध्ये नमोऽस्तु ते।त्रिलोकजननी मातर्नमस्ते ऽमृतदायिनि।आविर्भूता तु या देवी विष्णोर्हृदयसंस्थिता।।२१।।
  • इति वासुदेवरहस्ये राधातन्त्रे प्रथमः पटलः।।१।।
  • वासुदेव महाभागो शृणु मे परमं वचः।त्वं हि देव सुतश्रेष्ठ किमर्थं तप्यते तपः।कूलाचारं विना पुत्र न हि सिद्धिं प्रजायते।शक्तिहीनस्यते सिद्धिं कथं भवति पुत्रक।।२२।।
  • ममांश सम्भवां लक्ष्मीं त्यक्त्वा किं तप्यते तपः।वृथाश्रमं वृथा पूजां जपं च विफलं सुत।।२३।।
  • संयोगं कुरु यत्नेन शक्त्यासह तपोधन।योगं विना सुतश्रेष्ठ विद्या सिद्धिर्न जायते।।२४।।
  • साधके क्षोभमापन्ने देवता क्षोभमाप्नुयात्।तस्माद्भोगयुतो भूत्वा जपकर्म समारभेत्।भोगं विना सुतश्रेष्ठ न हि मोक्षः प्रजायते।शृणु तत्त्वं सुतश्रेष्ठ दीक्षाया आनुपूर्विकीम्।।२५।।
  • दशवर्षे तु संप्राप्ते द्वादशाभ्यन्तरे सुत।शृणुयाद्धरिनामानि षोडशानि पृथक्पृथक्।।२६।।
  • हरिनाम्ना विना पुत्र कर्णशुद्धिर्न जायते।।२७।।
  • "वासुदेव उवाच—
  • शृणु मातर्महामाये विश्वबीज स्वरूपिणी।हरिनाम्ने महामाये क्रमं वद सुरेश्वरि।।२८।।
  • "त्रिपुरोवाच—
  • हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे।हरे राम हरे राम राम राम हरे हरे।।२९।।
  • द्वात्रिंशदक्षराण्येव कलौ नामानि सर्वदा।शृणु च्छन्दः सुतश्रेष्ठ हरिनाम्नेः सदैव हि।।३०।।
  • छन्दो हि परमं गुह्यं महत्पदमनव्ययम्।सर्वशक्तिमयं मन्त्रं हरिनाम तपोधन।।३१।।
  • हरिनाम्नो मन्त्रस्य वासुदेव ऋषिः स्मृतः।गायत्री छन्द इत्युक्तं त्रिपुरा देवता मता।महाविद्या सुसिद्ध्यर्थं विनियोगः प्रकीर्तितः।एतन्मन्त्रं सुतश्रेष्ठ प्रथमं शृणुयान्नरः।।३२।।
  • श्रुत्वा द्विजमुखात्पुत्र दक्षकर्णे तपोधन।आदौ च्छन्दं ततो मन्त्रं श्रुत्वा शुद्धो भवेन्नरः।द्वादशाभ्यन्तरे श्रुत्वा कर्णशुद्धिमवाप्नुयात्।।३३।।
  • कर्णशुद्धिं विना पुत्र महाविद्यामुपास्य च।नरी वा पुरुषो वापि तत्क्षणान्नारकी भवेत्।।३४।।
  • ततस्तु षोदशे वर्षे संप्राप्ते सुरवन्दित।महाविद्यां ततः शुद्धां नित्यां ब्रह्मस्वरूपिणीम्।श्रुत्वा कुलमुखात्विप्रात्साक्षाद्ब्रह्ममयो भवेत्।।३५।।
  • कुर्यात्कुलरहस्यं यः शिवोक्तं च तपोधन।विद्या सिद्धिर्भवेत्तस्य अष्टैश्वर्यमवाप्नुयात्।।३६।।
  • रहस्यं हि विना पुत्र श्रम एव हि केवलम्।अत एव सुतश्रेष्ठ रहस्यं रहितस्यते।रहस्यरहितां विद्यां न जपे तु कदाचन।।३७।।
  • एतद्रहस्यं परमं हरिनाम्नस्तपोधन।।हकारं तु सुतश्रेष्ठ शिवः साक्षान्न संशयः।रेफं तु त्रिपुरादेवी दशमूर्तिमयी सदा।एकारः शून्यरूपी च रेफो विग्रहधारकः।।३९।।
  • हरिं तु त्रिपुरा साक्षान्मम मूर्तिर्न संशयः।ककारः कामदा कामरूपिणी स्फुरदव्यया।ऋकारं तु सुतश्रेष्ठ श्रेष्ठा शक्तिरितीरिता।ककारं च ऋकारं च कामिनी वैष्णवी कला।।४०।।
  • यकारश्चन्द्रमा देवः कला षोदशसंयुतः।णकारं च सुतश्रेष्ठ साक्षान्निर्वृतिरूपिणी।द्वयोरैक्यं तपः श्रेष्ठ साक्षात्त्रिपुरभैरवी।।४१।।
  • कृष्ण कृष्ण सुतश्रेष्ठ महामाया जगन्मयी।हरे हरे ततो देवी शिवशक्तिस्वरूपिणी।।४२।।
  • हरे रामेति च पदं साक्षाज्ज्योतिर्मयी परा।रेफं तु त्रिपुरा साक्षादानन्दामृतसंयुता।मकारं तु महामाया नित्या तु रुद्ररूपिणी।।४३।।
  • विसर्गं तु सुतश्रेष्ठ साक्षात्कुण्डलिनी परा।राम रामेति च पदं शिवशक्तिः स्वयं सुत।हरे हरेपि च पदं शक्तिद्वयसमन्वितं।।४४।।
  • आद्यन्ते प्रणवं दत्त्वा यो जपेद्दशधा द्विजः।स भ्वेत्सुतवरश्रेष्ठ महाविद्यासु सुन्दरः।।४५।।
  • एषा दिक्षा पराज्ञेषा ज्येष्ठा शाक्तिसमन्विता।हरिनाम्नः सुतश्रेष्ठ ज्येष्था तु वैष्णवी स्वयम्।।४६।।
  • विना श्रीवैष्णवीं दीक्षां प्रसादं सद्गुरोर्विना।कोटिवर्षं समादाय रौरवं नरकं व्रजेत्।।४७।।
  • एवं षोडशनामानि द्वात्रिंशदक्षरानि च।आद्यन्ते प्रणवं दत्त्वा चतुर्त्रिंशदनुत्तमं।।४८।।
  • हरिनाम्ना विना पुत्र दीक्षा च विफला भवेत्।कुलदेवमुखाच्छ्रुत्वा हरिनाम पराक्षरम्।ब्राह्मणक्षत्रविट्शूद्राः श्रुत्वा नाम पराक्षरं।दीक्षां कुर्युः सुतश्रेष्ठ महाविद्याषु सुन्दर।।४९।।
  • हरिनामार्थदीक्षां वा यदि शूद्रमुखात्प्रिये।अकुलाद्यस्तु गृह्णीयात्तस्य पापफलं शृणु।श्रुत्वा शूद्रोऽपि शूद्राण्या विद्या वा मन्त्रमुत्तमम्।कोटिवर्षान्समादाय रौरवं प्रतिगच्छति।।५०।।
  • अपिदातृ गृहीत्रोर्वा द्वयोरेव समं फलम्।ब्रह्महत्यामवाप्नोति प्रत्यसरमितीरितम्।शृणु पुत्र वासुदेव प्रसङ्गाद्वचनं मम।।५१।।
  • इति द्वितीयः पटलः।।२।।
  • सम्प्राप्ते षोडशे वर्षे दीक्षां कूर्यात्समाहितः।यदि नो कुरुते पुत्र संप्राप्ते वर्ष षोडशे।हरिनाम वृथा तस्य गते तु वर्ष षोडशे।।१।।
  • तस्माद्यत्नेन कर्तव्या दीक्षा हि वर्ष षोडशे।अन्यथा पशुवत्सर्वं तस्य कर्म भवेत्सुत।।२।।
  • वासुदेव महाबाहो रहस्यं परमं शृणु।प्रकटाख्यं हरेर्नाम सभायां यत्र तत्र वै।महाविद्या सुतश्रेष्ठ तदगुप्ता भविष्यति।।३।।
  • प्रजपेदनिशं पुत्र महाविद्यां तपोधन।अशुर्वा शुचिर्वापि गच्छं तिष्ठन्स्वपन्नपि।।४।।
  • महाविद्यां जपेद्धीमान्यत्र कुत्रापि माधव।सम्पूज्य शिवलिङ्गं तु महाविद्यां जपेत्तु यः।।५।।
  • पूजयेद्द्विविधः लिङ्गं बिल्वपत्रादिभिः प्रिय ।भावयेदनिशं पुत्र महाविद्यां हृदात्मना।।६।।
  • निशायां शक्तियुक्तश्च पूजयेद्द्विविधः जपेत्।शिवोक्ततन्त्रवत्सर्वं कुलाचारं हि माहव।।७।।
  • यः कूर्यात्सततं पुत्र तस्य सिद्धिर्हि जायते।कुलाचारं विना पुत्र तव सिद्धिर्न जायते।।८।।
  • "त्रिपुरोवाच—
  • शृणु पुत्र महाबाहो मम वाक्यं मनोहरम्।रहस्यं परमं गुह्यं सुगोप्यं भुवनत्रये।।९।।
  • कथयिष्यामि ते वत्स कथां चित्र विचित्रिताम्।वक्षःस्थलसमानीनां मालां चित्र विचित्रिताम्।।१०।।
  • सदा आम्नायरूपा च विभाति हृदये मम।माणिक्यरचितामाला यवाकुसुमसन्निभा।।११।।
  • नानारत्नप्रसूता च हस्त्यश्वरथपत्तयः।कौस्तुभोमणिनामाथ मालामधो विराजते।।१२।।
  • हस्तिनीयं महामाला मम दूती सदा सुत।अन्याहि पद्ममाला या विभाति हृदये मम।।१३।।
  • पद्मिनी परमाश्चर्या साक्षात्पद्मिनिरूपिणी।चित्रमाला तु या पुत्र नानाचित्र विचित्रिता।।१४।।
  • एषा तु चित्रिणी ज्ञेया चित्रकर्मानुसारिणी।या माला गन्धिनी प्रोक्ता परमाश्चर्यगन्धभाक्।।१५।।
  • एषा दूती सुतश्रेष्ठ सदा मम हृदयस्थिता।एषा दूती सुतश्रेष्ठ अष्टैश्वर्यसमन्विता।।१६।।
  • हस्तिनी पद्मिनी चैव चित्रिणी गन्धिनी तथा।या माला पद्मिनी पुत्र सदा कामकलायुता।।१७।।
  • चित्रिणी चित्ररूपेण ब्रह्माण्डं व्याप्य तिष्ठति।गन्धिनी च तथा पुत्र सर्वं व्याप्य विजृम्भते।हस्तिनी च सुतश्रेष्ठ सर्वं दिग्गजसञ्चयम्।।१८।।
  • इत्युक्त्वा सा महामाया त्रिपुरा वाणलोचना।पारिजातस्य मालायाः पद्मस्य च तपोधन।।१९।।
  • सूत्रेण रहिता माला ग्रन्थिता कामसूत्रके।असिद्धसाधनी माला ग्रन्थिता कामसूत्रके।।२०।।
  • नानारत्नमयी माला विद्युत्कोटिसमप्रभा।पञ्चशन्मातृका वर्ण सहिता विश्वमोहिनी।।२१।।
  • "त्रिपुरोवाच—
  • अर्थदा धर्मदा माला कामदा मोक्षदा सुत।वासुदेव महाविष्णो शृणु पुत्र तपोधन।।२२।।
  • मम माया दुराधर्षा मातृका शक्तिरव्यया।आश्चर्यं परमं पश्य सावधानेन माधव।।२३।।
  • इत्युक्त्वा त्रिपुरादेवी विष्णुमाया जगन्मयी।मालामाकृष्य मालायाः कृष्णाय सत्त्वरं ददौ।आश्चर्यं परमं किञ्चिद्दशयित्वा जनार्दनम्।।२४।।
  • "महादेव उवाच—
  • तत्राश्चर्यं महेशानि वर्णितुं नहि शक्यते।अकारादिक्षकारान्ते पञ्चाशन्मातृकाव्यया।।२५।।
  • अव्यया अपरिच्छिन्ना त्रिपुरा कण्ठसंस्थिता।ककारात्परमेशानि कोटिब्रह्मण्डराशयः।।२६।।
  • प्रसूय तत्क्षणात्सर्वं संहारं च तथापि वा।एवं क्रमेण देवेशि पञ्चषण्मातृका सदा।।२७।।
  • सृष्ठिस्थितिं च कुरुते संहारां च तथा प्रिये।क्रमोत्क्रमान्महेशानि दृष्ट्वा मोहं गतो हरिः।।२८।।
  • गतवान्पुण्डरीकाक्षो वासुदेवस्तपोधनः।अण्डराशो महेशानि सर्वं दृष्ट्वा जनार्दनः।।२९।।
  • सर्वं दृष्ट्वा विनिश्चित्य हृदये विष्णुरव्ययः।पञ्चाशत्पीठसंयुक्तं भारतं परमं पदम्।।३०।।
  • नित्या भगवती तत्र महामाया जगन्मयी।सतीदेहं परित्यज्य पार्वतीत्वं गता पुनः।।३१।।
  • तवाङ्गात्परमेशानि कुन्तलं यत्र पार्वती।पतितं यत्र देवेशि स्थाने तु नगनन्दिनी।।३२।।
  • सर्वं दृष्टं महेशानि कामाख्याद्याः पृथक्पृथक्।यद्यद्दृष्टं महापीठं सर्वं बहुभयावहम्।।३३।।
  • सौम्यमूर्तिर्महेशानि मथुरा व्रजमण्डलम्।दृष्ट्वा तु परमेशानि आश्चर्यं स्थानमुत्त्ममम्।।३४।।
  • तत्क्षणात्परमेशानि सर्वाह्यं तु हिताभवन्।मातरो मातृकाद्याश्च दर्शयित्वा जनार्दनम्।।३५।।
  • "त्रिपुरोवाच—
  • वासुदेव सुतश्रेष्ठ सौन्दर्ये किं विभाव्यसे।विमनास्त्वं कथं पुत्र मालां कण्ठे विधारय।।३६।।
  • मालायां तु प्रभावेन भद्रं तव भविष्यति।रहस्यं परमं गुह्यं पञ्चाशत्तत्वसंयुतम्।।३७।।
  • कलावती महामाला मम कण्ठे सदा स्थिता।शुक्लाभा रक्तवर्णाभा पीताभा कृष्णरूपिणी।।३८।।
  • पद्मोद्भवा तु या माला रङ्गिनी कुसुमप्रभा।हस्तिनी शुक्लरूपा च शुक्ला स्फटिकसन्निभा।।३९।।
  • चित्रिणी पीतवर्णाभा सर्वसौभग्यदायिनी।गन्धिनी या सुतश्रेष्ठ कृष्णा गन्धसमप्रभा।।४०।।
  • इत्युक्त्वा सा महामाया आदिशक्तिः सनातनी।परं ब्रह्म महेशानि यस्यास्तु नखरत्विषः।।४१।।
  • यस्यास्तु नखकोट्यंशः परं ब्रह्म सनातनः।यस्याश्च नखराग्रस्य निर्माणं पञ्चदैवतम्।।४२।।
  • ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः।एते देवा महेशानि पञ्चज्योतिर्मयाः सदा।।४३।।
  • जाग्रत्स्वप्नसुषुप्तिस्तु तुरीयं परमेश्वरि।सदाशिवो यस्तु देवि सुप्त ब्रह्म स एव हि।।४४।।
  • अतः परं महेशानि नास्ति ज्ञाने तु मामके।वासुदेवो यस्तु देवः स एव विष्णुरव्ययः।।४५।।
  • शुद्धसत्वात्मिके देवि मूलप्रकृतिरूपिणी।ततस्तु त्रिपुरा माता वासुदेवाय पार्वती।यदुक्तं मृगशावाक्षि तच्छृणुष्व समाहिता।।४६।।
  • "त्रिपुरोवाच—
  • वासुदेव महाबाहो मा भयं कुरु रे सुत।एतां मालां सुतश्रेष्ठ मूर्तिर्विग्रहरूपिणी।।४७।।
  • कार्यसिद्धिं सुतवर एषा तव करिष्यति।मा भैर्मा भैः सुतवर विद्यासिद्धिर्भविष्यति।।४८।।
  • "शिव उवाच—
  • वासुदेवः प्रसन्नात्मा प्रणिपत्य पदाम्बुजे।देवी सूक्तेन संतोष्य त्रिपुरां परमेश्वरीम्।।४९।।
  • तव पादार्चनसुखं विस्मरामि कदाचन।किं करोमि क्व गच्छामि हे मातः परमेश्वरि।।५०।।
  • त्रिपुरोवाच—
  • शृणु विष्णो महाबाहो वासुदेव परन्तप।या माला तव कण्ठस्था सर्वदा सा कलावती।।५१।।
  • सर्वं हि कथयामास रे पुत्र गुणसागर।तस्या वाक्यं सुतश्रेष्ठ श्रुत्वा कार्यं समाचर।।५२।।
  • इत्युक्त्वा सा महामाया त्रिपुरा जगदीश्वरी।तत्क्षणाज्जगतां माता तत्रैवान्तरधीयत।।५३।।
  • "इति तृतीयः पटलः।।३।।
  • पार्वत्युवाच—
  • देव देव महादेव विचार्य कथय प्रभो।ततः कलावतीं देवीं महादेव सनातन।।१।।
  • कण्ठे मालां वासुदेवो विधृत्य परमेश्वर।रहस्यं परमं भक्त्या पृच्छामि सुरपूजित।।२।।
  • "ईश्वर उवाच—
  • निगदामि शृणु प्रौढे अत्यन्तज्ञानवर्धनम्।ततः कलावती देवी वासुदेवाय पार्वति।यदुक्तं मृगशावाक्षि सावधानावधारय।।३।।
  • "कलावत्युवाच—
  • वासुदेव महाबाहो वरं वरय साम्प्रतम्।करिष्यामि भवत्कार्यमधुना सुरपूजित।मालां देव सुदुष्टां यत्तच्छीघ्रं स्मर सुन्दर।।४।।
  • "वासुदेव उवाच—
  • यद्दुष्टां परमेशानि नहि वक्तुं हि शक्यते।तव पादार्चनं देवि संस्मरामि पुनः पुनः।।५।।
  • "श्रीपार्वत्युवाच—
  • यद्दृष्टं वासुदेवेन तत्सर्वं कथय प्रभो।यद्दृष्टं पद्ममालायामाश्चर्यं परमं पदम्।।६।।
  • करिमालासु यद्दृष्टं गन्धमालासु च प्रभो।चित्रमालासु यद्दृष्टं कृष्णेन परमात्मना।तत्सर्वं कथयेशान विचित्रकथनं प्रभो।।७।।
  • ईश्वर उवाच—
  • रहस्यं परमेशानि सावधानावधारय।अतिचित्रं महद्गुह्यं पीयुषसदृशां वचः। अतिपुण्यं महत्तीर्थं सर्वसारमयं सदा।।८।।
  • वासुदेवस्य कण्ठे या माला सा च कलावती।पञ्चाशदक्षरश्रेणी कलारूपेण साक्षिणी।।९।।
  • अव्यया अपरिच्छिन्ना नित्यरूपा पराक्षरा।पञ्चाशदक्षरं देवि मूर्तिर्विग्रहधारिणी।।१०।।
  • श्यामाङ्गी च तथा गौरी शुद्धा स्फटिकसन्निभा।तप्तहाटकवर्णाभा कृष्णवर्णा च सुन्दरी।।११।।
  • चित्रवर्णा तथा देवि नवयौवनसंयुता।सदा षोडशवर्षीया सदा चाञ्जनलोचना।।१२।।
  • प्रफुल्लवदनाम्भोजा ईषत्स्मितमुखी सदा।डाडिमी बीजसदृशा दन्तपङ्क्तिरनुत्तमा।।१३।।
  • मृणालसदृशाकारा बाहुवल्लीविराजिता।शङ्खकङ्कनकेयुरनानाभरणभूषिता।।१४।।
  • नानागन्धसुगन्धेन मोदिताखिलदिङ्मुखा।रुद्राक्षरचितामाला जपमालाविधारिणी।।१५।।
  • एताः सर्वमहेशानि मातृकाः परदेवताः।मालारूपेण सा देवी विष्णुकण्ठस्थिता सदा।शृणु नामानि देवेशि मातृकायाः पृथक्पृथक्।।१६।।
  • पूर्णोदरी स्याद्विरजा शाल्मली तदनन्तरम्।लोलाक्षी बाहुलाक्षी च दीर्घघोना प्रकीर्तिता।।१७।।
  • सुदीर्घमुखी गोमुख्यौ दीर्घजिह्वा तथैव च।कुम्भोदर्यूर्ध्वकेशी च तथा विकृतमुख्यपि।।१८।।
  • ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः।सुश्रीमुखी च विद्योतमुख्येताः स्वरशक्तयः।।१९।।
  • महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते।गौरी त्रलोक्यविद्या स्यान्मन्त्रशक्तिस्ततः परम्।।२०।।
  • आद्यशक्तिर्भूतमाता तथा लम्बोदरी माता।द्राविणी नागरी भूमिः खेचरी चैव मञ्जरी।।२१।।
  • रूपिणी वीरिणी पश्चात्काकोदर्यपि पूतना।स्याद्भद्रकालीयोगिन्यौ शङ्खिनी गर्जिनी तथा।।२२।।
  • ते कालारात्रिकुब्जिन्यौ कपर्दिन्यपि वज्रया।जया च सुमुखीश्वर्यौ रेवती माधवी तथा।।२३।।
  • वारुणी वायसी प्रौक्ता पश्चाद्ब्रह्मविदारिणी।ततश्च सहजा लक्ष्मीर्व्यापिणी मायया तथा।।२४।।
  • एतास्तु रुद्रपीठस्था सिन्दूरारूणविग्रहा।रक्तोत्फलकपालाढ्या अलङ्कृतकलेवरा।।२५।।
  • "इति चतुर्थः पटलः।।४।।
  • वासुदेवो महाविष्णुर्दृष्ट्वाश्चर्यं गतः प्रिये।एकैकेन महेशानि कोटिशो ह्यण्डराशयः।पृथक्पृथक्प्रसूयन्ते डिम्बराशिः शुचिस्मिते।।१।।
  • ब्रह्माण्डं परमेशानि रजःसत्त्वतमोमयः।तमः सत्त्वं रजो देवि रुद्रविष्णुपितामहः।।२।।
  • ब्रह्माण्डं परमेशानि सप्तावरणसंयुतं।तद्धार्यं विश्वं ब्रह्माण्डं हेलया कोटिकोटिशः।।३।।
  • दृष्ट्वाश्चर्यं महेशानि विष्णुस्तु विस्मयान्वितः।प्रतिडिम्बे महेशानि ब्रह्माद्याः परमेश्वरि।।४।।
  • प्रतिडिम्बं वरारोहे एतद्विश्वोपमं प्रिये।सर्वं दृष्ट्वा महेशानि कृष्णे न परमात्मना।।५।।
  • दृष्टं हि भारतं वर्षं पञ्चशत्पीठसंस्थितम्।तत्र सर्वानि पीठानो महाभययुतानि च।।६।।
  • मथुरामण्डलं देवि यत्र गोवर्धनो गिरिः।तत्र वृन्दा महामाया देवी कात्यायनी परा।आस्ते सदा महामाया सततं शिवसंयुता।।७।।
  • शिवशक्तिमयं देवि मथुराव्रजमण्डलम्।तवाङ्गजानि देवेशि पीठानि विविधानि च।।८।।
  • मथुरा या महेशानि स्वयंशक्तिस्वरूपिणी।यमुना या महेशानि साक्षात्शक्तिः शुचिस्मिते।।९।।
  • गोवर्धनं महेशानि ऊर्ध्वशक्तिर्वरानने।नानावनसमायुक्तं नारायणसमन्वितम्।नानापक्षिगणाकीर्णं वल्लीवृक्षसमाकुलम्।कोटरं बहुरम्यं हि नानावल्लीसमाकुलम्।।१०।।
  • सहस्रदलपद्मान्तर्मध्यं सर्वविमोहनम्।गोपगोपीपरिवृतं गोधनैः परितो वृतम्।।११।।
  • एवं व्रजं महेशानि भारतेषु वरानने।दृष्ट्वा तु विस्मयाविष्टो विष्णुः पद्मदलेक्षणः।।१२।।
  • मथुरा परमेशानि तव केशयुता सदा।केशपीठं महेशानि मथुराव्रजमण्डलम्।।१३।।
  • तव केशं महेशानि नानागन्धसमायुतम्।नानापुष्पैः समाकीर्णं सुगन्धिमाल्यसंयुतम्।भ्रमरैः शोभितं तादृक्तव केशं मनोहरम्।।१४।।
  • कवरी तव देवेशि देवानामपि मोहिनी।नानारत्नसमायुक्ता नाना सुखमयी सदा।।१५।।
  • केशजालेन महता निर्मितं व्रजमण्डलम्।मातृकागणसंयुक्तं कालिन्दीजलपूरितम्।।१६।।
  • कालिन्दीतीरमासाद्य इन्द्राद्या एव देवताः।जपं चक्षुर्महेशानि कात्यायन्याः समीपतः।।१७।।
  • कात्यायनी च या देवी केशमण्डलदेवता।यमुनोपवने सेके तरुपल्लवशोभिते।कात्यायनी माहामाया सततं तत्र संस्थिता।।१८।।
  • इति वासुदेवरहस्ये राधतन्त्रे पञ्चमः पटलः।।५।।
  • "कात्यायन्युवाच—
  • वासुदेव महाबाहो मा भयं कुरु पुत्रक।मथुरां गच्छ तातेति तव सिद्धिर्भविष्यति।।१।।
  • गच्छ गच्छ महाबाहो पद्मिनीसङ्गमाचर।पद्मिनी मम देवेश व्रजे राधा भविष्यति।अन्याश्च मातृका देव्यः सदा तस्यानुचारिकाः।।२।।
  • "वासुदेव उवाच—
  • शृणु मातर्महामाये चतुर्वर्गप्रदायिनि।त्वां विना परमेशानि विद्यासिद्धिर्न जायते।।३।।
  • पद्मिनीं परमेशानि शीघ्रं दर्शय सुन्दरि।प्रत्ययं मम देवेशि तदा भवति मानसम्।।४।।
  • इति श्रुत्वा वचस्तस्य वासुदेवस्य तत्क्षणात्।आविरासीस्तदा देवी पद्मिनी परसंस्थिता।।५।।
  • रक्तविद्युल्लता कारा पद्मगन्धसमन्विता।रूपेण मोहयन्ती सा सखीगणसमन्विता।।६।।
  • सहस्रदलपद्मान्तर्मध्यस्थानस्थिता सदा।सखीगणयुतैर्देवी जपन्ती परमाक्षरम्।।७।।
  • एकाक्षरी महेशानि सा एव परमाक्षरा।कालिन्दी या महाविद्या पद्मिन्या इष्टदेवता।वासुदेवो माहाबाहुर्दृष्ट्वा विस्मयमागतः।।८।।
  • "पद्मिन्युवाच—
  • व्रजं गच्छ महाबाहो शीघ्रं हि भगवान्प्रभो।त्वया सह महाबाहो कुलाचारं करोम्यहम्।।९।।
  • "वासुदेव उवाच—
  • शृणु पद्मिनि मे वाक्यं कदा ते दर्शनं भवेत्।कृपया वद देवेशि जपं किं वा करोम्यहम्।।१०।।
  • "पद्मिन्युवाच—
  • तवाग्रे देवदेवेश मम जन्म भविष्यति। गोकुले माथुरे पीठे वृकभानुगृहे ध्रुवम्।।११।।
  • दुःखं नास्ति महाबाहो मम संसर्गहेतुना।कुलाचारोपयुक्ता या सामग्री पञ्चलक्षणा।मालायां तव देवेश सदा स्थास्यति नान्यथा।।१२।।
  • इत्युक्त्वा पद्मिनी सा तु सुन्दर्या दूतिका तदा।अन्तर्ध्यानं ततो गत्वा मालायां सह सा क्षणात्।।१३।।
  • वासुदेवोऽपि तां दृष्ट्वा क्षीराब्धिं प्रययौ ध्रुवम्।त्यक्त्या काशीपुरं रम्यं महापीठं दुरासदम्।।१४।।
  • प्रययौ माथुरं पीठं पद्मिनी परमेश्वरी।यत्र कात्यायनी दुर्गा महामायास्वरूपिणी।।१५।।
  • नारदाद्यैर्मुनिश्रेष्ठैः पूजिता संस्तुता सदा।कात्यायनी महामाया यमुनाजलसंस्थिता।।१६।।
  • यमुनाया जलं तत्र साक्षात्कालीस्वरूपिणी।बहुपद्मयुतं रम्यं शुक्लपीतं महत्प्रभम्।।१७।।
  • रक्तं कृष्णं तथा चित्रं हरितं सर्वमोहनम्।कालिन्द्याख्या महेशानि यत्र कात्यायनी परा।।१८।।
  • कालिन्दी कालिका माता जगतां हितकाम्यया।सदाध्यास्ते महेशानि देवर्षिसंस्तुता परा।।१९।।
  • सहस्रदलपद्मान्तर्मध्ये माथुरमण्डलम्।केशबन्धे महेशानि यत्पद्मं सततं स्थितम्।।२०।।
  • पद्ममध्ये महेशानि केशपीठं मनोहरम्।केशबन्धे महेशानि व्रजं माथुरमण्डलम्।।२१।।
  • यत्र कात्यायनी माया महामाया जगन्मयी।व्रजं वृन्दावनं देवी नानाशक्तिसमन्वितम्।।२२।।
  • शक्तिस्तु परमेशानि कलारूपेण साक्षिणी।शक्तिं विना परं ब्रह्म निभाति शवरूपवत्।।२३।।
  • इति वासुदेवरहस्ये राधतन्त्रे षष्ठः पटलः।।६।।
  • देव्युवाच—
  • व्रजं गत्वा महादेवो ऽकरोत्किं पद्मिनी तदा।कस्य वा भवने सा तु जाता सा पद्मिनी परा।।१।।
  • तत्सर्वं परमेशान विस्तराद्वद शङ्कर।यदि नो कथ्यते देव विमुञ्चामि तदा तनुम्।।२।।
  • "ईश्वर उवाच—
  • पद्मिनी पद्मगन्धा सा वृकभानुगृहे प्रिये।आभीरासीत्तदा देवी कृष्णस्य प्रथमं प्रिया।।३।।
  • चैत्रे मासि सिते पक्षे नवम्यां पुष्यसंयुते।कालिन्दीकलकल्लोले नानापद्मगणावृते।आवीरासीत्तदा पद्मा मायाडिम्बमुपाश्रिता।।४।।
  • डिम्बं भूत्वा तदा पद्ना स्थिता कनकमध्यतः।कोटिचन्द्रप्रतीकाशं डिम्बं मायासमन्वितम्।।५।।
  • पुष्यायुक्तनवम्यां वै निश्यर्धे पद्मध्यतः।आवीरासीत्तदा पद्मा रङ्गिनी कुसुमप्रभा।अरुणादित्यसंकाशे पद्मे परमकामिनि।।६।।
  • वृकभानुपुरं देवि कालिन्दीपारमेव च।नाम्ना पद्मपुरं रम्यं चतुर्वर्गसमन्वितम्।।७।।
  • डिम्बज्योतिर्महेशानि सहस्रादित्यसन्निभम्।तत्क्षणात्परमेशानि गाढध्वान्तविनाशकृत्।।८।।
  • वृकभानुर्महात्मा स कालिन्दीतटमास्थितः।महाविद्यां महाकालीं सततं प्रजपेय्सुधीः।आविरासीन्महामाया यसा कात्यायनी परा।।९।।
  • "कात्यायन्युवाच—
  • शृणु पुत्र महाबाहो वृकभानो महीधर।सिद्धो ऽसि पुरुषश्रेष्ठ वरं वरय साम्प्रतम्।।१०।।
  • वृकभानु उवाच—
  • सिद्धोऽहं सततं देवि त्वत्प्रसादात्सुरेश्वरि।त्वत्प्रसादान्महामाये यथा मुक्तो भवाम्यहम्।।११।।
  • त्वत्प्रसादान्महामाये असाध्यं नास्ति भूतले।आत्मनः सदृशाकारां कन्यमेकां प्रयच्छ मे।।१२।।
  • तच्छ्रुत्वा परमेशानि तदा कात्यायनी परा।मेघगम्भीरया वाचा यदाह वृकभानवे।तच्छृणुष्व महेशानि पीयुषसदृशं वचः।।१३।।
  • भक्त्या त्वदीयपत्न्यास्तु तुष्टाहं त्वयि सुन्दर।एतद्धि वचनं वत्स तव पत्न्या सुयुज्यते।।१४।।
  • इत्युक्त्वा सहसा तत्र महामाया जगन्मयी।प्रददौ परमेशानि तस्मै डिम्बं मनोहरम्।।१५।।
  • वृकभानुर्महात्मा स तत्क्षणाद्गृहमाययौ।भार्या तस्य विशालाक्षी विशालकटिमोहिनी।।१६।।
  • रत्नप्रदीपमाभाष्य रत्नपर्यङ्कमाश्रिता।तस्या हस्ते तदा भानुः प्रददौ डिम्बमोहनम्।।१७।।
  • तं दृष्ट्वा परमेशानि विस्मयं परमं गता।हस्ते कृता तु दिंबं वै निरीक्ष्य च पुनः पुनः।।१८।।
  • नानागन्धयुतं डिम्बं सर्वशक्तिसमन्वितम्।नानाज्योतिर्मयं डिम्बं तत्क्षणाच्च द्विधाभवत्।।१९।।
  • तत्रापश्यन्महाकन्यां पद्मिनीं कृष्णमोहिनीम्।रक्तविद्युल्लताकारां सर्वसौभाग्यवर्धिनीम्।तां दृष्ट्वा परमेशानि सहसा विस्मयं गता।।२०।।
  • "कीर्तिदोवाच—
  • हे मातः पद्मिनीरूपे रूपं संहर संहर।ततस्तु परमेशानि तद्रूपं तत्क्षणात्प्रिये।संहृत्य सहसा देवी सामान्यं रूपमास्थिता।।२१।।
  • ततस्तु कीर्तिदा देवी रूपं तस्याव्यलोकयत्।रङ्गिनी कुसुमाकारा रक्तविद्युत्समप्रभा।।२२।।
  • कन्योवाच—
  • हे मातः कीर्तिदे भद्रे क्षीरं पायय सुन्दरि।स्तनं देहि स्तनं देहि तव कन्या भवाम्यहम्।।२३।।
  • तत्श्रुत्वा वचनं तस्याः पद्मिन्याः कमलेक्षणे।अपाययत्स्तनं तस्यै पद्मिन्यै नगनन्दिनि।।२४।।
  • चकार नाम तस्यास्तु भानुकीर्तिदयान्वितः।रक्तविद्युत्प्रभा देवी धत्ते यस्मात्शुचिस्मिते।तस्मात्तु राधिका नाम सर्वलोकेषु गीयते।।२५।।
  • "ईश्वर उवाच—
  • दिने दिने वर्धमाना वृकभानुगृहे प्रिये।एवं हि माथुरे पीठे चकार व्रजवासिनी।तस्माद्भद्रपदे मासि कृष्णोऽभूत्कमलेक्षणः।।२६।।
  • इति वासुदेवरहस्ये राधतन्त्रे सप्तमः पटलः।।७।।
  • "महादेव उवाच—
  • श्रुयतां पद्मपत्राक्षि रहस्यं पद्मिनी मतम्।सम्प्राप्ते परमेशानि द्वितीये वत्सरे तदा।कुर्याद्यत्नेन देवेशि शिवलिङ्गप्रपूजनम्।।१।।
  • प्रजपेत्परमां विद्यां कालीं ब्रह्मण्डरूपिणीम्।पूजयेत्विविधैः पूष्पैर्गन्धैश्च सुमनोहरैः।फलैर्बहुविधैर्भद्रे पूजयेत्परमेश्वरीम्।।२।।
  • "पद्मिन्युवाच—
  • कात्यायनि महामाये महायोगिन्यधीश्वरि।देहि देहि महामाये विद्यासिद्धिमनुत्तमाम्।।३।।
  • सिद्धिं च वासुदेवस्य देहि मातर्नमो ऽस्तु ते।त्वां विना ब्रह्म निःशब्दं निश्चलं सततं सदा।।४।।
  • शरीरस्थं हि कृष्णस्य कृष्णज्योतिर्मयं सदा।विना देहं परं ब्रह्म शवरूपवदीरितम्।अत एव महामाये ब्रह्मणः कारणं परा।।५।।
  • एवं प्रार्थ्य महेशानि सततं परमेश्वरीम्।सम्पूज्य परया भक्त्या लक्षं जप्त्वा तु मानसम्।वरं प्राप्ता महेशानि कात्यायन्याः समीपतः।।६।।
  • "कात्यायन्युवाच—
  • पद्मिनि शृणु मद्वाक्यं शीघ्रं प्राप्स्यसि केशवम्।।७।।
  • इत्युक्त्वा परमेशानि तत्रैवान्तरधीयते।कात्यायनी महामाया सदा वृन्दावनेश्वरी।।८।।
  • वृकभानुसुता राधा सखीगणकृता सदा।वर्धमाना सदा राधा यथा चन्द्रकला प्रिये।।९।।
  • सर्वशृङ्गारवेशाढ्या स्फुरच्चकतिलोचना।सर्वालङ्कारसंयुक्ता साक्षात्श्रीरिव पार्वती।।१०।।
  • चचार गहने घोरे पद्मिनी परसुन्दरी।या राधा परमेशानि पद्मिनी परमेश्वरी।।११।।
  • पद्मस्य वनमाश्रित्य सदा तिष्ठति कामिनि।अन्यमूर्तिं महेशानि दृष्ट्वा चैवात्मसन्निभाम्।आत्मनः सदृशाकारां राधामन्यां ससर्जसा।।१२।।
  • या सा तु कृत्रिमा राधा वृकभानुगृहे सदा।अयोनिसम्भवा या तु पद्मिनी सा पराक्षरा।कृत्रिमा या महेशानि तस्यास्तु चरितं शृणु।।१३।।
  • वृकभानुर्महात्मा स तस्या वैवाहिकीं क्रियाम्।कारयामास यत्नेन पञ्चवर्षे तु सुन्दरि ।।१४।।
  • तस्यास्तु चोभयं वंशं सावधानावधारय।श्वशुरस्य वृकस्यापि वंशं परमसुन्दरम्।।१५।।
  • "ईश्वर उवाच—
  • श्वश्रुस्तु जटिला ख्याता पतिर्मान्योऽतिमन्युकः। ननान्दा कुटिला नाम्नी देवरो दुर्मदाभिधः।।१६।।
  • तिलकं स्मरमादाख्यः हरो हरिमनोहरः।रोचनो रत्नताडङ्को घृणे युक्तप्रभाकरी।।१७।।
  • छत्रं दृष्टा प्रतिच्छायं पद्मं च मदनाभिधः।स्यमन्तकान्यपर्यन्तः शङ्खचूडशिरोमणिः।।१८।।
  • पुष्पवन्तो ऽक्षिपलका सौभाग्यमणिरुच्यते।काञ्ची काञ्चनचित्राङ्गि नूपुरचित्रगोपुरे।।१९।।
  • मधुसूदनमावद्धे ययोः सिञ्चति माधुरी।वासो मेघस्वरं नाम कुरुविन्दनिभं सदा।।२०।।
  • आद्याः सुप्रियमभ्राभं रक्तमन्त्यं हरेः प्रियम्।सुधाशो दर्पहरणो सर्पाणा मणिबान्धवः।।२१।।
  • शलाका नर्मदा हैमी स्वस्तिका नाम कङ्कतिः।कन्दर्पकुहरी नाम कटिका पुष्पभूषिता।।२२।।
  • स्वर्णमुखी तडिद्वल्ली कुण्डाख्याता स्वनामतः।नीपानदीतटे यस्य रहस्यकथनस्थली।।२३।।
  • मन्दारश्च धनुः स्त्रीश्च रागो हृदयमन्दगौ।छानिक्यं दयिता नित्यं वल्लभा रुद्रधन्विकी।।२४।।
  • सख्यः ख्याताः सदा भद्रचारुचन्द्रावली मुखाः।गन्धर्वास्तु कलाकण्ठी सुकण्ठी पिककण्ठिका।।२५।।
  • कलावती रसोल्लासा गुणवत्यादयः स्मृताः।या विशाखा कृता गीतिगायन्त्यः सुखदा हरेः।।२६।।
  • वादयन्तद्य शुषिरं ताललब्धघनस्त्वपि।माणिक्या नर्मदा प्रेमवती कुसुमपेषलाः।।२७।।
  • दिवाकीर्तितनुह्ये तु सुगन्धानलिनीत्युभे।मञ्जिष्ठा रङ्गवत्याख्ये रजकस्य किशोरिके।।२८।।
  • पालिन्दी समसौरिन्ध्री वृन्दा कन्दलतादयः।धनिष्टःआ गुणवत्याद्या धन्ववेश्वरगेहगाः।।२९।।
  • कामदा नामधा प्रेयि सखीभावविशेषभाक्।लवङ्गमञ्जरी रागमञ्जरी गुणमञ्जरी।।३०।।
  • शुभानुमत्यनुपमा सुप्रिया रतिमञ्जरी।रागलेखा कलाकेली भुरिदाद्याश्च नायिकाः।।३१।।
  • नन्दीमुखी बिन्दुमुखी आद्याः सन्धिविधीयकाः।सुहृत्पद्मतयाख्याताः श्यामला मङ्गलादयः।।३२।।
  • प्रतिपक्षतया श्रेष्ठा राधा चन्द्रावली त्वुभे।समूहास्तु ययोः सन्ति कोटिसंख्या मृगीदृशाम्।।३३।।
  • तयोरप्युभयोर्मध्ये सर्वमाधुर्यतो ऽधिका।श्रीराधा त्रिपुरा दूती पुराणपुरुषप्रिया।।३४।।
  • अगमानगुणोदर्या दूर्यो गोपेन्द्रनन्दनः।यस्याः प्राणपरार्धानं परार्धादतिवल्लभः।।३५।।
  • श्रेष्ठा सा मातृकादिभ्यस्तत्र गोपेन्द्रगेहिनी।वृषभानुः पिता यस्या वृषभानुविधो महान्।।३६।।
  • रत्नगर्भा क्षितो ख्याता जननी कीर्तिदा क्षया।उपास्यो जगतां चक्षुर्भगवान्पद्मबान्धवः।।३७।।
  • जप्यः स्वाभीष्टसंसर्गे कात्यायन्या महामनुः।पौर्णमासी भगवती सर्वसौभाग्यवर्धिनी।।३८।।
  • पितामहो महीभानुर्बिन्दुर्मातामहो मतः।मतामही पितामह्यो सुखदामोक्षदाभिधे।।३९।।
  • रत्नभानुः स्वभानुश्च भानुश्च भ्रातरः पितुः।भद्रकीर्तिर्महाकीर्तिः कीर्तिचन्द्रश्च मातुलः।।४०।।
  • स्वसा कीर्तिमती मातुर्भानुमुद्रा पितृस्वसा।पितृस्वसृपतिः काश्यो मातृस्वसृपतिः कृशः।।४१।।
  • मातुली मेनका मेना षष्ठी धात्री तु धातुकी।श्रीदामा पूर्वजो भ्राता कनिष्टःआननङ्गमञ्जरी।।४२।।
  • परमप्रेष्ठसख्यस्तु ललिता च विशाखिका।विचित्रा चम्पकलता रङ्गदेवी सुदेविका।।४३।।
  • तुङ्गवेद्याङ्गलेखा च इत्यष्टौ च गणा मताः।प्रियसख्यः कुरङ्गाक्षी मण्डली मानुकुण्डला।।४४।।
  • मालती चन्द्रलतिका माधवी मदनालसा।मञ्जुमेया शशिकला सुमध्या मधुमेक्षणा।।४५।।
  • कमला कामलतिका कान्तचूडा वराङ्गना।मधुरी चन्द्रिका प्रेममञ्जरी तनुमध्यमा।।४६।।
  • कन्दर्पसुन्दरी मञ्जुकेशी चाद्यास्तु कोटिशः।रक्तजीवितसाख्याता कलिका केलिसुन्दरी।।४७।।
  • कादम्बरी शशिमुखी चन्द्ररेखा प्रियम्वदा।मदोन्मादा मधुमती वासन्ती कलभाषिणी।।४८।।
  • रत्नवेणी मालवती कर्पूरतिलकादयः।एता वृन्दावनेश्वर्याः प्रायः सारुप्यमागताः।।४९।।
  • नित्यसख्यस्तु कस्तूरी मनोज्ञा मणिमञ्जरी।सिन्दूरा चन्दनवती कौमुदी मुदितादयः।।५०।।
  • कानानादिगतास्तस्या विहारार्थं कला इव।अथ तस्याः प्रकीर्तन्ते प्रेयस्यः परमाद्भुताः।।५१।।
  • वनादित्यो ऽप्युरुप्रेमसौन्दर्यभवभूषिताः।चन्द्रावली च पद्मा च श्यामा सैका च भद्रिका।।५२।।
  • तारा चित्रा च गन्धर्वी पालिका चन्द्रमालिका।मङ्गला विमला नीला भवनाक्षी मनोरमा।।५३।।
  • कम्पलता तथा मञ्जुभाषिणी मञ्जुमेखला।कुमुदा कैरवी पारी सारदाक्षी विसारदा।।५४।।
  • शङ्करी कुसुमा कृष्णा साराङ्गी प्रविनाशिनी।तारावली गुणवती सुमुखी केलिमञ्जरी।।५५।।
  • हारावली चकोराक्षी भारती कामिनीति च।आसां यूथानि शतशः ख्यातान्यन्यानि सुभ्रुवाम्।।५६।।
  • लक्षसंख्यास्तु कथिता यूथे यूथे वराक्षनाः।मुख्यास्तु तेषु यूथेषु कान्ताः सर्वगुणोत्तमाः।।५७।।
  • राधा चन्द्रावली भद्रा श्यामला पालिकादयः।जन्मनाम्नाथ सा ख्याता मधुमासे विशेषतः।।५८।।
  • पुष्यर्क्षे च नवम्यां वै शुक्लपक्षे शुचिस्मिते।जाता राधा महेशानि स्वयं प्रकृतिपद्मिनी।।५९।।
  • तासु रेमे महेशानि स्वयं कृष्णः शुचिस्मिते।रमणं वासुदेवस्य मन्य्तसिद्धेस्तु कारणम्।।६०।।
  • "देव्युवाच—
  • भो देव तापसां श्रेष्ठ विस्ताराद्वद ईश्वर।कथं सा पद्मिनी राधा सदा पद्मवने स्थिता।पितरं मातरं त्यक्त्वा आत्मतुल्यां ससर्ज सा।।६१।।
  • पद्ममाश्रित्य देवेश वृन्दावनविलासिनी।सदा ध्यास्ते महेशान एतद्गुह्यं वद प्रभो।।६२।।
  • इति वासुदेवरहस्ये राधतन्त्रे अष्टमः पटलः।।८।।
  • "ईश्वर उवाच—
  • या राधा मृगशावाक्षि पद्मिनी विष्णुवल्लभा।महामाया जगद्धात्री त्रिपुरा परमेश्वरी।।१।।
  • तस्या दूती महेशानि पद्मिनी पद्मगन्धिनी।कृष्णस्य दृढभक्ता तु पद्मिनी तस्य वल्लभा।।२।।
  • वृकभानोर्महेशानि दृढभक्तिः शुचिस्मिते।दुहितृत्वं गता देवी पद्मिनी गन्धमालिनी।।३।।
  • कृत्वा तु स्तनपानं हि राधा मन्यां ससर्ज सा।पद्मषण्डं समाश्रित्य यमुनाजलमध्यतः।।४।।
  • महाकाल्या महामन्त्रं प्रजपे निर्जने वने।अन्या चन्द्रावली राधा वृकभानुगृहे स्थिता।।५।।
  • पूर्वोक्तं यद्गुणं देवि पद्मिनी कमलेक्षणे।तत्सर्वं पद्मिनी सृष्टं नान्यया परमेश्वरि।।६।।
  • राधिका त्रिविधा प्रोक्ता चन्द्रा तु पद्मिनी तथा।न पश्येत्परमेशानि चन्द्रसूर्यं शुचिस्मिते।।७।।
  • मानवानां महेशानि वराकाणां हि का कथा।आत्मनोपहुवं कृत्वा पद्मिनी पद्ममाश्रिता।त्रिपुराया महेशानि पद्मिनी अनुचारिणी।।८।।
  • इति वासुदेवरहस्ये राधतन्त्रे नवम पटलः।।९।।
  • "ईश्वर उवाच—
  • अतःपरं महेशानि चरितं परमाद्भुतम्।उत्तमं वासुदेवस्य नरलोके रसायनम्।।१।।
  • निगदामि वरारोहे सावधानावधारय।यत्श्रुत्वा परमेशानि श्रव्यमन्यं न रोच्यते।।२।।
  • "ईश्वर उवाच—
  • भार्वतारणं देवि छलं कृत्वा शुचिस्मिते।आविरासीन्महेशानि मथुराव्रजमण्डले।।३।।
  • मथुरा परमेशानि महामाया जगन्मयी। केशपीठं वरारोहे मथुराव्रजमण्डलम्।।४।।
  • चन्द्रावली महामाया राधा पद्मदलेक्षणा।यत्रास्ते सततं देवि मथुराव्रजमण्डलम्।।५।।
  • अत्यन्तमधुरं शान्तं सुस्निग्धं सुमनोहरम्।आविरासीन्महेशानि राधा चन्द्रावली प्रिये।।६।।
  • यूथे यूथे वरारोहे मथुराव्रजमण्डले।अन्यत्र विरलादेवी मथुरायां गृहे गृहे।।७।।
  • सर्वशक्तिमये पीठे मथुरायां शुचिस्मिते।यत्रास्ते परमेशानि साक्षात्कात्यायनी परा।।८।।
  • किमसाध्यं महेशानि मथुराव्रजमण्डले।वसन्ताद्या महेशानि ऋतवश्च गृहे गृहे।।९।।
  • नानागन्धसुगन्धेन मोदिता मथुरा सदा।किमसाध्यं महेशानि मथुराव्रजमण्डले।।१०।।
  • यत्रास्ते सा महामाया यशोदा गर्भपञ्जरे।एतद्बाहुल्यवृत्तान्तं भारतेषु प्रगीयते।।११।।
  • व्यासोक्तमेतत्सर्वं हि व्यासो मम तनुः सदा।मम देहधरो व्यासः सततं परमेश्वरि।।१२।।
  • भद्रे मास्यसिते पक्षे अष्टम्यां वरवर्णिनि। निश्यर्धे रोहिणीयुक्ते हरिराविरभूत्प्रिये।।१३।।
  • यथा विष्णुस्तथा माया आविर्भूता वरानने।माहामाया तु या देवी कृष्णवक्षो निवासिनी।।१४।।
  • "ईश्वर उवाच—
  • हरिर्हि निर्गुणः साक्षात्वरे वर हितप्रिये।शरीरं हि महेशानि प्रकृतिः परमेश्वरी।निवृत्तविग्रहं मायां हरिर्ज्योतिर्मयः सदा।।१५।।
  • प्रफुल्लपुण्डरीकाक्षं चतुर्बाहुसमन्वितम्।श्रवणे कुण्डलोपेतं मकराकृतिसुन्दरम्।श्रीवत्सकौस्तुभोद्दीप्तं हृदयं व्रजसन्निभम्।पीताम्बरधरं देवं दलिताञ्जनचिक्कणम्।।१६।।
  • सारदेन्दुप्रसन्नास्यं शङ्खचक्रादिधारिणम्।मालया शोभितं देवं चतुर्बाहुधरं सदा।।१७।।
  • किंकिणीं कटिमध्ये तु धारयन्तं मनोहरम्।केयूराङ्गदलयैरतीवसुन्दरं प्रिये।त्रिपुरया महेशानि दत्तमाला मनोहरम्।।१८।।
  • एवं मायाविग्रहञ् च धृत्वा कृष्णः परात्परः।वसुदेवगृहे देवि देवकी गर्भसम्भवः।आविरासीन्महेशानि कृष्णः पद्मदलेक्षणः।।१९।।
  • एवं शब्दमयो भूत्वा कृष्णस्तु परमो ऽव्ययः।अत एव महेशानि शब्दब्रह्म हरिः सदा।।२०।।
  • कार्यकारणयोर्मध्ये महाम्यान्वितः सदा।न कार्यकारणञ् चात्र ईश्वरः कमलेक्षणः।।२१।।
  • कार्यञ् च कारणञ् चैव महामाया जगन्मयी।मायाविग्रहमाश्रित्य हरिरावीरभूत्स्वयम्।।२२।।
  • इदमाश्चर्यरूपं हि दृष्ट्वा विस्मितमागतः।पिता माता महेशानि आश्चर्यं विस्मयं गताः।।२३।।
  • "वसुदेव उवाच—
  • नमस्तुब्यं भागवते कृष्णाय वैकुण्थमेधसे।एतद्रूपं महाबाहो संहराश्च महाविभो।।२४।।
  • एतच्छ्रुत्वा वचस्तस्य वसुदेवस्य पार्वति।विधृत्य प्राकृतिं रूपं नरलोकविडम्बनम्।।२५।।
  • प्राकृतिं हि महेशानि विग्रहं यच्च सुन्दरि।तदेव प्राकृतिं मायां ब्रह्माण्डव्यापिनीं पराम्।।२६।।
  • विधृत्य प्राकृतिं रूपं कृष्णः पद्मदलेक्षणः।बाल्यकैशोरपौगण्डकर्मापि हरिमेधसः।।२७।।
  • दिवसे दिवसे देवि यच्चत्रे कमलेक्षणः।अत्यन्तगोपनं देवि सारात्सारं परात्परम्।तत्ते ऽहं संप्रवक्ष्यामि सावधानावधारय।।२८।।
  • "देव्युवाच—
  • कृष्णस्य विग्रहं देव परमेश्वर पुरातन।नानालक्षणसंयुक्तं नानारूपधरं सदा।तत्सर्वं परमेशान विस्तरं वद शङ्कर।।२९।।
  • "ईश्वर उवाच—
  • ऊर्ध्वरेखा यवश्चक्रं छत्रं पद्मध्वजाङ्कुशः।वज्रं तथाष्टकोणञ् च स्वस्तिकानाञ् चतुष्टयः।।३०।।
  • पञ्चजम्बुफलं तत्र दक्षिणे चरणे हरेः।शङ्खाम्बरं धनुश्चैव गोष्पदाख्यं त्रिकोणकम्।।३१।।
  • अर्धचन्द्रत्रयः कुम्भो जम्बुफलचतुष्टयः।पादमूले तदालीनं द्वात्रिंशदुपलक्षणम्।।३२।।
  • अन्यच्च शृणु चार्वङ्गि ब्रह्मविग्रहकारणम्।कृष्णस्य रूपं देवेशि सर्वशक्तिसमन्वितम्।।३३।।
  • यवश्चक्रं पुष्पमाला वलया काञ्चिरुत्तमा।माला मध्ये अर्धचन्द्रं कमलञ् च ध्वजन्तथा।।३४।।
  • ऊर्ध्वरेखा चार्धपादे अङ्कुशञ् चरणाम्बुजे।दक्षे शङ्खं महेशानि मीनञ् च पदमूलयोः।।३५।।
  • गदाञ् च शोभनान्तत्र एवं सप्तदश प्रिये।एवं नानाविधं भद्रे लक्षणं परमाद्भुतम्।।३६।।
  • लक्षणं परमेशानि सर्वशक्तिसमन्वितम्।नानाज्योतिर्मयं देहं प्रधानां प्रकृतिं पराम्।।३७।।
  • ज्योतिस्तु परमेशानि नित्यप्रकृतिरूपिणी।एवं नानाविधं भद्रे शक्त्यालक्षणलक्षितम्।।३८।।
  • इति वासुदेवरहस्ये राधतन्त्रे दशम पटलः।।१०।।
  • "ईश्वर उवाच—
  • रहस्यं परमं गुह्यं जगन्मोहनसंज्ञकम्।यत्श्रुत्वा परमेशानि साधकस्य च यद्भवेत्।।१।।
  • श्रुत्वा तु साधकश्रेष्ठा इष्टाइश्वर्यमवाप्नुयात्।तत्सर्वं शृणु चार्वाङ्गि कथयामि तवानघे।।२।।
  • गुह्याद्गुह्यतमं हृद्यं परमानन्दकारणम्।अत्यद्भुतं रहस्यानां रहस्यं परमं शिवम्।।३।।
  • दुर्लभानाञ् च परमं दुर्लभं सर्वमोहनम्।सर्वशक्तिमयं देवि सर्वतन्त्रेषु गोपितम्।।४।।
  • नित्यं वृन्दावनं नाम सती केशोपरिस्थितम्।पुनर्ब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम्।।५।।
  • वैकुण्ठसदृशाकारं स्वयं वृन्दावनं भुवि।यच्च वैकुण्ठमैश्वर्यं गोकुले तत्प्रतिष्ठितम्।।६।।
  • वैकुण्ठे वैभवं देवि द्वारकायां प्रकाशितम्।यद्ब्रह्मशक्तिसंयुक्तं नित्यं वृन्दावनाश्रयम्।।७।।
  • तत्कुले माथुरं वृन्दावनमध्ये विशेषतः।जम्बुद्वीपे महेशानि भारतं विष्णुमोहनम्।।८।।
  • निगूढं विद्यते विष्णोः पर्यन्तमवधिष्ठितम्।सहस्रपत्रकमलाकारं माथुरमण्डलम्।।९।।
  • शक्तिचक्रोपरिश्रीमद्धाम वैष्णवमद्भुतम्।कर्णिकापत्रविस्तारं रम्यं वै कथितं प्रिये।।१०।।
  • क्रमशो द्वादशारण्यं नामानि कथयामि ते।भद्रश्रीलौहभण्डीरमहातालभदिरकाः।।११।।
  • बहुनाकुमुदं काम्यं मधुवृन्दावनं तथा।विशेषं शृणु वक्ष्यामि क्रमं परम्सुन्दरि।।१२।।
  • भद्रञ् च तापसीर्मूर्तिस्तापनी श्रीवनं तथा।धूमालौहवनं भद्राभण्डीरनुत्तमं वनम्।।१३।।
  • महातलवनं भद्रे ज्वलिनी परमा कुला।रुचिस्तु खदिरं भद्रे वनं परमशोभनम्।।१४।।
  • सुसुम्ना बहुना भद्रे कुमुदं भोगदा प्रिये।विश्वा मधुवनं प्रोक्तं वृन्दा च धरणी तथा।।१५।।
  • काम्यञ् च मालिनी देवि महद्वनं क्षमा तथा।वनमुख्या द्वादशैताः कालिन्द्याः सप्त पश्चिमे।।१६।।
  • अन्यच्चोपवनं भद्रे कृष्णक्रीडारसस्थलम्।कदम्बखण्दिकं नन्दवनं नन्दीश्वरं प्रिये।।१७।।
  • नन्दमानन्दसुप्तञ् च पलाशाशोककेतकी।सुगन्धिमोदनं कौलममृतं भोजनस्थलम्।।१८।।
  • सुखप्रसाधनं वत्सहरणं शेषशयिकम्।श्यामपूर्यं दधिग्रामं वृषभानुपुरं तथा।।१९।।
  • सङ्केतद्विपदञ् चैव रासक्रीडं तु धूषरम्।केमुद्रमं सरोवीनं नवमं मुकचन्दनम्।।२०।।
  • संख्या वनस्य द्वात्रिंशदित्थं साधनसिद्धिदाः।पूर्वोक्तं द्वादशारण्यं प्रधानं वनमुत्तमम्।।२१।।
  • तत्रोत्तरी चतुर्थञ् च वनञ् च समुदाहृतम्।नानाविधरसक्रीडा नानालीलामयं स्थलम्।।२२।।
  • दलकेशरविस्ताररहस्यमीरितं क्रमात्।सहस्रपत्रकमलं गोकुलाख्यं शुचिस्मिते।तत्कर्णिका महद्धाम कृष्णस्य स्थानमुत्तमम्।।२३।।
  • इति वासुदेवरहस्ये राधतन्त्रे एकादश पटलः।।११।।
  • "ईश्वर उवाच—
  • तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डिते।दक्षिनादिक्रमाद्दिक्षुविदिक्षुदलमीरितम्।।१।।
  • यद्दलं दक्षिणे प्रोक्तं गुह्याद्गुह्यतमं प्रिये।तत्रावासं महापीठं निगमागमसुन्दरम्।।२।।
  • योगीन्द्रैरपि दुष्प्राप्यं सत्यं पुंसामगोचरम्।दलमादौ द्वितीयञ् च तद्रहस्यं द्वयं प्रिये।।३।।
  • पूर्वदलं तृतीयं च तत्र केशी निपातिता।गङ्गादिसर्वतीर्थञ् च तद्दले सद्गुणं सदा।।४।।
  • चतुर्थदलमैशान्यां सिद्धपीठेप्सितप्रदम्।कात्यायन्यर्चनाद्योगी यत्र लेभे पतिं हरिम्।।५।।
  • वस्त्रालङ्कारहरणं तद्दले समुदाहृतम्।उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम्।।६।।
  • यत्रैव द्वादशादित्या दलञ् च कर्णिकासमम्।वायव्याम्स्तु दलं षष्ठं भद्रकाली ह्र्दः स्मृतः।।७।।
  • दलोत्तमोत्तमं देवि प्रधानं दलमुच्यते।सर्वोत्तमं दलश्रेष्ठं पश्चिमे सप्तमं दलम्।।८।।
  • यज्ञपत्नीगणानाञ् च यदीप्सितवरप्रदम्।अन्वासुरो ऽपि निर्वाणं लेभे यत्र दले प्रिये।।९।।
  • ब्राह्मणो मोहनं तत्र दलं ब्रह्मह्रदावधि।नैरृतां तु दलं प्रोक्तमष्टमं व्योमघातनम्।।१०।।
  • शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम्।एतदष्टदलं भद्रे वृन्दावन्यान्तरस्थितम्।।११।।
  • श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम्।अधिष्ठाता तत्र शम्भुर्लिङ्गं गोपीश्वराभिधाम्।।१२।।
  • तद्बाह्य षोडशदले माहात्म्यक्रम ईर्ष्यते।नैरृत्यादिक्रमात्प्रोक्तं प्रादक्षिण्यं यथा तथा।।१३।।
  • महत्पदं महद्धाम प्रधानं भद्रषोडश।प्रथमञ्च दलं श्रेष्ठं माहात्म्यं कर्णिका समम्।।१४।।
  • तद्दले मधुवनं प्रोक्तं तत्र प्रादुरभूद्धरिः।आद्यं केशरमापूज्यं त्रिगुणातीतमीश्वरम्।।१५।।
  • चतुर्भुजं महाविष्णुं सर्वकारणकारणम्।अधिष्ठातं देवदेवं सर्वश्रेष्ठदलोत्तमे।।१६।।
  • यत्र क्षेत्रपतिर्देवो भूतेश्वर उमापतिः।दलं द्वितीयमाख्यातं किञ्चिल्लीलारसस्थलम्।।१७।।
  • खदिरञ् चेति तत्रैव दलञ् च समुदाहृतम्।सर्वश्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम्।।१८।।
  • तत्र गोवर्धनगिरो नित्यं रम्यफलादिकम्।दलं तृतीयकं भद्रे सर्वश्रेष्ठोत्तमोत्तमम्।।१९।।
  • हरिर्यस्य पतिः साक्षाद्गोवर्धनमहीभृतः।चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम्।।२०।।
  • कदम्बभाण्डी तत्रैव पूर्णानन्दरसाश्रयः।स्निग्धं हृद्यं प्रियं रम्यं दलञ् च समुदाहृतम्।।२१।।
  • नन्दीश्वरं दलश्रेष्ठं तत्र नन्दालयं प्रिये।कर्णिकासममाहात्म्यं पञ्चमं दलमुच्यते।।२२।।
  • तदधिष्ठातृ गोपालो धेनुपालनतत्परः।दलं षष्ठं यद्क्षोभं तत्र वृन्दावनं स्मृतम्।।२३।।
  • सप्तमं बहुना रम्यं दलं रम्यं प्रकीर्तितम्।दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः।।२४।।
  • नवमं कुमुदारण्यं दलं रम्यं शुचिस्मिते।काम्यारण्यं दलं हृद्यं प्रधानं सर्वकारणम्।।२५।।
  • ब्रह्मस्थानं दलं तत्र विष्णुवृन्दसमन्वितम्।कृष्णक्रीडारसस्थानं दशमं दलमुच्यते।।२६।।
  • दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम्।सेतुबन्धस्य निर्माणं नानारत्नरसस्थलम्।।२७।।
  • भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम्।कृष्णः क्रीडारसस्तत्र कुसुमादिसहायतः।।२८।।
  • त्रयोदशदलं श्रेष्ठं तत्र भद्रवनं स्मृतम्।चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदं स्थलम्।।२९।।
  • श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम्।कृष्णलीलामयदलं श्रीकान्तिकीर्तितवर्धनम्।।३०।।
  • दलं पञ्चदशं श्रेष्ठं तत्र नौहरणं शुभम्।कथितं षोडशदलं माहात्म्यं कर्णिकासमम्।।३१।।
  • महावनं दलं प्रोक्तं तत्रास्ते गुह्यमुत्तमम्।वाल्यक्रीडारसस्तत्र वत्सबालैः समावृतः।।३२।।
  • पूतनादिवधस्तत्र यमलार्जुनभञ्जनम्।अधिष्ठाता तत्र बालो गोपालः पञ्चमाब्दिकः।।३३।।
  • नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः।प्रसिद्धदलमाख्यातं सर्वश्रेष्ठदलोत्तमम्।।३४।।
  • कृष्णक्रीडारसस्तत्र विहारदलमुच्यते।सिद्धिप्रधानकिञ्जल्कं वनञ् च समुदाहृतम्।।३५।।
  • "श्री पार्वत्युवाच—
  • वृन्दावनस्य माहात्म्यं रहस्यं वा किमद्भुतम्।रसं प्रेम तथानन्दं सर्वं मे कथय प्रभो।।३६।।
  • यत्र वृन्दादिपुलकैः प्रेमानन्दाश्रुवर्षितम्।किं पुनश्चेतनायुक्तैर्विष्णुभक्तिः किमुच्यते।।३७।।
  • "ईश्वर उवाच—
  • कथितं ते प्रियतमं गुह्याद्गुह्यतमं प्रिये।रहस्यानां रहस्यञ्च दुर्लभानाञ्च दुर्लभः।।३८।।
  • भारते गोपितं देवि केशपीठं मनोहरम्।ब्रह्मादिवाञ्छितं स्थानं देवगन्धर्वसेवितम्।।३९।।
  • पञ्चषन्मातृकायुक्तं नित्यानन्दमयं प्रिये।यत्र कात्यायनी माया महामाया जगन्मयी।।४०।।
  • किमसाध्यं महेशानि पूज्या तत्र वरानने।लताकन्दं महेशानि वृन्देति कथितं प्रिये।।४१।।
  • लताकन्दं महेशानि स्वयं कात्यायनी परा।अत एव महेशानि योगेन्द्रैः परिसंस्तुतः।।४२।।
  • अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम्।श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम्।।४३।।
  • भूमि चिन्तामणिस्तोयं सततं रसपूरितम्।।४४।।
  • वृक्षः सुरद्रुमस्तत्र सुरभी वृन्दसेवितम्।पुर्णस्तु परमेशानि पञ्चशत्कलयायुतम्।।४५।।
  • आनन्दो यस्तु देवेशि प्रकृतिः परमेश्वरी।या भूमिः परमेशानि सा तु पृथ्वी वरानने।।४६।।
  • तोयं रसं वरारोहे स्वयं प्रकृतिरुत्तमा।द्रुमस्तु प्रकृतिर्माया तरुभिश्चण्डिका स्वयम्।।४७।।
  • स्त्री लक्ष्मीः पुरुषो विष्णुस्तद्दशांशसमुद्भवः।विष्णुस्तु परमेशानि ज्येष्ठो शक्तिरितीरिता।।४८।।
  • अंशास्तु परमेशानि कला प्रकृतिरूपिणी।वयः कैशोरकं तत्र नित्यमानन्दविग्रहम्।।४९।।
  • गतिर्नाट्यं कथा गानं स्मितवक्त्रं निरन्तरम्।शुद्धसारैः प्रेमपूर्णं मानवैस्तद्वनाश्रयैः।।५०।।
  • पुनर्ब्रह्म मुखे मग्नं स्फुरन्मूर्तिततन्मयम्।गत्यादिस्मितवक्त्रान्तं शुद्धसत्तादिकञ् च यत्।तत्सर्वं कुरुते रूपं सततं कमलेक्षणे।।५१।।
  • यत्तु कोकिलभृङ्गाद्याः कुजत्कलं मनोहरम्।कपोतशुकसङ्गीतमुन्मत्तानि सहस्रकम्।भुजङ्गशक्रनृत्याड्यं सकान्तामोदविभ्रमम्।।५२।।
  • नानावर्णैश्च कुसुमैस्तद्वनं परिपूरितम्।सुखं दुःखं महेशानि प्रकृतिः परमेश्वरी।।५३।।
  • कोकिलाद्याश्च या प्रोक्ता मधुनि कुसुमान्तकाः।ताः सर्वाः परमेशानि प्रकृतिः परमेश्वरी।अत एव महेशानि ब्रह्मणः कारणं शिवा।।५४।।
  • मन्दमारुतसंयुक्तं वसन्तवातसंयुतम्।पूर्णेन्दुनित्याभ्युदयं सूर्यमन्दांशुसेवितम्।।५५।।
  • अदुःखं लोकविच्छेदजरामरणवर्जितम्।अक्रोधं गतमात्सर्यमभिन्नं निरहङ्कृतम्।।५६।।
  • पूर्णानन्दामृतरसं पूर्णप्रेमसुधार्णवम्।गुणातीतं महद्धाम पूरितं पूर्णशक्तिभिः।गुह्याद्गुह्यतमं गूढं मध्यव्र्ण्दावनस्थितम्।।५७।।
  • गोविन्दाङ्घ्रिरजःस्पर्शान्नित्यं वृन्दावनं भुवि।यस्य स्पर्शेन मात्रेण पृथ्वी धन्या च भारते।।५८।।
  • महाकल्पतरुच्छायगोविन्दस्थानमव्ययम्।मुक्तिस्तद्वनसंस्पर्शान्माहात्म्याद्धि विमुच्यते।तस्मात्सर्वात्मना देवि हृदिस्थं कुरु तद्वनम्।।५९।।
  • इति वासुदेवरहस्ये राधतन्त्रे द्वादश पटलः।।१२।।
  • "श्रीपार्वत्युवाच—
  • यदि वृन्दावनं देव जरामरणवर्जितम् ।अदुःखं शोकविच्छेदमक्रोधं यदि शूलभृत्।।१।।
  • तत्कथं परमेशान पूतना निधनं गता।वृषासुरश्च केशी च शङ्खदूतादयो परे।।२।।
  • तत्कथं परमेशान कृष्णः क्रोधमवाप्तवान्।यद्येवं परमेशान सततं व्रजमण्डलम्।।३।।
  • सर्वावाधानिनिर्मुक्तं सर्वशक्तिमयं सदा।सर्वानन्दमयं देव केशपीठं मनोहरम्।।४।।
  • तत्कथं परमेशान उत्पातं व्रजमण्डले।गोपीनां परमेशान कथं कामोद्भवः प्रभो।
  • कृष्णो वा देवकीपुत्रः सदा कामयुतः कथं।।५।।यमुनाया महादेव जलञ् चामृतपूरितम्।एतद्धि संशयं छिद्धि महादेव दयानिधे।।६।।
  • "श्री ईश्वर उवाच—
  • साधु प्रष्टं त्वया भद्रे रहस्यं परमाद्भुतम्।रहस्यं शृणु देवेशि गुह्याद्गुह्यतमं परम्।।७।।
  • कार्यञ्च कारणं देवि जाग्रदादिषु वर्तते।जाग्रत्स्वप्नसुषुप्तिञ् च तुरीयं परमं पदम्।।८।।
  • तुरीयं ब्रह्मनिर्वाणं महाविष्णुः शुचिस्मिते।सदा ज्योतिर्मयं शुद्धं कार्यकारणवर्जितम्।।९।।
  • निरीहं निश्चलं देवि सततं विष्णुरूपधृक्। वासुदेवोऽपि देवेशि विष्णोरम्शात्मकः सदा।।१०।।
  • त्रिपुरायाः प्रसादेन पद्मिनीसङ्गमागतः।कृष्णरूपं समाश्रित्य वृन्दावनकुटीरके।।११।।
  • कृषिर्भूवाचकः शब्दो णश्च निवृत्तिवाचकः।तयोरैक्यं यदायाति शुद्धसत्वात्मको हरिः।।१२।।
  • तत्रैव सहसा देवि ब्रह्मशब्दमयं स्मृतम्।ब्रह्मशब्दस्तु देवेशि कृष्णः स त्वगुणाश्रयः ।।१३।।
  • तुरीयं यदि देवेशि प्रकृत्या सह सङ्गतम्।पुरुषः कूटरूपस्तु कार्यकारणवर्जितम्।।१४।।
  • तस्मात्तु पुरुषो विष्णुः सच्चिदानन्दविग्रहः।प्रकृतिः परमेशानि कार्यकारणविग्रहः।।१५।।
  • न कार्यं कारणं देवि ईश्वरस्तु कादाचन।प्रकृत्या सहयोगेन कार्यकारण ईश्वरः।।१६।।
  • दुर्ध्येया परमेशानि तव माया सनातनी।तव केशोद्भवा देवि नित्यव्रजपुरी सदा।।१७।।
  • यद्यदुक्तं महेशानि कामक्रोधादिकं प्रिये।तत्सर्वं परमेशानि प्रकृतिः परमेश्वरी।।१८।।
  • वासुदेवस्य यज्जन्म शृणु लोलोऽल्पमेधसि।तत्सर्वं परमेशानि विद्यासिद्धिस्तु कारणम्।।१९।।
  • यस्य यस्य च देवेशि विद्यासिद्धिः प्रजायते।तस्य तस्य च देवेशि देवत्वं परमेश्वरि।।२०।।
  • भूलोके परमेशानि केशपीठे वरानने।कुलाचारस्य सिद्ध्यर्थं पद्मिनी सङ्गमागतः।।२१।।
  • इति वासुदेवरहस्ये राधतन्त्रे त्रयोदश पटलः।।१३।।
  • "ईश्वर उवाच—
  • सहस्रपत्रे पद्मस्य वृन्दावण्यं वराटकम्।अक्षयं नित्यमानन्दं गोविन्दस्थानमव्ययम्।सतीकेशात्समुद्भूतं पूर्णप्रेमसुखाश्रयम्।।१।।
  • अन्योन्येषु व स्थानेषु बाल्यपौगण्डयौवनम्।वृन्दारण्यविहारेषु कृष्णकैशोरविग्रहः।।२।।
  • कालिन्दीतरुणानन्दिभङ्गसौरभमोहितम्।पद्मोत्पलाद्यैः कुसुमै नानावर्णसमुज्ज्वलम्।।३।।
  • चक्रवाकादिविहगैर्नानामञ्जुकलस्वनैः।शोभमानं जलं रम्यमतीवसुमनोहरम्।।४।।
  • अस्योभयतटीरम्या शुद्धकाञ्चननिर्मिता।गङ्गाकोटीगुणं पुण्यं यत्र स्पर्शो वराटकः।।५।।
  • कर्णिका महिमा किं तु यत्र क्रीडारतो हरिः।कालिन्दी कर्णिका कृष्णमभिन्नमेकविग्रहम्।यो जानीयात्स वै धन्यो देवि ते कथितं मया।।६।।
  • "देव्युवाच—
  • देवदेव महादेव रहस्यं वद शङ्कर।कः कृष्णः परमेशान कालिन्दी का वृषध्वज।।७।।
  • कर्णिका का महेशान विस्ताराद्वद शङ्कर।एतत्तत्त्वं महादेव कृपया कथय प्रभो।।८।।
  • "ईश्वर उवाच—
  • कालिन्दी कालिका साक्षात्कृष्णस्यानुग्रहाय वै।कुण्डलाकृतिरूपेण व्रजं व्याप्य हि तिष्ठति।।९।।
  • कृष्णस्तु परमेशानि प्रकृतिः पुरुषः सदा।कर्णिका जगतां माता महामाया जगन्मयी।।१०।।
  • अत एव महेशानि विष्णुः कृष्णत्वमागतः।तस्मात्तु कालिका देवि कालिन्दी परमेश्वरी।।११।
  • कर्णिका कुण्डली नित्या कृष्णः सत्यमयो हरिः।कृष्णशब्दो महेशानि निवृत्तेः सङ्गमात्रतः।एकत्वं जायते देवि तदा कृष्ण इति स्मृतिः।।१२।।
  • "देव्युवाच—
  • गोविन्दस्य किमाश्चर्यं सौन्दर्यं वयसाकृतिः।तत्सर्वं श्रोतुमिच्छामि कथयस्व दयानिधे।।१३।।
  • "ईश्वर उवाच—
  • मध्ये वृन्दावने रम्ये मञ्जुमन्दरशोभिते।योजनावृततद्वृक्षैः शाखापल्लवविस्तरैः।।१४।।
  • महत्पदं महद्धाम महानन्दरसाश्रयम्।पुराणकुसुमैर्गन्धैर्मत्तानि वृन्दसेविते।।१५।।
  • तत्राधःस्थ सिद्धपीठे सतीकेशविनिर्मिते।सप्तावरणकं स्थानं श्रुतिमृग्यं निरन्तरम्।।१६।।
  • तत्र शुद्धं हेमपीठं मणिमण्डितमण्डपम्।तन्मध्ये मञ्जुरत्नञ् च योगपीठं समुज्ज्वलम्।।१७।।
  • तदष्टकोणनिर्माणं नानादीप्तिमनोहरम्।तत्रोपरि च माणिक्यस्वर्णसिंहासनस्थितम्।।१८।।
  • गोविन्दस्य प्रियं स्थानं किमस्य महिमोच्यते।श्रीगोविन्दं तत्र संस्थं वल्लवीवृन्दसेवितम्।।१९।।
  • दिव्यव्रजवयोरूपं वल्लवीप्रियवल्लभम्।व्रजेन्द्रनियतैश्वर्यं व्रजबालैकवल्लभम्।।२०।।
  • यौवने भिन्नकैशोरं सुवेशाकृतिविग्रहम्।शान्तानन्दं पदं ज्योतिर्दलिताञ्जनचिक्कणम्।।२१।।
  • अनादिमादिप्राणेशं नन्दगोपप्रियात्मजम्।स्मृतिमग्र्यमजं नित्यं गोपीकुलमनोहरम्।।२२।।
  • परं धाम परं रूपं द्विभुजं गोपीकेश्वरम्।वृन्दावनेश्वरं ध्यायेत्निर्गुणस्यैककारणम्।।२३।।
  • नवीननिरदश्रेणी सुस्निग्धं मञ्जुमञ्जुलम्।फुल्लेन्दीवरसत्कान्ति सुखस्पर्शं सुखाश्रयम्।।२४।।
  • दलिताञ्जनपुञ्जाभ चिक्कणं श्याममोहनम्।सुस्निग्धनीलकुटिलाशेष सौरभकुण्डलम्।।२५।।
  • तदूर्ध्वदक्षिणे भागे तिर्यक्चूडा मनोहरा।नानारत्नोज्ज्वलं राजच्छिखण्डदलमण्डितम्।।२६।।
  • मयूरपुच्छगुच्छाढ्यं चूडाचारुविभूषितम्।क्वचिद्बर्हदलश्रेणी मनोज्ञमुकुटान्वितम्।।२७।।
  • नानाभरणमाणिक्यकिरीटभूषितं कटिम्।लोलालकावृतं राजत्कोटीन्दुसद्र्शाननम्।।२८।।
  • कस्तूरीतिलकं भ्रजन्मञ्जुगोरोचनाचितम्।नीलेन्दीवरसुस्निग्धसुदीर्घदललोचनम्।।२९।।
  • उन्नतभ्रूलताशेषस्मितसाचीनिरीक्षणम्।सुचारून्नतसौन्दर्यनानारूपनिरूपणम्।
  • नासग्रगजमुक्तांशमुग्धीकृतजगतत्रयम्।।३०।।सिन्दूरारुणसुस्निग्धमोष्ठाधरमनोहरम्।
  • नानारत्नोल्लसत्स्वर्णं मकराकृतिकुण्डलम्।।३१।।कर्णोत्पलसुमन्दारकुसुमोत्तमभूषितम्।त्रैलोक्याद्भुतसौन्दर्यं तिर्यग्ग्रीवामनोहरम्।।३२।।
  • प्रस्फुरन्मञ्जुमाणिक्यकम्बुकण्ठविभूषितम्।श्रीवत्सकौस्तुभोरङ्कं मुक्ताहारलसत्श्रियम्।।३३।।
  • कदम्बमञ्जुमन्दारसुमनोहारभूषितम्।करे कङ्कनकेयूरकिङ्किनीकटिशोभितम्।।३४।।
  • मञ्जुमञ्जीरसौन्दर्यश्रीमदङ्घ्रिविराजितम्।कर्पूरागुरुकस्तूरीविलसत्चन्दनाङ्कितम्।।३५।।
  • गोरोचनादिसंमिश्रदिव्याङ्गरागचित्रितम्।गंभीरनाभीकमलं लोमराजिलतास्रजम्।।३६।।
  • सुवृत्तजानुयुगलं पादपद्ममनोहरम्।ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम्।।३७।।
  • नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम्।योगीन्द्रैः सनकादैश्च तदेवाकृति चिन्त्यते।।३८।।
  • त्रिभङ्गललिताशेषलावण्यसारनिर्मितम्।तिर्यग्ग्रीवजितानन्तकोटिकन्दर्पसुन्दरम्।।३९।।
  • वामांशार्पितसद्गण्डस्फुरत्काञ्चनकुण्डलम्।अपाङ्गेन तु सस्मेरकोटिमन्मथमन्मथम्।।४०।।
  • कुञ्चिताधरविन्यस्तवंशीमञ्जुकलस्वनैः।जगत्त्रयं मोहयन्तं मग्नं प्रेमसुखार्णवे।।४१।।
  • "देव्युवाच—
  • देव देव महादेव संसारार्णवतारक।ध्यानं परमगोप्यं हि विष्णोरमिततेजसः।।४२।।
  • एतत्सर्वं महादेव विस्तराद्वद शङ्कर।कृपया कथयेशान कुलाचारस्य साधनम्।।४३।।
  • "ईश्वर उवाच—
  • निगदामि शृणु प्रौढे वासुदेवस्य निर्णयम्।साङ्गोपाङ्गेन सहितं निगदामि शृणु प्रिये।।४४।।
  • त्वां विना परमेशानि जगच्छ्रजमयं यथा।तथैव परमेशानि कृष्णसुअ वरवर्णिनि।कुलाचारनिमित्तं हि एतत्सर्वं वरानने।।४५।।
  • इति वासुदेवरहस्ये राधतन्त्रे चतुर्दश पटलः।।१४।।
  • "ईश्वर उवाच—
  • ध्यानतत्त्वं महेशानि सावधानावधारय।शरीरं हि विना देवि न हि ध्यानं प्रजायते।।१।।
  • शरीरं प्रकृते रूपं पूर्णब्रह्मैककारणम्।वृन्दालतासमाख्याता तव केशसमुद्भवा।।२।।
  • मन्दारं परमेशानि कल्पवृक्षं मनोहरम्।सुरभिः प्रकृतिर्या तु कल्पवृक्षमयं प्रिये।।३।।
  • तत्र शाखापल्लवानि मातृकान्यक्षराणि च।तत्र मत्तानि पुञ्जानि प्रकृतिं विद्धि सुन्दरि।।४।।
  • सिद्धपीठं वरारोहे सर्वशक्तिमयं सदा।सप्तावरणकं तत्तु साक्षात्प्रकृतिमुत्तमाम्।।५।।
  • योगपीठं महेशानि उज्ज्वलं वा वरानने।यदुक्तमष्टकोणञ् च योनिरूपा सनातनी।।६।।
  • माणिक्यरुचिरं देवि सिंहासनमनुत्तमम्।दलमष्टं महेशानि तवैव अष्ट नायिका।।७।।
  • गोविन्दस्य प्रियं यत्तु सुखमत्यन्तमद्भुतम्।प्रियं प्रीतिर्महेशानि सततं शक्तिरूपिणी।।८।।
  • वल्लरी गोपिकावृन्दं कृष्णकार्यकरी सदा।कलारूपा महेशानि गोपिका शक्तिरूपिणी।।९।।
  • वयो लवण्यरूपञ् च सर्वं प्रकृतिरुच्यते।वालपौगण्डकैशोरं सर्वं प्रकृतिमयं स्मृतम्।।१०।।
  • एतत्तु परमेशानि स्वयं शक्तिरभूत्प्रिये।यदुक्तं परमेशानि दलिताञ्जनचिक्कणम्।।११।।
  • महाकाली महामाया स्वयं वर्णस्वरूपिणी।अनादिप्रकृतिं विद्धि आदिश्च प्रकृतिः स्वयम्।।१२।।
  • नन्दगोपस्य देवेशि कृष्णस्तु सर्वदा प्रयः।आत्मना जायते यस्तु आत्मजः स उदाहृतः।।१३।।
  • पुष्टपुत्र इति ख्यातो नन्दस्य वरवर्णिनि।एतत्सर्वं वरारोहे शक्तिरूपं मनोहरम्।।१४।।
  • मनश्च परमेशानि स्वयं शक्तिरभूत्प्रिये।नवीननीरदो यस्तु स एव कालिकातनुः।।१५।।
  • सा ते कान्तिकला ज्ञेयो प्रकृतिः परमा परा।दलिताञ्जनपुञ्जाभं यदुक्तं परमेश्वरि।।१६।।
  • शक्तिरूपा वरारोहे सततं मोहिनी कला।मोहिनी प्रकृतिर्माया कलारूपा शुचिस्मिते।।१७।।
  • स एव परमेशानि कलामायास्वरूपिणी।तिर्यक्चूडं महेशानि यदुक्तं वरवर्णिनि।।१८।।
  • सा दूती प्रकृतिर्माया सततं विश्वमोहिनी।कुण्डलीशक्तिसंयुक्ता योनिमुद्रासमन्विता।।१९।।
  • यदुक्तं मालतीमाला सा सदा मालतीकला।चूडाया बन्धना या तु कुण्डली सा प्रकीर्तिता।।२०।।
  • नीलकण्ठस्य पुच्छं तु योनिमुद्रा वरानने।मुकुटं परमेशानि साक्षात्शक्तिस्वरूपिणी।।२१।।
  • लोलालकावृतं यत्तं कोटीन्दुसदृशाननम्।साक्षात्शक्तिर्महेशानि चन्द्रस्य परमा कला।।२२।।
  • कला षोडशसंयुक्ता चन्द्रमा वरवर्णिनि।अत एव महेशानि चन्द्रमा शक्तिरूपिणी।।२३।।
  • कस्तुरीतिलकं यत्तु रोचनातिलकं प्रिये।दीप्तिशक्तिं महेशानि प्रकृतिं परमेश्वरीम्।।२४।।
  • नीलेन्दी वरसुस्निग्धं यदुक्तं दीर्घलोचनम्।कलामुग्धीकृतं देवि पूर्वोक्ता परमेश्वरि।उन्नभ्रं महेशानि पूर्वोक्तं परमेश्वरि।।२५।।
  • कला मुग्धं सदा ज्ञेयं ब्रह्मणः कारणं परा।किमन्यद्बहुना देवि सर्वशक्तिमयं प्रित्ये।।२६।।
  • एतत्तु परमेशानि विग्रहं यदुदाहृतम्।कृष्णस्य परमेशानि गुणातीतस्य च प्रिये।एतत्तु परमेशानि स्वतं शक्तिरभूत्परा।।२७।।
  • निरक्षरा महेशानि कारणं परमेश्वरी।विग्रहरहितो विष्णुर्यदा भवति सुन्दरि।।२८।।
  • तदैव अक्षरं ब्रह्म सततं नगनन्दिनि। स विग्रहो यदा विष्णुः शब्दब्रह्म तदाभवेत्।सर्वेषां कारणञ् चैव शब्दब्रह्मपरात्परम्।।२९।।
  • शब्दब्रह्मणि देवेशि परब्रह्मणि चैव हि।सततं कारणं देवि पराप्रकृतिरूपिणी।।३०।।
  • परमानन्दसन्दोहविग्रहः प्रकृतिस्तनुः।अत एव महेशानि विष्णुः पद्मसलेक्षणः।
  • गुणातीतं सदा देवि न हि प्राकृतमर्हति।।३१।।
  • इति वासुदेवरहस्ये राधतन्त्रे पञ्चदश पटलः।।१५।।
  • "देव्युवाच—
  • परमं कारणं कृष्णो गोविन्देति परात्परम्।वृन्दावेश्वरं नित्यं निर्गुणस्यैककारणम्।।१।।
  • तस्याद्भुतस्य माहात्म्यं सौन्दर्यमैश्वर्यमेव च।तद्वहि देव देवेश श्रोतुमिच्छाम्यहं प्रभो।।२।।
  • "ईश्वर उवाच—
  • यदङ्घ्रिनखचन्द्रांशुमहिमा नेह विद्यते।तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं सदा शृणु।।३।।
  • तत्कला कोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः।सृष्टिस्थित्यादिना युक्तास्तिष्ठन्ति तस्य वैभवात्।।४।।
  • तद्देहविलसत्कान्तिकोटिकोट्यंशचन्द्रमाः।तत्श्यामदेहकिरणः परानन्दरसामृतः।।५।।
  • परमात्मा क्वचिद्रूपी निर्गुणस्यैककारणम्।तदङ्घ्रिपङ्कजश्रीमन्नखचन्द्रसमप्रभम्।आहुः पूर्णं ब्रह्मणो ऽपि कारणं देवदुर्लभम्।।६।।
  • तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः।तत्प्रिया पद्मिनी दूती राधिका कृष्णवल्लभा।तत्कला कोटिकोट्यंशा ललिताद्या वरानने।।७।।
  • "देव्युवाच—
  • देव देव महादेव शूलपाणे पिनाकधृक्।एतद्रहस्यं पूर्णोक्तं विस्तार्य कथय प्रभो।।८।।
  • ईश्वर उवाच—
  • कलावती या तु देवी मातृका या वरानने।सर्वश्रेष्ठा महामाया त्रिपुरा कण्हसंस्थिता।।९।।
  • त्रिपुरा कण्ठसंस्था या माला सौभाग्यवर्धिनी।पद्मिनी चित्रिणी चैव हस्तिनी कामिनी परा।।१०।।
  • पद्मिनी परमैश्चर्यरूपलावण्यशालिनी।पद्मिनी तु महेशानि स्वयं ब्रह्मप्रकाशिनी।।११।।
  • ब्रह्मणः परमेशानि पद्मिनी परमा कला।तस्या देव्याश्च पद्मिन्या ब्रह्माण्डाः कोटिकोटिशः।।१२।।
  • प्रसादात्परमेशानि रुद्रविष्णुपितामहाः।सृष्टिस्थित्यादिसंहारैस्तिष्ठन्ति सततं प्रिये।।१३।।
  • तद्देहविलसत्कान्तिः पराप्रकृतिरूपिणी।तस्यास्तु कोटिकोट्यंशश्चन्द्रमा प्रकृतिः परा।।१४।।
  • कृष्णस्य श्यामदेहस्तु स्वयं काली जगन्मयी।तद्देहकिरणैर्देवि परमानन्दरसामृतैः।।१५।।
  • आहुः पूर्णं ब्रह्मणो ऽपि कारणं देवदुर्गमम्।कृष्णस्याङ्गे महेशानि सौरभं यदुदाहृतम्।कला सौरभविज्ञेया साक्षात्प्रकृतिरूपिणी।।१६।।
  • "पार्वत्युवाच—
  • आहुः पुनर्ब्रह्मणो ऽपि कारणत्वं हि दुर्गमम्।तत्कथं परमेशान कृष्णः पूर्णः परात्परः।।१७।।
  • वेदगम्यं महेशान यदि न स्यात्पिनाकधृक्।परं ब्रह्मणि वेदे च भेदो नास्ति कदाचन।।१८।।
  • यो वेदः स परं ब्रह्म तदेव वेदरूपधृक्।वेदे ब्रह्मणि चैकत्वं पूर्णब्रह्म इदं स्मृतम्।।१९।।
  • निरीहो निश्चला वेदः पूर्णब्रह्मसनातनः।वेदस्तु प्रकृतिर्माया ब्रह्मणः कारणं परा।।२०।।
  • तत्कथं परमेशान वेदगम्यं पुरातनम्।एतद्धि हृदये देव संशयं शल्यमुद्धर।।२१।।
  • ईश्वर उवाच—
  • अक्षरं निर्गुणं ब्रह्म परं ब्रह्मेति गीयते।सगुणं स्यात्सदा ब्रह्म शब्दब्रह्म तदुच्यते।।२२।।
  • गुणस्तु प्रकृतिर्माया निर्गुणा यदि जायते।तदा स्यात्सगुणं ब्रह्म अन्यथा निश्चलं सदा।।२३।।
  • निश्चलं हि महेशानि कस्य गम्यं कदा भवेत्।गम्येन परमेशानि तेन किं भवति प्रिये।।२४।।
  • वेदगम्यं यदा ब्रह्म निर्गुणं सगुणं सदा।वेदागम्यं हि यद्ब्रह्म तदेव निश्चलं सदा।।२५।।
  • शब्दब्रह्म परं ब्रह्म ब्रह्मद्वयमिहोच्यते।शब्दब्रह्म विना देवि परं तु शवरूपवत्।।२६।।
  • तस्मात्शब्दं महेशानि मातृकाक्षरसंयुतम्।मातृका परमाराध्या कृष्णस्य जननी परा।।२७।।
  • इति वासुदेवरहस्ये राधातन्त्रे षोडश पटलः।।१६।।
  • ईश्वर उवाच—
  • पद्मिन्याङ्घ्रिरजःस्पर्शात्कोटिडिम्बं प्रजायते।पद्मिनी त्रिपुरादूती कृष्णकार्यकरी सदा।।१।।
  • पार्वत्युवाच—
  • गोविन्दावरणं देव तथा पारिषदः प्रभो।तत्सर्वं वद देवेश कृपया परमेश्वर।।२।।
  • ईश्वर उवाच—
  • राधया सह गोविन्दं रत्नसिंहासनस्थितम्।पूर्वोक्तरूपलावण्यं दिव्यस्रगम्बरं प्रिये।।३।।
  • त्रिभङ्गरूपसिस्निग्धं गोपीलोचनचातकम्।तद्बाह्ये योगपीठे च रत्नसिंहासनावृते।।४।।
  • प्रत्यङ्गारभसावेशाङ्प्रधानाः कुञ्जवल्लभाः।ललिताद्याः प्रकृत्यष्टौ पद्मिनी राधिकाद्वयम्।।५।।
  • सम्मुखे ललिता देवी श्यामा च तस्य चोत्तरे।उत्तरे श्रीमती धन्या ईशाने च हरिप्रिया।।६।।
  • विशाखा च तथा पूर्वे कृष्णस्य प्रियदूतिका।पद्मा च दक्षिणे भद्रा नैरृति क्रमशः स्थिता।एतस्तु परमेशानि पद्मिन्या अष्टनायिका।।७।।
  • अपरं शृणु चार्वाङ्गि कुलाचारस्य साधनम्।योगपीठस्य कोणाग्रे चारुचन्द्रावली प्रिया।प्रधानाः प्रकृतिश्चाष्टौ कृष्णस्य कार्यसिद्धिदाः।।८।।
  • पद्मिनी त्रिपुरा दूती सा राधा कृष्णमोहिनी।चन्द्रावली चन्द्ररेखा च चित्रा मदनमञ्जरी।प्रियाचरी मधुमती शशीरेखा हरिप्रिया।।९।।
  • सम्मुखादिक्रमाद्दिक्षु विदिक्षु च यथास्थिताः।षोडश प्रकृतिश्रेष्ठाः प्रधानाः कृष्णवल्लभाः।।१०।।
  • वृन्दावनेश्वरी राधा कृष्णस्य भयदायिनी।अभिन्नगुणलावण्यसौन्दर्यातीववल्लभा।।११।।
  • मनोहरा स्निग्धवेशा किशोरी वयसोज्ज्वलाः।नानावर्णविचित्राभाः कौषेयवसनोज्ज्वलाः।
  • एतास्तु परमेशानि षोडश स्वरमूर्तयः।या पूर्वोक्ता षोडशैका महामाया जगन्मयी।।१२।।
  • तद्बाह्ये गृहमध्यस्थे योगपीठावृते शुभे।सम्मुखे तत्र साधन्यो गोपकन्याः सहस्रशः।।१३।।
  • शुद्धकाञ्चनवर्णाभाः सुप्रसन्नाः सुलोचनाः।कोटिकन्दर्पलावण्याः किशोरवयसान्विताः।।१४।।
  • दिव्यालङ्कारभूषाभिर्नासाग्रगजमौक्तिकाः।विचित्रकेशाभारणाश्चारुचञ्चलकुन्तलाः।।१५।।
  • कृष्णमुग्धी कृताकाराः सद्वृत्तिकृष्णलालसाः।
  • कृष्णगूढरहस्यानि गायन्त्याः प्रेमविह्वलाः।।१६।।
  • नानावैदग्धिनिपुणा दिव्यवेशधरान्विताः।
  • सौन्दर्यसूर्यलावण्याः कटाक्षातिमनोहराः।।१७।।
  • एकान्तासक्ता गोविन्दे तदङ्गस्पर्शनोत्सुकाः।
  • लावण्यललिता दीप्ता कृष्णध्यानपरायणाः।।१८।।
  • तासां तु सम्मुखे धन्या गोपकन्याः सहस्रशः।
  • श्रुतिकन्या महेशानि सहस्रायुतसंयुताः।।१९।।
  • तत्पृष्ठे मुनिकन्याश्च सौम्यरूपा मनोहराः।
  • राधायां मग्नमनसः स्मितसाची निरीक्षणाः।।२०।।
  • मन्दिरस्य ततो बाह्ये प्रियपारिषदावृते।
  • तत्समानवयोवेशाः समानबलपौरुषाः।।२१।।
  • समानरूपसम्पन्नाः समानागुणकर्मभिः।
  • समानस्वरसंगीतवेणुवादनतत्पराः।
  • स्वर्णवेद्यन्तरस्थे च स्वर्णाभरणभूषिताः।।२२।।
  • स्तोत्रं कृष्णसुभाद्राद्यैर्गोपालैरमृतामृतैः।
  • शृङ्गवेत्रवेणुवीणावयोवेशाकृतिस्वनैः।
  • तद्गुणध्यानसंयुक्तैर्गीयते रसविह्वलैः।।२३।।
  • तद्बाह्ये सुरभीवृन्दैः सवत्सरसविह्वलैः।
  • चित्रार्पितैश्च तद्रूपैः सदानन्दाश्रुवर्शिभिः।।२४।।
  • पुलकाकुलसर्वाङ्गैर्योगीन्द्रैरिव विस्मिताः।
  • क्षरत्पयोभिर्गोविन्दैर्लक्षलक्षैरुपान्वितः।।२५।।
  • तद्बाह्ये प्राचीरे देवि कोटिसूर्यसमुज्ज्वले।
  • चतुर्दिक्षु महोद्याननानासौरभमोहिते।।२६।।
  • पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमालये।
  • तत्राधःस्थस्वर्णपीठे स्वर्णमन्दिरमण्डिते।।२७।।
  • तन्मध्ये मणिमाणिक्यरत्नसिंहासनोज्ज्वलम्।
  • तत्रोपरि परमानन्दं वासुदेवं जगद्गुरुम्।।२८।।
  • त्रिगुणातीतचित्ररूपं सर्वकारणकारणम्।
  • इन्द्रनीलमणिश्यामनीलकुञ्चितकुन्तलम्।।२९।।
  • पद्मपत्रविशालाक्षं मकराकृतकुण्डलं।
  • चतुर्भुजं महद्धाम ज्योतिरूपं सनातनम्।।३०।।
  • आद्यन्तररहितं नित्यं प्रधानं पुरुषेश्वरम्।
  • शङ्खचक्रगदापद्मधारिणं वनमालिनम्।
  • पीताम्बरमतिस्निग्धं दिव्यभूषणभूषितम्।।३१।।
  • रुक्मिणी सत्यभामा च नाग्नजित्याचलक्षणा।।३२।।
  • मित्राविन्दा सुनन्दा च तथा जाम्बुवती प्रिया।
  • सुशीला चाष्टमहिषी वासुदेवो वृतास्ततः।।३३।।
  • उद्धवाद्याः पारिषदावृतास्तद्भक्तितत्पराः।
  • उत्तरे दिव्य उद्याने हरिचन्दनसङ्गिते।।३४।।
  • तत्राधःस्थस्वर्णपीते मणिमण्डपमण्डिते।
  • तस्य मध्ये तु माणिक्यदिव्यसिंहासनोज्ज्वले।।३५।।
  • तत्रोपरि च रेवत्या सहितञ् च हलायुधम्।
  • ईश्वरस्य प्रियानन्तमभिन्नगुणरूपिणम्।।३६।।
  • शुद्धस्फुटिकसंकाशं रक्ताम्बुजदलेक्षणम्।
  • नीलपद्माम्बरधरं दिव्यगन्धानुलेपनम्।
  • कुण्डलायुक्तसद्गण्डं दिव्यभूषास्रगम्बरम्।।३७।।
  • मधुपानसदासक्तं सदा घूर्णितलोचनम्।
  • जगन्मोहनसौन्दर्यं साधकश्रेणीवेष्टितम्।।३८।।
  • असिताम्बुजपूर्णाभमरविन्ददलेक्षणम्।
  • दिव्यालङ्कारभूषाढ्यं दिव्यमाल्यानुलेपनम्।।३९।।
  • जगन्मुग्धी कृताशेष सौन्दर्याश्चर्यविग्रहम्।
  • पूर्वोद्याने महारम्ये सुरद्रुमसमाश्रये।।४०।।
  • तस्य मध्ये स्थिते राजदिव्यसिंहासनोज्ज्वले।
  • श्रीमत्या उषया श्रीमदनिरुद्धं जगत्पतिम्।।४१।।
  • सान्द्रानन्दं घनश्यामं सुस्निग्धं नीलकुन्तलम्।
  • नीलोत्पलदलस्निग्धं चारुचञ्चनलोचनम्।।४२।।
  • सुभ्रून्नतालयाभङ्गुसुकपोलं सुनासिकम्।
  • सुग्रीवं सुन्दरं वक्षः सुस्वरं सुमनोहरम्।
  • किरीटिनं कुण्डलिनं कण्ठभूषादिभूषणम्।।४३।।
  • मञ्जुमञ्जीरमाधुर्यमाश्चर्यरूपशोभितम्।
  • पूर्णब्रह्म सदानन्दं शुद्धं सत्त्वात्मकं प्रभुम्।।४४।।
  • तस्योर्द्धे चान्तरीक्षे च विष्णुं सर्वेश्वरेश्वरम्।
  • अनादिमादिचिद्रूपं चिदानन्दं परं विभुम्।।४५।।
  • त्रिगुणातीतमव्यक्तमक्षरं नित्यमव्ययम्।
  • सस्मेरपुञ्जमाधुर्यं सौन्दर्यं श्यामविग्रहम्।।४६।।
  • अरविन्ददलस्निग्धसुदीर्घलोललोचनम्।
  • किरीटकुण्डलोद्भासिजगत्रयमनोहरम्।।४७।।
  • चतुर्भुजं शङ्खचक्रगदापद्मोपशोभितम्।
  • कङ्कणाङ्गदकेयूरकिङ्किनीकोटिशोभितम्।।४८।।
  • श्रीवत्सकौस्तुभं राजद्वनमालाविभूषितम्।
  • मञ्जुमुक्ताफलोदारहारद्योतितवक्षसम्।
  • हेमाम्भुजधरं श्रीमद्विनतासुतवाहनम्।।४९।।
  • लक्ष्मीसरस्वतीभ्याञ् च संश्रित्यो भयपार्श्वकम्।
  • पूर्णब्रह्मसुखैश्वर्यं पूर्णानन्दरसाश्रयम्।।५०।।
  • मुनीन्द्राद्यैः स्तुयमानं देवपार्षदवेष्टितम्।
  • सर्वकारणकार्येशं स्मरेद्योगेश्वरेश्वरम्।।५१।।
  • तत्राधो देवि पाताले आधारशक्तिसंयुते।
  • मणिमण्डपमध्ये तु मणिसंहासनोज्ज्वले।।५२।।
  • तद्बाह्ये स्फटिकाद्युच्चैः प्राचीरादिमनोहरैः।
  • चतुर्दिक्षु वृते दिव्ये प्रतिबिम्बसमुज्ज्वले।।५३।।
  • उद्याने पुष्पसौरभ्यमुग्धीकृतजगत्रये।
  • आस्ते सुरासुरगणैः सिद्धचारणसेविते।।५४।।
  • दिव्याङ्गमञ्जुसौन्दर्ययथाभूषणवाहनैः।
  • यथेप्सितवरप्रार्थैस्तदङ्घ्रिभजनोत्सुकैः।।५५।।
  • तद्दक्षिणे मुनिगणैः शुद्धसत्त्वान्वितात्मभिः।
  • तद्भक्तिसाधनाधर्मैर्वाञ्छ्यते भक्तितत्परैः।।५६।।
  • तत्पृष्ठे योगिमुख्यैश्च सनकाद्येर्महात्मभिः।
  • आत्मारामैश्च चिद्रूपैस्तस्मार्तिस्फुर्तितत्परैः।।५७।।
  • हृदयारूढतद्ध्यानैर्नासाग्रन्यस्तलोचनैः।
  • ससाध्य सुद्धगन्धर्वैः स विद्याधरकिन्नरैः।
  • तदङ्घ्रिभजनाकामैर्वाञ्छ्यते ह्रष्टमानसैः।।५८।।
  • तदग्रे वैष्णवाः सर्वे चान्तरीक्षे सुखासने।
  • पद्मादलवदाद्याश्च कुमारशुकौद्धवाः।।५९।।
  • पुलकाङ्कुशसर्वाङ्गैः स्फुरत्प्रेमसमाकुलैः।
  • रहस्यप्रेमसंयुक्तैर्वर्णयुग्माक्षरो मनुः।।६०।।
  • मन्त्रचूडामणिः प्रोक्तः सर्वमन्त्रैककारणम्।
  • सर्वदेवस्य मन्त्राणां कृष्णमन्त्रस्तु जीवनम्।।६१।।
  • श्रीकृष्णः सर्वमन्त्राणां कृष्णमन्त्रस्तु कारणम्।
  • सर्वेशां कृष्णमन्त्राणां कैशोरमतिहेतुकम्।
  • कैशोरं सर्वमन्त्राणां हेतुचूडामणिं मनुः।।६२।।
  • मनसैव प्रकूर्वनि पूर्णप्रेमसुखात्मनः।
  • वाञ्छति तत्पदाम्भोजं निश्चलं प्रेमसाधनम्।।६३।।
  • तद्बाह्ये स्फटिकाद्युच्चैः प्राचीरे सुमनोहरे।
  • पुष्पैश्च श्वेतरक्ताद्यैश्चतुर्दिक्षु समुज्ज्वले।।६४।।
  • शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम्।
  • शङ्खचक्रगदापद्मकिरीटादिभिरावृतम्।।६५।।
  • रक्तं चतुर्भुजं विष्णुं शङ्खचक्रगदाधरम्।
  • किरीटकुण्डलोद्दीप्तं द्वारपालकमुत्तरे।।६६।।
  • गौरं चतुर्भुजं विष्णुं शङ्खचक्रगदाधरम्।
  • किरीटकुण्डलाद्यैश्च शोभितं वनमालिनम्।
  • पूर्वद्वारे प्रतिहारं नानाभरणभूषितम्।।६७।।
  • कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषितम्।
  • दक्षिणद्वारपालं तु श्रीविष्णुं चिन्तयेद्धरिम्।।६८।।
  • इत्येतत्परमेशानि सप्तावरणमुत्तमम्।
  • सप्तावरणसंयुक्तं राधिकां पद्मिनिं पराम्।
  • एतदावरणं भद्रे सप्तशक्तिः स्वयं प्रिये।।६९।।
  • इति वासुदेवरहस्ये राधातन्त्रे सप्तदश पटलः।।१७।।
  • Eइघ्तीन्थ्Pअटल
  • देव्युवाच—
  • अपरैकं महाप्रेम्ना पृच्छामि वृषभध्वज।
  • एको विष्णुर्वासुदेव एका प्रकृतिरीश्वरी।
  • तत्कथं तस्य नानात्वं दृश्यते परमेश्वर।।१।।
  • ईश्वर उवाच—
  • शृणु देवि प्रवक्ष्यामि रहस्यमतिगोपनम्।
  • एको विष्णुर्महेशानि नानात्वं गतवान्यथा।।२।।
  • ब्रह्माण्डव्यापिनी यस्मात्प्रकृतिः परमेश्वरी।
  • स्त्रीपुंभावेन देवेशि सर्वं व्याप्य जगन्मयी।।३।।
  • सा स्त्री पुरुषरूपेण सर्वं व्याप्य विजृम्भते।
  • वासुदेवो महाविष्णुर्गुणातीतः परमेश्वरः।।४।।
  • यद्रूपं वासुदेवस्य तत्सर्वं कमलेक्षणे।
  • यदुक्तं कृष्णरूपं हि विद्यासिद्धिर्हि कारणम्।।५।।
  • सा राधा पद्मिनी ज्ञेया त्रिपुरायाः शुचिस्मिते।
  • अन्याश्च नायिका यास्तु ता ज्ञेया अष्टनायिका।।६।।
  • वासुदेवो महाविष्णुस्त्रिपुरायाः प्रसादतः।
  • नानादेहधरो भूत्वा नानाकर्म समाचरन्।।७।।
  • कृष्णमूर्तिं समाश्रित्य पद्मिन्या सह सुन्दरि।
  • जपेद्दिव्यां महेशानि महाकालीं सुरेश्वरीम्।।८।।
  • एवं वृन्दावनं भद्रे आश्रित्य सततं हरिः।
  • वासुदेवो हरिः साक्षात्कृष्णो ऽभूत्कमलेक्षणः।।९।।
  • आविर्भूय महाविष्णुर्मथुरायां वरानने।
  • चतुर्बाहुयुतो विष्णुराविरासीत्स्वयं हरिः।।१०।।
  • द्वारे द्वारे तथा ऊर्ध्वे आधोभागे च पार्वति।
  • द्वारकायां वसन्कृष्णस्तनुत्यागं यदाचरत्।
  • वासुदेवोमहाविष्णौ कृष्णतेजो ऽविषत्तदा।।११।।
  • अत एव महेशानि वासुदेवं विना प्रिये।
  • ब्रह्मत्वमन्यदेवेषु नहि याति कदाचन।।१२।।
  • नानात्वं भजते देवि वासुदेवः सदाव्ययः।
  • यद्रूपं दृश्यते तस्य वासुदेवस्य सुन्दरि।
  • तद्रूपञ् चस गत्वा वै नानात्वं भजते हरिः।।१३।।
  • कायव्यूहं महेशानि धृत्वा सत्त्वरमुच्यते।
  • गुह्यदेहं समाश्रित्य त्रिपुरापदपूजनात्।।१४।।
  • यद्यदुक्ता महेशानि सनकाद्या वरानने।
  • यद्यदुक्ता महेशानि विष्णुसंहास्तथा परे।
  • ते सर्वे कुलशास्त्रज्ञा मन्त्रसाधनतत्पराः।।१५।।
  • या या उक्ता नायिकास्ता कुलशास्त्रप्रकाशिकाः।
  • यद्यदुक्तं वरारोहे कुलशास्त्रप्रकाशकम्।
  • गौरं कृष्णं तथा रक्तं शुक्लञ् च नगनन्दिनि।
  • ते सर्वे वासुदेवस्य गौराद्या अंशरूपिणः।।१६।।
  • वासुदेवः स्वयं कृष्णस्त्रिपुरापदपूजनात्।
  • रेवत्याद्यास्तयोः प्रोक्ता रुक्मिण्याद्यष्टकं प्रिये।
  • ऊषया सह देवेशि अनिरुद्ध ऊषोच्यते।।१७।।
  • बलरामो यस्तु देवो देवि शक्तिधरः स्वयम्।
  • यद्यदुक्तं महेशानि याश्चान्या वरवर्णिनि।
  • तत्सर्वं परमेशानि मातृइका विश्वमोहिनी।।१८।।
  • वासुदेवो महाविष्णुर्निर्गुणः सततं प्रिये।
  • साधये द्विविधं दिव्यां पूर्णब्रह्मस्वरूपिणीम्।।१९।।
  • निर्गुणं सततं विष्णुर्गुणस्तु प्रकृतिः परा।
  • ततस्तु सगुणो विष्णुः प्रकृत्याः सङ्गमाश्रितः।।२०।।
  • वासुदेवो महाविष्णुः शङ्खचक्रगदाधरः।
  • एतद्धि भूषणं देवि विग्रहः प्रकृतेः सदा।
  • निरिन्द्रियो महाविष्णुस्तस्यांशः कृष्ण एव च।।२१।।
  • देव्युवाच—
  • वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम्।
  • भो देव तापसश्रेष्ठ कथमेवं ब्रवीषि मे।।२२।।
  • ईश्वर उवाच—
  • निगदामि शृणु प्रौढे सन्देहं तव सुन्दरि।
  • वृन्दावनेश्वरो यस्तु विष्णोरंशः प्रकीर्तितः।।२३।।
  • शरीरं हि महेशानि मूलप्रकृतिरीश्वरी।
  • तत्रात्मा च महाविष्णुर्मनो रुद्रो वरानने।।२४।।
  • कृष्णदेहमिदं भद्रे स्वयं काली स्वरूपिणी।
  • राधा तु परमेशानि पद्मिनी परमकला।
  • द्वयोः संयोगमात्रेण कृष्णः पूर्णः प्रकीर्तितः।।२५।।
  • केशपीठे महेशानि व्रजे मधुवने प्रिये।
  • अंशो ऽभूत्परमेशानि कृष्णस्तु भगवान्स्वयम्।
  • भगं विना महेशानि ब्रह्म सृष्टौ न विद्यते।।२७।।
  • तव केशनिमित्तं हि एतत्सर्वं विडम्बनम्।
  • तव केशं महेशानि वर्णितुं नैव शक्यते।।२८।।
  • सदा ब्रह्मणि देवेशि तव केशविडम्बनम्।
  • तव केशसुगन्धेन निश्चलं सचलं भवेत्।।२९।।
  • एतद्भागवतं तन्त्रं राधातन्त्रमिदं स्मृतम्।
  • वासुदेवस्य देवेशि रहस्यमतिगोपनम्।।३०।।
  • वासुदेवो महाविष्णुर्भगवान्प्रकृतिः स्वयम्।
  • प्रकृतेर्वासुदेवस्य कृष्नांश इति कीर्तितः।।३१।।
  • इति वासुदेवरहस्ये राधातन्त्रे अष्टदश पटलः।।१८।।
  • णिनेतीन्थ्Pअटल
  • ईश्वर उवाच—
  • कृष्णा हि परमेशानि वासुदेवांशसंज्ञकाः।
  • कृष्णं वृन्दावनाधीशं गौरं विष्णुं तथा प्रिये।
  • शुक्लं रक्तं तथा देवि श्रीविष्णुञ् च शुचिस्मिते।।१।।
  • वासुदेवस्य यः शङ्खः शुक्लविष्णुः स उच्यते।
  • चक्रञ् च वासुदेवस्य गौरं तत्परिकीर्तितम्।।२।।
  • यत्पद्मं परमेशानि रक्तो विष्णुः स एव हि।
  • सा गदा परमेशानि विष्णोरमृततेजसः।
  • सा चैव परमेशानि श्रीविष्णुर्विश्वमोहनः।।३।।
  • कृष्णश्च द्विभुजो विष्णुः सततं पद्मिनीप्रियः।
  • वासुदेवो महाविष्णुः शक्तिद्वयः समन्वितह्।।४।।
  • लक्ष्मीसरस्वतीभ्याञ् च संयुतः सर्वदा हरिः।
  • पूर्णब्रह्म वासुदेव अत एव वरानने।।५।।
  • वासुदेवो महेशानि स्वयं प्रकृतिरीश्वरी।
  • ज्येष्टःआ तु प्रकृतिर्माया वासुदेवः स्वयं हरिः।।६।।
  • देव्युवाच—
  • देव देव महादेव शूलपाणे पिणाकधृक्।
  • यत्सूचितं महादेव राधा पद्मवनाश्रिता।
  • चन्द्रावली तु या राधा वृकभानुगृहे स्थिता।
  • तत्सर्वं परमेशान विस्तार्य कथय प्रभो।।७।।
  • कृष्णेन सह देवेश राधा संसर्गमाश्रिता।
  • इमं हि संशयं देव छिद्धि छिद्धि कृपानिधे।।८।।
  • ईश्वर उवाच—
  • एतद्भागवतं तन्त्रं राधातन्त्रं मनोहरम्।
  • अतीवसुन्दरं शुद्धं निर्मलं परमं पदम्।।९।।
  • यच्छ्रुत्वा परमेशानि साधकाः सुरविग्रहाः।
  • हृदये संपूटे कृत्वा न वाञ्छन्त्यन्यदेव हि।।१०।।
  • एतत्तन्त्रं महेशानि सुश्राव्यं सुखवर्धनम्।
  • एतद्धि परमं गुह्यं सारात्सारतरं प्रिये।
  • एतद्धि पद्मिनी तन्त्रं श्रीमद्भागवतं स्मृतम्।।११।।
  • येषु येषु च शास्त्रेषु गायत्री वर्तते प्रिये।
  • पञ्चविष्णोरुपाख्यानं यत्र तन्त्रेषु दृश्यते।
  • पद्मिन्याश्च गुणाख्यानं तद्धि भागवतं स्मृतम्।।१२।।
  • येषु येषु पुराणेषु तन्त्रेषु वरवर्णिनि।
  • नास्ति चेत्पूर्णगायत्री तथा च प्रकृतेर्गुणः।
  • पञ्चविष्णोरुपाख्यानं येषु तन्त्रेषु दृश्यते।
  • एतद्वै भागवतश्रेष्ठमन्यच्चैव विडम्बनम्।।१३।।
  • वासुदेवो महाविष्णुर्मथुरायां वरानने।
  • आविरासीन्महाविष्णुस्त्रिपुरापदपूजनात्।।१४।।
  • आविर्भूता महामाया प्रथमं परमेश्वरी।
  • भद्रे मास्यसिते पक्षे हरिराविरभूत्स्वयम्।।१५।।
  • तथा चैत्रपदमासि शुक्ले पक्षे च पद्मिनी।
  • आविर्भूतो महेशानि पद्मिनी पद्मगन्धिनी।
  • वृकभानुगृहे देवि तथा चन्द्रावली प्रिये।।१६।।
  • कालिन्दी गह्वरे देवी नानापद्मसमावृते।
  • शुक्लै रक्तैस्तथा पीतैः कृष्णवर्णैः सुशोभनैः।
  • अन्यैश्च विविधैः पुष्पैर्नानावर्णैः सुवासितैः।
  • हंसकारण्डवाकीर्णैः शुक्लपक्षैश्च शोभितैः।
  • गन्धर्वामरसंहैश्च वेष्टिते कमलानने।।१७।।
  • मृदङ्गशङ्खवीणाभिर्नादेन परिपूरिते।
  • तन्मध्ये रत्नपर्यङ्के नानारत्नविचित्रिते।।१८।।
  • धर्मार्थकाममोक्षाणां साक्षाद्दातरि चिन्मये।
  • तन्मध्ये परमेशानि रत्नसिंहासनं महत्।
  • पञ्चशन्मातृकायुक्तं चतुर्वेदयुतं सदा।
  • नारदाद्यैर्मुनिश्रेष्ठैर्वेष्टितं परमेश्वरि।।१९।।
  • तत्रास्ते परमेशानि नित्या कात्यायनी शिवा।
  • कात्यायन्या वामभागे सिंहमाश्रित्य पद्मिनी।
  • तदध्यास्ते महेशानि यावत्कृष्णसमागमः।।२०।।
  • संपूज्य विधिवल्लिङ्गं पार्थिवं परमेश्वरम्।
  • पूजयेद्द्विविधैः पुष्पैरुपचारैर्मनोहरैः।
  • संपूज्य विधिवद्भक्त्या प्रजपेन्मन्त्रमुत्तमम्।।२१।।
  • कात्यायन्या महामन्त्रं शृणुष्व नगनन्दिनि।
  • ॐ ह्रीं कात्यायनि महामाये माहायोगिन्यधीश्वरि।
  • नन्दगोपसुतं कृष्णं पतिं मे कुरु ते नमः।।२२।।
  • ह्रीं ॐ एतद्भागवतीं दिव्यां कात्यायन्यां प्रतिष्ठितां।
  • प्रजपेत्सततं दिव्यां पद्मिनी पद्ममालिनी।।२३।।
  • कतिचिद्दिवसे देवि आवीरासीज्जगन्मयी।
  • कात्यायनी महाविद्या स्वयं महिषमर्दिनी।।२४।।
  • कात्यायन्युवाच—
  • का त्वं कुञ्जपलाशाक्षि कथमेकाकिनी प्रिये।
  • किमर्थमागता भद्रे साम्प्रातं कथय प्रिये।।२५।।
  • पद्मिन्युवाच—
  • कात्यायनि महामाये नमस्ते हरवल्लभे।
  • कृष्णमातिर्नमस्तुभ्यं भूयो भूयो नमाम्यहम्।।२६।।
  • का पिता मम देवेशि कस्याहं परमेश्वरि।
  • त्रिपुराजगतां माताहं तस्याः परिचारिका।।२७।।
  • मम नाम महेशानि पद्मिनी परमेश्वरि।
  • वासुदेवस्य चार्वाङ्गि कदा मे दर्शनं भवेत्।।२८।।
  • कात्यायन्युवाच—
  • मा भयं कुरुषे पुत्रि कृष्णं प्राप्स्यसि साम्प्रतम्।
  • हेमन्ते च सिते पक्षे पौर्णमास्यां शुचिस्मिते।
  • वासुदेवेन देवेशि तव सङ्गो भविष्यति।।२९।।
  • अकार्यं वासुदेवस्य तव सङ्गं विना प्रिये।
  • तव सङ्गाद्धि चार्वाङ्गि कैवल्यं परमं पदम्।।३०।।
  • भद्रे मास्यसिते पक्षे रोहिण्यामष्टमीतिथौ।
  • आवीरासीन्महाविष्णुर्नान्यथा गदितं मम।
  • इत्युक्त्वा सा महामाया तत्रैवान्तरधीयत।।३१।।
  • ततो हृष्टमना भूत्वा पद्मिनी कमलेक्षणा।
  • सिंहासनं समाश्रित्य कात्यायन्याः शुचिस्मिते।
  • संस्थिता पद्मिनी राधा यावत्कृष्णसमागमः।।३२।।
  • अन्याभिर्गोपकन्याभिर्वर्धमाना गृहे गृहे।
  • ताः सर्वाः परमेशानि देवकन्याः सहस्रशः।।३३।।
  • कृष्णस्तु देवकीपुत्रो नन्दगेहे च सुन्दरि।
  • दिने दिने महेशानि वर्धते कमलेक्षणे।
  • बाल्यपौगण्डकैशोरवयसा कमेल्क्षणे।।३४।।
  • इति वासुदेवरहस्ये राधातन्त्रे ऊनविंशति पटलः।।१९।।
  • त्wएन्तिएथ्Pअटल
  • ईश्वर उवाच—
  • रहस्यं परमं गुह्यं सुन्दरं सुमनोहरम्।
  • निगदामि वरारोहे सावधानावधारय।।१।।
  • कृष्णस्य परमेशानि परिवारान्शृणु प्रिये।
  • मान्यो भ्राता भुवो दास्यो वयस्याः सेवकादयः।
  • गोष्ठे सहचराश्चैव प्रेयस्यश्च पुरः क्रमात्।।२।।
  • वरिष्ठो व्रजगोष्ठानां सकृष्णस्य पितामहः।
  • वरीयसीति विख्याता महीमान्या पितामही।।३।।
  • मातामहो महोत्साहः स्यादस्य सुमुखी ऽभिधः।
  • ख्याता मातामही गोष्ठे पाटलानामधेयतः।।४।।
  • पिता व्रजार्पितानन्दो नन्दो भुवनवन्दितः।
  • माता गोपयशोदात्री यशोदा मोदमेदुरा।।५।।
  • उपनन्दो ऽभिनन्दश्च पितृव्यो पूर्वजो पितुः।
  • पितृव्योत्तकनीयांसौ स्यातां नन्दसनन्दनौ।।६।।
  • पितृष्वसृपतिर्नीलो नन्दिनी तु पितृस्वसा।
  • मातृष्वसृ पतिर्नन्दः ष्वसा मातुर्यशस्विनी।।७।।
  • तारुण्डा जटिला भेला कराला करवालिका।
  • घर्घरा मुखरा घोरा घण्टा मातामही समाः।।८।।
  • पिङ्गलः कपिलः पिङ्गो माठरः पीठपट्टिशौ।
  • शङ्करः सङ्गवो भृङ्गो बिङ्गाद्या जनकोपमाः।।९।।
  • तरङ्गाक्षी तरणिका शुभदा मालिकाङ्गदा।
  • वत्सला कुशला ताली मेदुराद्याः प्रसूपमाः।।१०।।
  • अन्वाथ अन्बिका चैव धातृका स्तन्यदायिनी।
  • सुलता गोमती यामी चण्डिकाद्या द्विजस्त्रयः।।११।।
  • अग्रगामी वयस्यानां प्रलम्बस्तस्य चाग्रजः।
  • समुद्रः कुण्डलो दण्डी मण्डलोमी पितृयजाः।।१२।।
  • वयस्याः कृष्णचन्द्रस्य स्फुटमत्र चतुर्विधा।
  • सुहृत्सखा प्रियसखा प्रियनर्मसखास्तथा।।१३।।
  • सुहृदो मण्डलीभद्रभद्रवर्धनगोभटाः।
  • कुलवीरो महाभीमो दिव्यशक्तिः सुरप्रभः।।१४।।
  • वनस्थिरादयो ज्येष्ठकम्पाः संरक्षणाय वै।
  • विशालवृषभाजम्बिदेवप्रस्थवरूथपाः।
  • मन्दारकुसुमापीडमणिबन्धकराः समाः।।१५।।
  • मन्दारश्चन्दनः कुन्दः कलिन्दकुलकादयः।
  • कनिष्ठकम्पाः सेवायां सखायो रिपुनिग्रहाः।।१६।।
  • अथ प्रियसखा दामसुदामवसुदामकाः।
  • श्रीदामाद्याः सदा यत्र श्रीदामानन्दवर्धकः।
  • समस्तमित्रसेवानां भद्रसेनश्च भूपतिः।।१७।।
  • रमयन्ति प्रियसखाः केलिभिः विविधैरमी।
  • नियुद्धदण्डयुद्धादिकौतुकैरपि केशवम्।।१८।।
  • सुबालार्जुनगन्धर्ववसन्तोज्ज्वलकोकिलाः।
  • सनन्दनविदग्धाभ्यां प्रियनर्मसखाः स्मृताः।।१९।।
  • तद्रहस्यन्तु नास्त्येव यदमीषां न गोचरः।
  • श्रीदामनदनस्तत्र सौहृदानन्दसुन्दरः।
  • विलासिशेखरो यस्य विलासनवशीकृतः।।२०।।
  • मधुमङ्गलपुष्पाद्यापरिहासविदूषकाः।
  • विविधाः सेवकास्तस्य चैकसख्यपरायणाः।।२१।।
  • रक्तकः पुत्रकः पात्री मधुकाष्ठा मधुव्रतः।
  • तद्वेणुशृङ्गमुरलीयष्टिपाशादिधारिणः।।२२।।
  • पृथुकाः पार्श्वणाः केलिकलालापललाङ्कुराः।
  • पल्लवो मङ्गलः फुल्लः कोमलः कपिलादयः।
  • सुविलाक्षविशालाक्षरसालरसशालिलः।।२३।।
  • जम्बुनद्याश्च ताम्बुलपरिष्कारविचक्षणाः।
  • पयोदवारिदाद्यास्तु नीरसंस्कारकारिणः।
  • वस्त्रोपस्कारनिपुणाः सारङ्गकुवलादयः।।२४।।
  • प्रेमकन्दमहागन्धसैरिन्ध्रिमधुकन्दलाः।
  • मकरन्दो दयश्चामी शृङ्गारसकारिणः।।२५।।
  • सुमनः कुसुमोल्लासपुष्पहासहरादयः।
  • गन्धाङ्गरागमाल्यादिपुष्पालङ्कृतिकारिणः।।२६।।
  • दक्षाः सुरङ्गभद्राङ्गकर्पूरकुसुमादयः।
  • नापिताः केशसंस्कारे मर्दने दर्पणापणे।।२७।।
  • कोषाधिकारिणः स्वच्छसुशीतलगुणादयः।
  • विमलः कमलाद्याश्च स्थाली पीठाधिकारिणः।।२८।।
  • धनिष्ठा चन्दनकला गुणामाला रतिप्रभा।
  • भवनीन्दुप्रभा शोभा रम्भाद्याः परिचारिकाः।
  • गृहे संमार्जने दक्षाः सर्वकार्येषु कोविन्दाः।
  • चेट्यः कुरङ्गी भृङ्गारी सुलम्बा लम्बिकादयः।।२९।।
  • चतुरश्चारणो धीमान्पेशलाद्याश्चरोत्तमाः।
  • चरन्ति गोपगोपीषु नानावेशेन ये सदा।।३०।।
  • वृन्दा वृन्दारिकमेनासुबलाद्याश्च दूतिकाः।
  • कुञ्जादिसंस्क्रियाभिज्ञा वृन्दा तासि वरीयसी।।३१।।
  • नर्तकाश्चन्द्रहासेन्दुहासचन्द्रसुखादयः।
  • सुधाकरसुधादानसारङ्गाद्यामृदङ्गिनः।।३२।।
  • कालान्तरस्थो देवेशि वाद्यसौगुणसागराः।
  • कालकण्ठः सुधाकण्ठः शूलकण्ठा दयो ऽप्यमी।।३३।।
  • सर्वप्रबन्धनिपुणा रसज्ञा स्तानकारिणः।
  • निर्लेजकस्तु सुमुखो दुर्लभो रञ्जनादयः।।३४।।
  • पुण्यः कुञ्जस्तथा भाज्यवासिनद्याश्च डिण्डिमः।
  • वर्धकिर्वर्धमानाख्याः खट्टादिकटकारकाः।।३५।।
  • सुचित्रश्च विचित्रश्च चित्रकर्मकरावुभौ।
  • सर्वकर्मकराः कुण्डकण्डोलकटुनादयः।।३६।।
  • धूमला पिङ्गला गङ्गा पिशाङ्गी मानकस्तनी।
  • हंसी वंशी त्रिरेखाद्या वैचिक्यस्तस्य सुप्रियाः।
  • पद्मगन्धपिशङ्गाक्ष्यो वलीवन्धा रतिप्रिया।।३७।।
  • सुरङ्गास्यः कुरङ्गास्य दधिको नाभिधः कपिः।
  • व्यघ्रभ्रमरकाश्चालौ राजहंसः कलस्वनः।।३८।।
  • वृन्दावनं महोद्यानं श्रेयोसिः श्रेयसाय च।
  • क्रीडागिरिर्यथार्थाख्यः श्रीमन्गोवर्धनो यतः।।३९।।
  • घाटोमानसगङ्गायाः पवङ्गो नाम विश्रुतः।
  • सुविकाशतरा नांअ तरिर्यत्र विराजते।
  • नाम्ना नन्दीश्वरं देवि मन्दिरं स्फुरदिन्दिरम्।।४०।।
  • आस्थाली मण्डपस्तत्र गण्डशैला मनोज्ज्वलः।
  • आमोदवर्धनो नाम पवनो मोदवासितः।।४१।।
  • कुञ्जाः काममहाभीममन्दारमनिलादयः।
  • न्यग्रोधराजभाण्डीरकदम्बकदलीगणाः।।४२।।
  • यमुना या महातीर्थं खेलातीर्थमिहोच्यते।
  • परमप्रेष्ठया सार्धं सदा यत्र सुखे रतिः।।४३।।
  • लीलापद्मं सदा स्मेरं गेण्डुकश्चित्रकारकः।
  • शिञ्जिनी मञ्जुलशरं मानवद्धाटनीयुगम्।
  • विलासकर्मिकं नाम कार्मुकं स्वर्णचित्रितम्।।४४।।
  • मन्त्रघोषो विषाणो ऽस्य वंशी भुवनमोहनः।
  • राधाकृन्मीनवडिशी महानन्दाभिधापि च।
  • षड्रन्ध्रवन्धनो वेणुख्यातो मदनवर्धनः।।४५।।
  • पाणौ पशुवशीकारौ देहस्य मृतमोहनी।
  • अर्धपातिसहोरस्का नवरत्नाङ्किता भुजे।
  • अङ्गदैरङ्गदाभिक्षे चिक्कणे नाम कङ्कणे।।४६।।
  • किङ्किणी रुणझञ्झारमञ्जीरौ हंसगञ्जनौ।
  • कुरङ्गनतनाचित्तकुरङ्गहरशिञ्चितौ।।४७।।
  • हारस्तारावली नाम मणिमाला तडित्प्रभः।
  • बद्धराधा प्रतिकृतिनिष्को हृदयमोदनः।
  • कौस्तुभाख्यो मणिर्येन प्रविष्टे हृदि शोभनः।।४८।।
  • कुण्डले मकरा कारे रतिरागादिवर्धने।
  • किरीटं रत्नरूपाख्यं चूडाचामरडामरम्।
  • नानारत्नविचित्राख्यं मुकुटं श्रीहरेर्विदुः।।४९।।
  • पत्रपुष्पमयी माला वनमाला पदावधि।
  • वैजयन्ती तु कुसुमैः पञ्चवर्णैर्विनिर्मिता।।५०।।
  • कश्चित्कृष्णगणाश्चान्याः परिवारतया युताः।
  • गाङ्गीमुख्यश्च ब्रह्मण्यश्चेट्याभृङ्गारिकादिकाः।।५१।।
  • पूर्णावत्सतरी तुङ्गी कक्खटी नाम कक्कटी।
  • कुरङ्गी रङ्गिनी ख्याता चकोरी चारुचन्द्रिका।।५२।।
  • अहोरात्रं चरित्राणि ललिता विश्वनाथयोः।
  • पठन्ती चित्रया वाचा या चित्रं कुरुते सखी।
  • निवहन्ति निजे कुञ्जे मृदङ्गवेणू राधिका।।५३।।
  • इति वासुदेवरहस्ये राधातन्त्रे विंशति पटलः।।२०।।
  • त्wएन्त्य्फ़िर्स्त्Pअटल
  • ईश्वर उवाच—
  • शृणु देवि परं तत्त्वं वासुदेवस्य योगिनि।
  • अत्यन्यमधुरं शास्त्रं सर्वज्ञानोत्तमोत्तमम्।।१।।
  • मोहस्तत्त्वाज्ञता रोक्षं वशता कामतन्मनः।
  • लोलता मदमात्सर्यं हिंसाखेदपरिश्रमाः।
  • असत्यं क्रोध आकाङ्क्षा आशङ्का चित्तविभ्रमः।
  • विषमत्वं परोपेक्षा दोषो अष्टदश स्मृताः।।२।।
  • अष्टदशमहादोषरहिताभगवत्तनुः।
  • सर्वैवर्यमयी सत्या विज्ञानानन्दरूपिणी।।३।।
  • न सत्यप्रकृता मूर्तिर्मांसमेदो ऽस्ति सम्भवा।
  • योगाच्चैव महेशानि सर्वात्मा नित्यविग्रहः।।४।।
  • यो व्य्कति भौतिकं देहं वासुदेवस्य पार्वति।
  • तत्दृष्ट्वाप्यथवा स्पृष्ट्वा ब्रह्महत्यामवाप्नुयात्।।५।।
  • ईश्वर उवाच—
  • त्रिविस्तीर्णं त्रिगम्भीरं त्रिखर्वं सुमनोहरम्।
  • पञ्चदीर्घं पञ्चसूक्ष्मं षट्तुङ्गं सप्तरक्तिमा।।६।।
  • विग्रहे लक्षणं ज्ञेयं वासुदेवस्य पार्वति।
  • नाभिकण्ठं कपोलैश्च तथावक्षः स्थलं हरेः।
  • त्रिविस्तीर्णं त्रिगम्भीरं त्रिखर्वत्वं हरेर्विदुः।।७।।
  • खर्वता त्रिषु विज्ञेया नखकेशाधरेषु च।
  • नाभौ हस्ते च नेत्रे च गम्भीर्यं कवयो विदुः।।८।।
  • पाणिपादौ च हस्ते च नेत्रयोर्हस्तयोस्तथा।
  • दीर्घतापञ् च विज्ञेया वासुदेवस्य पार्वति।।९।।
  • ग्रीवायां मध्यदेशे तु जङ्घायां दन्तकुन्तले।
  • सूक्ष्मता पञ्च विज्ञेया वासुदेवस्य कामिनि।।१०।।
  • पादयोः कर्णयोर्नाभौ वक्त्रे नासापुटद्वये।
  • नेत्रयोः कर्णयोश्चैव हरेः सप्तसु रक्तिमा।।११।।
  • नासाग्रीवास्कन्धवक्षःशिरःकटिषु पार्वति।
  • तुङ्गत्वं वासुदेवस्य द्वात्रिंशत्कायलक्षणम्।
  • शरीरं परमेशानि एतल्लक्षणसंयुतम्।।१२।।
  • एतत्सर्वं वरारोहे स्वयं प्रकृतिरीश्वरी।
  • वासुदेवो महाविष्णुः प्रदीपकलिका इव।
  • इदं शरीरमाश्रित्य नानालक्षणसंयुतम्।।१३।।
  • विष्णुस्तु सगुणो भूत्वा निर्गुणो ऽपि शुचिस्मिते।
  • कर्मकर्ता सदा विष्णुरन्यथा निश्चलः सदा।
  • शरीरं कालिका साक्षात्वासुदेवस्य नान्यथा।।१४।।
  • वृन्दावनरहस्यं यत्महामाया स्वयं प्रिये।
  • शक्तिं विना महेशानि परं ब्रह्म शवाकृति।।१५।।
  • कृष्णस्य नखचन्द्रभा कोटिब्रह्मसमप्रभा।
  • किमसाध्यं महेशानि वासुदेवस्य कामिनि।।१६।।
  • एकैकनखचन्द्रेषु कोटिब्रह्मसमप्रभं।
  • सर्वं हि कृष्णदेवस्य त्रिपुरापदपूजनात्।।१७।।
  • देव्युवाच—
  • देवदेव महादेव संसारार्णवतारक।
  • कृपया कथ्यतां देव पद्मिनीतत्त्वमुत्तमम्।
  • कथ्यतां पद्मिनीतत्त्वं कृपया परमेश्वर।।१८।।
  • ईश्वर उवाच—
  • पद्मिनी राधिका दूती त्रिपुरायाः शुचिस्मिते।
  • प्रत्यहं कुरुते देवि कुलाचारं सुदुर्लभम्।।१९।।
  • नानातन्त्रेषु यच्चोक्तं कुलाचरणमुत्तमम्।
  • तत्सर्वं परमेशानि पद्मिनी परमद्भुतम्।।२०।।
  • विसृज्य बहुधा मूर्तिं नायिकां पद्ममालया।
  • कोटिशस्तस्तु महेशानि सृष्ट्वा वै पद्मिनी प्रिये।।२१।।
  • पद्मिनी परमाश्चार्या राधिका कृष्णमोहिनी।
  • हेमन्ते प्रथमे मासि हेमन्तं नगनन्दिनि।
  • यथेच्छया महेशानि कुलाचारं करोति हि।।२२।।
  • कायव्यूहं समाश्रित्य पुण्डरीकनिभेक्षणः।
  • रेमे गोगोपगोपीषु पद्मिनी सृष्टिषु क्रमात्।।२३।।
  • कृष्णो ऽपि बहुधा मेने आत्मानं कुलसाधने।
  • बहुकामं समाश्रित्य कृष्णः कमललोचनः।
  • पूर्वोक्ततन्त्रवत्सर्वं कुलाचारं करोति सः।।२४।।
  • नायिका परमाश्चार्या पीठाष्टकसमन्विता।
  • नायिकापूजनाद्देवि कालिका पूजिता भवेत्।।२५।।
  • सप्तपीठे सप्तलक्षं जप्त्वा सिद्धीश्वरो हरिः।
  • पद्मिनीं वामभागे तु संस्थाप्य वरवर्णिनी।।२६।।
  • कामाख्याभिमुखो भूत्वा व्यापकं न्यासमद्भुतम्।
  • पीठदेवीं प्रपूज्याथ पद्मिन्या देहषष्टिषु।।२७।।
  • येषु येषु च तन्त्रेषु यद्यदुक्तं शुचिस्मिते।
  • संपूज्य विधिवद्दन्धैरुपचारैर्मनोहरैः।
  • इष्टदेवीं महाकालीं संपूज्य विधिवत्तदा।।२८।।
  • संपूज्य विधिवद्देवीं पद्मिन्या अङ्गषष्टिषु।
  • लक्षैकं तत्र जप्त्वा तु ओड्डियानां ततो विशेत्।।२९।।
  • तत्पीठं योनिमुद्राख्यं संपूज्य प्रजपेद्धरिः।
  • निजेष्टदेवीं संपूज्य जपेल्लक्षं समाहितः।।३०।।
  • ओड्डियानाञ् चोरुयुगं कामाख्या योनिमण्डलम्।
  • कामरूपं ततो गत्वा तत्र कात्यायनीं शिवाम्।।३१।।
  • कामरूपं महेशानि ब्रह्मणो मुखमुच्यते।
  • तत्र लक्षं महेशानि प्रजप्य विधिवद्धरिः।।३२।।
  • ततो जालन्धरं गत्वा कृष्णः संपूज्य ईश्वरीम्।
  • जालन्धरं महेशानि स्तनद्वयमुदाहृतम्।
  • तत्रैव लक्षं जप्त्वा वै कृष्णः पद्मदलेक्षणः।।३३।।
  • ततः पूर्णगिरौ गत्वा चण्डीं संपूज्य सत्तरम्।
  • तत्र लक्षं हरि जप्त्वा मस्तके वरवर्णिनि।।३४।।
  • मूलदेवीं प्रपूज्याथ पद्मिन्या देहषष्टिषु।
  • प्रजप्य परमेशानि लक्षं परमदुर्लभम्।।३५।।
  • कामचक्रान्तरे पीठे बिन्दुचक्रे मनोहरे।
  • यजेद्देवीं महामायां सदादिक्करिवासिनीम्।।३६।।
  • पीठे पीठे महेशानि जप्त्वा कृष्णः समाहितः।
  • सप्तपीठे सप्तलक्षं जप्त्वा सिद्धीश्वरो हरिः।।३७।।
  • एवमेव प्रकारेण सिद्धो ऽभूद्धरिरव्ययः।
  • हेमन्ते ऋतुकाले च कुलसाधनमाचरेत्।।३८।।
  • वृन्दावने महारण्ये कुटीरे पल्लवावृते।
  • यमुनोपवने शोके नवपल्लवशोभिते।।३९।।
  • हंसकारण्डवाकीर्णे दात्यूहगणकूजिते।
  • मयूरकोकिलवृते नानापक्षिसमावृते।
  • शरच्चन्द्रसहस्रेण शोभिते व्रजमण्डले।।४०।।
  • व्रजभूमिं महेशानि श्यामभूमिं सदा प्रिये।
  • यत्र काली महामाया महाकाली सदा शिता।
  • तत्र वृक्षं महेशानि स्वयं कालीतमालकम्।।४१।।
  • कदम्बं परमेशानि त्रिपुरा व्रजमण्डले।
  • कल्पवृक्षसमं भद्रे तमालं हि कदम्बकम्।।४२।।
  • तव केशसमूहेन निर्मितं व्रजमण्डलम्।
  • व्रजे व्रजन्महेशानि पुण्डरीकनिभक्षणः।
  • कृते सुदुष्करे देवी काली प्रत्यक्षतां गता।।४३।।
  • कृष्णस्य मन्त्रसिद्धित्वात्पश्चादाविरभूत्प्रिये।
  • वरं वरय रे पुत्र यत्ते मनसि वर्तते।।४४।।
  • कृष्ण उवाच—
  • मम साक्षान्महेशानि यदि त्वं परमेश्वरी।
  • नमाम्यहं जगन्मातश्चरणे ते नतो ऽस्म्यहम्।।४५।।
  • असाध्यं नास्ति देवेशि मम किञ्चित्शुचिस्मिते।
  • सन्मुखे सा महामाया प्रत्यक्षा परमेश्वरी।।४६।।
  • देव्युवाच—
  • कलौ तु भारते वर्षे तव कीर्तिर्भविष्यति।
  • त्वद्गुणोत्किर्तनं वत्स प्रचरिष्यति नान्यथा।
  • इत्युक्त्वा सा महामाया तत्रैवान्तरधीयते।।४७।।
  • इति वासुदेवरहस्ये राधातन्त्रे एकविंशति पटलः।।२१।।
  • त्wएन्त्य्सेचोन्द्Pअटल
  • ईश्वर उवाच—
  • ततः काली महामाया पद्मिन्यै यदुवाच ह।
  • तच्छृणुष्व वरारोहे राधिकातत्त्वमुत्तमम्।।१।।
  • शृणु पद्मिनि मद्वाक्यं साम्प्रतं यद्रसायनम्।
  • त्वं हि दूती प्रिये श्रेष्टःए कृष्णकार्यकरी सदा।।२।।
  • सदा त्वं दूतिके राधे व्रजवासी भव ध्रुवम्।
  • कृष्णगोविन्देति नाम्नोर्मध्ये शक्तिस्त्वमेव हि।।३।।
  • तन्मन्त्रं परमेशानि सावधानावधारय।
  • (ॐ कृष्णराधे गोविन्द ॐ)
  • नवार्णमन्त्रो देवेशि कथितः कमलेक्षणे।।४।।
  • कृष्णं वा परमेशानि गोविन्दं वा वरानने।
  • सर्वं प्रकृतिमयं देवि नान्यथा तु कदाचन।।५।।
  • वासुदेवस्तु देवेशि गोपीसर्वस्वसम्पुटम्।
  • चिन्तये दिनशं कृष्णो राधा राधा पराक्षरं।।६।।
  • अनेनैव विधानेन कृष्णः सत्त्वगुणाश्रयः।
  • पद्मिन्या सह योगेन कृष्णो ब्रह्ममयो भवेत्।।७।।
  • पद्मिनी राधिका यस्तु साक्षाद्ब्रह्मस्वरूपिणी।
  • महाविद्यामुपास्यैव राधाकृष्णः स्मरेत्सदा।
  • तदैव सहसा देवि सा विद्या सिद्धिदा ध्रुवम्।।८।।
  • महाविद्या विना देवि यः स्मरेत्कृष्णराधिकाम्।
  • तस्य तस्य च देवेशि ब्रह्महत्या पदे पदे।।९।।
  • महाविद्यां महेशानि पूजयेत्तु प्रयत्नतः।
  • गोपनीयां महाविद्यां कूर्यदेव वरानने।।१०।।
  • राधाकृष्णं महेशानि स्मरेत्तु प्रकटाय वै।
  • प्रकटं परमेशानि राधाकृष्णमहर्निशम्।।११।।
  • स्मरणं वासुदेवस्य गोविन्दस्य यथा तथा।
  • रामस्य कृष्णदेवस्य स्मरणञ् च यथा तथा।
  • महाविद्या महेशानि न प्रकाश्य कदाचन।।१२।।
  • इति तत्त्वं महेशानि अतिगुप्तं मनोहरम्।
  • दमनं कालीयस्यापि यमलार्जुनभञ्जनम्।।१३।।
  • भञ्जनं शकटस्यापि तृणावर्तवधस्तथा।
  • बककेशिविनाशश्च पर्वतस्य च धारणम्।।१४।।
  • दावानलस्य पानञ् च यदन्यं तु शुचिस्मिते।
  • कृष्णस्य परमेशानि यद्यत्कृत्यं वरानने।
  • तत्सर्वं परमेशानि कालिकायां प्रसादतः।।१५।।
  • वत्सोत्सवादिकं देवि सर्वं केशवजं प्रिये।
  • दृश्यादृश्यं वरारोहे महामाया स्वरूपकम्।
  • शक्तिं विना महेशानि न किञ्चिद्विद्यते प्रिये।।१६।।
  • देव्युवाच—
  • पूर्वं यत्सूचितं देव राधाचन्द्रावलीद्वयम्।
  • तत्सर्वं जगदीशान विस्तार्य कथय प्रभो।।१७।।
  • ईश्वर उवाच—
  • पद्मिनी त्रिपुरादूती राधिका कृष्णमोहिनी।
  • तस्या देहसमुद्भूता राधा चन्द्रावली तथा।।१८।।
  • वृकभानुसुता साक्षात्कमलोत्पलगन्धिनी।
  • पद्मिनी सदृशाकारा रूपलावण्यसंयुता।।१९।।
  • सुवेशो परमाश्चर्या धन्या मानमयी सदा।
  • कृष्णस्य वामपार्श्वस्था पद्मिनी पद्ममालिनी।।२०।।
  • अन्यास्तु शृणु देवेशि शक्तिः परमसुन्दरीः।
  • चन्द्रप्रभा चन्द्रवती चन्द्रकान्तिः शुचिस्मिते।।२१।।
  • चन्द्रा चन्द्रकला देवि चन्द्रलेखा च पार्वति।
  • चन्द्राङ्किता महेशानि रोहिणी च धनिष्ठिका।।२२।।
  • विशाखा माधवी चैव मालती च तथा प्रिये।
  • गोपाली रत्नरेखा च पाराख्या च वरानने।।२३।।
  • सुभद्रा भद्ररेखा च सुमुखा सुरतिस्तथा।
  • कलहंसी कलापी च समानवस्यसः सदा।।२४।।
  • समानवयसः सर्वा नित्यनूतनविग्रहाः।
  • सर्वाभरणभूषाड्या जपमालाविधारिकाः।।२५।।
  • अन्याः श्रेष्ठतमानार्यस्तत्र स्युः कोटिकोटिशः।
  • तासां चित्तं चरित्रञ् च न जानन्ति वनौकसः।।२६।।
  • प्रसूयन्ते विलीयन्ते सततं निशिमध्यतः।
  • सर्वाः पत्रपलाशाक्षाश्चन्द्राड्या वरवर्णिनि।।२७।।
  • पद्मिनी कण्ठसंस्था या पद्ममाला मनोहरा।
  • मालायाः परमेशानि गुणान्वक्तुं न शक्यते।।२८।।
  • निगदामि यथा ज्ञानं तव शक्त्या वरानने।
  • यथा मम महेशानि ज्ञानयोगसमन्वितम्।।२९।।
  • यद्यदुक्तं कुरङ्गाक्षि त्रिपुरापदपूजनात्।
  • किमसाध्यं महेशानि त्रिपुरायाः प्रसादतः।।३०।।
  • इति वासुदेवरहस्ये राधातन्त्रे द्वाविंश पटलः।।२२।।
  • त्wएन्त्य्थिर्द्Pअटल
  • ईश्वर उवाच—
  • निगदामि शृणु प्रौढे रहस्यमतिगोपनम्।
  • दिवसे दिवसे कृष्णो गोपालैः सह पार्वति।
  • कुलाचारं महत्पुण्यं मन्त्रसिद्धिप्रसाधकम्।
  • रहस्यं सततं देवि करोति हरिरव्ययः।
  • निशिमध्ये महेशानि नारीभिः सह पार्वति।।१।।
  • एकदा परमेशानि हरिर्भुवनमोहनः।
  • नौकामारुह्य देवेशि यमुनाया वरानने।।२।।
  • राजमार्गे महादुर्गे बहुलोकसमाकुले।
  • हस्त्यश्वरथपत्तीनां संकुले पथिमध्यतः।।३।।
  • यत्कृतं परमेशानि कृष्णेन पद्मचक्षुषा।
  • निगदामि वरारोहे तरिखण्डं मनोहरम्।।४।।
  • अदृश्या सर्वजन्तूनां महामाया स्वरूपिणी।
  • नानारत्नमयी शुद्धा स्वयं प्रकृतिरूपिणी।।५।।
  • हंसकारण्डवाकीर्णा भ्रमरैः परिसेविता।
  • नानागन्धसुगन्धेन मोदिता परमेश्वरी।।६।।
  • नानारूपधरा भद्रे दिव्यस्त्रीगणवेष्टिता।
  • प्रतिक्षणं महेशानि नानारूपधरा सदा।।७।।
  • कदाचित्शुक्लवर्णाभा रक्तवर्णा कदापि च।
  • हरिवर्णा कदाचित्सा चित्रवर्णा कदापि वा।।८।।
  • एवं बहुविधारूपा नौका कालीस्वयं प्रिये।
  • एवंभूता तु सा नौका स्वयमावीरभूत्प्रिये।।९।।
  • पद्मिनी सहितः कृष्णो रात्रौ स्वप्नं ददर्श ह।
  • आवीर्भूय महामाया रात्रौ किञ्चिदुवाच ह।
  • कृष्णाय परमेशानि राधिकायै तथा प्रिये।।१०।।
  • कालिकोवाच—
  • शृणु वत्स महाबाहो सिद्धो ऽसि कमलेक्षण।
  • नौकरूपेण भो वत्स अहं काली न चान्यथा।।११।।
  • यमुना मध्यमार्गे तु तिष्ठामि त्रिदिनं सुत।
  • राधया सह रे पुत्र कुरु क्रीडां जपं कुरु।।१२।।
  • तदा त्वं सहसा वत्स प्राप्नोषि सुखमुत्तमम्।
  • इत्युक्त्वा सहसा माया काली वृन्दावनेश्वरी।
  • पद्मिनी सङ्गमे काले तत्रैवान्तरधीयते।।१३।।
  • ततः कृष्णो महाबाहुराश्रितो ऽन्यत्शरीरकम्।
  • नन्दगोपगृहे चान्यत्सृष्ट्वा तु प्रययौ हरिः।।१४।।
  • सत्त्वरं प्रययौ देवि कृष्णः पद्मदलेक्षणः।
  • कालीरूपां महानौकां राजमार्गसमीपगाम्।।१५।।
  • सत्त्वरं तत्र गत्वा वै पुण्डरीकनिभेक्षणः।
  • नमस्कृत्य महानौकां श्रीदामाधिभिरन्वितः।
  • आरुह्य परमेशानि इष्टविद्यां जपेद्धरिः।।१६।।
  • मन्त्रं जप्त्वा रात्रिशेषे वंशीकञ् च वादयन्हरिः।
  • जगतां मोहनी वंशी महाकाली स्वयं प्रिये।।१७।।
  • एकाक्षरेण देवेशि वादयन्मधुरध्वनिम्।
  • एकाक्षरं तूर्यबीजं स्त्रीणां चित्तमनोहरम्।।१८।।
  • वादयन्मुरलीं कृष्ण इष्टविद्यां जपेत्प्रिये।
  • प्रातःकृत्यं समासाद्य कृष्णः स्वस्वगणैर्युतः।।१९।।
  • इष्टविद्यां जपित्वा वै पूर्णब्रह्ममयीं प्रिये।
  • वादयन्मुरलीं कृष्णः शृङ्गं वेणुं तथा परम्।।२०।।
  • कात्यायनीं नमस्कृत्य हरिः पद्मदलेक्षणः।
  • खेलयेद्विविधां क्रीडां तरिजन्यां वरानने।।२१।।
  • एतस्मिन्समये देवि राधा भुवनमोहिनी।
  • सखीगणेन सहिता रङ्गिनी कुसुमप्रभा।।२२।।
  • नानाकटाक्षसंयुक्ता हास्ययुक्ता वरानने।
  • संपूज्य रत्नभाण्डं सा अमृतैर्वरवर्णिनि।।२३।।
  • जगाम यमुनाकूलं गव्यविक्रयणच्छलात्।
  • चन्द्रावलीं समादाय गव्यमादाय सत्वरम्।।२४।।
  • वृकभानुगृहाद्देवि निर्गत्य पद्मिनी ततः।
  • अन्याभिर्गोपकन्याभिर्वेष्टिता राधिका सदा।।२५।।
  • सर्वशृङ्गारवेशाड्या स्फुरच्चकितलोचना।
  • मुखारविन्दगन्धेन तासां देवि वरानने।
  • मोदिताः परमेशानि देवगन्धर्वकिन्नराः।।२६।।
  • तच्छृणुष्व वरारोहे रहस्यमतिगोपनम्।
  • नौकासन्निधमागत्य कृष्णाय यदुवाच सा।।२७।।
  • इति वासुदेवरहस्ये राधातन्त्रे त्रयोविंश पटलः।।२३।।
  • त्wएन्त्य्फ़ोउर्थ्Pअटल
  • पार्वत्युवाच—
  • एतद्रहस्यं परमं कुलसाधनमुत्तमम्।
  • कृपया परमेशान कथयस्व दयानिधे।।१।।
  • ईश्वर उवाच—
  • शृणु पार्वति वक्ष्यामि पद्मिनीतत्त्वमुत्तमम्।
  • अतिगुप्तं महत्पुण्यमप्रकाश्यं कदाचन।।२।।
  • एतत्सर्वं महेशानि तव लीला दुरत्यया।
  • तव लीला दुराधर्षा कृष्णप्रेमविवर्धिनी।।३।।
  • राधिका पद्मिनी या सा कृष्णदेवस्य वाग्भवा।
  • वासुदेवांशसम्भूतः कृष्णः पद्मदलेक्षणः।।४।।
  • पद्मिनी सततं तस्य कृष्णस्य वाग्भवा प्रिये।
  • आगत्य सत्त्वरं तत्र पद्मिनी पद्मगन्धिनी।।५।।
  • कात्यायन्याः प्रसादेन व्रजवासिन्य एव हि।
  • प्रजेपुरनिशं कुर्चं चतुर्वर्गप्रदायकम्।।६।।
  • राजमार्गे महेशानि नानारत्नविभूषिते।
  • कदम्बपादपच्छाया तमालवनशोभिते।।७।।
  • कालिन्दी राजमार्गे तु पद्मिनी पद्मगन्धिनी।
  • यत्रापश्यन्महेशानि नौकां रत्नविभूषिताम्।।८।।
  • प्रणम्य मनसा नौकां नाम्ना ब्रह्मप्रवाहिनीम्।
  • जपेत्कूर्चं महाबीजमनिशं कमलेक्षणे।।९।।
  • एतस्मिन्समये देवि जगन्माता जगन्मयी।
  • ततान मोहिनीं मायां प्रकृतस्यैव पार्वति।।१०।।
  • पद्मिन्युवाच—
  • भो कृष्ण नन्दपुत्रस्त्वं सत्त्वरं शृणु मद्वचः।
  • आगताहं महाबाहि गोकुलाद्देवकीसुत।
  • पारं पारय भद्रं ते शीघ्रं मे गोपनन्दन।।११।।
  • कृष्ण उवाच—
  • आगच्छ मृगशावाक्षि कुत्र वास्यसि तद्वद।
  • रत्नभाण्डेषु किं द्रव्यं दधिदुग्धं घृतं तथा।।१२।।
  • तद्भुक्ता सत्त्वरं कृष्णो राधामाकृष्य पार्वति।
  • ततः कृष्णो महाबाहुस्तास्ताः सर्वाश्च गोपिकाः।
  • नौकायां प्राविशत्तूर्णं राधिकां कमलेक्षणे।।१३।।
  • शृणु प्राज्ञे मम वचो दानं देहि मयि प्रिये।
  • दानं विना कदाचित्तु नहि पारं करोम्यहम्।।१४।।
  • राधिकोवाच—
  • शृणु कृष्ण महाबाहो कस्य दानं वदस्व मे।
  • नायकत्वं कदा प्राप्तुं कस्माद्वा कमलेक्षण।।१५।।
  • कृष्ण उवाच—
  • नायकत्वं यदा प्राप्तुं यस्माद्वा तव तेन किम्।
  • नृपतेः कंसराजस्य अहं दानी सुनिश्चितम्।।१६।।
  • अत एव कुरङ्गाक्षि अहं दानी न चान्यथा।
  • क्रयविक्रयणे चैव गमनागमने तथा।।१७।।
  • यमुनाजलपाने च पारे वा रोहणे तथा।
  • अहं दानी सदा भद्रे यौवनस्य तथा प्रिये।।१८।।
  • सामन्ययौवने चैव कोटिस्वर्णं हराम्यहम्।
  • यौवनं तत्र यद्दृष्टं त्रैलोक्ये चातिदुर्लभम्।।१९।।
  • चन्द्रावल्युवाच—
  • शृणु कृष्ण महाबाहो पारं कुरु यथोचितम्।
  • दानं नास्ति व्रजे गोप नन्दगोपस्य शसनात्।।२०।।
  • नन्दो महात्मा गोपाल पिता ते श्यामसुन्दर।
  • धर्मात्मा सत्यवादी च सर्वधर्मेषु तत्परः।।२१।।
  • तव माता यशोदा च एतच्छ्रुत्वा वचस्तव।
  • प्रहारैः करजन्यैश्च कृष्ण त्वां ताडयिष्यति।
  • पारं कुरु त्वमस्मान्भो यदिच्छेः क्षेममात्मनः।।२२।।
  • कृष्ण उवाच—
  • दानं देहि कुरङ्गाक्षि गोरसस्य जने जने।
  • यौवनस्य तथा दानं ध्रुवं देहि पृथक्पृथक्।।२३।।
  • अन्यान्यि गुह्यरत्नानि वर्तते हृदि यत्तव।
  • चौरासि त्वं कुरङ्गाक्षि कुतो यास्यसि मत्पुरः।
  • कस्याहृत्य धनं भद्रे बहुमूल्यं मनोहरम्।।२४।।
  • मनो मे दूयते भद्रे दृष्ट्वा ःर्दयसंस्थितम्।
  • हृदये तव यद्भद्रे रत्नं त्रैलोक्यमोहनम्।
  • एतद्रत्नं समालोक्य कस्य चित्तं न दूयते।।२५।।
  • हृदि यद्विद्यते भद्रे पद्मरागसमप्रभम्।
  • एतद्रत्नं कुतो लब्ध्वा मथुरां यास्यसि प्रिये।।२६।।
  • यद्रत्नं पद्मरागादिगन्धहीनं सदा सखि।
  • महद्गन्धयुतं रत्नं हृदये तव संस्थितम्।।२७।।
  • काम्सन्दीपनं नांअ रत्नं त्रैलोक्यमोहनम्।
  • नानापुष्पसुगन्धेन मोदितं तव सुन्दरि।।२८।।
  • कदम्बकोरकाकारं हृदये तव वर्तते।
  • आच्छाद्य बहुयत्नेन संपुटं दृढबन्धनैः।।२९।।
  • कुतो लब्ध्वासि कस्यापि चौरा ते निश्चिता मतिः।
  • अद्यसर्वं प्रणेष्यामि बहुरत्नादिकञ् च यत्।।३०।।
  • चौरप्राया निरीक्ष्यन्ते एताः सर्वाश्च योषितः।
  • एतच्छ्रुत्वा वचस्तस्य पद्मिनी पद्मगन्धिनी।
  • सन्दष्टो ऽष्टपुटा क्रुद्धा कियद्वाक्यमुवाच ह।।३१।।
  • इति वासुदेवरहस्ये राधातन्त्रे चतुर्विंश पटलः।।२४।।
  • त्wएन्त्य्फ़िफ़्थ्Pअटल
  • पार्वत्युवाच—
  • कृष्णस्योक्तिं ततः श्रुत्वा पद्मिनी किमकरोत्तदा।
  • एतत्सुतीक्ष्णं देवेश रहस्यं कृपया वद।।१।।
  • ईश्वर उवाच—
  • शृणु पार्वति वक्ष्यामि यदुक्तं पद्मिनी पुरा।
  • कृष्णाय निष्ठुरं वाक्यं लोलमध्ये वरानने।।२।।
  • पद्मिन्युवाच—
  • शृणु पुत्र नन्दसूनो यशोदानन्दवर्धन।
  • श्रीहीनः सततं त्वं हि जन्म गोपगृहे यतः।।३।।
  • नन्दस्य पौष्यपुत्रस्त्वं गव्यचौरा भवान्सदा।
  • विनानन्दं सदा त्वं हि सत्कर्मरहितः सदा।।४।।
  • न माता न पिता बन्धुः स्वकीयं परमेव वा।
  • आद्यन्तरहितस्यापि न लज्ज्वा तव विद्यते।।५।।
  • निर्लज्ज्वस्त्वं सदा मूढ पराश्रयपरः सदा।
  • परदाररतस्त्वं हि परद्रव्यपरायणः।
  • परद्रोही सदा गोप परवेशयुतः सदा।।६।।
  • गोप्रचारी सदा गोपीसङ्गतस्त्वं हि शाश्वतः।
  • गोदोहनरतो नित्यं गव्यचौरा भवान्यतः।।७।।
  • गोहन्ता पक्षिहन्ता च स्त्रीघाती अनुपातकी।
  • गोपालोही यतस्त्वं हि बहु किं कथयामि ते।।८।।
  • कृष्ण उवाच—
  • यत्कथयसि तत्सत्यं नान्यथा वचनं तव।
  • दानं देहि कुराङ्गाक्षि न त्यजामि कदाचन।।९।।
  • पद्मिन्युवाच—
  • अस्मिन्देशे महीपालः कंसः सत्यपरायणः।
  • विद्यमाने महीपाले कंसे सत्यपराक्रमे।
  • कदाचिदपि कस्मै चिन्न दानं प्रददावहम्।।१०।।
  • कृष्ण उवाच—
  • चक्रवर्ती नृपश्रेष्टःअः कंसः सर्वगुणाश्रयः।
  • तस्याधिकारे सततमहं दानी सुनिश्चितम्।।११।।
  • हृदि ते मृगशावाक्षि स्थिरसौदामिनीप्रभम्।
  • पश्यामि तव यद्रत्नं दानार्थं देहि सत्त्वरम्।।१२।।
  • दानं दत्त्वा कुराङ्गाक्षि मथुरां गच्छ सुन्दरि।
  • अन्यथा संहरिष्यामि रत्नञ् च सपरिच्छदम्।।१३।।
  • राधिकोवाच—
  • गोपाल बहवो दोषो विद्यन्ते सततं तव।
  • शृणु गोपाल वृत्तान्तं मम रत्नस्य साम्प्रतम्।।१४।।
  • हृदयस्थं यदेतत्तु रत्नं त्रैलोक्यमोहनम्।
  • स्तनन्तु स्तवकाकारं परं ब्रह्मस्वरूपितम्।।१५।।
  • नासाग्रे मम गोपाल मौक्तिकं यच्च कौस्तुभम्।
  • हृदये मम गोपाल यत्त्वं पश्यसि तच्छृणु।।१६।।
  • यत्मम हृदये यद्रत्नं न सामान्यं पश्यते।
  • तदपि मौक्तिकं ज्ञेया चित्रिणीनामनायिका।।१७।।
  • शृणु कृष्ण महामूढ पद्मिनी राधिका स्वयम्।
  • एतस्याः कण्ठसंस्था या माला नाम्ना कलावती।।१८।।
  • एताः सर्वगोपकन्याः कुमार्याः परिचारिकाः।
  • आत्मानं नैव जानासि अतस्ते चपलामतिः।।१९।।
  • चपलस्त्वं सदा कृष्ण परनारीरतः सदा।
  • एता मूढा मन्दभाग्यास्तव सङ्गरताः सदा।।२०।।
  • कृष्ण उवाच—
  • पद्मनेत्रे स्मितमुखि एकं पृच्छामि पद्मिनि।
  • नासाग्रसंस्थितां मुक्तां स्थिरसौदामिनीप्रभाम्।
  • कामसन्दीपनीं मुक्तां नासायां तव तिष्ठति।।२१।।
  • इति वासुदेवरहस्ये राधातन्त्रे पञ्चविंश पटलः।।२५।।
  • त्wएन्त्य्सिxथ्Pअटल
  • राधिकोवाच—
  • मुक्ताफलमिदं कृष्ण त्रैलोक्यबीजरूपकम्।
  • मुक्ताफलस्य माहात्म्यं वर्णितुं नहि शक्यते।।१।।
  • इदं मुक्ताफलं कृष्ण महामायास्वरूपिनी।
  • तस्मिन्मुक्ताफले विश्वं तिष्ठन्ति कोटिकोटिशः।।२।।
  • बहुभाग्येन गोपेन्द्र लब्धं मुक्ताफलं हरे।
  • मुक्ताफलं मया लब्धं त्रिपुरापदपूजनात्।।३।।
  • कृष्ण उवाच—
  • राधिके शृणु मद्वाक्यं कृपया वद कामिनि।
  • इदं मुक्ताफलं भद्रे मदनस्य च मन्दिरम्।।४।।
  • तव नासा वरारोहे मदनस्येषुधिः सदा।
  • सुतीक्ष्णं तव नेत्रान्तं मम कर्म निकृन्तनम्।।५।।
  • तवाङ्गदर्शनं भद्रे सर्वव्यापिविनाशनम्।
  • सुधारससमं भद्रे विग्रहं कामवर्धनम्।।६।।
  • नखचन्द्रप्रभा भद्रे पूर्णचन्द्रसमा तव।
  • आलिङ्गिनं देहि भद्रे पतितं मां समुद्धर।
  • पापार्णवात्त्राहि भद्रे दसो ऽहं तव सुन्दरि।।७।।
  • राधिकोवाच—
  • शृणु कृष्ण महाबाहो वचनं मम सुन्दर।
  • शिवार्चनं कुरु क्षिप्रं तथा कात्यायनीं शिवाम्।
  • तदन्ते पुरुषश्रेष्ठ इष्टविद्यां सनातनीम्।
  • पूर्णरूपं महाकालीं ध्यात्वा सिद्धिमवाप्स्यसि।।८।।
  • ईश्वर उवाच—
  • तस्यास्तद्वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः।
  • संपूज्य पार्थिवं लिङ्गं ततः कात्यायनीं यजेत्।।९।।
  • अथ प्रसन्ना सा देवी जगन्माता जगन्मयी।
  • आविरासीत्स्वयं देवी कृष्णस्य हितकारिणी।।१०।।
  • कात्यायन्युवाच—
  • शृणु कृष्ण महाबाहो वरं वरय रे सुत।
  • वरं ददामि ते भद्रं भविष्यति सुनिश्चितम्।।११।।
  • कृष्ण उवाच—
  • वरं देहि महामाये नमस्ते शङ्करप्रिये।
  • मनःसिद्धिं देहि देवि कालि ब्रह्ममयि सदा।।१२।।
  • कात्यायन्युवाच—
  • एवमेव भवेत्कृष्ण राधासङ्गमवाप्नुहि।
  • बहुयत्नेन भो कृष्ण राधावाक्यं समाचर।।१३।।
  • राधासङ्गेन भो कृष्ण पुष्पमुत्पादय ध्रुवम्।
  • पुष्पञ् च त्रिविधं कृष्ण कुण्डगोलं परात्परम्।
  • स्वयम्भुञ् च तथारम्यं नानासुखविवर्धनम्।।१४।।
  • धर्मदं कामदञ् चैव अर्थदं मोक्षदं तथा।
  • चतुर्वर्गप्रदं पुष्पं राधासङ्गेन जायते।।१५।।
  • तेन पुष्पेण हे कृष्ण जपपूजां समाचर।
  • इष्टदेव्याः सुरश्रेष्ठ सततं राधया सह।।१६।।
  • एतद्रहस्यं परमं ब्रह्मादिनामगोचरम्।
  • यद्यदन्यन्महाबाहो शृणो तु पद्मिनी मुखात्।।१७।।
  • कुलव्रतं विना चैतन्नहि सिद्धिः प्रजायते।
  • इत्युक्ता सा महामाया तत्रैवान्तरधीयते।।१८।।
  • इति वासुदेवरहस्ये राधातन्त्रे षड्विंश पटलः।।२६।।
  • त्wएन्त्य्सेवेन्थ्Pअटल
  • पद्मिन्युवाच—
  • गोपवेशधरः कृष्ण शृणु वाक्यं महत्पदम्।
  • इदं श्यामशरीरं हि सर्वाभरणसंयुतम्।
  • कुतो लब्धं महाबाहो वद सत्यं हि केशव।।१।।
  • कृष्ण उवाच—
  • शृणु राधे कुरङ्गाक्षि वाक्यं परमकारणम्।
  • शरीरं मम चर्वाङ्गि सर्ववेशविभूषितम्।
  • दलिताञ्जनपुञ्जाभं षदेतद्धि भमं मम।
  • एतत्सर्वं कुराङ्गाक्षि त्रिपुरापदपूजनात्।।२।।
  • एष मे विग्रहः साक्षात्कालीशब्दस्वरूपिणी।
  • शरीरं हि विना भद्रे परं ब्रह्मशवाकृति।।३।।
  • त्रिपुरापूजनाद्भक्त्या शरीरं प्राप्नुयामिदम्।
  • असाध्यं नास्ति किञ्चिन्मे त्रिपुरापदपूजनात्।।४।।
  • शरीरस्थं यदेतच्च ध्वजवज्राङ्कुशादिकम्।
  • एतत्सर्वं वरारोहे महामायास्वरूपकम्।।५।।
  • चूडा च कुण्डलञ् चैव नासाग्रमष्टमौक्तिकम्।
  • केयूरमङ्गदं हारं मुरली वेणुमेव च।।६।।
  • एतत्सर्वं कुरङ्गाक्षि महामाया जगन्मयी।
  • अहमेव कुरङ्गाक्षि सदा इन्द्रियवर्जितः।।७।।
  • एतद्रूपं कुरङ्गाक्षि प्रकृतिः परमेश्वरी।
  • आलिङ्गनं देहि भद्रे मन्मथेनाकुलस्त्वहम्।।८।।
  • राधिकोवाच—
  • शृणु कृष्ण महाबाहो गोपाल नररूपधृक्।
  • नररूपेण मे सङ्गो नहि याति कदाचन।।९।।
  • ईश्वर उवाच—
  • रहस्यं परमं गुह्यं कृष्णाय यदुवाच सा।
  • तत्शृणुष्व महाभोगे सावधानवधारय।।१०।।
  • राधिकोवाच—
  • अमृतं रत्नपात्रस्थं पानं कुरु महामते।
  • अमृतं हि विना कृष्ण यो जपेत्कालिकां पराम्।
  • तस्य सर्वाथहानिः स्यात्तदन्ते कुपितो मनुः।।११।।
  • पश्य कृष्ण महाबाहो दानीशत्वं गतो ऽधुना।
  • मम मुक्ता प्रभावञ् च पश्य हे कमलेक्षणे।।१२।।
  • एतस्मिन्समये राधा पद्मिनी पद्मगन्धिनी।
  • प्रणम्य शिरसा कालीं सुन्दरीं ब्रह्ममातृकाम्।
  • जप्त्वा स्तुत्वा मोक्षदात्रीं सुन्दरीं कृष्णमातरम्।।१३।।
  • पश्य पश्य महाबाहो मुक्तायाः परमं पदम्।
  • तस्मिन्डिम्बे महेशानि कोटिशः कृष्णराशयः।
  • तं दृष्ट्वा परमेशानि कृष्णो विस्मयमागतः।।१४।।
  • पद्मिनी तु ततो देवी तं डिम्बं तत्क्षणं प्रिये।
  • संहार्य विश्वं सा राधा मुक्तायाञ् च विलीयते।।१५।।
  • एवमेव प्रकारेण कोटिडिम्बं वरानने।
  • दर्शयामास कृष्णाय त्रिपुरापदपूजनात्।।१६।।
  • अपश्यदन्यदाश्चर्यं मुक्तायां तत्क्षणं हरिः।
  • कोटिमुक्ताफलं तत्र जायते तत्क्षणात्प्रिये।।१७।।
  • दृष्ट्वाश्चर्यं महाद्भुतं कृष्णस्तु वरवर्णिनि।
  • आत्मानं दर्शयामास हरिः पद्मदलेक्षणः।।१८।।
  • दृष्ट्वाश्चर्यं अयं देवि कृष्ण उद्विग्नतामियात्।
  • आत्मानं गर्हयामास दृष्ट्वाश्चर्यमनुत्तमम्।।१९।।
  • प्रजपेत्परमां विद्यां महाकालीं मनोहराम्।
  • निरीक्ष्य राधिकावक्त्रं प्रजपेत्कालिकातनुम्।।२०।।
  • इति वासुदेवरहस्ये राधातन्त्रे सप्तविंश पटलः।।२७।।
  • त्wएन्त्येइघ्थ्Pअटल
  • ईश्वर उवाच—
  • अनेनैव विधानेन कृष्णस्य कुलसाधनम्।
  • कुण्डगोलकपुष्पस्य साधनाय शुचिस्मिते।
  • यदुक्त्वा पद्मिनी राधा कृष्णाय निगदामि ते।।१।।
  • राधिकोवाच—
  • शृणु कृष्ण महाबाहो वचनं हितकारणम्।
  • वासुदेव परं ब्रह्म मम ज्ञानेन युज्यते।।२।।
  • वासुदेवशरीरं त्वं शक्नोषि यदि चेद्धरे।
  • महती च तदा कृष्ण मम प्रीतिर्हि जायते।।३।।
  • तदैव सहसा कृष्ण शृङ्गारं प्रददाम्यहम्।
  • अन्यथा पुण्डरीकाक्ष मनुष्य त्वं हि मे मतिः।।४।।
  • मनुष्येषु वराकेषु नास्ति सङ्गः कदाचन।
  • यदि मे पुण्डरीकाक्ष मनुष्ये सङ्गता भवेत्।।५।।
  • तदैव सहसा क्रुद्धा त्रिपुरा मातृका तव।
  • भस्मसात्तत्क्षणात्कृष्ण मां करिष्यति नान्यथा।।६।।
  • एतच्छ्रुत्वा वचस्तस्याः कृष्णः पद्मदलेक्षणः।
  • मनो निवेश्य देवेशि कालिकापदपङ्कजे।
  • प्रजप्य परमं विद्यां निजरूपमवाप्नुयात्।।७।।
  • वासुदेव उवाच—
  • शृणु पद्मिनि मद्वाक्यं तव यत्कथयाम्यहम्।
  • यः कृष्णो वासुदेवो ऽहं महाविष्णुरहं प्रिये।।८।।
  • सङ्गोपनार्तं चार्वङ्गि द्विभुजो ऽहं न चान्यथा।
  • त्वदर्थं हि महेशानि तपस्तप्तं सुदारुणम्।।९।।
  • तेन सत्येन धर्मेण पद्मिनी सङ्गमेव च।
  • तव सङ्गं विना राधे विद्यासिद्धिः कथं भवेत्।
  • आज्ञां देहि पुनर्भद्रे नरदेहं व्रजाम्यहम्।।१०।।
  • पद्मिन्युवाच—
  • वासुदेव महाबाहो मनुष्यत्वं व्रजाधुना।
  • प्रसन्नाहं तव विभो पश्यामि तपसः फलम्।
  • तस्यास्तद्वचनं श्रुत्वा मनुष्यत्वं गतो हरिः।।११।।
  • शृणु कृष्ण महाबाहो वासुदेव त्वमेव च।
  • शिवस्ते निश्चयं देव श्यामसुन्दर देहभाक्।।१२।।
  • यस्ते श्यामलदेहस्तु तदेव कालिकातनुः।
  • शृणु कृष्ण महाबाहो रहस्यमतिगोपनम्।।१३।।
  • त्रिपुरायाः सदा दूती पद्मिनी परमा कला।
  • सदा मे पुण्डरीकाक्ष योनिश्चाक्षतरूपिणी।।१४।।
  • मम योनौ महाबाहो रेतुः पातं न चाचरेः।
  • तस्यास्तु वचनं श्रुत्वा तुष्टा सा पद्मिनी परा।।१५।।
  • कृष्णस्य वामपार्श्वस्था पौर्णमास्यानिशासु च।।१६।।
  • कार्तिक्यां यमुनाकूले पद्मिनी पद्मगन्धिनी।
  • नानाशृङ्गारवेशाड्या रतिरूपा मनोहरा।।१७।।
  • राधा परमवैवग्धा शृगाररणपण्डिता।
  • कन्दर्पसदृशः कृष्णो वासुदेवश्च पार्वति।
  • उभयोर्मिलनं देवि शृङ्गो सौदामिनी यथा।।१८।।
  • उभयोर्मिलनं देवि घनसौदामिनी समम्।
  • कृष्णो मरकतः शैलो राधा स्थिरतडित्प्रभा।।१९।।
  • पौर्णमास्या निशामध्ये कार्तिक्यां तरिमध्यतः।
  • संपूज्य विविधैर्भोगैः कालीं भवविमोचनीम्।।२०।।
  • प्रजप्य मनसा विद्यां शृङ्गाररसपूरिताम्।
  • आलिङ्गनादिकं सर्वं तन्त्रोक्तं कमलेक्षणे।।२१।।
  • संपूज्य मदनागारं गन्धपुष्पादिभिः प्रिये।
  • राधाया मदनागारं कृष्णसौभाग्यवर्धनम्।।२२।।
  • समारभ्य निशीथे च रात्रिशेषे परित्यजेत्।
  • ततस्तु पद्मिनी राधा तत्रैवान्तरधीयत।
  • प्रणम्य मनसा कालीं स्वस्थानं सहसा गता।।२३।।
  • एतस्मिन्समये देवी काली प्रत्यक्षतां गता।
  • कृष्णाय परमेशानि महामाया जगन्मयी।।२४।।
  • कालिकोवाच—
  • शृणु कृष्ण महाबाहो सिद्धो ऽसि बहुयत्नतः।
  • पद्मिनी परमा धन्या त्रिपुरापदपूजनात्।।२५।।
  • कुण्डसिद्धिं योनिसिद्धिं स्वयम्भुञ् च तथा सुत।
  • सर्वं प्राप्तं सुतश्रेष्ठ बहुयत्नेन भास्मत।।२६।।
  • शेशं विलासं रे पुत्र गोपिभिः सह साम्प्रतम्।
  • कुरु त्वं विविधालापं मनस्वेच्छाविहारिणम्।
  • इत्युक्त्वा सा महामाया तत्रैवान्तरधीयत।।२७।।
  • इति वासुदेवरहस्ये राधातन्त्रे अष्टविंश पटलः।।२८।।
  • त्wएन्त्य्निन्थ्Pअटल
  • ईश्वर उवाच—
  • ततः कृष्णो महाबाहुर्हृष्टो गोपगृहं गतः।
  • संहृत्य बहुकायांश्च स्वयमेव जनार्दनः।।१।।
  • दिने दिने महेशानि कैशोरजनितांश्च तान्।
  • आलिङ्गनं तथा हास्यं योनिताडनमेव च।।२।।
  • सर्वाभिर्गोपनारीभिः सह क्रीडां वरानने।
  • दिवसे दिवसे कृष्णः कुरुते स्वजनैः सह।।३।।
  • कालिन्दीतीरमासाद्य कृष्णः पद्मदलेक्षणः।
  • शृगवेणुं तथा वंशीं वासुदेवः स्वयं हरिः।
  • आपूर्य धरणीं कृष्णो राधा राधेति वादयन्।
  • क्व गतासि प्रिये राधे भर्ताहं तव सुन्दरि।।४।।
  • दृष्टिं देहि पुनर्भद्रे नीरजायतलोचने।
  • कामसन्दीपने वह्नौ निमज्य क्व गता प्रिये।।५।।
  • वह्निसागरयोर्मध्ये मां निक्षिप्य कुतो गता।
  • एवं बहुविधालापैः स्वजनैः सह केशवः।।६।।
  • यमुनोपवने ऽशोकनवपल्लवखण्डिते।
  • कृष्णः पद्मपलाशाक्षो व्यहरद्व्रजमण्डले।।७।।
  • निहत्य दैत्यान्कंसादीन्मथुरायां वरानने।
  • ततो द्वारावतीं देवि स्वयं महिषमर्दिनीम्।।८।।
  • शतयोजनविस्तीर्णां पुरीं काञ्चननिर्मिताम्।
  • समुद्रपरिका यत्र साक्षात्कुण्डलिनी स्वयम्।।९।।
  • नवलक्षग्रहं यत्र स्वर्णहीरकचित्रितम्।
  • नवरत्नप्रभाकारा पुरी सर्वसुशोभना।।१०।।
  • प्रचीरशतशो युक्ता शुद्धहाटकनिर्मिता।
  • अप्सरोभिः समाकीर्णा देवगन्धर्वसेविता।।११।।
  • तत्र तिष्ठति देवेशि द्वारिकायां शुचिस्मिते।
  • सर्वशक्तिमयी देवि पुरी द्वारवती शुभा।।१२।।
  • प्रचीरशतमध्ये तु पुरी गन्धविलासिनी।
  • दशयोजनविस्तीर्णा नानागन्धविलासिनी।।१३।।
  • तन्मध्ये परमेशानि पञ्चयोजनमुत्तमम्।
  • तन्मध्ये तु महेशानि योजनत्रयमुत्तमम्।।१४।।
  • पद्मराहमणिप्रख्यं नानाचित्रविचित्रितम्।
  • तन्मध्ये परमेशानि चन्द्रचन्द्रातपः प्रिये।।१५।।
  • चन्द्रातपं वरारोहे मुक्तदामविभूषितम्।
  • श्वेतचामरसंयुक्तं चतुर्दिक्षु सहस्रशः।
  • चन्द्रातपं महेशानि कोटिचन्द्रांशुसंयुतम्।।१६।।
  • योजनत्रयमध्ये तु योजनैकं महत्पदम्।
  • नित्यानन्दमयं तत्तु शिवशक्तियुतं सदा।।१७।।
  • तत्र तिष्ठसि भो कृष्ण नानाभरणभूसितः।
  • कौस्तुभ हि मणिः कृष्ण हृदये तव शोभते।।१८।।
  • चूडा मनोहरा रम्या नागरी चित्तकार्षिणी।
  • महाविद्या मूर्तिमयी चूडा या तव तिष्ठति।।१९।।
  • नीलकण्ठस्य पुच्छेन शोभितं परमाद्भुतम्।
  • चूडाया बन्धनं रज्जुः स्थिरसौदामिनी स्वयम्।।२०।।
  • नीलकण्ठपुच्छमध्ये नागरी मोहिनी प्रभा।
  • योनिरूपा महामाया प्रकृतिः परमा कला।।२१।।
  • एवम्भूतो महाविष्णुर्द्वारिकायामुवास ह।
  • सर्वाभरणवेशाड्यः सर्वनारीमयः सदा।।२२।।
  • एतस्मिनन्तरे देवि राधा राधेति वीणया।
  • गीयमानो मुनिश्रेष्ठो नारदः समुपागतः।।२३।।
  • प्रणम्य शिरसा देवं पप्रच्छ द्विजसत्तमः।
  • मत्प्रश्नं देव देवेश ब्रुहि त्वं जगदीश्वर।।२४।।
  • एतच्चूडा कुतो लब्धा विश्वस्य मोहिनी सदा।
  • सर्वाभिर्व्रजनारीभिः किशोरीभिः सुशोभिता।।२५।।
  • कुण्डलं श्रवणोपेतुं तव यद्दृश्यते हरे।
  • एतत्तु परमाश्चर्यं कुण्डलीविग्रहं प्रभो।।२६।।
  • नासाग्रसंस्थिता मुक्ता तडित्पुञ्जसमप्रभा।
  • नासाग्रसंस्थिता यत्ते कला सा वनमोहिनी।।२७।।
  • अङ्गदं बलयं कृष्ण नूपुरं लब्धवान्कुतः।
  • वेणुशृङ्गे कुतो लब्धं कस्तूरीतिलकं कुतः।
  • रक्तिमं सप्तधा कृष्ण अत्यन्तजनमोहनम्।।२८।।
  • एषा पीतधटी कृष्ण कुण्डली प्रकृतिः परा।
  • कङ्किनीवरसंयुक्ता विचित्रमणिनिमिता।।२९।।
  • एतत्श्यामशरीरं हि ध्वजवज्रादिसंयुतम्।
  • कुतो लब्धं यदुश्रेष्ठ सदा विग्रहवर्जिते।।३०।।
  • दलिताञ्जनपुञ्जाभं चिकुरं विश्वमोहनम्।
  • यत्र स विग्रहः कृष्ण स्वयं काली यदूद्वह।
  • यतो निरञ्जनस्त्वं हि तत्कथं स्त्रीमयः सदा।।३१।।
  • ज्ञातुं समागतो नाथ कुलाचारञ् च शाश्वतम्।
  • कुलाचारं विना देव ब्रह्मत्वं न हि जायते।।३२।।
  • कृष्ण उवाच—
  • शृणु विप्रेन्द्र वक्ष्यामि यदुक्तं मम सन्निधौ।
  • यत्त्वया द्विजशारूल दृष्टं मे विग्रहं किल।
  • सर्वं हि प्रकृतिं विद्धि नान्यथा द्विजनन्दन।।३३।।
  • ततो बहुविधैः पुष्पैरतिगन्धैर्मनोहरैः।
  • अतिप्रयत्नतो भक्त्या पूजयामास कालिकाम्।।३४।।
  • ततस्तुष्टा महामाया स्वयं महिषमर्दिनी।
  • कृष्ण कृष्ण महाबाहो शृणु मे परमं वचः।।३५।।
  • न भयं कुत्र पश्यामि कुलाचारप्रभावतः।
  • गच्छ कृष्ण महाबाहो सत्त्वरं रत्नमन्दिरम्।
  • मन्दिरस्य प्रभावेन सर्वं तव भविष्यति।।३६।।
  • प्रणम्य शिरसा देवीं प्रविवेश पुरं ततः।
  • दृष्ट्वा पुरं महद्रम्यं समुद्रपरिखावृतम्।
  • नवरत्नसमूहेन पूरितं सर्वतो गृहम्।।३७।।
  • ततः कतिदिनादृद्धं रुक्मिण्याद्यावरस्त्रियः।
  • विवाहमकरोत्कृष्णो रुक्मिणीप्रभृतिस्त्रियः।।३८।।
  • अतिगुह्यं शृणु प्रौढे हृदिस्थं नगनन्दिनि।
  • येन कृष्णो महाबाहुः सिद्धो ऽभूत्कमलेक्षणः।।३९।।
  • ईश्वर उवाच—
  • रुक्मिनी सत्यभामा च सैब्या जाम्बुवती तथा।
  • कालिन्दी लक्षणा ज्ञेया मित्रविन्दा च सप्तमी।
  • नाग्रजित्या महेशानि अष्टौ प्रकृतयः स्मृताः।।४०।।
  • ततः कृष्णो महाबाहुरुद्वाहमकरोत्प्रभुः।
  • कृत्वा विवाहमेतासां बहुयत्नेन माधवः।
  • अन्यानि च महेशानि सहस्त्रानि च शोडश।
  • स्त्रीणां शतानि चार्वाङ्गि नानारूपान्वितानि च।।४१।।
  • एताः कृष्णस्य देवेशि भार्याः सारविलोचनाः।
  • प्रधानास्ता महिष्यो ऽष्टौ रुक्मिण्याद्या वरानने।।४२।।
  • पूर्वोक्तञ् च महेशानि कथयामास तत्त्वतः।
  • कृष्णस्य वचनं श्रुत्वा विस्मयं गतवान्द्विजः।।४३।।
  • नारद उवाच—
  • नमस्करोम्यहं देवीं प्रकृतिं परमेश्वरीम्।
  • यस्याः कटाक्षमात्रेण निर्गुणो ऽपि गुणी भवेत्।।४४।।
  • शृणु कृष्ण महाबाहो मथुरां गच्छ सत्वरम्।
  • वैकुण्ठसदृशाकारां रत्नमालाविभूषिताम्।।४५।।
  • द्वारका प्रकृतिर्माया महासिद्धिप्रदायिनी।
  • तव योग्य यदुश्रेष्ठ नान्यथा कमलेक्षण।
  • अष्टभिर्नायिकाभिश्च सहिता सर्वदा विभो।।४६।।
  • गच्छ गच्छ महाबाहो सत्त्वरं मथुरापुरीम्।
  • तव योग्यं न पश्यामि स्थानमन्यद्यदूद्वह।।४७।।
  • तत्र गत्वा महादेवीमीश्वरीं भवनाशिनीम्।
  • संपूज्य विधिवद्भक्त्या उपचारैर्मनोहरैः।
  • तदेव सहसा कृष्ण निश्चितां सिद्धिमाप्नुयाः।।४८।।
  • द्रुतं गच्छ महाबाहो द्वारकां प्रकृतिं पराम्।
  • इत्युक्त्वा प्रययौ विप्रः सदा स्वेच्छमयो द्विजः।।४९।।
  • ईश्वर उवाच—
  • ततः कृष्णः महाबाहुर्बहुनादाय सत्वरम्।
  • निहत्य असुरान्कृष्णः कंसादीन्वरवर्णिनि।
  • द्वारकां प्रययौ शीघ्रं यत्रास्ते परमेश्वरीम्।।५०।।
  • यत्रास्ते महती माया योगनिद्रां सनातनीम्।
  • प्रणम्य शिरसा देवीं स्तुत्वा युक्तेन योषिता।।५१।।
  • बन्धुभिः सह चार्वङ्गि कृष्णस्तु भगवान्स्वयम्।
  • पूजयन्विविधैर्भोगैः सर्वव्रतपरायणः।।५२।।
  • दिवसे दिवसे रात्रौ निशीथ कमलेक्षणे।
  • रत्नमन्दिरगः कृष्ण अष्टप्रकृतिभिः सह।।५३।।
  • पूजयन्विविधैर्भोगैः परमान्नैः सुशोभनैः।
  • अष्टतण्डुलदुर्वाभिः पूजयन्परमेश्वरीम्।
  • दशाक्षरीं महाविद्यां प्रजपेत्सततं हरिः।।५४।।
  • एवं नित्यक्रियां कृत्वा द्वारकायां यदूद्वहः।
  • अनिमाद्यष्टसिद्धिनां सिद्धो ऽभूद्धरिरीश्वरः।।५५।।
  • इत्येतत्कथितं तत्त्वं केशवस्य वरानने।
  • एतत्तु केशवं तत्त्वं सर्वतत्त्वोत्तमोत्तमः।।५६।।
  • अज्ञात्वा केशवं तत्त्वं पूजयेद्यस्तु पार्वति।
  • विष्णुं वा पूजयेद्यस्तु रूपं वा परमेश्वरीम्।
  • सर्वं तस्य वृथा देवि हानिः स्यादुत्तरोत्तरम्।।५७।।
  • अतिगुह्यं वरारोहे शृणु तत्त्वं मनोहरम्।
  • राधाकृष्णस्य तत्त्वञ् च श्रुत्वा गुरुमुखात्प्रिये।।५८।।
  • पार्वत्युवाच—
  • यदुक्तं मन्दिरं देव विस्तार्य कथय प्रभो।
  • कृपया कथयेशान मृतुञ्जय सनातन।।५९।।
  • ईश्वर उवाच—
  • मन्दिरं परमेशानि सर्वरत्नविनिर्मितम्।
  • षड्वर्गसंयुतं देवि नित्यरूपमकृत्रिमम्।।६०।।
  • यत्र कुण्डलिनी देवी कौलिकी नित्यमुत्तमा।
  • जननीं कल्पवृक्षस्य देवमातृस्वरूपिणी।।६१।।
  • कदापि शुक्लवर्णा सा कदाचिद्रक्ततां व्रजेत्।
  • क्रमेण धत्ते षड्वर्णं भद्रे परमसुन्दरम्।
  • सहस्रसूर्यसङ्काशं मणिना निर्मितं सदा।।६२।।
  • ऋतवः परमेशानि वसन्ताद्याश्च पार्वति।
  • तत्र सन्ति वरारोहे सदा विग्रहधारिणः।।६३।।
  • अष्टद्वारसमायुक्तमणिमादिसुसेवितम्।
  • अङ्गना यत्र विद्यान्ते सततं कोटिकोटिशः।
  • श्वेतचामरहस्ताभिर्विज्यते मन्दिरं सदा।।६४।।
  • गृहस्य तस्य दशसु सन्ति दिक्षु वरानने।
  • दिक्पालाः परमेशानि स्तम्भरूपा इव प्रिये।।६५।।
  • बहुरूपमिवाभाति मन्दिरं नगनन्दिनि।
  • सर्वगं सर्वदं देवि चतुर्वर्गश्च मूर्तिमान्।
  • कैवल्यं परमेशानि सदा ब्रह्मसुखास्पदम्।।६६।।
  • बहुना किमिहोक्तेन सर्वदेवाः सवासवाः।
  • सहस्रवक्त्रो ब्रह्मा च यत्रास्ते नगनन्दिनि।।६७।।
  • यस्मिन्गेहे महेशानि कोटिशो ह्यण्डराशयः।
  • तिष्ठनि सततं देवि तस्य का गणना प्रिये।।६८।।
  • ब्रह्मा विष्णुश्च रुद्रश्च यत्रास्ते कोटिकोटिशः।
  • सर्वतीर्थमयं देवि पञ्चशत्पीठसंयुतम्।।६९।।
  • त्रिपुरामन्दिरं कृष्णो दृष्ट्वा मोहमवाप्नुयात्।
  • यत्तु श्रीमन्दिरं भद्रे स्वयं त्रिपुरा सुन्दरी।।७०।।
  • एवं मुक्तिग्रहं प्राप्य कृष्णः पद्मदलेक्षणः।
  • स साधयेत्किं देवेशि त्रिपुरापदपूजनात्।।७१।।
  • कृष्णो मोक्षगृहं प्राप्य षोदशस्त्रीसहस्रकम्।
  • शतमष्टोत्तरकञ् चैव रेमे परमयत्नतः।।७२।।
  • कृष्णस्यैवं महेशानि त्रिपुरापदपूजनात्।
  • प्रतिकल्पे भवेद्देवि द्वारकामन्दिरं प्रिये।।७३।।
  • इति वासुदेवरहस्ये राधातन्त्रे ऊनत्रिंशत्पटलः।।२९।।
  • थिर्तिएथ्Pअटल
  • देव्युवाच—
  • किञ्चिदन्यन्महेशान पृच्छामि यदि रोचते।
  • पद्मिन्याः परमेशान यद्यस्ति पूजने विधिः।।१।।
  • कृपया परमेशान शुलपाणे पिनाकधृक्।
  • यदि नो कथ्यते देव विमुञ्चामि तदा तनुम्।।२।।
  • ईश्वर उवाच—
  • उपविद्या महेशानि पद्मिनी राधिका प्रिये।
  • उपविद्या क्रमेणैव कथयामि वरानने।।३।।
  • यथा च विजयामन्त्रं जयामन्त्रं तथा प्रिये।
  • यथापराजितामन्त्रं यथा तामपराजिताम्।
  • राधातन्त्रं तथा देवि कवचेन युतं सदा।।४।।
  • स्तोत्रं सहस्रनामाख्यं राधाया निगदामि ते।
  • न्यासादिरहितं तन्त्रं सावधानावधारय।।५।।
  • अदौ छन्दस्ततो मन्त्रं कवचस्तु ततः शृणु।
  • शृणु मन्त्रं प्रवक्ष्यामि राधिकाया वरानने।।६।।
  • कामबीजं समुद्धृत्य वाग्भवं तदनन्तरम्।
  • राधापदं चतुर्थ्यन्तमुद्धरेत्वरवर्णिनि।
  • पूर्वबीजद्वयं भद्रे यत्नतः पुनरुद्धरेत्।।७।।
  • इदमष्टाक्षरं प्रोक्तं राधायाः कमलेक्षणे।
  • शृणु देवेशि राधाया मनुमेकाक्षरं परम्।।८।।
  • रङ्गिनीबीजमुद्धृत्य वनबीजयुतं कुरु।
  • बिन्ध्वर्धसंयुतं कृत्वा परमेकाक्षरी प्रिये।।९।।
  • इयमेकाक्षरी विद्या राधाहृदयसंस्थिता।
  • परमेकं महेशानि राधामन्त्रं शृणु प्रिये।।१०।।
  • मन्मथद्वयमुद्धृत्य वाग्भवद्वयमुद्धरेत्।
  • मायाद्वयसमुद्धृत्य राधाशब्दञ् च ङेयुतम्।
  • पूर्वबीजानि चोद्धृत्य किशोरी षोडशी प्रिये।।११।।
  • प्रणवं पूर्वमुद्धृत्य राधा च ङेयुतं सदा।
  • अन्ते मायां समादाय षडक्षरमिदं प्रिये।।१२।।
  • प्रणवं पूर्वमुद्धृत्य कूर्चबीजद्वयं ततः।
  • राधाशब्दं ङेयुतञ् च पूर्वबीजानि चोद्धरेत्।
  • एषा दशाक्षरी विद्या पद्मिन्याः कमलेक्षणे।।१३।।
  • ईश्वर उवाच—
  • शृणु पार्वति वक्ष्यामि जयामन्त्रं वरानने।
  • प्रसङ्गात्परमेशानि कथयामि तवानघे।।१५।।
  • वाग्भवं बीजमुद्धृत्य मायाबीजं समुद्धरेत्।
  • जयाशब्दं चतुर्थ्यन्तं पूर्वबीजं समुद्धरेत्।
  • एषा अष्ताक्षरी विद्या जयायाः कमलेक्षणे।।१६।।
  • शिवबीजं समुद्धृत्य वनबीजयुतं कुरु।
  • बिन्ध्वर्धचन्द्रयुक्तमेकाक्षरमिदं स्मृतम्।।१७।।
  • प्रणवद्वयमुद्धृत्य जयशब्दं ततः परम्।
  • ङ्गेयुतं कुरु यत्नेन पुनः प्रणवमुद्धरेत्।
  • एषा षडक्षरी विद्या जयाया नगनन्दिनि।।१८।।
  • मायाद्वयं समुद्धृत्य कूर्चयुग्ममतः परम्।
  • वाग्भवञ् च ततो देवि युगलञ् चोद्धरेत्प्रिये।
  • चतुर्थ्यन्तं जयाशब्दं कुरु यत्नेन योगिनि।
  • पूर्वबीजानि चोद्धृत्य अन्ते प्रणवमुद्धरेत्।
  • षोडशी परमेशानि काली भुवनमोहिनी।
  • एषा तु षोडशी विद्या किशोरी वयसी तव।।१९।।
  • मायाद्वयं समुद्धृत्य जयाशब्दं तथा प्रिये।
  • चतुर्थ्यन्तं ततः कृत्वा बीजद्वयमतः परम्।
  • इयमष्टाक्षरी विद्या सर्वतन्तेषु गोपिता।।२०।।
  • आद्यन्ते प्रणवं दत्त्वा दशाक्षरमिदं स्मृतम्।
  • अनेनैव विधानेन विजयादिषु कामिनि।।२१।।
  • पद्मासु परमेशनि तथा पद्मावतीसु च।
  • आद्यन्ते बीजमुद्धृत्य नामानि ङेयुतानि च।।२२।।
  • एतत्ते कथितं तत्त्वं दूतीतत्त्वं शुचिस्मिते।
  • दूतीतत्त्वं विना देवि पूजयेद्यस्तु पार्वति।
  • विफला तस्य सा पूजा सफला न कदाचन।।२३।।
  • पद्मिन्यादिषु देवेशि न्यासादि नैव कारयेत्।
  • उपविद्यासु सर्वासु न्यासो नास्ति वरानने।।२४।।
  • भूतशुद्धिं विधायाथ मातृकान्यासपूर्वकम्।
  • ध्यानं कुर्यात्ततो देवि कृत्वा छन्दो वरानने।।२५।।
  • ध्यानं वक्ष्यामि देवेशि राधायाः शृणु सादरम्।
  • उपविद्या क्रमेणैव निगदामि वरानने।।२६।।
  • रङ्गिनी कुसुमाकारा पद्मिनी परमा कला।
  • चमरी वालकुटिला निर्मलश्यामकेशिनी।।२७।।
  • सूर्यकान्तेन्दुकान्ताड्या स्पर्शास्यकण्ठभूषणा।
  • बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा।
  • कामकोदण्डका युग्मभ्रूकटाक्षप्रवर्षिणी।।२८।।
  • मातङ्गकुम्भवक्षोजा लसत्कोकनदेक्षणा।
  • मनोज्ञसुष्कली कर्णा हंसी गतिविडम्बिनी।।२९।।
  • नानामणिपरिच्छिन्नवस्त्रकाञ्चनकङ्कणा।
  • नागेन्द्रदन्तनिर्माणवलयाञ्चितपाणिनी।।३०।।
  • पीतरूपा कदाचित्सा कदाचित्कृष्णरूपिणी।
  • श्वेतरूपा कदाचित्सा कदाचिद्रक्तरूपिणी।।३१।।
  • कर्पूरा गुरुकस्तूरी कुङ्कुमद्रवलेपिता।
  • बहुरूपमयी राधा प्रहरे प्रहरे प्रिये।।३२।।
  • एवं ध्यात्वा यजेद्देवीं चतुर्वर्गप्रदायिनीम्।
  • सततं पद्मिनी राधा त्रिपुरानिकटस्थिता।।३३।।
  • एतत्तु कथितं देवि ध्यानतत्त्वं मनोहरम्।
  • अपरञ् च प्रवक्ष्यामि कवचं राधिकामतः।।३४।।
  • यन्नोक्तं सर्वतन्त्रेषु उपविद्यासु पार्वति।
  • इदानीं परमेशानि कवचं निगदामि ते।
  • त्रैलोक्यमोहनं नाम कवचं मन्मुखोदितम्।।३५।।
  • कवचं परमेशानि पद्मिनीवशकारकम्।
  • एतत्तु कवचं देवि उपविद्यासु दुर्लभम्।।३६।।
  • यत्र यत्र विनिर्दिष्टा उपविद्या वरानने।
  • तास्ताः सर्वा महेशानि कवचे न च वर्जिताः।।३७।।
  • इति वासुदेवरहस्ये राधातन्त्रे त्रिंशत्पटलः।।