कापालिकमतासक्ता बौद्धशास्त्ररताः सदा ।
पाखण्डाचारनिरता भवत ब्राह्मणाधमाः ॥ ७२ ॥
पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा ।
भार्याविकयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७३ ॥
वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा ।
धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७४ ॥
पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते ।
बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥ ७५ ॥
मातृकन्यागामिनश्च भगिनीगामिनस्तथा ।
परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः ॥ ७६ ॥
युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा ।
मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः ॥७७ ॥
किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी ।
गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥ ७८ ॥
अन्धकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः ।
व्यास उवाच
वाग्दण्डमीदृशं कृत्वाप्युपस्पृश्य जलं ततः ॥ ७९॥
जगाम दर्शनार्थं च गायत्र्याः परमोस्तुकः ।
प्रणनाम महादेवीं सापि देवी परात्परा ॥ ८० ॥
ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह ।
अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥ ८१ ॥
उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा ।
भुजङ्गायार्पितं दुग्धं विषायैवोपजायते ॥ ८२ ॥
शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी ।
इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ॥८३॥
ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः ।
गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत् ॥८४ ॥
ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा ।
प्रणेमुर्मुनिवर्यं तं दण्डवत्पतिता भुवि ॥ ८५ ॥
नोचुः किञ्चन वाक्यं तु लज्जयाधोमुखाः स्थिताः।
प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥ ८६ ॥
प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् ।
करुणापूर्णहृदयो मुनिस्तान्समुवाच ह ॥ ८७ ॥
कृष्णावतारपर्यन्तं कुम्भीपाके भवेत्स्थितिः ।
न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा ॥ ८८॥
ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् ।
मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा ॥ ८९ ॥
मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा ।
तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम् ॥ ९० ॥
व्यास उवाच
इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः ।
प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह ॥ ९१ ॥
एतस्मात्कारणाद्राजन् गते कृष्णे तु धीमति ।
कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः ॥९२॥
भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये ।
सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः ॥९३ ॥
वेदभक्तिविहीनाश्च पाखण्डमतगामिनः ।
अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥ ९४॥
मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् ।
तप्तमुद्राङ्किताः केचित्कामाचाररताः परे ॥ ९५॥
कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे ।
पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः ॥९६॥
लम्पटाः परदारेषु दुराचारपरायणाः ।
कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः ॥ ९७ ॥
तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी ।
न विष्णूपासना नित्या न शिवोपासना तथा ॥ ९८॥
नित्या चोपासना शक्तेर्यां विना तु पतत्यधः ।
सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ ॥ ९९ ॥
अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् ।
यत्परं स्थानमाद्याया भुवनेश्या भवारणेः ॥ १००॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे
ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें