रविवार, 26 जनवरी 2025

पञ्च राग-

स तु षड्- जादिसप्तस्वराणां पञ्चमः स्वरः । तस्योत्- पत्तिर्यथा, -- “वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥” इति तट्टीकायां भरतः ॥ अपि च । “प्राणोऽपानः समानश्च उदानो व्यान एव च । एतेषां समवायेन जायते पञ्चमः स्वरः ॥” इति सङ्गीतदामोदरः ॥ अस्य जातिः औडवः । पञ्चस्वरमिलित इति यावत् । अस्य कूटतानाः विंशत्यधिकशतम् १२० प्रत्येकताने चत्वारिंशत् ४० । समुदायेन चतुःसहस्राष्टशतानि ४८०० ताना भवन्ति । अस्योच्चारणजातिः पिकः ।


अयं कल्लिनाथमते सोमेश्वरमते च षड्रागाणां मध्ये तृतीयरागः । सोमेश्वरमते अस्य गानसमयः शरदृतुः प्रातःकालश्च । कल्लि- नाथमते अस्य रागिण्यः षट् । यथा, त्रिवेणी १ स्तम्भतीर्था २ आभीरी ३ कुकभ् ४ वरारी ५ सावीरी ६ । सोमेश्वरमते तु विभासा १ भूपाली २ कार्णाटी ३ वडहंसिका ४ मालश्रीः ५ पटमञ्जरी ६ । अस्मिन्रागे गान्धार- स्वरस्तीव्रः । ॠषभपञ्चमौ स्वरौ लुप्तौ । षड्ज- स्वरः गृहांशन्यासाः । स च हनूमन्मते भरत- मते च भैरवरागस्याष्टमपुत्त्रः । इति सङ्गीत- शास्त्रम् ॥




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें