(मत्स्य पुराण अध्याय- 45)
सात्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्द्धनः।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः।.४६ ।
सात्वतान् सत्वसम्पन्नान् कौसल्या सुषुवे सुतान्।
भजिनं भजमानन्तु दिव्यं देवावृधं नृप !।४७ ।
अन्धकञ्च महाभोजं वृष्णिं च यदुनन्दनम्!
तेषां तु सर्गा श्चत्वारो विस्तरेणैव तच्छृणु।४८।
"सूत उवाच।
गान्धारीं चैव माद्री च वृष्णिभार्ये बभूवतुः।
गान्धारी जनयामास सुमित्रं मित्रनन्दनम्।१।
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्।
अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम्।४५.२।
अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ।
प्रसेनश्चमहावीर्यः शक्तिसेनश्च तावुभौ।४५.३ ।
अनमित्रात् शनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्।
सत्यवांस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः।। ४५.२२ ।।
सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान्।
असङ्गोयुयुधानस्य द्युम्निस्तस्यात्मजोऽभवत्।२३।
द्युम्नेर्युगन्धरः पुत्र इति शैन्याः प्रकीर्त्तिताः।
अनमित्रान्वयो ह्येष व्याख्यातो वृष्णिवंशजः।। ४५.२४ ।।
***************
ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुत मीढुषम्।
पौरुषाज्जज्ञिरे शूरात् भोजायां पुत्रकादश।४६.१।।
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः।
देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः।४६.२।
अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः।
श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः।। ४६.३ ।।
श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः।
राजाधि देवी च तथा पञ्चैता वीरमातरः।४६.४ ।
आनकदुन्दुभि (वसुदेव) के संयोगसे रोहिणी (उनकी चौबीस पत्नीयों में प्रथम ) ने विश्वविख्यात ज्येष्ठ पुत्र राम ( बलराम) को, तत्पश्चात् प्रिय पुत्र सारण, दुर्दम, दमन, सुभु, पिण्डारक और महाहनु को प्राप्त किया।
(उनकी दूसरी पत्नी पौरवी के भी भद्र, सुभद्र आदि पुत्र हुए।
उसी समय रोहिणोके गर्भसे चित्रा और अक्षी नामवाली (अथवा सुन्दर नेत्रोंवाली) दो कन्याएँ भी पैदा हुई।
वसुदेवजी के सम्पर्क से देवकी के गर्भसे १-सुषेण, २-कीर्तिमान्, ३-उदार, ४-भद्रसेन, ५-भद्रवास और छठा भद्रविदेह नामक पुत्र उत्पन्न हुए थे,
जिन्हें कंस ने मार डाला। फिर उसी समय (देवकी के गर्भ से) आयुष्मान् लोकनाथ महाबाहु प्रजापति श्रीकृष्ण उत्पन्न हुए।
____________
श्रीकृष्ण के बाद उनकी छोटी बहन शुभभाषिणी सुभद्रा पैदा हुई | तदनन्तर देवकी के गर्भसे महान् तेजस्वी एवं महायशस्वी शूरी नामक पुत्र उत्पन्न हुआ।
ताम्रा के गर्भसे शौरिकुलका उद्वहन करनेवाला सहदेव नामक पुत्र पैदा हुआ।
देवरक्षिता ने उपासङ्गधर नामक पुत्र को और एक सुन्दरी कन्या को, जिसे कंसने मार डाला, उत्पन्न किया।
विजय, रोचमान, वर्धमान और देवल- ये सभी महान् आत्मबलसे सम्पन्न पुत्र उपदेवी के गर्भसे पैदा हुए थे।
महात्मा अवगाह वृकदेवी के गर्भसे उत्पन्न हुए। | इसी वृकदेवी के गर्भ से नन्दन नामक एक और पुत्र पैदा हुआ था ॥11- 18 ॥
राजन्! देवकी ने अपने सात वें पुत्र मदन को तथा संग्राममें अजेय एवं महान् भाग्यशाली गवेषण को जन्म दिया था।
इससे पूर्व श्रद्धादेवीके साथ विहारके अवसर पर वन में विचरण करते हुए शूरनन्दन वसुदेव ने एक उस वैश्य-कन्या के उदर में गर्भाधान किया, जिससे कौशिक नामक ज्येष्ठ पुत्र उत्पन्न हुआ।
वसुदेवजी की (नवीं) सुतनु और (दसवीं) रथराजी नाम की दो पत्नियाँ और थीं।
उनके गर्भसे वसुदेव के पुण्ड्र और कपिल नामक दो पुत्र तथा महान् बल-पराक्रम से सम्पन्न सौभद्र और भव नामक दो पुत्र और उत्पन्न हुए थे।
उनमें जो ज्येष्ठ था,वह जरा नामक निषाद हुआ, जो महान् धनुर्धर था । *******
देवभाग का पुत्र उद्धव नामसे प्रसिद्ध था। देवश्रवा के प्रथम पुत्रको पण्डित नाम से पुकारा जाता था।
यशस्विनी ऐक्ष्वाकी ने अनाधृष्टिके संयोगसे शत्रुसंहारक निधूतसत्त्व नामक पुत्रको प्राप्त किया।
निधूतसत्त्व से श्राद्ध की उत्पत्ति हुई। संतानहीन करूष पर प्रसन्न होकर श्रीकृष्ण ने उसे एक सुचन्द्र नामक पुत्र प्रदान किया था, जो महान् भाग्यशाली, पराक्रमी और महाबली था।
जाम्बवती के चारुदेष्ण और साम्ब ये दोनों पुत्र उत्तम लक्षणोंसे युक्त, पराक्रमी और महान् बलसम्पन्न थे।
नन्दन के तन्तिपाल और तन्ति नामक दो पुत्र हुए। शमीक के चारों पुत्र विराज, धनु, श्याम और सृज्ञ्जय अत्यन्त पराक्रमी और महाबली थे।
इनमें श्याम तो संतानहीन हो गया और शमीक भोजवंशके आचार-व्यवहार की निन्दा करता हुआ वनमें चला गया,
वहाँ आराधना करके उसने राजर्षि की पदवी प्राप्त की। जो मनुष्य भगवान् श्रीकृष्णके इस जन्म एवं अभ्युदयका नित्य कीर्तन (पाठ) अथवा श्रवण करता है, वह समस्त पापों से मुक्त हो जाता है । ll 19 – 29 ॥
कृष्णसन्तानवर्णनम्।।
"सूत उवाच।
अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः ।
विहारार्थं स देवेशो मानुषेष्विह जयते ।47.1।
देवक्यां वसुदेवस्य तपसा पुष्करेक्षणः ।
चतुर्बाहुस्तदा जातो दिव्यरूपो ज्वलञ्श्रिया ।2 ।
श्रीवत्सलक्षणं देवं दृष्ट्वा दिव्यैश्च लक्षणैः।
उवाच वसुदेवस्तं रूपं संहर वै प्रभो ।3।
भीतोऽहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते ।
मम पुत्रा हतास्तेन ज्येष्ठास्ते भीमविक्रमाः ।4 ।
वसुदेववचः श्रुत्वा रूपं संहरतेऽच्युतः ।
अनुज्ञाप्य ततः शौरिं नन्दगोपगृहेऽनयत् ।5 ।
दत्त्वैनं नन्दगोपस्य रक्ष्यतामिति चाब्रवीत् ।
अतस्तु सर्वकल्याणं यादवानां भविष्यति।
अयं तु गर्भो देवक्यां जातः कंसं हनिष्यति ।6।
"ऋषय ऊचुः।
क एष वसुदेवस्तु देवकी च यशस्विनी ।
नन्दगोपश्च कस्त्वेष यशोदा च महाव्रता ।7।
यो विष्णुं जनयामास यं च तातेत्यभाषत ।
या गर्भं जनयामास या चैनं त्वभ्यवर्धयत् ।8 ।
"सूत उवाच।
पुरुषः कश्यपस्त्वासीददितिस्तु प्रिया स्मृता ।
ब्रह्मणः कश्यपस्त्वंशः पृथिव्यास्त्वदितिस्तथा ।9 ।
अथ कामान्महाबाहुर्देवक्याः समपूरयत् ।
ये तया काङ्क्षिता नित्यमजातस्य महात्मनः।10।
सोऽवतीर्णो महीं देवः प्रविष्टो मानुषीं तनुम् ।
मोहयन्सर्वभूतानि योगात्मा योगमायया ।11।
नष्टे धर्मे तथा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।
कर्तुं धर्मस्य संस्थानमसुराणां प्रणाशनम् 12 ।
रुक्मिणी सत्यभामा च सत्या नाग्नजिती तथा ।
सुभामा च तथा शैब्या गान्धारी लक्ष्मणा तथा 13।
मित्रविन्दा च कालिन्दी देवी जाम्बवती तथा ।
सुशीला च तथा माद्री कौशल्या विजया तथा ।
एवमादीनि देवीनां सहस्राणि च षोडश ।14 ।
रुक्मिणी जनयामास पुत्रान्रणविशारदान् ।
चारुदेष्णं रणे शूरं प्रद्युम्नं च महाबलम् 15 ।
सुचारुं भद्र चारुं च सुदेष्णं भद्र मेव च ।
परशुं चारुगुप्तं च चारुभद्रं सुचारुकम् ।
चारुहासं कनिष्ठं च कन्यां चारुमतीं तथा 16 ।
जज्ञिरे सत्यभामायां भानुर्भ्रमरतेक्षणः ।
रोहितो दीप्तिमांश्चैव ताम्रश्चक्रो जलंधमः 17।
चतस्रो जज्ञिरे तेषां स्वसारस्तु यवीयसीः ।
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः 18।
मित्रवान्मित्रविन्दश्च मित्रविन्दा वराङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजा हि सा 19 ।
एवमादीनि पुत्राणां सहस्राणि निबोधत ।
शतं शतसहस्राणां पुत्राणां तस्य धीमतः 20।
अशीतिश्च सहस्राणि वासुदेवसुतास्तथा ।
लक्षमेकं तथा प्रोक्तं पुत्राणां च द्विजोत्तमाः 21।
उपसङ्गस्य तु सुतौ वज्रः संक्षिप्त एव च ।
भूरीन्द्र सेनो भूरिश्च गवेषणसुतावुभौ 22 ।
प्रद्युम्नस्य तु दायादो वैदर्भ्यां बुद्धिसत्तमः ।
अनिरुद्धो रणेऽरुद्धो जज्ञेऽस्य मृगकेतनः 23 ।
काश्या सुपार्श्वतनया साम्बाल्लेभे तरस्विनः ।
सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्तिताः 24 ।
तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनाम् ।
षष्टिः शतसहस्राणि वीर्यवन्तो महाबलाः 47.25 ।
देवांशाः सर्व एवेह ह्युत्पन्नास्ते महौजसः ।
देवासुरे हता ये च त्वसुरा ये महाबलाः 26 ।
इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् ।
तेषामुत्सादनार्थाय उत्पन्नो यादवे कुले 27 ।
कुलानां शतमेकं च यादवानां महात्मनाम् ।
सर्वमेतत्कुलं यावद्वर्तते वैष्णवे कुले 28।*****
विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिनस्तस्य कथ्यन्ते सर्वयादवाः 29।
****************
ऋषय ऊचुः।
सप्तर्षयः कुबेरश्च यक्षो माणिचरस्तथा ।
शालकिर्नारदश्चैव सिद्धो धन्वन्तरिस्तथा 30 ।
आदिदेवस्तथा विष्णुरेभिस्तु सह दैवतः ।
किमर्थं संघशो भूताः स्मृताः सम्भूतयः कति 31।
भविष्याः कति चैवान्ये प्रादुर्भावा महात्मनः ।
ब्रह्मक्षत्रेषु शान्तेषु किमर्थमिह जायते 32 ।
यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धकोत्तमः ।
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् 33 ।
सूत उवाच।
त्यक्त्वा दिव्यां तनुं विष्णुर्मानुषेष्विह जायते ।
युगे त्वथ परावृत्ते काले प्रशिथिले प्रभुः ।34 ।
देवासुरविमर्देषु जायते हरिरीश्वरः ।
हिरण्यकशिपौ दैत्ये त्रैलोक्यं प्राक्प्रशासति 35।
बलिनाधिष्ठिते चैव पुरा लोकत्रये क्रमात् ।
सख्यमासीत्परमकं देवानामसुरैः सह 36।
युगाख्यासुरसम्पूर्णं ह्यासीदत्याकुलं जगत् ।
निदेशस्थायिनश्चापि तयोर्देवासुराः समम् 37 ।
मृधो बलिविमर्दाय सम्प्रवृद्धः सुदारुणः ।
देवानामसुराणां च घोरः क्षयकरो महान् 38 ।
कर्तुं धर्मव्यवस्थानं जायते मानुषेष्विह ।
भृगोः शापनिमित्तं तु देवासुरकृते तदा 39 ।
मुनय ऊचुः।
कथं देवासुरकृते व्यापारं प्राप्तवान्स्वतः ।
देवासुरं यथा वृत्तं तन्नः प्रब्रूहि पृच्छताम् 40 ।
सूत उवाच।
तेषां दायनिमित्तं ते संग्रामास्तु सुदारुणाः ।
वराहाद्या दश द्वौ च शण्डामर्कान्तरे स्मृताः 41।
नामतस्तु समासेन शृणुतैषां विवक्षतः ।
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः 42।
तृतीयस्तु वराहश्च चतुर्थोऽमृतमन्थनः ।
संग्रामः पञ्चमश्चैव संजातस्तारकामयः 43।
षष्ठो ह्याडीबकाख्यस्तु सप्तमस्त्रैपुरस्तथा ।
अन्धकाख्योऽष्टमस्तेषां नवमो वृत्रघातकः 44।
धात्रश्च दशमश्चैव ततो हालाहलः स्मृतः ।
प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा 45।
हिरण्यकशिपुर्दैत्यो नारसिंहेन पातितः ।
वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा 46।
हिरण्याक्षो हतो द्वंद्वे प्रतिघाते तु दैवतैः ।
दंष्ट्रया तु वराहेण समुद्र स्तु द्विधा कृतः 47 ।
प्रह्लादो निर्जितो युद्धे इन्द्रे णामृतमन्थने ।
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्र वधोद्यतः 48 ।
इन्द्रेणैव तु विक्रम्य निहतस्तारकामये ।
अशक्नुवन्स देवानां सर्वं सोढुं सदैवतम् 49 ।
निहता दानवाः सर्वे त्रैलोक्ये त्र्यम्बकेण तु ।
असुराश्च पिशाचाश्च दानवाश्चान्धकाहवे 47.50 ।
हता देवमनुष्ये स्वे पितृभिश्चैव सर्वशः ।
संपृक्तो दानवैर्वृत्रो घोरो हालाहले हतः 51 ।
तदा विष्णुसहायेन महेन्द्रे ण निवर्तितः ।
हतो ध्वजे महेन्द्रे ण मायाच्छन्नस्तु योगवित् ।
ध्वजलक्षणमाविश्य विप्रचित्तिः सहानुजः 52 ।
दैत्यांश्च दानवांश्चैव संयतान्किल संयुतान् ।
जयन्कोलाहले सर्वान्देवैः परिवृतो वृषा 53 ।
यज्ञस्यावभृथे दृश्यौ शण्डामर्कौ तु दैवतैः ।
एते देवासुरे वृत्ताः संग्रामा द्वादशैव तु 54 ।
देवासुरक्षयकराः प्रजानां तु हिताय वै ।
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ 55 ।
द्विसप्तति तथान्यानि नियुतान्यधिकानि च ।
अशीतिं च सहस्राणि त्रैलोक्यैश्वर्यतां गतः 56 ।
पर्यायेण नु राजाभूद्बलिर्वर्षायुतं पुनः ।
षष्टिवर्षसहस्राणि नियुतानि च विंशतिः 57 ।
बले राज्याधिकारस्तु यावत्कालं बभूव ह ।
तावत्कालं तु प्रह्लादो निवृत्तो ह्यसुरैः सह 58 ।
इन्द्रा स्त्रयस्ते विज्ञेया असुराणां महौजसः ।
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं पुनः 59 ।
त्रैलोक्यमिदमव्यग्रं महेन्द्रे णानुपाल्यते ।
असपत्नमिदं सर्वमासीद्दशयुगं पुनः 60 ।
प्रह्लादस्य हते तस्मिंस्त्रैलोक्ये कालपर्ययात् ।
पर्यायेण तु सम्प्राप्ते त्रैलोक्यं पाकशासने ।
ततोऽसुरान्परित्यज्य शुक्रो देवानगच्छत 61 ।
यज्ञे देवानथ गतं दितिजाः काव्यमाह्वयन् ।
किं त्वं नो मिषतां राज्यं त्यक्त्वा यज्ञं पुनर्गतः 62 ।
स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् ।
एवमुक्तोऽब्रवीद्दैत्यान्विषण्णान्सान्त्वयन्गिरा 63 ।
मा भैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुराः ।
मन्त्राश्चौषधयश्चैव रसा वसु च यत्परम् 64 ।
कृत्स्नानि मयि तिष्ठन्ति पादस्तेषां सुरेषु वै ।
तत्सर्वं वः प्रदास्यामि युष्मदर्थे धृता मया 65 ।
ततो देवास्तु तान्दृष्ट्वा वृतान्काव्येन धीमता ।
संमन्त्रयन्ति देवा वै संविज्ञास्तु जिघृक्षया 66 ।
काव्यो ह्येष इदं सर्वं व्यावर्तयति नो बलात् ।
साधु गच्छामहे तूर्णं यावन्नाध्यापयिष्यति 67 ।
प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे ।
ततो देवास्तु संरब्धा दानवानुपसृत्य ह 68 ।
ततस्ते वध्यमानास्तु काव्यमेवाभिदुद्रुवुः ।
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् 69 ।
रक्षां काव्येन संहृत्य देवास्तेऽप्यसुरार्दिताः ।
काव्यं दृष्ट्वा स्थितं देवा निःशङ्कमसुराञ्जहुः 70 ।
ततः काव्योऽनुचिन्त्याथ ब्राह्मणो वचनं हितम् ।
तानुवाच ततः काव्यः पूर्वं वृत्तमनुस्मरन् 71 ।
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः ।
बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः 72 ।
महासुरा द्वादशसु संग्रामेषु सुरैर्हताः ।
तैस्तैरुपायैर्भूयिष्ठं निहता वः प्रधानतः 73 ।
किंचिच्छीष्टास्तु यूयं वै युद्धं मास्त्विति मे मतम् ।
नीतिं यां वोऽभिधास्यामि तिष्ठध्वं कालपर्ययात् 74 ।
यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम् ।
अप्रतीपांस्ततो मन्त्रान्देवात्प्राप्य महेश्वरात् ।
युध्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् 47.75 ।
ततस्ते कृतसंवादा देवानूचुस्तदासुराः ।
न्यस्तशस्त्रा वयं सर्वे निःसंनाहा रथैर्विना 76 ।
वयं तपश्चरिष्यामः संवृता वल्कलैर्वने ।
प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् 77 ।
ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते ।
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः 78 ।
ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यथ ।
निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम् 79 ।
पितुर्ममाश्रमस्था वै मां प्रतीक्षत दानवाः ।
तत्संदिश्यासुरान्काव्यो महादेवं प्रपद्यत 80 ।
शुक्र उवाच।
मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ ।
पराभवाय देवानामसुराणां जयाय च 81 ।
एवमुक्तोऽब्रवीद्देवो व्रतं त्वं चर भार्गव ।
पूर्णं वर्षसहस्रं तु कणधूममवाक्शिराः ।
यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि 82 ।
तथेति समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः ।
पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः ।
व्रतं चराम्यहं देव त्वयादिष्टोऽद्य वै प्रभो 83 ।
ततोऽनुसृष्टो देवेन कुण्डधारोऽस्य धूमकृत् ।
तदा तस्मिन्गते शुक्रे ह्यसुराणां हिताय वै ।
मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे 84 ।
तद्बुद्ध्वा नीतिपूर्वं तु राज्ये न्यस्ते तदासुरैः ।
अस्मिंश्छिद्रे तदामर्षाद्देवास्तान्समुपाद्र वन् ।
दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः 85 ।
दृष्ट्वासुरगणा देवान्प्रगृहीतायुधान्पुनः ।
उत्पेतुः सहसा ते वै संत्रस्तास्तान्वचोऽब्रुवन् 86 ।
न्यस्ते शस्त्रेऽभये दत्त आचार्ये व्रतमास्थिते ।
दत्त्वा भवन्तो ह्यभयं सम्प्राप्ता नो जिघांसया 87 ।
अनाचार्या वयं देवास्त्यक्तशस्त्रास्त्ववस्थिताः ।
चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः 88 ।
रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन ।
अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम् 89 ।
यापयामः कृच्छ्रमिदं यावदभ्येति नो गुरुः ।
निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः 90 ।
एवमुक्त्वा ततोऽन्योन्यं शरणं काव्यमातरम् ।
प्रापद्यन्त ततो भीतास्तेभ्योऽदादभयं तु सा 91 ।
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ।
मत्संनिधौ वर्ततां वो न भीर्भवितुमर्हति 92 ।
तया चाभ्युपपन्नांस्तान्दृष्ट्वा देवास्ततोऽसुरान् ।
अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् 93 ।
ततस्तान्बाध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा ।
देवी क्रुद्धाब्रवीद्देवाननिन्द्रा न्वः करोम्यहम् 94 ।
संभृत्य सर्वसम्भारानिन्द्रं साभ्यचरत्तदा ।
तस्तम्भ देवी बलवद्योगयुक्ता तपोधना 95 ।
ततस्तं स्तम्भितं दृष्ट्वा इन्द्रं देवाश्च मूकवत् ।
प्राद्रवन्त ततो भीता इन्द्रं दृष्ट्वा वशीकृतम् 96 ।
गतेषु सुरसंघेषु शक्रं विष्णुरभाषत ।
मां त्वं प्रविश भद्रं ते नयिष्ये त्वां सुरोत्तम 97 ।
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः ।
विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत् 98 ।
एषा त्वां विष्णुना सार्धं दहामि मघवन्बलात् ।
मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् 99 ।
तयाऽभिभूतौ तौ देवाविन्द्रा विष्णू बभूवतुः ।
कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत 47.100 ।
इन्द्रो ऽब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो ।
विशेषणाभिभूतोऽस्मि त्वत्तोऽहं जहि मा चिरम् 101 ।
ततः समीक्ष्य विष्णुस्तां स्त्रीवधे कृच्छ्रमास्थितः ।
अभिध्याय ततश्चक्रमापदुद्धरणे तु तत् 102 ।
ततस्तु त्वरया युक्तः शीघ्रकारी भयान्वितः ।
ज्ञात्वा विष्णुस्ततस्तस्या क्रूरं देव्याश्चिकीर्षितम् ।
क्रुद्धः स्वमस्त्रमादाय शिरश्चिच्छेद वै भिया 103 ।
तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः ।
ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा 104 ।
यस्मात्ते जानतो धर्मप्रवध्या स्त्री निषूदिता ।
तस्मात्त्वं सप्तकृत्वेह मानुषेषूपपत्सजसे 105 ।
ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः ।
लोकस्य च हितार्थाय जायते मानुयेष्विह 106 ।
अनुव्याहृत्य विष्णुं स तदादाय शिरस्त्वरन् ।
समानीय ततः कायमसौ गृह्येदमब्रवीत् 107 ।
एषा त्वं विष्पुना देवि हता संजीवयाम्यहम् ।
ततस्तां योज्य शिरसा अभिजीवेति सोऽब्रवीत् 108 ।
यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा ।
तेन सत्येन जीवस्व यदि सत्यं वदाम्यहम् 109 ।
ततस्तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ।
ततोऽभिव्याहृते तस्य देवी संजीविता तदा 110 ।
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव ।
साधु साध्विति चक्रुस्ते वचसा सर्वतोदिशम् 111 ।
एवं प्रत्याहृता तेन देवी सा भृगुणा तदा ।
मिषतां देवतानां हि तदद्भुतमिवाभवद् 112 ।
असंभ्रान्तेन भृगुणा पत्नी संजीविता पुनः ।
दृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात्पुनः ।
प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत् 113 ।
संचिन्त्य मतिमान्वाक्यं स्वां कन्यां पाकशासनः ।
एष काव्यो ह्यमित्राय व्रतं चरति दारुणम् ।
तेनाहं व्याकुलः पुत्रि कृतो मतिमता भृशम् 114 ।
गच्छ संसाधयस्वैनं श्रमापनयनैः शुभैः ।
तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता 115 ।
काव्यमाराधयस्वैनं यथा तुष्येत स द्विजः ।
गच्छ त्वं तस्य दत्ताऽसि प्रयत्नं कुरु मत्कृते 116 ।
एवमुक्ता जयन्ती सा वचः संगृह्य वै पितुः ।
अगच्छद्यत्र घोरं स तप आरभ्य तिष्ठति 117 ।
तं दृष्ट्वा तु पिबन्तं सा कणधूममवाङ्मुखम् ।
यक्षेण पात्यमानं च कुण्डधारेण पातितम् 118 ।
दृष्ट्वा च तं पात्यमानं देवी काव्यमवस्थितम् ।
स्वरूपं ध्यानशाम्यन्तं दुर्बलं भूतिमास्थितम् ।
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा 119 ।
गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी ।
गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः ।
व्रतचर्यानुकूलाभिरुवास बहुलाः समाः 120 ।
पूर्णे धूमव्रते तस्मिन्घोरे वर्षसहस्रके ।
वरेण च्छन्दयामास काव्यं प्रीतो भवस्तदा 121 ।
महादेव उवाच।
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् ।
तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च 122 ।
तेजसा च सुरान्सर्वांस्त्वमेकोऽभिभविष्यसि ।
यच्चाभिलषितं ब्रह्मन्विद्यते भृगुनन्दन 123 ।
प्रपत्स्यसे तु तत्सर्वं नानुवाच्यं तु कस्यचित् ।
सर्वाभिभावी तेन त्वं भविष्यसि द्विजोत्तम 124 ।
एतान्दत्त्वा वरांस्तस्मै भार्गवाय भवः पुनः ।
प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ 47.125 ।
एतांल्लब्ध्वा वरान्काव्यः सम्प्रहृष्टतनूरुहः ।
हर्षात्प्रादुर्बभौ तस्य दिव्यस्तोत्रं महेश्वरे ।
तथा तिर्यक्स्थितश्चैव तुष्टुवे नीललोहितम् 126 ।
शुक्र उवाच।
नमोऽस्तु शितिकण्ठाय कनिष्ठाय सुवर्चसे ।
लेलिहानाय काव्याय वत्सरायान्धसः पते 127 ।
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।
संस्तुताय सुतीर्थाय देवदेवाय रंहसे 128 ।
उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे ।
वसुरेताय रुद्राय तपसे चित्रवाससे 129 ।
ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ।
कवये राजवृक्षाय तक्षकक्रीडनाय च 130 ।
सहस्रशिरसे चैव सहस्राक्षाय मीधुषे ।
वराय भव्यरूपाय श्वेताय पुरुषाय च 131 ।
गिरिशाय नमोऽर्काय बलिने आज्यपाय च ।
सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च 132 ।
निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च ।
ताम्राय चैव भीमाय उग्राय च शिवाय च 133 ।
महादेवाय शर्वाय विश्वरूपशिवाय च ।
हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च 134 ।
वास्तोष्पते पिनाकाय मुक्तये केवलाय च ।
मृगव्याधाय दक्षाय स्थाणवे भीषणाय च 135 ।
बहुनेत्राय धुर्याय त्रिनेत्रायेश्वराय च ।
कपालिने च वीराय मृत्यवे त्र्यम्बकाय च 136 ।
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ।
पिनाकिने चेषुमते चित्राय रोहिताय च 137 ।
दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च ।
आरण्याय गृहस्थाय यतये ब्रह्मचारिणे 138 ।
सांख्याय चैव योगाय व्यापिने दीक्षिताय च ।
अनाहताय शर्वाय भव्येशाय यमाय च 139 ।
रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये ।
चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च 140 ।
शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे ।
भास्वराय प्रतीताय सुदीप्ताय सुमेधसे 141 ।
क्रूरायाविकृतायैव भीषणाय शिवाय च ।
सौम्याय चैव मुख्याय धार्मिकाय शुभाय च 142 ।
अवध्यायामृतायैव नित्याय शाश्वताय च ।
व्यापृताय विशिष्टाय भरताय च साक्षिणे 143 ।
क्षेमाय सहमानाय सत्याय चामृताय च ।
कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे 144 ।
सोमपायाज्यपायैव धूमपायोष्मपाय च ।
शुचये परिधानाय सद्योजाताय मृत्यवे 145 ।
पिशिताशाय सर्वाय मेघाय विद्युताय च ।
व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे 146 ।
त्रिपुरघ्नाय तीर्थायावक्राय रोमशाय च ।
तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये 147 ।
रोचमानाय चण्डाय स्फीताय ऋषभाय च ।
व्रतिने युञ्जमानाय शुचये चोर्ध्वरेतसे 148 ।
असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च ।
कृशानवे प्रचेताय वह्नये निर्मलाय च 149 ।
रक्षोघ्नाय पशुघ्नायाविघ्नाय श्वसिताय च ।
विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च 47.150 ।
कृष्णाय च जयन्ताय लोकानामीश्वराय च ।
अनाश्रिताय वेध्याय समत्वाधिष्ठिताय च 151 ।
हिरण्यबाहवे चैव व्याप्ताय च महाय च ।
सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे 152 ।
क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च ।
कपिलाय पिशङ्गाय महादेवाय धीमते 153 ।
महाकायाय दीप्ताय रोदनाय सहाय च ।
दृढधन्विने कवचिने रथिने च वरूथिने 154 ।
भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे ।
अमोघाय प्रशान्ताय सुमेधाय वृषाय च 155 ।
नमोऽस्तु तुभ्यं भगवन्विश्वाय कृत्तिवाससे ।
पशूनां पतये तुभ्यं भूतानां पतये नमः 156 ।
प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च ।
वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः 157 ।
त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुःश्रोत्रमयाय च ।
भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः 158 ।
वसवे चैव साध्याय रुद्रा दित्यसुराय च ।
विषाय मारुतायैव तुभ्यं देवात्मने नमः 159 ।
अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च ।
स्वयम्भुवे ह्यजायैव अपूर्वप्रथमाय च ।
प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः 160 ।
आत्मेशायात्मवश्याय सर्वेशातिशयाय च ।
सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः 161 ।
निर्गुणाय गुणज्ञाय व्याकृतायामृताय च ।
निरुपाख्याय मित्राय तुभ्यं सांख्यात्मने नमः 162 ।
पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च ।
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः 163 ।
अव्यक्ताय च महते भूतादेरिन्द्रि याय च ।
आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः 164 ।
नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च ।
बुद्धाय विभवे चैव तुभ्यं मोक्षात्मने नमः 165 ।
नमस्ते त्रिषु लोकेषु नमस्ते परतस्!त्रिषु ।
सत्यान्तेषु महाद्येषु चतुर्षु च नमोऽस्तु ते 166 ।
नमः स्तोत्रे मया ह्यस्मिन्यदि न व्याहृतं भवेत् ।
मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि 167 ।
सूत उवाच।
एवमाभाष्य देवेशम् ईश्वरं नीललोहितम् ।
प्रह्वोऽभिप्रणतस्तस्मै प्राञ्जलिर्वाग्यतोऽभवत् 168 ।
काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः ।
निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत 169 ।
ततः सोऽन्तर्हिते तस्मिन्देवेशेऽनुचरीं तदा ।
तिष्ठन्तीं पार्श्वतो दृष्ट्वा जयन्तीमिदमब्रवीत् 170 ।
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता ।
महता तपसा युक्ता किमर्थं मां निषेवसे 171 ।
अनया संस्तुतो भक्त्या प्रश्रयेण दमेन च ।
स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि 172 ।
किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् ।
तत्ते सम्पादयाम्यद्य यद्यपि स्यात्सुदुष्करः 173 ।
एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि ।
चिकीर्षितं हि मे ब्रह्मंस्त्वं हि वेत्थ यथातथम् 174 ।
एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा ।
मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि 47.175 ।
सर्वभूतैरदृश्या च संप्रयोगमिहेच्छसि ।
देवि चेन्दीवरश्यामे वरार्हे वामलोचने ।
एवं वृणोषि कामं त्वं मत्तो वै वल्गुभाषिणि 176 ।
एवं भवतु गच्छामो गृहान्नो मत्तकाशिनि ।
ततः स्वगृहमागत्य जयन्त्याः पाणिमुद्वहन् 177 ।
तया सहावसद्देव्या दश वर्षाणि भार्गवः ।
अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः 178 ।
कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः ।
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः 179 ।
यदा गता न पश्यन्ति मायया संवृतं गुरुम् ।
लक्षणं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् 180 ।
बृहस्पतिस्तु संरुद्धं काव्यं ज्ञात्वा वरेण तु ।
तुष्ट्यर्थं दश वर्षाणि जयन्त्या हितकाम्यया 181 ।
बुद्ध्वा तदन्तरं सोऽपि दैत्यानामिन्द्र नोदितः ।
काव्यस्य रूपमास्थाय असुरान्समुपाह्वयत् 182 ।
ततस्तानागतान्दृष्ट्वा बृहस्पतिरुवाच ह ।
स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय च 183 ।
अहं वोऽध्यापयिष्यामि विद्याः प्राप्तास्तु या मया ।
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे 184 ।
पूर्णे काव्यस्तदा तस्मिन्समये दशवार्षिके ।
समयान्ते देवयानी तदोत्पन्ना इति श्रुतिः ।
बुद्धिं चक्रे ततः सोऽथ याज्यानां प्रत्यवेक्षणे 185 ।
देवि गच्छाम्यहं द्र ष्टुं मम याज्याञ्शुचिस्मिते ।
विभ्रान्तवीक्षिते साध्वि त्रिवर्णायतलोचने 186 ।
एवमुक्ताब्रवीदेनं भज भक्तान्महाव्रत ।
एष धर्मः सतां ब्रह्मन्न धर्मं लोपयामि ते 187 ।
ततो गत्वासुरान्दृष्ट्वा देवाचार्येण धीमता ।
वञ्चितान्काव्यरूपेण ततः काव्योऽब्रवीत्तु तान् 188 ।
काव्यं मां वो विजानीध्वं तोषितो गिरिशो विभुः ।
वञ्चिता बत यूयं वै सर्वे शृणुत दानवाः 189 ।
श्रुत्वा तथा ब्रुवाणं तं संभ्रान्तास्ते तदाभवन् ।
प्रेक्षन्तस्तावुभौ तत्र स्थितासीनौ सुविस्मिताः 190 ।
सम्प्रमूढास्ततः सर्वे न प्राबुध्यन्त किंचन ।
अब्रवीत्सम्प्रमूढेषु काव्यस्तानसुरांस्तदा 191 ।
आचार्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः ।
अनुगच्छत मां दैत्यास्त्यजतैनं बृहस्पतिम् 192 ।
इत्युक्ता ह्यसुरास्तेन तावुभौ समवेक्ष्य च ।
यदासुरा विशेषं तु न जानन्त्युभयोस्तयोः 193 ।
बृहस्पतिरुवाचैनानसम्भ्रान्तस्तपोधनः ।
काव्यो वोऽहं गुरुर्दैत्या मद्रू पोऽयं बृहस्पतिः 194 ।
संमोहयति रूपेण मामकेनैष वोऽसुराः ।
श्रुत्वा तस्य ततस्ते वै समेत्य तु ततोऽब्रुवन् 195 ।
अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः ।
एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः 196 ।
ततस्ते दानवाः सर्वे प्रणिपत्याभिनन्द्य च ।
वचनं जगृहुस्तस्य चिराभ्यासे न मोहिताः 197 ।
ऊचुस्तमसुराः सर्वे क्रोधसंरक्तलोचनाः ।
अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः 198 ।
भार्गवो वाङ्गिरा वापि भगवानेष नो गुरुः ।
स्थिता वयं निदेशेऽस्य साधु त्वं गच्छ माचिरम् 199 ।
एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम् ।
यदा न प्रत्यपद्यन्त काव्येनोक्तं महद्धितम् 47.200 ।
चुकोप भार्गवस्तेषामवलेपेन तेन तु ।
बोधिता हि मया यस्मान्न मां भजथ दानवाः 201 ।
तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ ।
इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् 202 ।
शप्तांस्तानसुराञ्ज्ञात्वा काव्येन स बृहस्पतिः ।
कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत 203 ।
बुद्ध्यासुरान्हताञ्ज्ञात्वा कृतार्थोऽन्तरधीयत ।
ततः प्रनष्टे तस्मिंस्तु विभ्रान्ता दानवाभवन् 204 ।
अहो विवञ्चिताः स्मेति परस्परमथाब्रुवन् ।
पृष्ठतोऽभिमुखाश्चैव ताडिताङ्गिरसेन तु 205 ।
वञ्चिताः सोपधानेन स्वे स्वे वस्तुनि मायया ।
ततस्त्वपरितुष्टास्ते तमेव त्वरिता ययुः ।
प्रह्लादमग्रतः कृत्वा काव्यस्यानुपदं पुनः 206 ।
ततः काव्यं समासाद्य उपतस्थुरवाङ्मुखाः ।
समागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह 207 ।
मया संबोधिताः सर्वे यस्मान्मा नाभिनन्दथ ।
ततस्तेनावमानेन गता यूयं पराभवम् 208 ।
एवं ब्रुवाणं शुक्रं तु बाष्पसंदिग्धया गिरा ।
प्रह्लादस्तं तदोवाच मा नस्त्वं त्यज भार्गव 209 ।
स्वाश्रयान्भजमानांश्च भक्तांस्त्वं भज भार्गव ।
त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः ।
भक्तानर्हसि वै ज्ञातुं तपोदीर्घेण चक्षुषा 210 ।
यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन ।
अपध्यातास्त्वया ह्यद्य प्रविशामो रसातलम् 211 ।
ज्ञात्वा काव्यो यथातत्त्वं कारुण्यादनुकम्पया ।
एवं प्रत्यनुनीतो वै ततः कोपं नियम्य सः ।
उवाचैतान्न भेतव्यं न गन्तव्यं रसातलम् 212 ।
अवश्यं भाविनो ह्यर्थाः प्राप्तव्या मयि जाग्रति ।
न शक्यमन्यथा कर्तुं दिष्टं हि बलवत्तरम् 213 ।
संज्ञा प्रनष्टा या वोऽद्य तामेतां प्रतिपत्स्यथ ।
देवाञ्जित्वा सकृच्चापि पातालं प्रतिपत्स्यथ 214 ।
प्राप्ते पर्यायकाले च हीति ब्रह्माभ्यभाषत ।
मत्प्रसादाच्च त्रैलोक्यं भुक्तं युष्माभिरूर्जितम् 215 ।
युगाख्या दश सम्पूर्णा देवानाक्रम्य मूर्धनि ।
एतावन्तं च कालं वै ब्रह्मा राज्यमभाषत 216 ।
राज्यं सावर्णिके तुभ्यं पुनः किल भविष्यति ।
लोकानामीश्वरो भाव्यस्तव पौत्रः पुनर्बलिः 217 ।
एवं किल मिथः प्रोक्तः पौत्रस्ते विष्णुना स्वयम् ।
वाचा हृतेषु लोकेषु तास्तास्तस्याभवन्किल 218 ।
यस्मात्प्रवृत्तयश्चास्य संकाशादभिसंधिताः ।
तस्माद्वृत्तेन प्रीतेन तुभ्यं दत्तं स्वयम्भुवा 219 ।
देवराज्ये बलिर्भाव्य इति मामीश्वरोऽब्रवीत् ।
तस्माददृश्यो भूतानां कालापेक्षः स तिष्ठति 220 ।
प्रीतेन चापरो दत्तो वरस्तुभ्यं स्वयम्भुवा ।
तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहितोऽसुरैः 221 ।
न हि शक्यं मया तुभ्यं पुरस्ताद्विप्रभाषितुम् ।
ब्रह्मणा प्रतिषिद्धोऽहं भविष्यं जानता विभो 222 ।
इमौ च शिष्यौ द्वौ मह्यं समावेतौ बृहस्पतेः ।
दैवतैः सह संसृष्टान्सर्वान्वो धारयिष्यतः 223 ।
इत्युक्ता ह्यसुराः सर्वे काव्येनाक्लिष्टकर्मणा ।
हृष्टास्तेन ययुः सार्धं प्रह्लादेन महात्मना 224 ।
अवश्यं भाव्यमर्थं तु श्रुत्वा शुक्रेण भाषितम् ।
सकृदाशंसमानास्तु जयं शुक्रेण भाषितम् ।
दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् 47.225 ।
देवास्तदासुरान्दृष्ट्वा संग्रामे समुपस्थितान् ।
सर्वे संभृतसम्भारा देवास्तान्समयोधयन् 226 ।
देवासुरे तदा तस्मिन्वर्तमाने शतं समाः ।
अजयन्नसुरा देवांस्ततो देवा ह्यमन्त्रयन् 227 ।
यज्ञेनोपाह्वयामस्तौ ततो जेष्यामहेऽसुरान् ।
तदोपामन्त्रयन्देवाः शण्डामर्कौ तु तावुभौ 228 ।
यज्ञे चाहूय तौ प्रोक्तौ त्यजेतामसुरान्द्विजौ ।
वयं युवां भजिष्यामः सह जित्वा तु दानवान् 229 ।
एवं कृताभिसंधी तौ शण्डामर्कौ सुरास्तथा ।
ततो देवा जयं प्रापुर्दानवाश्च पराजिताः 230 ।
शण्डामर्कपरित्यक्ता दानवा ह्यबलास्तथा ।
एवं दैत्याः पुरा काव्यशापेनाभिहतास्तदा 231 ।
काव्यशापाभिभूतास्ते निराधाराश्च सर्वशः ।
निरस्यमाना देवैश्च विविशुस्ते रसातलम् 232 ।
एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः ।
ततः प्रभृति शापेन भृगोर्नैमित्तिकेन तु 233 ।
जज्ञे पुनः पुनर्विष्णुर्धर्मे प्रशिथिले प्रभुः ।
कुर्वन्धर्मव्यवस्थानमसुराणां प्रणाशनम् 234 ।
प्रह्लादस्य निदेशे तु न स्थास्यन्त्यसुराश्च ये ।
मनुष्यवध्यास्ते सर्वे ब्रह्मेति व्याहरत्प्रभुः 235 ।
धर्मान्नारायणस्यांशः सम्भूतश्चाक्षुषेऽन्तरे ।
यज्ञं वै वर्तयामासुर्देवा वैवस्वतेऽन्तरे 236 ।
प्रादुर्भावे ततस्तस्य ब्रह्मा ह्यासीत्पुरोहितः ।
युगाख्यायां चतुर्थ्यां तु आपन्नेषु सुरेषु वै 237 ।
सम्भूतस्तु समुद्रा न्ते हिरण्यकशिपोर्वधे ।
द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत्पुरोहितः 238 ।
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति ।
तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा 239 ।
एतास्!तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः ।
मानुषाः सप्त यान्यास्तु शापजास्ता निबोधत 240 ।
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह ।
नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः 241 ।
पञ्चमः पञ्चदश्यां च त्रेतायां संबभूव ह ।
मान्धाता चक्रवर्ती तु तदोत्तङ्कपुरःसरे 242 ।
एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः ।
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः 243 ।
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ।
सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः 244 ।
अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात् ।
वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः 245 ।
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ।
बुद्धो नवमको जज्ञे तपसा पुष्करेक्षणः ।
देवसुन्दररूपेण द्वैपायनपुरःसरः 246 ।
तस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति ।
कल्की तु विष्णुयशसः पाराशर्यपुरःसरः 247 ।
दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः ।
सर्वांश्च भूतांस्!तिमितान्पाषण्डांश्चैव सर्वशः 248 ।
प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः 249 ।
निःशेषाञ्छूद्र राज्ञस्तु तदा स तु करिष्यति ।
ब्रह्मद्विषः सपत्नांस्तु संहृत्यैव च तद्वपुः 47.250 ।
पञ्चविंशे स्थितः कल्किश्चरितार्थः ससैनिकः ।
शूद्रा न्संशोधयित्वा तु समुद्रा न्तं च वै स्वयम् 251 ।
प्रवृत्तचक्रो बलवान्संहारं तु करिष्यति ।
उत्सादयित्वा वृषलान्प्रायशस्तानधार्मिकान् 252 ।
ततस्तदा स वै कल्किश्चरितार्थः ससैनिकः ।
प्रजास्तं साधयित्वा तु समृद्धास्तेन वै स्वयम् 253 ।
अकस्मात्कोपितान्योन्यं भविष्यन्तीह मोहिताः ।
क्षपयित्वा तु तेऽन्योन्यं भाविनार्थेन चोदिताः 254 ।
ततः काले व्यतीते तु स देवोऽन्तरधीयत ।
नृपेष्वथ प्रनष्टेषु प्रजानां संग्रहात्तदा 255 ।
रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ।
परस्परं च हत्वा तु निराक्रन्दाः सुदुःखिताः 256 ।
पुराणि हित्वा ग्रामांश्च तुल्यत्वे निष्परिग्रहाः ।
प्रनष्टाश्रमधर्माश्च नष्टवर्णाश्रमास्तथा 257 ।
अट्टशूला नानपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये 258 ।
ह्रस्वदेहायुषश्चैव भविष्यन्ति वनौकसः ।
सरित्पर्वतवासिन्यो मूलपत्त्रफलाशनाः 259 ।
चीरचर्माजिनधराः संकरं घोरमाश्रिताः ।
उत्पातदुःखाः स्वल्पार्था बहुबाधाश्च ताः प्रजाः 260 ।
एवं कष्टमनुप्राप्ताः काले संध्यंशके तदा ।
ततः क्षयं गमिष्यन्ति सार्धं कलियुगेन तु 261 ।
क्षीणे कलियुगे तस्मिंस्ततः कृतमवर्तत ।
इत्येतत्कीर्तितं सम्यग्देवासुरविचेष्टितम् 262 ।
यदुवंशप्रसङ्गेन समासाद्वैष्णवं यशः ।
तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योस्तथा ह्यनोः 263 ।
इति श्रीमात्स्ये महापुराणेऽसुरशापो नाम सप्तचत्वारिंशोऽध्यायः 47।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें