मंगलवार, 7 अप्रैल 2026

गायत्री के माता पिता गोविला और गोविल-

यहाँ लक्ष्मीनारायणसंहिता (खण्ड १, अध्याय ५०९) के वे विशिष्ट श्लोक दिए गए हैं जो आपने प्रस्तुत किए थे:

​श्रीनारायण उवाच-

शृणु लक्ष्म्यैकदा सत्ये ब्रह्माणं प्रति नारदः ।दर्शनार्थं ययौ भ्रान्त्वा लोकत्रयं ननाम तम् ।। १ ।।

​ब्रह्मा पप्रच्छ च कुतः पुत्र आगम्यते, वद ।      नारदः प्राह मर्त्यानां मण्डलानि विलोक्य च ।२ ।।

​तव पूजाविधानाय विज्ञापयितुं हृद्गतम् ।समागतोऽस्मि च पितः श्रुत्वा कुरु यथोचितम् ।। ३ ।।

​दैत्यानां हि बलं लोके सर्वत्राऽस्ति प्रवर्तितम् ।यज्ञाश्च सत्यधर्माश्च सत्कर्माणि च सर्वथा ।। ४ ।।

​प्रसह्य तैर्विनाश्यन्ते देवा भक्ताश्च दुःखिनः ।तस्माद् यथेष्टं भगवन् कल्याणं कर्तुमर्हसि ।। ५ ।।

​इत्येवं विनिवेद्यैव नत्वा सम्पूज्य संययौ ।ब्रह्मा वै चिन्तयामास यज्ञार्थं शुभभूतलम् ।। ६ ।।​

निर्विघ्नं तत्स्थलं क्वास्तीत्याज्ञातुं पद्मपुष्पकम् ।करस्थं स समुवाच पत स्थले तु पावने ।। ७ ।।​

ततश्चिक्षेप पुष्पं तद् भ्रान्त्वा लोकान् समन्ततः ।हाटकेश्वरजे क्षेत्रे सम्पपात सुपावने ।। ८ ।।​

एतस्मिन्नन्तरे प्राप्तः पश्चात् तस्य पितामहः ।क्षेत्रं दृष्ट्वा प्रसन्नोऽभूद् यज्ञार्थं प्रपितामहः ।। ९ ।।

​आदिदेश ततो वायुं समानय पुरन्दरम् ।आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः ।। १० ।।

​गन्धर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा ।ये च मे स्युः सहायास्तैः समस्ते यज्ञकर्मणि ।। ११ ।।

​वायुश्चेन्द्रं देवगणैर्युतं समानिनाय च ।ब्रह्मा प्राह महेन्द्रं च वैशाख्यामग्निष्टोमकम् ।। १२ ।।

​यज्ञं कर्तुं समीहेऽत्र सम्भारानाहरस्व वै ।ब्राह्मणाँश्च तदर्हान् वै योग्योपस्कारकाँस्तथा ।। १३ ।।

​इन्द्रस्तानानयामास संभाराँश्च द्विजोत्तमान् ।आरेभे च ततो यज्ञं विधिवत् प्रपितामहः ।। १४ ।।

​शंभुर्देवगणैः सार्ध तत्र यज्ञे समागतः ।देवान् ब्रह्मा समुवाच स्वस्वस्थानेषु तिष्ठत ।। १५ ।।

​विश्वकर्मन् कुरु यज्ञमण्डपं यज्ञवेदिकाः ।पत्नीशालाः सदश्चापि कुण्डान्यावश्यकानि च ।। १६ ।।

​यज्ञपात्राणि च गृहान् चमसाँश्च चषालकान् ।यूपान् शयनगर्तांश्च स्थण्डिलानि प्रकारय ।। १७ ।।

​हिरण्मयं सुपुरुषं कारय त्वं सुरूपिणाम् ।बृहस्पते त्वमानीहि यज्ञार्हानृत्विजोऽखिलान् ।। १८ ।।

​यावत् षोडशसंख्याकान् शुश्रूषां कुरु देवराड् ।कुबेर च त्वया देया दक्षिणा कालसंभवा ।। १९ ।।

​त्वया विधे विधौ कार्यं कृत्याऽकृत्यपरीक्षणम् ।लोकपालाः प्ररक्षन्तु त्वैन्द्र्यादिका दिशस्तथा ।। २० ।।

​भूतप्रेतपिशाचानां प्रवेशो दैत्यरक्षसाम् ।मा भूदित्यथ यज्ञेन दीयतां दानमुत्तमम् ।। २१ ।।

​आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।भवन्तु परिवेष्टारो भोक्तुकामजनस्य तु ।। २२ ।।​

यज्ञार्हा ब्राह्मणा वृत्तास्तिष्ठन्तु यज्ञमण्डपे ।मैत्रावरुणश्च्यवनोऽथर्वाको गालवस्तथा ।। २३ ।।

​मरीचिर्मार्कवश्चैते सर्वकर्मविशारदाः ।प्रस्थानकर्ता चाध्वर्युः पुलस्त्यस्तत्र तिष्ठतु ।। २४ ।।

​रैभ्यो मुनिस्तथोन्नेता तिष्ठतु यज्ञमण्डपे ।ब्रह्मा भवतु नारदो गर्गोऽस्तु सत्रवीक्षकः ।। २५ ।।

​होतारोऽग्नीध्रभरद्वाजपराशरास्त्रयः ।बृहस्पतिस्तथाऽऽचार्य उद्गाता गोभिलो मुनिः ।। २६ ।।

​शाण्डिल्यः प्रतिहर्ता च सुब्रह्मण्यस्तथाऽङ्गिराः ।अस्य यज्ञस्य सिद्ध्यर्थं सन्त्वृत्विजस्तु षोडश ।। २७ ।।

​ब्रह्मा तान् पूजयामास दीक्षितस्तैस्तु विश्वसृट् ।यजमानोऽभवद् यज्ञकार्यं ततः प्रवर्तितम् ।। २८।।

​ब्रह्मा च नारदं प्राह सावित्रीं क्षिप्रमानय ।वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः ।। २९ ।।

​गन्धर्वैर्वाद्यसंयुक्तैरुच्चारणपरैर्द्विजैः ।अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत् ।। ३० ।।

​पत्नीपत्नीतिविप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थितः ।ब्रह्मा पुनर्नारदं संज्ञया करस्य वै द्रुतम् ।। ३१ ।।

​गृहं सम्प्रेषयामास पत्नी चानीयतामिति ।सोऽपि गत्वाऽऽह सावित्रीं पित्रा सम्प्रेषितोऽस्म्यहम् ।। ३२ ।।

​आगच्छ मण्डपं देवि यज्ञकार्यं प्रवर्तते ।परमेकाकिनी कीदृग्रूपा सदसि दृश्यसे ।। ३३ ।।

​आनीयन्तां ततो देव्यस्ताभिर्वृत्ता प्रयास्यसि ।इत्युक्त्वा प्रययौ यज्ञे नारदोऽजमुवाच ह ।। ३४ ।।

​देवीभिः सह सावित्री समायास्यति सुक्षणम् ।पुनस्तं प्रेषयामास ब्रह्माऽथ नारदो ययौ ।। ३५ ।।

​मातः शीघ्रं समायाहि देवीभिः परिवारिता ।सावित्र्यपि तदा प्राह यामि केशान् प्रसाध्य वै ।। ३६ ।।

​नारदोऽजं प्राह केशान् प्रसाध्याऽऽयाति वै ततः ।सोमपानमुहूर्तस्याऽवशेषे सत्वरं तदा ।। ३७ ।।

​पुलस्त्यश्च ययौ तत्र सावित्री त्वेकलाऽस्ति हि ।किं देवि सालसा भासि गच्छ शीघ्रं क्रतोः स्थलम् ।। ३८ ।।

​सावित्र्युवाच तं ब्रूहि मुहूर्तं परिपाल्यताम् ।यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथाऽपराः ।। ३९ ।।

​देवकन्याः समाजेऽत्र ताभिरेष्यामि संहिता ।सोऽपि गत्वा द्रुतं प्राह सोमभाराऽर्दितं विधिम् ।। ४० ।।

​सा मां प्राह च देवीभिः सहिताऽऽयामि वै मखे ।अहं यास्यामि सहिता न त्वेकला कथंचन ।। ४१ ।।

​एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते ।अतिक्रामति कालश्च यज्ञपानक्षणात्मकः ।। ४२ ।।

​श्रुत्वा ब्रह्मा महेन्द्रं च प्राह सा शिथिलात्मिका ।नाऽऽयात्येवाऽन्यया पत्न्या यज्ञः कार्यो भवत्विति ।। ४३ ।।

​ब्रह्माज्ञया भ्रममाणां कन्यां कांचित् सुरेश्वरः ।चन्द्रास्यां गोपजां तन्वीं कलशव्यग्रमस्तकाम् ।। ४४ ।।

​युवतीं सुकुमारीं च पप्रच्छ काऽसि कन्यके ।गोपकन्येति सा प्राह तक्रं विक्रेतुमागता ।। ४५ ।।

​परिगृह्णासि चेत् तक्रं देहि मूल्यं द्रुतं मम ।इन्द्रो जग्राह तां तक्रसहितां गोपकन्यकाम् ।। ४६ ।।

​गोर्वक्त्रेणाऽऽवेशयित्वा मूत्रेणाऽऽकर्षयत् ततः ।एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः ।। ४७ ।।

​सुवाससी धारयित्वा नीत्वा धृत्वाऽजसन्निधौ ।आनीतेयं त्वदर्थं वै ब्रह्मन् सर्वगुणान्विता ।। ४८ ।।

​गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ।एकत्र मन्त्रस्तिष्ठन्ति हविरेकत्र तिष्ठति ।। ४९ ।।

​गोरुदराद् विनिष्क्रान्ता प्रापितेयं द्विजन्मताम् ।पाणिग्रहं कुरुष्वास्या यज्ञपानं समाचर ।। ५० ।।

​रुद्रः प्राह च गोयन्त्रनिष्क्रान्तेयं ततः खलु ।गायत्रीनामपत्नी ते भवत्वत्र मखे सदा ।। ५१ ।।

​ब्राह्मणास्तु तदा प्राहुरेषाऽस्तु ब्राह्मणीवरा ।गोपजातिवर्जितायास्त्वं पाणिग्रहणं कुरु ।। ५२ ।।​

ब्रह्मा पाणिग्रहं चक्रे समारेभे शुभक्रियाम् ।गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा ।। ५३ ।।

​वाद्यमानेषु वाद्येषु सम्प्राप्ता यज्ञमण्डपम् ।विधिश्चक्रे स्वकेशानां क्षौरकर्म ततः परम् ।। ५४ ।।

​विश्वकर्मा तु गायत्रीनखच्छेदं चकार ह ।औदुम्बरं ततो दण्डं पौलस्त्यो ब्रह्मणे ददौ ।। ५५ ।।

​एणशृंगान्वितं चर्म समन्त्रं प्रददौ तथा ।पत्नीं शालां गृहीत्वा च गायत्रीं मौनधारिणीम् ।। ५६ ।।

​मेखलां निदधे त्वन्यां कट्यां मौञ्जीमयीं शुभाम् ।ततो ब्रह्मा च ऋत्विग्भिः सह चक्रे क्रतुक्रियाम् ।। ५७ ।।

​कर्मणि जायमाने च तत्राऽऽश्चर्यमभून्महत् ।जाल्मरूपधरः कश्चिद् दिग्वासा विकृताननः ।। ५८ ।।

​कपालपाणिरायातो भोजनं दीयतामिति ।निषिध्यमानोऽपि विप्रैः प्रविष्टो यज्ञमण्डपम् ।। ५९ ।।

​सदस्यास्तु तिरश्चक्रुः कस्त्वं पापः समागतः ।कपाली नग्नरूपश्चाऽपवित्रखर्परान्वितः ।। ६० ।।

​यज्ञभूमिरशुद्धा स्याद् गच्छ शीघ्रमितो बहिः ।जाल्मः प्राह कथं चास्मि ह्यशुद्धो भिक्षुको व्रती ।। ६१ ।।

​ब्रह्मयज्ञमिमं ज्ञात्वा शुद्धः स्नात्वा समागतः ।गोपालकन्या नित्यं या शूद्री त्वशुद्धजातिका ।। ६२ ।।

​स्थापिताऽत्र नु सा शुद्धा विप्रोऽहं पावनो न किम् ।तावत् तत्र समायातो ब्राह्मणो वृद्धरूपवान् ।।६३।।

​श्रीकृष्णो वै तमुवाच प्रत्युत्तरं शृणु प्रिये ।जाल्म नैषाऽस्ति शूद्राणी ब्राह्मणी जातितोऽस्ति वै ।।६४।।

​शृणु जानामि तद्वृत्तं नान्ये जानन्त्यतद्विदः ।पुरा सृष्टे समारम्भे श्रीकृष्णेन परात्मना ।।६५ ।।

​स्वांशरूपा हि सावित्री स्वमूर्तेः प्रकटीकृता ।अथ द्वितीया कन्या च पतिव्रताऽभिधा कृता ।। ६६।।

​कुमारश्च कृतः पत्नीव्रताख्यो ब्राह्मणस्ततः ।ब्रह्मा वैराजदेहाच्च कृतस्तस्मै समर्पिता ।। ६७ ।।

​सावित्री श्रीहरिणैव गोलोके एव सन्निधौ । अथ यज्ञप्रवाहार्थं ब्रह्मा यज्ञं करिष्यति ।।६८।।

​पृथिव्यां मर्त्यरूपेण तत्र मानुषविग्रहा ।पत्नी यज्ञस्य कार्यार्थमपेक्षिता भविष्यति ।। ६९ ।।

​हेतुनाऽनेन कृष्णेन सावित्र्याज्ञापिता तदा ।द्वितीयेन स्वरूपेण त्वया गन्तव्यमेव ह ।।७०।।

​प्रागेव भूतले कन्यारूपेण ब्रह्मणः कृते ।सावित्री श्रीकृष्णमाह कौ तत्र पितरौ मम ।। ७१।।

​श्रीकृष्णस्तां तदा सन्दर्शयामास शुभौ तु तौ ।इमौ पत्नीव्रतो विप्रो विप्राणी च पतिव्रता ।। ७२।।

​मदंशौ मत्स्वरूपौ चाऽयोनिजौ दिव्यविग्रहौ ।पृथ्व्यां कुंकुमवाप्यां वै क्षेत्रेऽश्वपट्टसारसे ।। ७३ ।।

​सृष्ट्यारंभे विप्ररूपौ वर्तिष्येतेऽतिपावनौ ।वैश्वदेवादियज्ञादिहव्याद्यर्थं गवान्वितौ ।। ७४।।

​सौराष्ट्रे च यदा ब्रह्मा यज्ञार्थं संगमिष्यति ।तत्पूर्वं तौ गोभिलश्च गोभिला चेति संज्ञिता ।। ७५ ।।

​गवा प्रपालकौ भूत्वाऽऽनर्तदेशे गमिष्यतः ।यत्राऽऽभीरा निवसन्ति तत्समौ वेषकर्मभिः।। ७६ ।।

​दैत्यकृतार्दनं तेन प्रच्छन्नयोर्न वै भवेत् ।इति हेतुर्यज्ञपूर्वं दैत्यक्लेशभिया तु तौ ।। ७७ ।।

​श्रीहरेराज्ञयाऽऽनर्ते जातावाभीररूपिणौ ।गवां वै पालकौ विप्रौ पितरौ च त्वया हि तौ ।।७८।।

​कर्तव्यौ गोपवेषौ वै वस्तुतो ब्राह्मणावुभौ ।मदंशौ तत्र सावित्रि! त्वया द्वितीयरूपतः ।। ७९ ।।

​अयोनिजतया पुत्र्या भाव्यं वै दिव्ययोषिता ।दधिदुग्धादिविक्रेत्र्या गन्तव्यं तत्स्थले तदा ।। ८० ।।

​यदा यज्ञो भवेत् तत्र तदा स्मृत्वा सुयोगतः ।मानुष्या तु त्वया नूत्नवध्वा क्रतुं करिष्यति ।। ८१ ।।

​सहभावं गतो ब्रह्मा गायत्री त्वं भविष्यसि ।ब्राह्मणयोः सुता गूढा गोपमध्यनिवासिनोः ।। ८२ ।।

​ब्रह्माणी च ततो भूत्वा सत्यलोकं गमिष्यसि ।ब्राह्मणास्त्वां जपिष्यन्ति मर्त्यलोकगतास्ततः ।। ८३ ।।

​इत्येवं जायमानैषा गायत्री ब्राह्मणी सुता ।वर्तते गोपवेषीया नाऽशुद्धा जातितो हि सा ।। ८४ ।।

​एवं प्रत्युत्तरितः स जाल्मः कृष्णेन वै तदा ।तावत् तत्र समायातौ गोभिलागोभिलौ मुदा ।। ८५ ।।

***********************************

​अस्मत्पुत्र्या महद्भाग्यं ब्रह्मणा या विवाहिता ।आवयोस्तु महद्भाग्यं दैत्यकष्टं निवार्यते ।। ८६ ।।

​यज्ञद्वारेण देवानां ब्राह्मणानां सतां तथा ।इत्युक्त्वा तौ गोपवेषौ त्यक्त्वा ब्राह्मणरूपिणौ ।। ८७ ।।

​पितामहौ हि विप्राणां परिचितौ महात्मनाम् ।सर्वेषां पूर्वजौ तत्र जातौ दिव्यौ च भूसुरौ ।। ८८ ।।

​ब्रह्माद्याश्च तदा नेमुश्चक्रुः सत्कारमादरात् ।यज्ञे च स्थापयामासुः सर्वं हृष्टाः सुरादयः ।। ८९ ।।

​ब्रह्माणं मालया कुंकुमाक्षतैः कुसुमादिभिः ।वर्धयित्वा सुतां तत्र ददतुर्यज्ञमण्डपे ।। ९० ।।

​वृद्धो वै ब्राह्मणस्तत्र कृष्णरूपं दधार ह ।सर्वैश्च वन्दितः साधु साध्वित्याहुः सुरादयः ।। ९१ ।।

​जाल्मः कृष्णं हरिं दृष्ट्वा गायत्रीपितरौ तथा ।दृष्ट्वा ननाम भावेन प्राह भिक्षां प्रदेहि मे ।। ९२ ।।​

बुभुक्षितोऽस्मि विप्रेन्द्रा गर्हयन्तु न मां द्विजाः ।दीनान्धैः कृपणैः सर्वैस्तर्पितैरिष्टिरुच्यते ।। ९३ ।।​

अन्यथा स्याद्विनाशाय क्रतुर्युष्मत्कृतोऽपयम् ।अन्नहीनो दहेद् राष्ट्रं मन्त्रहीनस्तु ऋत्विजः ।। ९४।।

​याज्ञिकं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ।श्रीकृष्णश्च तदा प्राह जाल्मे ददतु भोजनम् ।। ९५ ।।

​विप्राः प्राहुः खप्परं ते त्वशुद्धं विद्यते ततः ।बहिर्निःसर दास्यामो भिक्षां पार्श्वमहानसे ।। ९६ ।।

​एतस्यामन्नशालायां भुञ्जन्ति यत्र तापसाः ।दीनान्धाः कृपणाश्चैव तथा क्षुत्क्षामका द्विजाः ।। ९७ ।।

​अशुद्धं ते कपालं वै यज्ञभूमेर्बहिर्नय ।गृहाणाऽन्यच्छुद्धपात्रं दूरं प्रक्षिप्य खप्परम् ।। ९८ ।।

​एवमुक्तश्च जाल्मः स रोषाच्चिक्षेप खप्परम् ।यज्ञमण्डपमध्ये च स्वयं त्वदृश्यतां गतः ।। ९९ ।।

​सर्वेप्याश्चर्यमापन्ना विप्रा दण्डेन खप्परम् ।चिक्षिपुस्तद्बहिस्तावद् द्वितीयं समपद्यत ।। १०० ।।

​तस्मिन्नपि परिक्षिप्ते तृतीयं समपद्यत ।एवं शतसहस्राणि समपद्यन्त वै तदा ।। १०१ ।।

​परिश्रान्ता ब्राह्मणाश्च यज्ञवाटः सखप्परः ।समन्ततस्तदा जातो हाहाकरो हि सर्वतः ।। १०२ ।।

​ब्रह्मा वै प्रार्थयामास सन्नत्वा तां दिशं मुहुः ।किमिदं युज्यते देव यज्ञेऽस्मिन् कर्मणः क्षतिः ।। १०३ ।।

​तस्मात् संहर सर्वाणि कपालानि महेश्वर ।यज्ञकर्मविलोपोऽयं मा भूत् त्वयि समागते ।। १०४ ।।

​ततः शब्दोऽभवद् व्योम्नः पात्रं मे मेध्यमस्ति वै ।भुक्तिपात्रं मम त्वेते कथं निन्दन्ति भूसुराः ।। १०५ ।।

​तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि ।यथाऽन्या देवतास्तद्वन्मन्त्रपूतं हविर्विधे ।। १०६ ।।

​अतोऽत्र मां समुद्दिश्य विशेषाज्जातवेदसि ।होतव्यं हविरेवात्र समाप्तिं यास्यति क्रतुः ।। १०७ ।।

​ब्रह्मा प्राह तदा प्रत्युत्तरं व्योम्नि च तं प्रति ।तव रूपाणि वै योगिन्नसंख्यानि भवन्ति हि ।। १०८ ।।

​कपालं मण्डपे यावद् वर्तते तावदेव च ।नात्र चमसकर्म स्यात् खप्परं पात्रमेव न ।। १०९ ।।

​यज्ञपात्रं न तत्प्रोक्तं यतोऽशुद्धं सदा हि तत् ।यद्रूपं यादृशं पात्रं यादृशं कर्मणः स्थलम् ।। ११० ।।

​तादृशं तत्र योक्तव्यं नैतत्पात्रस्य योजनम् ।मृन्मयेषु कपालेषु हविः पाच्यं क्रतौ मतम् ।। १११ ।।

​तस्मात् कपालं दूरं वै नीयतां यत् क्रतुर्भवेत् ।त्वया रूपं कपालिन् वै यादृशं च अत्र दर्शितम् ।। ११२ ।।

​तस्य रूपस्य यज्ञेऽस्मिन् पुरोडाशेऽधिकारिता ।भवत्वेव च भिक्षां संगृहाण तृप्तिमाप्नुहि ।। ११३ ।।

​अद्यप्रभृति यज्ञेषु पुरोडाशात्मकं द्विजैः ।तवोद्देशेन देवेश होतव्यं शतरुद्रिकम् ।। ११४ ।।

​विशेषात् सर्वयज्ञेषु जप्यं चैव विशेषतः ।अत्र यज्ञं समारभ्य यस्त्वा प्राक् पूजयिष्यति ।। ११५ ।।

​अविघ्नेन क्रतुस्तस्य समाप्तिं प्रव्रजिष्यति ।एवमुक्ते तदाश्चर्यं जातं शृणु तु पद्मजे ।। ११६ ।।

​यान्यासँश्च कपालानि तानि सर्वाणि तत्क्षणम् ।रुद्राण्यश्चान्नपूर्णा वै देव्यो जाताः सहस्रशः ।। ११७ ।।

​सर्वास्ताः पार्वतीरूपा अन्नपूर्णात्मिकाः स्त्रियः ।भिक्षादात्र्यो विना याभिर्भिक्षा नैवोपपद्यते ।। ११८ ।।

​तावच्छ्रीशंकरश्चापि प्रहृष्टः पञ्चमस्तकः ।यज्ञमण्डपमासाद्य संस्थितो वेदिसन्निधौ ।। ११९ ।।

​ब्राह्मणा मुनयो देवा नमश्चक्रुर्हरं तथा ।रुद्राणीः पूजयामासुरारेभिरे क्रतुक्रियाम् ।। १२० ।।

​सहस्रशः क्रतौ देव्यो निषेदुः शिवयोषितः ।शिवेन सहिताश्चान्याः कोटिशो देवयोषितः ।। १२१ ।।

​एवं शंभुः क्रतौ भागं स्थापयामास सर्वदा ।पठनाच्छ्रवणाच्चास्य यज्ञस्य फलमाप्नुयात् ।। १२२ ।।

लक्ष्मीनारायण संहिता (प्रथम खण्ड: कृतयुग सन्तान) अध्याय (५०९) ब्रह्मा जी के यज्ञ और गायत्री के प्राकट्य का वर्णन-

प्रमुख कथा सारांश-

नारद का आगमन और ब्रह्मा को निवेदन (श्लोक १-५):

श्री नारायण बोले—हे लक्ष्मी! एक समय सत्ययुग में नारद जी तीनों लोकों का भ्रमण कर ब्रह्मा जी के दर्शन हेतु उनके पास गए और उन्हें प्रणाम किया। ब्रह्मा जी ने पूछा—हे पुत्र ! कहाँ से आ रहे हो? तब नारद ने कहा—पिताजी! मैं मृत्युलोक की स्थिति देखकर आपकी पूजा के विधान हेतु आया हूँ। संसार में दैत्यों का बल बढ़ गया है। वे यज्ञ, सत्य धर्म और सत्कर्मों का विनाश कर रहे हैं, जिससे देवता और भक्त दुखी हैं। अतः आप लोक-कल्याण का उपाय करें।

यज्ञ भूमि का चयन (श्लोक ६-९):

नारद की बात सुनकर ब्रह्मा जी ने यज्ञ के लिए शुभ स्थल का विचार किया। उन्होंने स्थान की परीक्षा के लिए अपने हाथ का 'पद्म पुष्प' (कमल) नीचे फेंका और कहा कि जो स्थान परम पावन होगा, वहीं यह गिरे। वह पुष्प 'हाटकेश्वर' क्षेत्र में गिरा। ब्रह्मा जी वहां पहुंचे और उस दिव्य स्थान को देखकर प्रसन्न हुए।

यज्ञ की तैयारी और देवताओं का आह्वान (श्लोक १०-२७):

ब्रह्मा जी ने वायु देव को आज्ञा दी कि वे इन्द्र, आदित्य, वसु, रुद्र, मरुद्गण, गंधर्व और लोकपालों को यज्ञ हेतु बुला लाएं। ब्रह्मा जी ने इन्द्र से कहा कि वे वैशाख मास में 'अग्निष्टोम' यज्ञ के लिए सामग्री और योग्य ब्राह्मणों की व्यवस्था करें।

  • विश्वकर्मा: यज्ञ मंडप, वेदी, कुण्ड और पात्रों का निर्माण करने लगे।
  • कुबेर: दक्षिणा की व्यवस्था के लिए नियुक्त हुए।
  • ऋत्विज (१६ ब्राह्मण): मैत्रावरुण, च्यवन, अथर्वा, गालव, मरीचि, मार्कव (भृगुवंशी), पुलस्त्य (अध्वर्यु), रैभ्य, नारद, गर्ग, भारद्वाज, पराशर, बृहस्पति (आचार्य), गोभिल (उद्गाता), शाण्डिल्य और अंगिरा।

सावित्री का विलम्ब और गायत्री का प्राकट्य (श्लोक २८-४३):

यज्ञ आरम्भ हुआ, किन्तु पत्नी के बिना मुख्य आहुति सम्भव नहीं थी। ब्रह्मा जी ने नारद को सावित्री (ब्रह्मा की पत्नी) को बुलाने भेजा। सावित्री ने कहा—"मैं इन्द्राणी, गौरी, लक्ष्मी और अन्य देवियों के साथ आऊँगी, अभी केश संवार रही हूँ, आप मुहूर्त की प्रतीक्षा करें।" समय निकलता देख ब्रह्मा जी क्रोधित हुए और इन्द्र से कहा—"समय बीता जा रहा है, अतः किसी अन्य कन्या को पत्नी रूप में लाओ ताकि यज्ञ पूर्ण हो सके।"

गायत्री का संस्कार और यज्ञ सम्पूर्ति (श्लोक ४४-५६):

इन्द्र को मार्ग में एक सुंदर गोप कन्या (गायत्री) मिली जो छाछ (तक्र) बेच रही थी। इन्द्र उसे ले आए। ऋषियों ने उसे 'गाय के मुख' से गुजारकर (गोयन्त्र निष्क्रमण) और पवित्र जल से स्नान कराकर शुद्ध किया। महादेव ने उसका नाम 'गायत्री' रखा। ब्रह्मा जी ने उसके साथ पाणिग्रहण (विवाह) किया और उसे पत्नी स्थान पर बिठाकर यज्ञ की दीक्षा ली। गायत्री ने अपने मस्तक पर अरणि धारण की और ब्रह्मा जी के साथ यज्ञ कर्म संपन्न किया।

व्याकरणिक विश्लेषण (Grammatical Analysis)

शब्द / पद

व्याकरणिक परिचय

अर्थ

ययौ

'या' धातु, लिट् लकार (परोक्ष अनद्यतन भूत), प्रथम पुरुष, एकवचन

गए

विलोक्य

वि + लोक् + ल्यप् प्रत्यय

देखकर

समागतोऽस्मि

सम् + आ + गम् + क्त (भूतकाल) + अस् (उत्तम पुरुष)

मैं आया हूँ

कर्तुमर्हसि

कृ + तुमुन् (करने के लिए) + अर्ह् (योग्य होना)

आप करने योग्य हैं

चिक्षेप

'क्षिप्' धातु, लिट् लकार, प्रथम पुरुष, एकवचन

फेंका

सम्पपात

सम् + प्र + पत्, लिट् लकार

अच्छी तरह गिरा

आनीतेयं

आनीता + इयम् (गुण सन्धि)

यह लाई गई है

विहितः/कृतः

'कृ' धातु + क्त प्रत्यय

किया गया

मौनधारिणीम्

मौन + धारिणी + द्वितीया विभक्ति, एकवचन

मौन धारण करने वाली को

विशेष टिप्पणी

​इस अध्याय में 'हाटकेश्वर क्षेत्र' (वर्तमान गुजरात के वाडनगर के पास माना जाता है) की महिमा और ब्रह्मा जी द्वारा गायत्री को पत्नी रूप में स्वीकार करने की पौराणिक कथा का वर्णन है। यहाँ यह स्पष्ट किया गया है कि वेदों में ब्राह्मण और गौ को एक ही कुल का दो हिस्सा माना गया है:

गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ।

एकत्र मन्त्रस्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ (श्लोक ४९)

अर्थात्: एक ओर (ब्राह्मणों में) मन्त्र रहते हैं और दूसरी ओर (गौओं में) हवि (घी आदि) निवास करती है।

   गायत्री का संस्कार और यज्ञ सम्पूर्ति (श्लोक ४४-५६):

इन्द्र को मार्ग में एक सुंदर गोप कन्या (गायत्री) मिली जो छाछ (तक्र) बेच रही थी। इन्द्र उसे ले आए। ऋषियों ने उसे 'गाय के मुख' से गुजारकर (गोयन्त्र निष्क्रमण) और पवित्र जल से स्नान कराकर शुद्ध किया। महादेव ने उसका नाम 'गायत्री' रखा। ब्रह्मा जी ने उसके साथ पाणिग्रहण (विवाह) किया और उसे पत्नी स्थान पर बिठाकर यज्ञ की दीक्षा ली। गायत्री ने अपने मस्तक पर अरणि धारण की और ब्रह्मा जी के साथ यज्ञ कर्म संपन्न किया।


                                           

​श्लोक ५६ - ६५: हिन्दी अनुवाद

अनुवाद:

(यज्ञ की दीक्षा के समय) ब्रह्मा जी को काले मृग की खाल और मन्त्र प्रदान किए गए। उन्होंने मौन धारण करने वाली पत्नी गायत्री को यज्ञशाला में साथ लिया। उनकी कमर पर मूँज की बनी हुई शुभ मेखला बांधी गई। इसके बाद ब्रह्मा जी ने ऋत्विजों (पुरोहितों) के साथ यज्ञ की क्रियाएँ आरम्भ कीं। [५६-५७]

​जब कर्म चल रहा था, तब वहां एक महान आश्चर्य हुआ। एक जाल्म (नीच या अधम) का रूप धारण किए हुए, दिगम्बर (नग्न), विकृत मुख वाला व्यक्ति हाथ में कपाल (खोपड़ी) लेकर आया और बोला— "मुझे भोजन दो।" ब्राह्मणों द्वारा रोके जाने पर भी वह यज्ञ मण्डप में घुस गया। [५८-५९]

​वहां उपस्थित सदस्यों ने उसका तिरस्कार करते हुए कहा— "अरे पापी! तू यहाँ क्यों आया है? तू कपालधारी, नग्न और अपवित्र खप्पर लिए हुए है। इससे यज्ञ भूमि अशुद्ध हो जाएगी, शीघ्र यहाँ से बाहर निकल।" [६०-६१]

​उस जाल्म ने कहा— "मैं अशुद्ध कैसे हूँ? मैं तो एक भिक्षु और व्रती हूँ। यह 'ब्रह्मयज्ञ' है ऐसा जानकर मैं शुद्ध होकर और स्नान करके आया हूँ। यह जो गोपाल की कन्या (गायत्री) यहाँ बैठी है, यह तो जन्म से शूद्रा और अशुद्ध है। [६२]

​जब इसे यहाँ शुद्ध मानकर बैठाया गया है, तो क्या मैं पवित्र ब्राह्मण नहीं हूँ?"


  तभी वहां एक वृद्ध ब्राह्मण के रूप में श्रीकृष्ण आए और उन्होंने उत्तर दिया— "हे जाल्म! यह शूद्राणी नहीं है, यह जाति से ब्राह्मणी ही है। [६३-६४]

​सुनो, मैं इसके रहस्य को जानता हूँ, दूसरे अज्ञानी लोग इसे नहीं जानते। सृष्टि के आरम्भ में परमात्मा श्रीकृष्ण ने अपनी ही मूर्ति से अपने अंश स्वरूपा सावित्री को प्रकट किया था।" [६५]

​श्लोक ६६ - ८०: गायत्री का रहस्य (श्रीकृष्ण का कथन)

अनुवाद:

तब श्रीकृष्ण ने दूसरी कन्या 'पतिव्रता' नाम की बनाई और एक 'पत्नीव्रत' नामक ब्राह्मण कुमार बनाया। श्रीकृष्ण ने गोलोक में ही ब्रह्मा को वैराज देह धारण करने पर सावित्री समर्पित की थी। [६६-६७]

******************

​श्रीकृष्ण ने आज्ञा दी कि पृथ्वी पर यज्ञ के प्रवाह के लिए जब ब्रह्मा मनुष्य रूप में यज्ञ करेंगे, तब उन्हें मनुष्य रूपिणी पत्नी की आवश्यकता होगी। इसलिए सावित्री को आज्ञा दी गई कि तुम दूसरे रूप में पृथ्वी पर पहले ही जन्म लो। [६८-७०]

​सावित्री ने पूछा कि पृथ्वी पर मेरे माता-पिता कौन होंगे? तब श्रीकृष्ण ने उन दोनों (पतिव्रता और पत्नीव्रत) को दिखाया और कहा कि ये मेरे ही अंश हैं, अयोनिज हैं और दिव्य देह वाले हैं। [७१-७३]


​वे सौराष्ट्र (गुजरात) के आनर्त देश में गोभिल और गोभिला नाम से निवास करेंगे।

 दैत्यों के भय से वे गुप्त रूप से ग्वालों (आभीरों) के वेष में रहेंगे और गायों का पालन करेंगे। [७४-७७]

​हे सावित्रि! तुम वहां उनकी पुत्री के रूप में जन्म लोगी और दही-दूध बेचने वाली के रूप में रहोगी। जब यज्ञ का समय आएगा, तब तुम 'गायत्री' बनकर ब्रह्मा के साथ यज्ञ में सम्मिलित होगी। वह अशुद्ध नहीं है, अपितु गुप्त रूप से ब्राह्मण की ही पुत्री है। [७८-८४]

​श्लोक ८५ - १०६: शिव का खप्पर और यज्ञ की पूर्णता

अनुवाद:

श्रीकृष्ण के ऐसा कहने पर वहां गोभिल और गोभिला (गायत्री के माता-पिता) आए। उन्होंने अपना गोप वेष त्याग कर दिव्य ब्राह्मण रूप धारण कर लिया। ब्रह्मा आदि ने उनका सत्कार किया। [८५-९०]

​उस वृद्ध ब्राह्मण ने अपना असली कृष्ण रूप प्रकट किया। तब उस जाल्म (शिव) ने कृष्ण और गायत्री के माता-पिता को प्रणाम किया और कहा— "मैं भूखा हूँ, मुझे भिक्षा दें। दीन-दुखियों को तृप्त किए बिना किया गया यज्ञ विनाशकारी होता है।" [९१-९४]

​जब ब्राह्मणों ने उसे अपवित्र कपाल बाहर फेंकने को कहा, तो क्रोध में आकर जाल्म ने वह खप्पर यज्ञ मण्डप के बीच में फेंक दिया और स्वयं अदृश्य हो गया। [९५-९९]

​ब्राह्मणों ने उस खप्पर को डंडे से बाहर फेंका, तो वहां दूसरा खप्पर पैदा हो गया। उसे फेंका तो तीसरा। इस प्रकार लाखों खप्पर वहां भर गए और हाहाकार मच गया। [१००-१०२]

​तब ब्रह्मा जी ने प्रार्थना की— "हे महेश्वर! इन कपालों को समेट लें। आपके आगमन पर यज्ञ का लोप नहीं होना चाहिए।" तब आकाशवाणी हुई— "मेरा यह पात्र पवित्र है, ब्राह्मणों ने इसकी निंदा क्यों की? और मुझे अन्य देवताओं की तरह मन्त्रों द्वारा हवि क्यों नहीं दी गई?" [१०३-१०६]

​व्याकरण सम्बन्धी टिप्पणियाँ-

श्रीलक्ष्मीनारायणीय संहिता के इन श्लोकों में भगवान शिव का यज्ञ मण्डप में आगमन, ब्रह्मा जी के साथ उनका संवाद और कपालों (खोपड़ियों) का अन्नपूर्णा देवियों में परिवर्तित होने का अत्यंत सुंदर वर्णन है।

​यहाँ इन श्लोकों का हिन्दी अनुवाद और व्याकरणिक निर्देश प्रस्तुत है:

हिन्दी अनुवाद

श्लोक १०४-१०५: (ब्रह्मा जी ने कहा—) हे महेश्वर! इसलिए आप इन समस्त कपालों (खोपड़ियों) को समेट लीजिए। आपके यहाँ आने पर इस यज्ञ कर्म का लोप (विघ्न) नहीं होना चाहिए। तब आकाश से शब्द (आकाशवाणी) हुआ— "यह मेरा पात्र अत्यंत पवित्र है। फिर ये ब्राह्मण मेरे इस भोजन-पात्र की निंदा क्यों कर रहे हैं?"

श्लोक १०६-१०७: (शिव जी ने आकाशवाणी द्वारा कहा—) "जैसे अन्य देवताओं के लिए मन्त्रों से पवित्र करके अग्नि में हविष्य अर्पित किया जाता है, वैसे मेरे निमित्त अग्नि में आहुति नहीं दी गई। अतः यहाँ विशेष रूप से मेरे निमित्त अग्नि में हविष्य होमना चाहिए, तभी यह यज्ञ पूर्णता को प्राप्त होगा।"

श्लोक १०८-१०९: तब ब्रह्मा जी ने आकाश में स्थित उस ध्वनि के प्रति उत्तर दिया— "हे योगी! आपके रूप तो असंख्य हैं। किंतु जब तक इस मण्डप में यह (अशुद्ध) कपाल विद्यमान है, तब तक यहाँ चमस-कर्म (यज्ञ पात्र सम्बन्धी कार्य) नहीं हो सकता, क्योंकि खप्पर (हड्डी) यज्ञ का पात्र नहीं है।"

श्लोक ११०-१११: "इसे यज्ञ पात्र नहीं कहा गया क्योंकि यह सदैव अशुद्ध (अपवित्र) है। जैसा रूप, जैसा पात्र और जैसा कर्म-स्थल होता है, वैसा ही वहाँ उपयोग करना चाहिए। इस (कपाल) पात्र का यहाँ मेल नहीं है। यज्ञों में मिट्टी के पात्रों (कपालों) में हविष्य पकाना शास्त्रसम्मत है।"

श्लोक ११२-११३: "इसलिए इस (हड्डी के) कपाल को दूर ले जाएँ ताकि यज्ञ संपन्न हो सके। हे कपालिन्! आपने यहाँ जैसा (विचित्र) रूप दिखाया है, उस रूप की इस यज्ञ में 'पुरोडाश' (यज्ञीय अन्न) पर अधिकारिता होगी। आप भिक्षा ग्रहण करें और तृप्त हों।"

श्लोक ११४-११५: "आज से यज्ञों में ब्राह्मणों द्वारा आपके निमित्त 'पुरोडाश' के रूप में 'शतरुद्रिय' का होम किया जाएगा। विशेषकर सभी यज्ञों में आपका जप किया जाएगा। इस यज्ञ में जो प्रारम्भ में आपकी पूजा करेगा, उसका यज्ञ बिना किसी विघ्न के पूर्ण होगा।"

श्लोक ११६-११७: ब्रह्मा जी के ऐसा कहने पर जो आश्चर्य हुआ, उसे हे पद्मजा (लक्ष्मी)! सुनो। जो कपाल (खोपड़ियाँ) वहाँ थीं, वे सब उसी क्षण 'रुद्राणी' और 'अन्नपूर्णा' देवियों के रूप में हजारों की संख्या में प्रकट हो गईं।

श्लोक ११८-११९: वे सभी पार्वती के रूप वाली अन्नपूर्णा स्त्रियाँ थीं, जो भिक्षा देने वाली हैं; जिनके बिना भिक्षा प्राप्त होना संभव नहीं है। तब तक पाँच मुखों वाले श्री शंकर भी प्रसन्न होकर यज्ञ मण्डप में वेदी के समीप आकर स्थित हो गए।

श्लोक १२०-१२१: ब्राह्मणों, मुनियों और देवताओं ने महादेव को नमस्कार किया। उन्होंने रुद्राणियों की पूजा की और यज्ञ की क्रियाएँ आरम्भ कीं। उस यज्ञ में हजारों शिव-पत्नियां (रुद्राणियाँ) और शिव के साथ करोड़ों अन्य देवांगनाएँ विराजमान हुईं।

श्लोक १२२: इस प्रकार शम्भु ने यज्ञ में अपना भाग सदा के लिए स्थापित किया। इसके पठन और श्रवण से मनुष्य यज्ञ का फल प्राप्त करता है।

व्याकरणिक निर्देश

​इन श्लोकों में प्रयुक्त मुख्य व्याकरणिक पद निम्नलिखित हैं:

१. सन्धि विच्छेद:

  • यज्ञकर्मविलोपोऽयं: यज्ञकर्मविलोपाः + अयम् (विसर्ग सन्धि एवं उत्व सन्धि)।
  • शब्दोऽभवद्: शब्दः + अभवत् (विसर्ग सन्धि)।
  • तथा न: तथा + न (संयोग)।
  • यथाऽन्या: यथा + अन्याः (दीर्घ सन्धि)।
  • तवोद्देशेन: तव + उद्देशेन (गुण सन्धि)।
  • तदाश्चर्यं: तदा + आश्चर्यम् (दीर्घ सन्धि)।

२. समास:

  • भूसुराः भुवि सुराः (उपपद तत्पुरुष) - पृथ्वी के देवता अर्थात् ब्राह्मण।
  • यज्ञमण्डपम्: यज्ञस्य मण्डपम् (षष्ठी तत्पुरुष)।
  • पञ्चमस्तकः: पञ्च मस्तकानि यस्य सः (बहुव्रीहि समास) - शिव जी।
  • अन्नपूर्णात्मिकाः: अन्नपूर्णा आत्मा यासां ताः (बहुव्रीहि)।
  • मन्त्रपूतं: मन्त्रैः पूतम् (तृतीया तत्पुरुष)।

३. प्रत्यय:

  • समागते: सम् + आ + गम् + क्त (सप्तमी एकवचन)।
  • नीयतां: नी + अनीयर् (लोट् लकार, कर्मवाच्य)।
  • होतव्यं: हु + तव्यत् (विधि अर्थ में)।
  • जप्यं: जप् + यत्।
  • उक्ते: वच् + क्त (भाववाच्य, सप्तमी एकवचन)।

४. क्रिया रूप / लकार:

  • प्राह: ब्रू धातु, लिट् लकार (परोक्ष अनद्यतन भूतकाल), प्रथम पुरुष, एकवचन।
  • भवत्वेव: भू धातु, लोट् लकार, प्रथम पुरुष, एकवचन।
  • आसाद्य: आ + सद् + णिच् + ल्यप् (पहुँचकर)।
  • समारभ्य: सम् + आ + रभ् + ल्यप् (आरम्भ करके)।

विशेष टिप्पणी: यह प्रसंग 'कपाल' (खोपड़ी) के नकारात्मक अर्थ को बदलकर उसे 'मृन्मय कपाल' (मिट्टी के पात्र) और आध्यात्मिक रूप से 'अन्नपूर्णा' की शक्ति से जोड़ता है, जो शिव की यज्ञ में अनिवार्यता को दर्शाता है।


 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें