मंगलवार, 7 फ़रवरी 2023

पृषोदर प्रकरण-

यथोपदिष्टम्” पा० विहित लोपादिनिमित्ते शब्दगणे स च गणः पा० ग० सू० उक्तो यथा “पृषोदर पृषोत्थान वलाहक जीमूत श्मशान उलूखल पिशाच वृषी मयूर” । “वर्णागमो वर्णविपर्य्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्त- दुच्यते पञ्चविधं निरुक्तम्” । एतच्च समासविषयकमेवेति नियमो न प्राचीनकारिकायां हंससिंहादिशब्दाना- मपि पृषोदरादित्वात् सिद्धत्वोक्तेः । अस्यार्थः सि० कौ० मनोरमादौ यथा “पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः । पृषत् उदरम् पृषोदरम् । तलोपः । वारि- वाहको वलाहकः । पूर्वपदस्य वः उत्तरपदादेश्च लत्वम् । “भवेद्वर्णागमात् हंसः सिंहो वर्णविपर्य्ययात् । गूढोत्मा बर्णविकृतेर्वर्णनाशात्पृषोदरम्” दिक्शब्देभ्यस्तीरस्य तारभावो वा । दक्षिणतारम् दक्षिणतीरम् । उत्तरतारम् उत्तरतीरम् । दुरो दाशनाशदभध्येषूत्त्वमुत्तरपदादेष्टुत्वञ्च । दुःखेन दाश्यते दूडाशः । एवं दुःखेन नाश्यते दुणाशः दुःखेन दभ्यते दूडाभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुष्टं ध्यायतीति दूट्यः । आतश्चेति कः । ब्रुवन्तोऽस्यां सीदन्तीति वृषी । ब्रुवच्छब्दस्य वृ आदेशः । सदेरधिकरणे डट् । आकृतिगणोऽयम्” । हन्तेः पचाद्यचि सुमागमे हंस इति हिंसेस्तु पचाद्यचि हकारसकारयोः स्थानव्यत्ययात् सिंह इति गूढोत्मेत्यत्र आकारविकृत्या उकारादेशः पृषोदरमित्यत्र तकारवर्ण- लोपः इत्येवं रीत्या सर्वत्र बोध्यम् । एतन्मूलकमेव “लुम्पेदवश्यमः कृत्ये तुम् काममनसोरपि । समो वा हितततयोर्मांसस्य पचियुज्घञोरिति” । अन्तमिति शेषः कृत्यप्रत्ययान्ते उत्तरपदे अवश्यम्शब्दस्यान्त्यमकारं लु स्पेत् । अवश्यसेव्यः । तथा कामशब्दमनः शब्दयोः परतः तुम्शब्दस्यान्तम् । हन्तुकामः गन्तुमनाः । तुमिति षष्ठ्यर्थे प्रथमा । हितततशब्दयोः परतः समोऽन्त्यं मकारम् वा लुम्पेत् । सहितः संहितः सततः सन्ततः । युज्घञ्परपंचिधातौ परे मांसशब्दान्त्याकारं लुम्पेत् । मांस्पचनः मांसपचनः मांस्पाकः मांसपाक इत्यादि ।”

यथोपदिष्टम्
 
पदच्छेदः  पृषोदरादीनिप्रथमा-बहुवचनम् , यथोपदिष्टम्अव्ययम्
अनुवृत्तिः 
अधिकारः  उत्तरपदे६.३.१
अनुवृत्तिसहितं सूत्रम् 
सूत्रप्रकारः 
सूत्रार्थः  -
English (One line meaning)  -
S. C. Vasu  click to toggle
काशिका   पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्नविकाराः शास्त्रेण न विहिताः दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति। यानि यानि यथोपदिष्टानि, शष्टैरुच्चारितानि प्रयुक्तानि, तानि तथा एव अनुगन्तव्यानि। पृषदुदरं यस्य पृषोदरम्। पृषदुद्वानं यस्य पृषोद्वानम्। अत्र तकारलोपो भवति। वारिवाहकः बलाहकः। पूर्वशब्दस्य बशब्द आदेशः, उत्तरपदादेश्च लत्वम्। जीवनस्य मूतः जीमूतः। वनशब्दस्य लोपः। शवानां शयनम् श्मशानम्। शवशब्दस्य श्मादेशः, शयनशब्दस्य अपि शानशब्द आदेशः। ऊर्ध्वं खमस्य इति उलूखलम्। ऊर्ध्वखशब्दयोः उलू खल इत्येतावादेशौ भवतः। पिशिताशः पिशाचः। पिशिताशशब्दयोर्यथायोगं पिशाचशब्दौ आदेशौ। ब्रुवन्तोऽस्यां सीदन्तीति बृसी। सदेरधिकरणे डट् प्रत्ययः। ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति। मह्यां रौतीति मयूरः। रौतेरचि टिलोपः। महीशब्दस्य मयूभावः। एवमन्येऽपि अश्वत्थकपित्थप्रभृतयो यथायोगमनुगन्तव्याः। दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति। दक्षिणतीरम्, दक्षिणतारम्। उत्तरतीरम्, उत्तरतारम्। वाचो वादे डत्वं च लभावश्च उत्तरपदस्य इञि प्रत्यये भवति। वाचं वदतीति वाग्वादः। तस्यापत्यं वड्वालिः। षष उत्वं दतृदशधासूत्तरपदादेष्टुत्वं च भवति। षड् दन्ता अस्य षोडन्। षट् च दश च षोडश। धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वम्। षोढा, षड्धा कुरु। बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः। इह मा भूत्, षट् दधाति धयति वा षड्धा इति। दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम्। कुच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूडाशः। दूणाशः। दूडभ्यः। दम्भेः खल्बनुनासिकलोपो निपातनात्। दुष्टं ध्यायतीति दूढ्यः। दुःशब्दोपपदस्य ध्यायतेः आतश्चोपसर्गे ६.१.१३६ इति कप्रत्ययः। स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम्। जाय एहि सुवो रोहाव। पीवोपवसनादीनां च लोपो वक्तव्यः। पीवोपवसनानाम्। पयोपवसनानाम्। वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्।
न्यासः  click to toggle

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें