वायुपुराण उत्तरार्द्ध /अध्यायः ३७
______________________
पुण्ड्राः कलिङ्गाश्च तथा तेषां वंशं निबोधत।
तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसम्भवाः।
सम्भूता दीर्घतमसः सुदेण्णायां महौजसः। ३७.३४।
ऋषय ऊचुः।
कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो।
ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम्।३७.३५
सूत उवाच।
अशिजो नाम विख्यात आसीद्धीमानृषिः पुरा।
भार्या वै ममता नाम बभूवास्य महात्मनः। ३७.३६।
________________
अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम्।
बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ।।३७.३७।।
उवाच ममता तन्तु बृहस्पतिमनिच्छती।
अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति ।। ३७.३८ ।।
__________
अयं हि मे महागर्भो रोचतेऽति बृहस्पते।
अशिजं ब्रह्म चाभ्यस्य षडङ्गं वेदमुद्गिरन् ।। ३७.३९ ।।
अमोघरेतास्त्वञ्चापि न मां भजितुमर्हसि।
अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ।३७.४०।
एवमुक्तस्तया सम्यग् बृहत्तेजा बृहस्पतिः।
कामात्मानं महात्मा च नात्मानं सोऽभ्यधारयत् ।। ३७.४१ ।।
सम्बभूवैव धर्मात्मा तया सार्द्धं बृहस्पतिः।
उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ।३७.४२।
नो स्नातको न्यसेद्ध्यस्मिन् द्वयोर्नेहास्ति सम्भवः।
अमोघरेतास्त्वञ्चापि पूर्वञ्चाहमिहागतः । ३७.४३।
शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः।
आशिजन्तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ।। ३७.४४ ।।
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति।
मामेवमुक्तवान् मोहात्तमो दीर्घं प्रवेक्ष्यसि ।३७.४५।
____________________
ततो दीर्घतमा नाम शापादृषिरजायत।
अथाशिजो बृहत्कीर्त्तिर्बृहस्पतिरिवौजसा ।।३७.४६।।
ऊर्द्धःरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे।
गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान् प्रभो ।। ३७.४७ ।।
तस्य भ्राता पितृव्यस्तु चकार भवनं तदा।
तस्मिन् हि तत्र वसति यदृच्छाभ्यागतो वृषः ।। ३७.४८ ।।
दर्शार्थमाहृतान् दर्भांश्चचार सुरभीवृतः।
जग्राह तं दीर्घतमा विस्फुरन्तञ्च श्रृङ्गयोः ।। ३७.४९ ।।
स तेन निगृहीतस्तु न चचाल पदात्पदम्।
ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ।३७.५०।
न मयासादितस्तात बलवंस्त्वद्विधः क्वचित्।
त्र्यम्बकं वहता देवं यतो जातोऽस्मि भूतले।३७.५१।
मुञ्च मां बलिनां श्रष्ठ प्रीतस्तेऽहं वरं वृणु।
एवमुक्तोऽब्रवीदेनं जीवस्त्वं मे क्व यास्यसि ।३७.५२।
तेन त्वाहं न मोक्ष्यामि परस्वाहं चतुष्पदम्।
ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ।३७.५३।
नास्माकं विद्यते तात पातकं स्तेयमेव वा।
भक्ष्याभक्ष्यं न जानीमः पेयापेयञ्च सर्वशः ।। ३७.५४ ।।
कार्याकार्यं न वै विझो गम्यागम्यं तथैव च।
न पाप्मानो वयं विप्र धर्मो ह्येषां गवां स्मृतः।३७.५५।
गवां नाम स वै श्रुत्वा संभ्रान्तस्त्वनुमुच्य तम्।
भक्त्या चानुश्रविकया गोषु तं वै प्रसाद यत् ।। ३७.५६।
प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु तम्।
मनसैव तदादत्ते तन्निष्ठस्तत्परायणः ।। ३७.५७ ।।
ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत।
विचेष्टमानां रुदतीं दैवात् स मूढचेतनः ।।३७.५८।।
अवलेपन्तु तं मत्वा शरद्वांस्तस्य नाक्षमत्।
गोधर्मंवै बलं कृत्वा स्नुषां स सममन्यत ।३७.५९।
विपर्ययन्तु तं दृष्ट्वा शरद्वान् प्रत्यचिन्तयत्।
भविष्यमर्थं ज्ञात्वा च महात्मा च न मृत्युताम् ।। ३७.६० ।।
प्रोवाच दीर्घतमसं क्रोधात् संरक्त लोचनः।
गम्यागम्यं न जीनीषे गोधर्मात् प्रार्थयत् स्नुषाम् ।। ३७.६१ ।।
दुर्वृत्तस्त्वं त्यजाम्येव गच्छ त्वं स्वेन कर्मणा।
यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः।
तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतिः ।। ३७.६२ ।।
सूत उवाच।।
कर्मण्यस्मिस्ततः क्रूरे तस्य बुद्धिरजायत।
निर्भत्स्य चैव बहुशो बाहुभ्यां परिगृह्य च।
कोष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ।। ३७.६३ ।।
उह्यमानः समुद्रस्तु सप्ताहं स्रोतसा तदा।
तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित्।
अपश्यन्मज्जमानन्तु स्रोतसाभ्याशमागतम् ।। ३७.६४ ।।
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा।
अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ।। ३७.६५ ।।
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम्।
स च तस्माद्वरं वव्रे पुत्रार्थं दानवर्षभः।।३७.६६ ।।
।।बलिरुवाच।।
सन्तानार्थं महाभाग भार्यया मम मानद।
पुत्रान् धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ।३७.६७।।
एवमुक्तस्तु तेनर्षिस्तथास्त्वित्युक्तवान् हि तम् ।
सुदेष्णां नाम भार्यां वै राजास्मै प्राहिणोत्तदा ।। ३७.६८ ।।
अन्धं वृद्धञ्च तं दृष्ट्वा न सा देवी जगाम ह ।
स्वाञ्च धात्रेयकीं तस्मै भूषयित्वा व्यसर्जयत् ।। ३७.६९ ।।
कक्षीवचक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी।
जनयामास धर्मात्मा पुत्रावेतौ महोजसौ। ३७.७०।
________
कक्षिवचक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा।
प्राधीतौ विधिवत्सम्यगीश्वरौ ब्रह्मवादिनौ ।। ३७.७१ ।।
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि।
ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ।। ३७.७२ ।।
नेत्युवाच ततस्तन्तु ममैताविति चाब्रवीत्।
उत्पन्नौ शूद्रयोनौ तु भवच्छद्मा सुरोत्तमौ ।। ३७.७३ ।।
अनधं बृद्धं च मां मत्वा सुदेष्णा महिषी तव।
प्राहिणोदवमानाय शूद्रां धात्रेयकीं मम ।३७.७४ ।
ततः प्रसादयामास पुनस्तमृषिसत्तमम्।
बलिर्भार्यां सुदेष्णां च भर्त्सयामास वै प्रभुः। ३७.७५ ।।
___________________
पुनश्चैनामलंकृत्य ऋषये प्रत्यपादयत्।
तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ।। ३७.७६।
दध्ना लवणमिश्रेण स्वब्य(व्य)क्तं नग्नकं तथा।
लिहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् ।। ३७.७७ ।।
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान्।
तस्य सा तद्वचो देवी सर्वं कृतवती तथा ।। ३७.७८ ।।
अपानञ्च समासाद्य जुगुप्सन्ती न्यवर्जयत्।
तामुवाच ततः सर्षिर्यत्ते परिहृतं शुभे।
विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ।। ३७.७९ ।।
ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह।
नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ।३७.८०।
।ऋषिरुवाच।
तवापराधो देव्येष नान्यथा भवितानु वै ।
देवी दानीञ्च ते पुत्रमहं दास्यामि सुव्रते ।३७.८१।
तस्यापानं विना चैव योग्याभावो भविष्यति।
तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वेदमब्रववीत् ।। ३७.८२ ।।
प्राशितं दधि यत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते ।
तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ।। ३७.८३ ।।
भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः।
तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ।। ३७.८४ ।।
ततोङ्गस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत।
वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रो ब्रह्मस्तथैव च ।। ३७.८५ ।।
वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा।
इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ।। ३७.८६।
प्रजास्त्वपहतास्तस्य ब्रह्मणा कारणं प्रति।
अपत्या मात्यदारेषु स्वेषु मा भून्महात्मनः ।। ३७.८७ ।।
ततो मनुष्ययोन्यां वै जनयामास स प्रजाः।
सुरभिर्दीर्घतमसमथ प्रीतो वचोऽब्रवीत् ।। ३७.८८।
विचार्य यस्माद्गोधर्म्मं त्वमेवं कृतवानसि ।
तेन न्यायेन मुमुचे ह्यहं प्रीतोस्मि तेन ते ।३७.८९।
तस्मात्तव तमो दीर्घं निस्तुदाम्यद्य पश्य वै।
बार्हस्पत्यञ्च यत्तेऽन्यत्पापं सन्तिष्ठते तनौ ।३७.९०।
जरामृत्युभयञ्चैव आघ्राय प्रणुदामि ते।
ह्याघ्रातमात्रः सोऽपश्यत सद्यस्तमसि नाशिते । ३७.९१ ।
आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत्।
गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ।। ३७.९२।
कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम्।
यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ।। ३७.९३
ततः कालेन महता तमसा भावितः सवै।
विधूय मनुजो दोषान् ब्रह्मण्यं प्राप्तवान् प्रभुः ।। ३७.९४।
ततोऽब्रवीत् पिता चैनं पुत्रवानस्म्यहं प्रभो।
सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ।। ३७.९५ ।।
युक्तात्मा हि ततः सोऽथ प्राप्तवान् ब्रह्मणा क्षयम्।
ब्रह्मण्यं प्राप्य कक्षीवान् सहस्रमसृजत् सुतान् ।। ३७.९६ ।।
कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः।
इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ।। ३७.९७ ।।
समागमः समाख्यातः सन्तानञ्चोभयोस्तयोः।
बलिस्तानबिषिच्येह पञ्च पुत्रानकल्मषान् ।३७.९८।
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः।
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत । ३७.९९।
तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः।
सापराधसुदेष्णाया अनपानोऽभवनृपः ।। ३७.१०० ।।
अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः।
पुत्रो दिविरथस्यासीद्विद्वान् धर्मरथो नृपः ।। ३७.१०१ ।
स वै धर्मरथः श्रीमान् येन विष्णुपदे गिरौ।
सोमः शक्रेण सह वै यज्ञे पीतो महात्मना ।। ३७.१०२ ।।
_____________________
सूनुर्धर्मरथस्यापि राजा चित्ररथोऽभवत्।
अथ चित्ररथस्यापि राजा दशरथः अभवत्।
लोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत् ।। ३७.१०३ ।।
___________
(स तु दाशरथिर्वीरश्चतुरङो महामनाः।
ऋष्यशृङप्रसादेन जज्ञेऽथ कुलवर्धनः ।।)
चतुरङश्च पुत्रस्तु पृथुलाश्च इति श्रुतः।
पृथुलाश्च सुतश्चापि चम्पो नाम बभूव ह ।।
चम्पस्य तु पुरी रम्या रम्या या मालिनी भवत् ।।
चम्पावती पुरी चम्पा चतुर्वर्णा च वै वसत्।
षष्टिवर्षसहस्त्राणि चम्पावत्यां पुराऽवसत् ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वे स्वे धर्मानुष्ठिते।
सर्वे धर्म वै तपसा सर्वे विष्णुपरायणाः ।।
पूर्णभद्रप्रसादेन हर्यङोऽस्य सुतोऽभवत् ।।
जज्ञे वै तण्डिकरतस्य वारणं शक्रवारणम्।
आनयामास स महीं मन्धोर्वाहनमुत्तमम् ।। ३७.१०४ ।।
*(पाठभेदः) (मंत्रैर्वाहनमुत्तमम्)
हर्य्यङ्गस्य तु दायादो राजा भद्ररथः किल।
अथ भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ।। ३७.१०५ ।।
बृहद्रथः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः।
बृहन्मनास्तु राजेन्द्रं जनयामास वै सुतम् ।। ३७.१०६ ।।
नाम्ना जयद्रथं नाम तस्मादॄढरथो नृपः।
आसीदॄढरथस्यापि विश्वजिज्जनमेजयः ।। ३७.१०७ ।।
दायादस्तस्य चाङ्गेभ्यो यस्मात् कर्णोऽभवन्नृपः।
कर्णस्य शूरसेनस्तु द्विज स्तस्यात्मजः स्मृतः ।। ३७.१०८ ।।
।।ऋषय ऊचुः।।
सूतात्मजः कथं कर्णः कथं चाङ्गस्य वंशजः।
एतदिच्छामहे श्रोतुमत्यर्थं कुशलो ह्यसि ।३७.१०९ ।
।सूत उवाच।
बृहद्भानोः सुतो जज्ञे नाम्ना राजा बृहन्मनाः।
तस्य पत्नीद्वयं चासीच्चैद्यस्योभे च ते सुते । ३७.११० ।
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते।
जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत । ३७.१११ ।
ब्रह्मक्षत्रान्तरः सत्याविजयो नाम विश्रुतः।
विजयस्य धृतिः पुत्र स्तस्य पुत्रो धृतव्रतः ।३७.११२ ।
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः।
सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै । ३७.११३ ।
स कर्णं परिजग्राह तेन कर्णस्तु सूतजः।
एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ।। ३७.११४ ।।
एतेऽङ्गवंशजाः सर्वे राजानः कीर्त्तिता मया।
विस्तरेणानुपूर्व्या च पूरोस्तु श्रृणुत प्रजाः ।३७.११५ ।
सूत उवाच।।
पूरोः पुत्रो महाबाहू राजासीज्जनमेजयः।
अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ।। ३७.११६ ।।
अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः।
राजाथो जयदो नाम मनस्योरभवत्सुतः ।। ३७.११७ ।।
दायादस्तस्य चाप्यासीद्धुन्धुर्नाम महीपतिः।
धुन्धोर्बहु गवी पुत्रः सञ्जातिस्तस्य चात्मजः ।। ३७.११८ ।।
सञ्जातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ।। ३७.११९ ।।
रजेयुश्च कृते युश्च वक्षेयुः स्थण्डिलेयु च।
घृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ।। ३७.१२० ।।
_____________________
धर्मेयुः सन्नतेयुश्च वनेयुर्द्दशमस्तु सः।
रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ।। ३७.१२१ ।।
तला खला च सप्तैता या च गोपजला स्मृता।
तथा ताम्ररसा चैव रत्नकूटी च तादृशी ।। ३७.१२२ ।।
आत्रेयो वंशतस्तासां भर्त्ता नाम्ना प्रभाकरः।
अनादृष्टस्तु राजर्षी रिवेयुस्तस्य चात्मजः ।। ३७.१२३ ।।
रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा।
यस्यां देव्यां स राजर्षी रन्तिं नाम त्वजीजनत् ।। ३७.१२४ ।।
रन्तिर्नारः सरस्वत्यां पुत्रानजनयच्छुभान्।
त्रसुं तथा प्रतिरथं ध्रुवञ्चैवातिधार्मिकम् ।। ३७.१२५ ।।
गौरी कन्या च विख्याता मान्धातुर्जननी शुभा।
धुर्यः प्रतिरथस्यापि कण्ठस्तस्याभवत् सुतः ।। ३७.१२६ ।।
मेधातिथिः सुरस्तस्य यस्मात् काण्ठायना द्विजाः।
इतिनानुयमस्यासीत् कन्या साजनयत्सुतान् ।। ३७.१२७ ।।
त्रसुः सुदयितंपुत्रं मलिनं ब्रह्मवादिनम्।
उपदातं ततो लेभे चतुरस्त्विति सात्मजान् ।। ३७.१२८ ।।
सुष्मन्तमथ दुष्यन्तं प्रवीरमनघन्तथा।
चक्रवर्त्ती ततो जज्ञे दौष्यन्तिर्नृपसत्तमः ।। ३७.१२९ ।।
_____________________
शकुन्तलायां भरतो यस्य नाम्ना तु भारतम्।
दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ।। ३७.१३० ।।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
भरस्व पुत्रं दुष्यन्तं सत्यमाह शकुन्तला ।। ३७.१३१।।
रेतोधाः पुत्रं नयति नरदेव यमक्षयात्।
त्वञ्चास्य धाता गर्भस्य मावमंस्थाः शकुन्तलाम् ।। ३७.१३२ ।।
भरतस्त्रिसृषु स्त्रीषु नव पुत्रानजीजनत्।
नाभ्यनन्दच्च तान् राजा नानुरूपान्ममेत्युत ।। ३७.१३३ ।।
ततस्ता मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम्।
ततस्तस्य नरेन्द्रस्य विततं पुत्रजन्म तत् ।। ३७.१३४।
ततो मरुद्भिरानीय पुत्रस्तु स बृहस्पतेः।
सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ।। ३७.१३५ ।।
________
तत्रैवोदारहन्तीदं भरद्वाजस्य धीमतः।
जन्मसङ्क्रमणञ्चैव मरुद्भिर्भरताय वै ।। ३७.१३६ ।।
पत्न्यामासन्नगर्भायामशिजः संस्थितः किलः।
भ्रातुर्भार्यां स दृष्ट्वाथ बृहस्पतिरुवाच ह।
अलंकृत्य तनुं स्वान्तु मैथुनं देहि मे शुभे ।। ३७.१३७।।
_________________
एवमुक्ताऽब्रवीदेन मन्तर्वत्नी ह्यहं विभो।
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ।३७.१३८।
अमोघरेतास्त्वञ्चापि धर्मश्चैव विगर्हितः।
एवमुक्तोऽब्रवीदेनां स्मयमानो बृहस्पतिः । ३७.१३९ ।
विनयो नोपदेष्टव्यस्त्वया मम कथञ्चन।
हर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे ।। ३७.१४०।
ततो बृहस्पतिं गर्भो हर्षमाणमुवाच ह।
सन्निविष्टो ह्यहं पूर्वमिह तात बृहस्पते ।३७.१४१।
अमोघरेताश्च भवान्नावकाशोऽस्ति च द्वयोः।
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ।। ३७.१४२ ।।
यस्मान्मामीदृशे काले सर्वभूतेप्सिते सति।
प्रतिषेधसितत्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ।३७.१४३।
पादाभ्यान्तेन तच्छन्नं मातुर्द्वारं बृहस्पतेः।
तद्रेतस्तु तयोर्मध्ये निवार्यः शिशुकोऽभवत् ।। ३७.१४४ ।।
सद्यो जातं कुमारन्तं दृष्ट्वाऽथ ममताऽब्रवीत्।
गमिष्यामि गृहं स्वं वै भरद्वाजं बृहस्पते ।। ३७.१४५ ।
एवमुक्त्वा गतायां स पुत्रन्त्यजति तत्क्षणात्।
भरस्व बाढमित्युक्तो भरद्वाजस्ततोऽभवत् ।। ३७.१४६ ।।
मातापितृभ्यां संत्यक्तं दृष्ट्वाथ मरुतः शिशुम्।
गृहीत्वैनं भरद्वाजं जग्मुस्ते कृपया ततः ।। ३७.१४७ ।।
तस्मिन् काले तु भरतो मरुद्भिः क्रतुभिः क्रमात्।
काम्यनैमित्तिकैर्यज्ञैर्यजते पुत्रलिप्सया ।३७.१४८ ।
यदा स यजमानो वै पुत्रान्नासादयत् प्रभुः ।
यज्ञं ततो मरुत्सोमं पुत्रार्थे पुनराहरत् ।। ३७.१४९।
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः।
भरद्वाजं ततः पुत्रं बार्हस्पत्यं मनीषिणम् ।। ३७.१५० ।।
भरतस्तु भरद्वाजं पुत्रं प्राप्य तदाब्रवीत्।
प्रजायां संहृतायां वै कृतार्थोऽहं त्वया विभो ।। ३७.१५१ ।।
पूर्वन्तु वितथं तस्य कृतं वै पुत्रजन्म हि।
ततः स वितथो नाम भरद्वाजस्तथाऽभवत् ।। ३७.१५२ ।।
तस्माद्दिव्यो भरद्वाजो ब्राह्मण्यात् क्षत्रियोऽभवत्।
द्विमुख्यायननामा स स्मृतो द्विपितृकस्तु वै ।३७.१५३।
__________________
ततोऽथ वितथे जाते भरतः स दिवं ययौ।
वितथस्य तु दायादो भुवमन्युर्बभूव ह ।। ३७.१५४।
महाभूतोपमाश्चासंश्चत्वारो भुवमन्युजाः।
बृहत्क्षत्रो महावीर्यो नरो गाग्रश्च वीर्यवान् ।। ३७.१५५ ।।
नरस्य सांकृतिः पुत्रस्तस्य पुत्रौ महौजसौ।
गुरुवीर्यस्त्रिदेवश्च सांकृत्याववरौ स्मृतौ ।। ३७.१५६ ।।
दायादाश्चापि गाग्रस्य शिनिबद्धात् बभूव ह।
स्मृताश्चैते ततो गाग्र्याः क्षात्रोपेता द्विजातयः ।। ३७.१५७ ।।
महावीर्यसुतश्चापि भीमस्तस्मादुभक्षयः।
तस्य भार्या विशाला तु सुषुवे वै सुतांस्त्रयः ।। ३७.१५८ ।।
त्रय्यारुणिं पुष्करिणं तृतीयं सुषुवे कपिम्।
कपेः क्षत्रवरा ह्येते तयोः प्रोक्ता महर्षयः ।३७.१५९।
गाग्राः सांकृतयो वीर्याः क्षात्रोपेता द्विजातयः।
संश्रिताङ्गिरसं पक्षं बृहत्क्षत्रस्य वक्ष्यति ।। ३७.१६० ।।
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह।
तेनेदं निर्मितं पूर्वं नाम्ना वै हास्तिनं पुरम् ।। ३७.१६१।
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।। ३७.१६२।
_
अजमीढस्य पुत्रास्तु शभाः शुभकुलोद्वहाः।
तपसोऽन्ते सुमहतो राज्ञो वृद्धस्य धार्मिकाः ।। ३७.१६३ ।।
भरद्वाजप्रसादेन श्रृणुध्वं तस्य विस्तरम्।
अजमीढस्य केशिन्यां कण्ठः समभवत्किल ।। ३७.१६४ ।।
मेधातिथिः सुतस्तस्य तस्मात् कण्ठायना द्विजाः।
अजमीढस्य धूमिन्यां जज्ञे बृहद्वसुर्नृपः ।। ३७.१६५ ।।
बृहद्वसोर्बृहद्विष्णुः पुत्रस्तस्य महाबलः।
बृहत्कर्मा सुतस्तस्य पुत्रस्तस्य बृहद्रथः ।। ३७.१६६ ।।
विश्वजित्तनयस्तस्य सेनजित्तस्य चात्मजः।
अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः ।३७.१६७ ।।
रुचिराश्वश्च काव्यश्च रामो दृढधनुस्तथा।
वत्सश्चावन्तको राजा यस्य ते परिवत्सराः ।। ३७.१६८।
रुचिराश्वस्य दायादः पृथुषेणो महायशाः।
पृथुषेणस्य पारस्तु पारान्नीपोऽथ जज्ञिवान् ।। ३७.१६९ ।।
यस्य चैकशतञ्चासीत् पुत्राणामिति नः श्रुतम्।
नीपा इति समाख्याता राजानः सर्व एव ते ।। ३७.१७० ।।
तेषां वंशकरः श्रीमान् राजासीत्कीर्त्तिवर्द्धनः।
काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् ।। ३७.१७१ ।।
_______________________________
समरस्य परः पारः सत्वदश्च इति त्रयः।
पुत्राः सर्वगुणोपेताः पारपुत्रो वृषुर्बभौ ।। ३७.१७२।
वृषोस्तु सुकृतिर्नाम सुकृतेनेह कर्मणा।
जज्ञे सर्वगुणोपेतो विब्राजस्तस्य चात्मजः ।। ३७.१७३ ।।
विभ्राजस्य तु दायादस्त्वणुहो नाम पार्थिवः।
बभूव शुकजामाता ऋचीभर्त्ता महायशाः ।। ३७.१७४ ।।
अणुहस्य तु दायादो ब्रह्मदत्तो महातपाः।
योगसूनुः सुतस्तस्य विष्वक्सेनोऽभवनृपः। ३७.१७५ ।।
विब्राजपुत्रा राजानः कुकृतेनेह कर्म्मणा।
विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह ।। ३७.१७६ ।।
भल्लाटस्तस्य दायादो येन राजा पुराहतः।
भल्लाटस्य तु दायादो राजासीज्जनमेजयः।
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ।। ३७.१७७ ।।
।।ऋषय ऊचुः ।।
उग्रायुधः कस्य सुतः कस्मिन् वंशे च कीर्त्यते।
किमर्थञ्चैव नीपास्ते तेन सर्वे प्रणाशिताः ।। ३७.१७८ ।।
।।सूत उवाच।।
द्विमीढस्य तु दायादो विद्वान् जज्ञे यवीनरः।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ।। ३७.१७९ ।।
अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश्चापि सुवर्मा नाम पार्थिवः ।। ३७.१८०।
आसीत्सुवर्म्मणः पुत्रः सार्वभौमः प्रतापवान्।
सार्वभौम इति ख्यातः पृथिव्यामेकराड्बभौ ।। ३७.१८१ ।।
तस्यान्वये च महति महत्पौरवनन्दनः।
महत्पौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ।। ३७.१८२ ।।
अथ रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ।। ३७.१८३ ।।
सुमतेरपि धर्म्मात्मा राजा सन्नतिमान् प्रभुः।
तस्यासीत्सनतिर्नाम कृतस्तस्य सुतोऽभवत् ।। ३७.१८४ ।।
शिष्यो हिरण्यनाभेस्तु कौथुमस्य महात्मनः।
चतुर्विंशतिधा तेन प्रोक्तास्ताः सामसंहिताः ।। ३७.१८५ ।।
स्मृतास्ते प्राच्यनामानः कार्त्ताः साम्नान्तु सामगः ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ।। ३७.१८६ ।।
बभूव येन विक्रम्य पृषतस्य पितामहः।
नीलो नाम महाबाहुः पञ्चालाधिपतिर्हतः ।। ३७.१८७ ।।
उग्रायुधस्य दायादः क्षेमो नाम महायशाः।
क्षेमात्सु वीरः संजज्ञे सुवीरस्य नृपञ्जयः।
नृपञ्जयाद्वीररथो इत्येते पौरवाः स्मृताः ।। ३७.१८८ ।।
अजमीढस्य नीलिन्यां नीलः समभवन्नृपः।
नीलस्य तपसोग्रेण सुशान्तिरभ्यजायत ।। ३७.१८९ ।।
पुरुजानुः सुशान्तेस्तु रिक्षस्तु पुरुजानुजः।
ततस्तु रिक्षदायादा भेदाश्च तनयास्त्विमे ।। ३७.१९० ।।
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा ।
यवीयांश्चापि विक्रान्तः कम्पिल्यश्चैव पञ्चमः ।। ३७.१९१ ।।
पञ्चानां रक्षणार्थाय पितैतानभ्यभाषत।
पञ्चानां विद्धि पञ्चैतान् स्फीता जनपदा युताः ।। ३७.१९२ ।।
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः।
मुद्गलस्यापि मौद्गल्याः क्षात्रोपेतद्विजातयः ।। ३७.१९३ ।।
एते ह्यङ्गिरसः पक्षे संश्रिताः कण्ठमुद्घलाः ।
मुद्घलस्य सुतो ज्येष्ठो ब्रह्मिष्ठः सुमहायशाः ।। ३७.१९४ ।।
इन्द्रसेना यतो गर्भं बध्यश्वं प्रत्यपद्यत।
बध्यश्वान्मिथुनं जज्ञे मेनका इति नः श्रुतिः ।। ३७.१९५ ।।
दिवोदासश्च राजर्षिरहल्या च यशस्विनी।
शारद्वतस्तु दायादमहल्या समसूयत ।। ३७.१९६ ।।
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः।
पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ।। ३७.१९७ ।।
अथ सत्यधृतेः शुक्रं दृष्ट्वाप्सरसमग्रतः।
प्रचस्कन्दे शरस्तम्बे मैथुनं समपद्यत ।। ३७.१९८ ।।
कृपया तच्च जग्राह शन्तनुर्मृगयां गतः।
कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ।। ३७.१९९ ।।
एते शारद्वताः प्रोक्ताः ऋतथ्यो गौतमान्वयः।
अत ऊर्द्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् ।। ३७.२०० ।।
दिवोदासस्य दायादो ब्रह्मिष्ठो मित्रयुर्नृपः।
मैत्रेयस्तु ततो जज्ञे स्मृता एतेऽपि संश्रिताः ।। ३७.२०१ ।।
एतेऽपि संश्रिताः पक्षं क्षात्रोपेतास्तु भार्गवाः।
राजापि च्यवनो विद्वांस्ततः प्रतिरथोऽभवत् ।। ३७.२०२ ।।
अथ वै च्यवनाद्धीमान् सुदासः समपद्यत।
सौदासः सहदेवश्च सोमकस्तस्य चात्मजः ।। ३७.२०३ ।।
अजमीढः पुनर्जातः क्षीणे वंशे स सोमकः।
सोमकस्य सुतो जन्तुर्हते तस्मिञ्छतं विभो ।। ३७.२०४ ।।
पुषाणामजमीढस्य सोमकत्वे महात्मनः।
तेषां यवीयान् पृषतो द्रुपदस्य पितामहः ।। ३७.२०५ ।।
धृष्टद्युम्नः सुतस्तस्य धृष्टकेतुश्च तत्सुतः।
महिषी चाजमीढस्य धूमिनी पुत्रगर्धिनी ।। ३७.२०६ ।।
पुनर्भवे तपस्तेपे शतं वर्षाणि दुश्चरम्।
हुताग्न्यनिद्रा ह्यभवत् पवित्रमितभोजना ।। ३७.२०७ ।।
अहोरात्रं कुशेष्वेव सुष्वाप सुमहाव्रता।
तस्यां वै धूम्रवर्णायामजमीढश्च वीर्यवान् ।। ३७.२०८ ।।
ऋक्षं संजनयामास धूम्रवर्ण सिताग्रजम्।
ऋक्षात् संवरणो जज्ञे कुरुः संवरणादभूत् ।। ३७.२०९ ।।
यः प्रयागं पदाक्रम्य कुरुक्षेत्रञ्चकार ह।
कृष्ट्वैनं सुमहातेजा वर्षाणि सुबहून्यथ ।। ३७.२१० ।।
कृष्यमाणे तदा शक्रस्तत्रास्य वरदो बभौ।
पुण्यञ्च रमणीयञ्च पुण्यकृद्भिर्निषेवितम् ।। ३७.२११ ।।
तस्यान्ववायजाः ख्याताः कुरवो नृपसत्तमाः।
कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च ।। ३७.२१२ ।।
परिक्षितो महाराजः पुत्रकश्चारिमर्दनः।
सुधन्वनस्तु दायादः सुहोत्रो मतिमान् स्मृतः ।। ३७.२१३ ।।
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः।
च्यवनस्य कृतः पुत्र इष्ट्वा यज्ञैर्महातपाः ।। ३७.२१४।
विश्रुतं जनयामास पुत्रमिन्द्रसखं नृपः।
विद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ।। ३७.२१५ ।।
विद्योपरिचराज्जज्ञे गिरिका सप्त सूनवः।
महारथो भगधरो विश्रुतो यो बृहद्रथः ।। ३७.२१६ ।।
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम्।
माथैल्यश्च ललित्थश्च मत्स्यकालश्च सप्तमः ।। ३७.२१७ ।।
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः।
कुशाग्रस्यात्मजश्चैव ऋषभो नाम वीर्यवान् ।। ३७.२१८ ।।
ऋषभस्यापि दायादः पुष्पवान्नाम धार्मिकः।
विक्रान्तस्तस्य दायादो राजा सत्यहितः स्मृतः ।। ३७.२१९ ।।
तस्य पुत्रः सुधन्वा च तस्मादूर्ज्जः प्रतापवान्।
ऊर्ज्जस्य नभसः पुत्रस्तस्माज्जज्ञे स वीर्यवान् ।। ३७.२२० ।।
__________________________________
शकले द्वे स वै जातो जरया सन्धितस्तु सः।
जरासन्धो महाबाहुर्जरया सन्धितस्तु सः ।। ३७.२२१।
सर्वक्षत्रस्य जेताऽसौ जरासन्धो महाबलः।
जरासन्धस्य पुत्रस्तु सहदेवः प्रतापवान् ।। ३७.२२२ ।।
सहतेवात्मजः श्रीमान् सोमाधिः सुमहातपाः।
श्रुतश्रुवस्तु सोमाधेर्मागधः परिकीर्तितः ।। ३७.२२३ ।
।।सूत उवाच।।
परिक्षितस्य दायादो बभूव जनमेजयः।
श्रुतसेनस्य दायादो भीमसेनोऽपि नामतः ।। ३७.२२४ ।।
जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम्।
सुरथस्य तु दायादो वीरो राजा विदूरथः ।। ३७.२२५ ।।
विदूरथसुतश्चापि सार्वभौम इति श्रुतिः।
सार्वभौमा ज्जयत्सेन आराधिस्तस्य चात्मजः ।। ३७.२२६ ।।
आराधितो महासत्त्व अयुतायुस्ततः स्मृतः ।
अक्रोधनोऽयुतायोऽस्तु तस्माद्देवातिथिः स्मृतः ।। ३७.२२७ ।।
देवातिथेस्तु दायाद ऋक्ष एव बभूव ह।
भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चात्मजः ।। ३७.२२८ ।।
_____________
दिलीपसूनुः प्रतीपस्तस्य पुत्रास्त्रयः स्मृताः।
देवापिः शन्तनुश्चैव बाह्लीकश्चैव ते त्रयः ।। ३७.२२९ ।।
बाह्लीकस्य तु विज्ञेयः सप्तबाह्लीश्वरो नृपः।
बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ।। ३७.२३० ।।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ।
देवापिस्तु प्रवव्राज वनं धर्म्मपरीप्सया ।३७.२३१।
उपाध्यायस्तु देवानां देवापिरभवन्मुनिः।
च्यवनोऽस्य हि पुत्रस्तु इष्टकश्च महात्मनः ।। ३७.२३२ ।।
शन्तनुस्त्वभवद्राजा विद्वान् वै स महाभिषः ।
इमं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषम् । ३७.२३३।
यं यं राजा स्पृशति वै जीर्णं समयतो नरम्।
पुनर्युवा स भवति तस्मात्ते शन्तनुं विदुः ।३७.२३४ ।
ततोऽस्य शन्तनुत्वं वै प्रजास्विह परिश्रुतम्।
स उपयेमे धर्म्मात्मा शन्तनु र्जाह्नवीं नृपः ।३७.२३५ ।
तस्यां देवव्रतं भीष्मं पुत्रं सोऽजनयत्प्रभुः ।
स च भीष्म इति ख्यातः पाण्डवानां पितामहः ।। ३७.२३६ ।।
काले विचित्रवीर्यन्तु शन्तनु र्जनयत्सुतम्।
शन्तनोर्दयितं पुत्रं प्रजाहितकरम्प्रभुम्।
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ।३७.२३७ ।
धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत्।
धृतराष्ट्रात्तु गान्धारी पुत्राणां सुषुवे शतम् ।३७.२३८ ।
तेषां दुर्योधनो ज्येष्ठः सर्व्वक्षत्रस्य स प्रभुः।
माद्री राज्ञी पृथा चैव पाण्डोर्भार्ये बभूवतुः ।। ३७.२३९ ।।
देवदत्ताः सुतास्ताभ्यां पाण्डोरर्थे विजज्ञिरे।
धर्म्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः ।। ३७.२४० ।।
इन्द्राद्धनञ्जयो जज्ञे शक्रतुल्यपराक्रमः।
अश्विभ्यां सह देवश्च नकुलश्चापि माद्रिजौ ।। ३७.२४१ ।।
पञ्चैव पाण्डवेभ्यश्च द्रौपद्यां जज्ञिरे सुताः।
द्रौपद्यजनयज्ज्येष्ठं श्रुतिविद्धं युधिष्ठिरात् ।। ३७.२४२ ।।
हिडम्बा भीमसेनात्तु जज्ञे पुत्रं घटोत्कचम्।
काश्याः पुनर्भीमसेनाज्जज्ञे सर्व्ववृकं सुतम् ।। ३७.२४३ ।।
सुहोत्रं विजया माद्री सहदेवादजायत।
करेमत्यान्तु वैद्यायां निरमित्रस्तु लाङ्गलिः ।। ३७.२४४ ।।
सुभद्रायां रथी पार्थादभिमन्युरजायत।
उत्तरायान्तु वैराट्यां परिक्षिदभिमन्युजः ।। ३७.२४५ ।।
परिक्षितस्तु दायादो राजासीज्जनमेजयः।
ब्राह्मणान् स्थापयामास स वै वाजसनेयिकान् ।। ३७.२४६ ।।
असपत्नं तदामर्षाद्वैशम्पायन एव तु।
न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि ।। ३७.२४७ ।।
यावत्स्था स्याम्यहं लोके तावन्नैतत्प्रशस्यते।
अभितः संस्थितश्चापि ततः स जनमेजयः ।३७.२४८ ।
पौर्णमास्येन हविषा देवमिष्ट्वा प्रजापतिम्।
विज्ञाय संस्थितोऽपश्यत्तद्वधीष्टां विभोर्मखे ।। ३७.२४९ ।।
परिक्षित्तनयश्वापि पौरवो जनमेजयः ।
द्विरश्वमेधमाहृत्य ततो वाजसनेयकम् ।
प्रवर्त्तयित्वा तद्ब्रह्म त्रिखर्व्वी जनमेजयः ।। ३७.२५० ।।
खर्व्वमश्वकमुख्यानां खर्व्वमङ्गनिवासिनाम्।
सर्व्वञ्च मध्यदेशानां त्रिखर्व्वी जनमेजयः ।
विषादाद्ब्राह्मणैः सार्द्धमभिशस्तः क्षयं ययौ। ३७.२५१ ।।
तस्य पुत्रः शतनीको बलवान् सत्यविक्रमः ।
ततः सुतं शतानीकं विप्रास्तमभ्यषेचयत् ।। ३७.२५२ ।।
पुत्रोऽश्वमेध दत्तोऽभूच्छतानीकस्य वीर्य्यवान्।
पुत्रोऽश्वमेधदत्ताद्वै जातः परपुरंजयः ।। ३७.२५३ ।।
अधिसामकृष्णो धर्मात्मा साम्प्रतोऽयं महायशाः।
यस्मिन् प्रशासति महीं युष्माभिरिदमाहृतम् ।। ३७.२५४ ।।
दुरापं दीर्घसत्रं वै त्रीणि वर्षाणि दुश्चरम्।
वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ।। ३७.२५५ ।।
ऋषय ऊचुः ।।
श्रोतुं भविष्यमिच्छामः प्रजानां वै महामते ।
सूत सार्द्धं नृपैर्भाव्यं व्यतीतं कीर्त्तितं त्वया ।। ३७.२५६।
यत्तु संस्थास्यते कृत्यमुत्पत्स्यन्ति चे ये नृपाः।
वर्षाग्रतोऽपि प्रब्रूहि नामतश्चैव तान्नृपान् ।। ३७.२५७ ।।
कालं युगप्रमाणञ्च गुणदोषान् भविष्यतः।
सुखदुःखे प्रजानाञ्च धर्मतः कामतोऽर्थतः ।। ३७.२५८ ।।
एतत्सर्वं प्रसङ्ख्याय पृच्छतां ब्रूहि तत्वतः।
स एवमुक्तो मुनिभिः सूतो बुद्धिमतां वरः।
आचचक्षे यथावृत्तं यथादृष्टं यथाश्रुतम् ।। ३७.२५९ ।।
।।सूत उवाच।।
यथा मे कीर्त्तितं सर्वं व्यासेनाद्भुतकर्म्मणा।
भाव्यं कलियुगञ्चैव तथा मन्वन्तराणि तु ।। ३७.२६०।
अनागतानि सर्वाणि ब्रुवतो मे निबोधत।
अत ऊर्द्ध्वं प्रवक्ष्यामि भविष्यन्ति वृपास्तु ये ।। ३७.२६१ ।।
ऐलांश्चैव तथेक्ष्वाकून् सौद्युम्नांश्चैव पार्थिवान्।
येषु संस्थाप्यते क्षेत्रणैक्ष्वाकवमिदं शुभम् ।। ३७.२६२ ।।
________________________
तान् सर्वान् कीर्त्तयिष्यामि भविष्ये पठितान्नृपान्।
तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते महीक्षितः ।। ३७.२६३ ।।
क्षत्राः पारशवाः शूद्रास्तथा ये च द्विजातयः।
अन्धाः शकाः पुलिन्दाश्च तूलिका यवनैः सह ।। ३७.२६४ ।।
कैवर्त्त आभीर शबरा ये चान्ये म्लेच्छजातयः।
वर्षाग्रतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ।। ३७.२६५ ।।
_____________________
अधिसामकृष्णः सोऽयं साम्प्रतं पौरवान्नृपः।
तस्यान्ववाये वक्ष्यामि भविष्ये तावतो नृपान् ।। ३७.२६६ ।।
अधिसामकृष्णपुत्रो निर्वक्रे भविता किल।
गङ्गयापहृते तस्मिन्नगरे नागसाह्वये।
त्यक्त्वा च तं सुवासञ्च कौशाम्ब्यां स निवत्स्यति ।। ३७.२६७ ।।
भविष्यदुष्णस्तत्पुत्र उष्णाच्चित्ररथः स्मृतः।
शुचिद्रथश्चित्ररथाद्वृतिमांश्च शुचिद्रथात् ।३७.२६८ ।
सुषेणो वै महावीर्यो भविष्यति महायशाः।
तस्मात्सुषेणाद्भविता सुतीर्थो नाम पार्थिवः ।। ३७.२६९ ।।
रुचः सुतीर्थाद्भविता त्रिचक्षो भविता ततः।
त्रिचक्षस्य तु दायादो भविता वै सुखीबलः ।। ३७.२७० ।।
सुखीबलसुतश्चापि भाव्यो राजा परिप्लुतः।
परिप्लुतसुतश्चापि भविता सुनयो नृपः ।। ३७.२७१ ।।
मेधावी सुनयस्याथ भविष्यति नराधिपः।
मेधाविनः सुतश्चापि दण्डपाणिर्भविष्यति ।। ३७.२७२ ।।
दण्डपाणेर्निरामित्रे निरामित्राच्च क्षेमकः।
पञ्चविंशनृपा ह्येते भविष्याः पूर्ववंशजाः ।। ३७.२७३ ।।
अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुराविदैः।
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ।। ३७.२७४।
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
इत्येष पौरवो वंशो यथावदनुकीर्त्तितः ।। ३७.२७५ ।।
धीमतः पाण्डुपुत्रस्य ह्यर्जुनस्य महात्मनः।
अत ऊर्द्ध्वं प्रवक्ष्यामि इक्ष्वाकूणां महात्मनाम् ।। ३७.२७६ ।।
बृहद्रथस्य दायादो वीरो राजा बृहत्क्षयः ।
ततः क्षयः सुतस्तस्य वत्सव्यूहस्ततः क्षयात् ।। ३७.२७७ ।।
वत्सव्यूहात्प्रतिव्यूहस्तस्य पुत्रो दिवाकरः।
यश्च सांप्रतमध्यास्त अयोध्यां नगरीं नृपः ।। ३७.२७८ ।।
दिवाकरस्य भविता सहदेवो महायशाः।
सहदेवस्य दायादो बृहदश्वो भविष्यति ।। ३७.२७९ ।।
तस्य भानुरथो भाव्यः प्रतीताश्वश्च तत्सुतः।
प्रतीताश्वसुतश्चापि सुप्रतीतो भविष्यति ।। ३७.२८० ।।
सहदेवः सुतस्तस्य सुनक्षत्रश्च तत्सुतः ।। ३७.२८१ ।।
किन्नरस्तु सुनक्षत्राद्भविष्यति परंतपः।
भविता चान्तरिक्षस्तु किन्नरस्य सुतो महान् ।। ३७.२८२ ।।
अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित्।
पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः।
पुत्रः कृतञ्जयो नाम धर्मिणः स भविष्यति।
कृतञ्जयसुतो व्रातो तस्य पुत्रो रणञ्जयः ।। ३७.२८३ ।।
_______________________
भविता सञ्जयश्चापि वीरो राजा रणञ्जयात्।
सञ्जयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ।। ३७.२८४ ।।
शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः।
प्रसेनजित्ततो भाव्यः क्षुद्रको भविता ततः ।। ३७.२८५ ।।
क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः।
सुमित्रः सुरथस्यापि अन्त्यश्च भविता नृपः ।। ३७.२८६ ।।
एते ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे।
बृहद्बलान्वये जाता भवितारः कलौ युगे।
शूराश्च कृतविद्याश्च सत्यसन्धा जितेन्द्रियाः ।। ३७.२८७ ।।
अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः।
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
इत्येतन्मानवं क्षेत्रमैलञ्च समुदाहृतम् ।३७.२८८।
अत ऊर्द्ध्वं प्रवक्ष्यामि मागधेयान्बृहद्रथान्।
जरासन्धस्य ये वंशे सहदेवान्वये नृपाः ।। ३७.२८९ ।।
अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः।
प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ।। ३७.२९० ।।
संग्रामे भारते तस्मिन् सहदेवो निपातितः।
सोमाधिस्तस्य तनयो राजर्षिः सगिरिव्रजे ।। ३७.२९१ ।।
पञ्चाशतं तथाष्टौ च समा राज्यमकारयत्।
श्रुतश्रवाः चतुःषष्टिसमास्तस्य सुतोऽभवत्।
अयुतायुस्तु षड्विंशं राज्यं वर्षाण्यकारयत्।
समाः शतं निरामित्रो महीं भुक्त्वा दिवङ्गतः ।। ३७.२९२ ।।
पञ्चाशतं समाः षट् च सुकृत्तः प्राप्तवान्महीम्।
त्रयोविंशं बृहत्कर्मा राज्यं वर्षाण्यकारयत् ।। ३७.२९३ ।।
सेनाजित्साम्प्रतं चापि एतां वै भुज्यते समाः।
श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति ।। ३७.२९४ ।।
महाबाहुर्महाबुद्धिर्महाभीमपराक्रमः।
पञ्चत्रिंशत्तु वर्षाणि महीं पालयिता नृपः । ३७.२९५।
अष्टपञ्चा शतं चाब्दान् राज्ये स्थास्यति वै शुचिः।
अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ।। ३७.२९६ ।।
भुवतस्तु चतुःषष्टीराज्यं प्राप्स्यति वीर्य्यवान्।
पञ्चवर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ।। ३७.२९७ ।।
भोक्ष्यते नृपतिश्चैव ह्यष्टपञ्चाशतं समाः।
अष्टात्रिंशत्समा राज्यं सुव्रतस्य भविष्यति ।। ३७.२९८ ।।
चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति।
त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ।३७.२९९ ।
द्वाविंशतिसमा राज्यं सुचलो भोक्ष्यते ततः।
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ।। ३७.३०० ।।
सत्यजित्पृथिवीराज्यं त्र्यशीतिं भोक्ष्यते समाः।
प्राप्येमां वीरजिच्चापि पञ्चत्रिंशद्भविष्यति ।। ३७.३०१ ।।
अरीञ्जयस्तु वर्षाणि पञ्चाशत्प्राप्स्यते महीम्।
द्वात्रिंशच्च नृपा ह्येते भवितारो बृहद्रथाः ।। ३७.३०२ ।।
पूर्णं वर्षसहस्रं वै तेषां राज्यं भविष्यति।
बृहद्रथेष्वतीतेषु वीतहोत्रेषु वर्तिषु ।। ३७.३०३ ।।
मुनिकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति।
मिषतां क्षत्रियाणां हि प्रद्योतो मुनिको बलात् ।। ३७.३०४ ।।
स वै प्रणतसामन्तो भविष्ये नयवर्ज्जितः ।
त्रयोविंशत्समा राजा भविता स नरोत्तमः ।। ३७.३०५ ।।
चतुर्विंशत्समा राजा पालको भविता ततः।
विशाखयूपो भविता नृपः पञ्चाशतीं समाः ।। ३७.३०६ ।।
एकत्रिंशत्समा राज्यमजकस्य भविष्यति।
भविष्यति समा विंशत्तत्सुतो वर्त्तिवर्द्धनः ।। ३७.३०७ ।।
अष्टात्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते सुताः।
हत्वा तेषां यशः कृत्स्नं शिशुनाको भविष्यति ।। ३७.३०८ ।।
वाराणस्यां सुतस्तस्य संप्राप्स्यति गिरिव्रजम्।
शिशुनाकस्य वर्षाणि चत्वारिंशद्भविष्यति ।। ३७.३०९ ।।
शकवर्णः सुतस्तस्य षट्त्रिंशच्च भविष्यति।
ततस्तु विंशतिं राजा क्षेमवर्मा भविष्यति ।। ३७.३१० ।।
अजातशत्रूर्भविता पञ्चविंशत्समा नृपः।
चत्वारिंशत्समा राज्यं क्षत्रौजाः प्राप्स्यते ततः ।। ३७.३११ ।।
अष्टाविंशत्समा राजा विविसारो भविष्यति।
पञ्चविंशत्समा राजा दर्शकस्तु भविष्यति ।। ३७.३१२ ।।
______
उदायी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः।
स वै पुरवरं राजा पृथिव्यां कुसुमाह्वयम्।
गङ्गाया दक्षिणे कूले चतुर्थेऽब्दे करिष्यति ।। ३७.३१३ ।।
द्वाचत्वारिंशत्समा भाव्यो राजा वै नन्दिवर्द्धनः।
चत्वारिंशत्त्रयञ्चैव महा नन्दी भविष्यति ।। ३७.३१४ ।।
इत्येते भवितारौ वै शैशुनाका नृपा दश।
अतानि त्रीणि वर्षाणि द्विषष्ट्यभ्यधिकानि तु ।। ३७.३१५ ।।
शैशुनाका भविष्यन्ति तावत्कालं नृपाः परे।
एतैः सार्द्धं भविष्यंति राजानः क्षत्रबान्धवाः ।। ३७.३१६ ।।
ऐक्ष्वाकवाश्चतुर्विंशत्पाञ्चालाः पञ्चविंशतिः।
कालकास्तु चतुर्व्विंशच्चतुर्व्विंशत्तु हैहयाः ।। ३७.३१७ ।।
द्वात्रिंशद्वै कलिङ्गास्तु पञ्चविंशत्तथा शकाः।
कुरवश्चापि षड्विंशदष्टाविंशति मैथिलाः ।। ३७.३१८ ।।
शूरसे नास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः।
तुल्यकालं भविष्यन्ति सर्व एव महीक्षितः ।। ३७.३१९।
महानन्दिसुतश्चापि शूद्रायां कालसंवृतः।
उत्पत्स्यते महापद्मः सर्वक्षत्रान्तरे नृपः ।। ३७.३२० ।।
ततःप्रभृति राजानो भविष्याः शूद्रयोनयः।
एकराट् स महापद्म एकच्छत्रो भविष्यति ।। ३७.३२१ ।।
अष्टा विंशतिवर्षाणि पृथिवीं पालयिष्यति।
सर्वक्षत्रहृतोद्धृत्य भाविनोऽर्थस्य वै बलात् ।। ३७.३२२ ।।
सहस्रास्तत्सुता ह्यष्टौ समा द्वादश ते नृपाः।।
महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ।। ३७.३२३ ।।
____________________
उद्धरिष्यति तान् सर्वान् कौटिल्यो वै द्विरष्टभिः।
भुक्त्वा महीं वर्षशतं नन्देन्दुः स भविष्यति ।। ३७.३२४ ।।
चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति।
चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ।। ३७.३२५ ।।
भविता भद्र सारस्तु पञ्चविंशत्समा नृपः।
षड्विंशत्तु समा राजा ह्यशोको भविता नृषु ।। ३७.३२६ ।।
तस्य पुत्रः कुनालस्तु वर्षाण्यष्टौ भविष्यति।
कुनाल सूनुरष्टौ च भोक्ता वै बन्धुपालितः ।। ३७.३२७।
बन्धुपालितदायादो दशमानीन्द्रपालितः।
भविता सप्तवर्षाणि देववर्म्मा नराधिपः ।। ३७.३२८ ।।
राजा शतधरश्चाष्टौ तस्य पुत्रो भविष्यति।
बृहदश्वश्च वर्षाणि सप्त वै भविता नृपः ।। ३७.३२९।
इत्येते नव भूपा ये भोक्ष्यन्ति च वसुन्धराम्।
सप्तत्रिंशच्छतं पूर्णं तेभ्यस्तु गौर्भविष्यति ।। ३७.३३०।
पुष्पमित्रस्तु सेनानीरुद्धृत्य वै बृहद्रथम्।
कारयिष्यति वै राज्यं समाः षष्टिं सदैव तु ।३७.३३१ ।।
पुष्पमित्रसुताश्चाष्टौ भविष्यन्ति समा नृपाः।
भविता चापि तज्ज्येष्ठः सप्तवर्षाणि वै ततः ।। ३७.३३२ ।।
वसुमित्रः सुतो भाव्यो दशवर्षाणि पार्थिवः।
ततो ध्रुकः समा द्वे तु भविष्यति सुतश्च वै ।। ३७.३३३ ।।
भविष्यन्ति समास्तस्मात्तिस्र एव पुलिन्दकाः।
राजा घोषसुतश्चापि वर्षाणि भविता त्रयः ।। ३७.३३४।
ततो वै विक्रमित्रस्तु समा राजा ततः पुनः।
द्वात्रिंशद्भविता चापि समा भागवतो नृपः ।। ३७.३३५।
भविष्यति सुतस्तस्य क्षेमभूमिः समा दश।
दशैते तुङ्गराजानो भोक्ष्यन्तीमां वसुन्धरम् ।। ३७.३३६ ।।
शतं पूर्णं दश द्वे च तेभ्यः किं वा गमिष्यति।
अपार्थिवसुदेवन्तु बाल्याद्व्यसनिनं नृपम् ।। ३७.३३७ ।।
देवभूमिस्ततोऽन्यश्च श्रृङ्गेषु भविता नृपः।
भविष्यति समा राजा नव कण्ठायनस्तु सः ।। ३७.३३८ ।।
भूतिमित्रः सुतस्तस्य चतुर्व्विंशद्भविष्यति।
भविता द्वादश समास्तस्मान्नारायणो नृपः ।। ३७.३३९ ।।
सुशर्म्मा तत्सुतश्चापि भविष्यति समा दश।
चतुरस्तुङ्गकृत्यास्ते नृपाः कण्ठायना द्विजाः ।। ३७.३४० ।।
भाव्याः प्रणतसामन्ताश्चत्वारिंशच्च पञ्च च।
तेषां पर्य्यायकाले तु तरन्धा तु भविष्यति ।३७.३४१।
कण्ठायनमथोद्धृत्य सुशर्म्माणं प्रसह्य तम्।
श्रृङ्गाणां चापि यच्छिष्टं क्षययित्वा बलं तदा।
सिन्धुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुन्धराम् ।। ३७.३४२ ।।
त्रयोविंशत्समा राजा सिन्धुको भविता त्वथ।
अष्टौ भातश्च वर्षाणि तस्माद्दश भविष्यति ।। ३७.३४३ ।।
श्रीसातकर्णिर्भविता तस्य पुत्रस्तु वै महान्।
पञ्चाशतं समाः षट् च सातकर्णिर्भविष्यति ।। ३७.३४४ ।।
आपादबद्धो दश वै तस्य पुत्रो भविष्यति।
चतुर्व्विंशत्तु वर्षाणि षट् समा वै भविष्यति ।। ३७.३४५ ।।
भविता नेमिकृष्णस्तु वर्षाणां पञ्चविंशतिम्।
ततः संवत्सरं पूर्णं हालो राजा भविष्यति ।। ३७.३४६ ।।
पञ्च सप्तक राजानो भविष्यन्ति महाबलाः।
भाव्यः पुत्रिकषेणस्तु समाः सोऽप्येकविंशतिम् ।। ३७.३४७ ।।
सातकर्णिर्वर्षमेकं भविष्यति नराधिपः।
अष्टाविंशत्तु वर्षाणि शिवस्वामी भविष्यति ।। ३७.३४८ ।।
राजा च गौतमीपुत्र एकविंशत्समा नृषु।
एकोनविंशतिं राजा यज्ञश्रीः सातकर्ण्यथ ।३७.३४९।
षडेव भविता तस्माद्विजयस्तु समा नृपः।
दण्डश्रीः सातकर्णी च तस्य पुत्रः समास्त्रयः ।। ३७.३५० ।।
पुलोवापि समाः सप्त अन्येषाञ्च भविष्यति ।
इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति ये महीम् ।। ३७.३५१ ।।
समाः शतानि चत्वारि पञ्च षड्वै तथैव च।
अन्ध्राणां संस्थिताः पञ्च तेषां वंशाः समाः पुनः ।। ३७.३५२ ।।
_____________________
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः।
सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ।। ३७.३५३।
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश।
त्रयोदश मरुण्डाश्च मौना ह्यष्टादशैव तु ।३७.३५४ ।।
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतं च वै।
शतानि त्रीण्यशीतिञ्च भोक्ष्यन्ति वसुधां शकाः ।। ३७.३५५ ।।
अशीतिञ्चैव वर्षाणि भोक्तारो यवना महीम्।
पञ्चवर्षशतानीह तुषाराणां मही स्मृता ।। ३७.३५६ ।।
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश।
मरुण्डा वृषलैः सार्द्धं भाव्यान्या म्लेच्छजातयः ।। ३७.३५७ ।।
_______________
शतानि त्रीणि भोक्ष्यन्ति म्लेच्छा एकादशैव तु।
तच्छन्नेन च कालेन ततः कोलिकिला वृषाः ।। ३७.३५८ ।।
ततः कोलिकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति।
समाः षण्णवतिं त्रात्वा पृथिवीं च समेष्यति ।। ३७.३५९ ।।
वृषान् वै दिशकांश्चापि भविष्याश्च निबोधत।
शेषस्य नागराजस्य पुत्रः स्वरपुरञ्जयः ।। ३७.३६०।
भोगी भविष्यते राजा नृपो नागकुलोद्वहः।
सदाचन्द्रस्तु चन्द्रांशो द्वितीयो नखवांस्तथा ।। ३७.३६१।
धनधर्मा ततश्चापि चतुर्थो विंशजः स्मृतः।
भूतिनन्दस्ततश्चापि वैदेशे तु भविष्यति ।। ३७.३६२ ।।
अङ्गानां नन्दनस्यान्ते मधुनन्दिर्भविष्यति।
तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ।। ३७.३६३ ।।
तस्यान्वये भविष्यन्ति राजानस्ते त्रयस्तु वै।
दोहित्रः शिशुको नाम पुरिकायां नृपोऽभवत् ।। ३७.३६४ ।।
विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् ।
भोक्ष्यन्ति च समाः षष्टिं पुरीं काञ्चनकाञ्च वै ।। ३७.३६५ ।।
यक्ष्यन्ति वाजपेयैश्च समाप्तवरदक्षिणैः।
तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ।। ३७.३६६ ।।
विन्ध्यकानां कुलेऽतीते नृपा वै बाह्लिका स्त्रयः।
सुप्रतीको नभीरस्तु समा भोक्ष्यति त्रिंशतिम् ।। ३७.३६७ ।।
शक्यमा नाम वै राजा माहिषीनां महीपतिः।
पुष्पमित्रा भविष्यन्ति पट्टमित्रास्त्रयोदश ।। ३७.३६८ ।।
मेकलायां नृपाः सप्त भविष्यन्ति च सत्तमाः।
कोमलायान्तु राजानो भविष्यन्ति महाबलाः ।। ३७.३६९ ।।
मेघा इति समाख्याता बुद्धिमन्तो नवैव तु।
नैषधाः पार्थिवाः सर्व्वे भविष्यन्त्यामनुक्षयात् ।। ३७.३७० ।।
नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः।
मागधानां महावीर्यो विश्वस्फानिर्भविष्यति ।। ३७.३७१ ।।
उत्साद्य पार्थिवान् सर्व्वान्सोऽन्यान् वर्णान् करिष्यति।
कैवर्त्तान् पञ्चकांश्चैव पुलिन्दान् ब्राह्मणांस्तथा ।। ३७.३७२ ।।
स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा।
विश्वस्फानिर्महासत्त्वो युद्धे विष्णुसमो बली ।। ३७.३७३ ।।
विश्वस्फानिर्नरपतिः क्लीबा कृतिरिवोच्यते।
उत्सादयित्वा क्षत्रन्तु क्षत्रमन्यत् करिष्यति ।। ३७.३७४ ।।
देवान् पितॄंश्च विप्रांश्च तर्पयित्वा सकृत्पुनः।
जाह्नवीतीरमासाद्य शरीरं यस्यते बली ।। ३७.३७५ ।।
संन्यस्य स्वशरीरन्तु शक्रलोकं गमिष्यति।
नवनाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ।। ३७.३७६ ।।
मथुराञ्च पुरीं रम्यां नागा भोक्ष्यन्ति सप्त वै।
अनुगङ्गं प्रयागञ्च साकेतं मगधांस्तथा।
एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ते गुप्तवंशजाः ।। ३७.३७७ ।।
निषधान् यदुकांश्चैव शैशी तान् कालतोपकान्।
एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ति मणिधान्यजाः ।। ३७.३७८ ।।
कोशलांश्चान्ध्रपौण्ड्रांश्च ताम्रलिप्तान् ससागरान्।
चम्पां चैव पुरीं रम्यां भोक्ष्यन्ति देवरक्षिताम् ।। ३७.३७९ ।।
_______
कालिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये।
एताञ्जनपदान् सर्व्वान् पालयिष्यति वै गुहः ।। ३७.३८० ।।
स्त्रीराष्ट्रं भक्ष्यकांश्चैव भोक्ष्यते कनकाह्वयः।
तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ।३७.३८१।
अल्पप्रसादा ह्यनृता महाक्रोधाः ह्यधार्मिकाः।
भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः ।३७.३८२।
नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः।
युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ।। ३७.३८३ ।।
स्त्रीणां बलवधेनैव हत्वा चैव परस्परम्।
भोक्ष्यन्ति कलिशेषे तु वसुधां पार्थिवास्तथा ।। ३७.३८४ ।।
उदितोदितवंशास्ते उदितास्तमितास्तथा ।
भविष्यन्तीह पर्याये कालेन पृथिवीक्षितः ।३७.३८५ ।।
विहीनास्तु भविष्यन्ति धर्म्मतः कामतोऽर्थतः।
तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ।। ३७.३८६ ।।
विपर्य्ययेन वर्त्तन्ते नाशयिष्यन्ति वै प्रजाः।
लुब्धानृतरताश्चैव भवितारस्तदा नृपाः ।। ३७.३८७ ।।
तेषां व्यतीते पर्याये बहुस्त्रीके युगे तदा।
लवाल्लवं भ्रश्यमाना आयूरूपबलश्रुतैः ।। ३७.३८८ ।।
तथा गतास्तु वै काष्ठां प्रजासु जगतीश्वराः ।
राजानः सम्प्रणश्यन्ति कालेनोपहतास्तदा ।। ३७.३८९ ।।
कल्किनोपहताः सर्वे म्लेच्छा यास्यन्ति सर्वशः।
अधार्मिकाश्च तेऽत्यर्थं पाषण्डाश्चैव सर्वशः ।। ३७.३९० ।।
________
प्रनष्टे नृपशब्दे च सन्ध्याश्लिष्टे कलौ युगे।
किंञ्चिच्छिष्टाः प्रजास्ता वै धर्म्मे नष्टेऽपरिग्रहाः ।। ३७.३९१ ।।
असाधना हताश्वासा व्याधिशोकेन पीडिताः।
अनावृष्टिहताश्चैव परस्परवधेन च ।। ३७.३९२ ।।
अनाथा हि परित्रस्ता वार्त्तामुत्सृज्य दुःखिताः।
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ।। ३७.३९३ ।।
एवं नृपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु।
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनाः ।। ३७.३९४ ।।
वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः।
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ।। ३७.३९५ ।।
सरितः सागरानूपान् सेवन्ते पर्वतानि च।
अङ्गान् कलिङ्गान् वङ्गांश्च काश्मीरान् काशिकोशलान् ।। ३७.३९६ ।।
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः।
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणाम्भसः ।३७.३९७।
अरण्यान्यभिपत्स्यन्ति ह्यार्य्या म्लेच्छजनैः सह।
मृगैर्मीनैर्विहङ्गैश्च श्वापदैस्तक्षुभिस्तथा।
मधुशाकफलैर्मूलैर्वर्त्तयिष्यन्ति मानवाः ।३७.३९८।
चीरं पर्णञ्च विविधं वल्कलान्यजिनानि च।
स्वयं कृत्वा विवत्स्यन्ति यथा मुनिजनास्तथा ।। ३७.३९९ ।।
बीजान्नानि तथा निम्नेस्वीहन्तः काष्ठशङ्कुभिः।
अजैडकं खरोष्ट्रञ्च पालयिष्यन्ति यत्नतः ।। ३७.४०० ।।
नदीर्वत्स्यन्ति तोयार्थे कूलमाश्रित्य मानवाः।
पार्थिवान् व्यवहारेण विबाधन्तः परस्परम् ।। ३७.४०१ ।।
बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः।
एवं भविष्यन्ति नरास्तदाधर्म्मे व्यवस्थिताः ।। ३७.४०२ ।।
हीनाद्धीनांस्तथा धर्म्मान् प्रजाः समनुवर्त्तते।
आयुस्तदा त्रयोविंशं न कश्चिदतिवर्त्तते ।। ३७.४०३ ।।
दुर्बला विषयग्लाना जरया संपरिप्लुताः।
पत्रमूलफलाहाराश्चीरकृष्णाजिनाम्बराः ।। ३७.४०४।।
वृत्त्यर्थमभिलिप्सन्तश्चरिष्यन्ति वसुन्धराम्।
एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके ।३७.४०५ ।
क्षीणे कलियुगे तस्मिन् दिव्ये वर्षसहस्रके।
निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु।
ससन्ध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ।३७.४०६।
यदा चन्द्रश्च सूर्य्यश्च तथा तिष्यबृहस्पती।
एकरात्रे भरिष्यन्ति तदा कृतयुगं भवेत् ।३७.४०७ ।
एष वंशक्रमः कृत्स्नं कीर्तितो वो यथाक्रमम्।
अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।। ३७.४०८ ।।
महादेवाभिषेकात्तु जन्म यावत्परिक्षितः।
एतद्वर्षसहस्रन्तु ज्ञेयं पञ्चादशदुत्तरम् ।। ३७.४०९ ।।
प्रमाणं वै तथा चोक्तं महापद्मान्तरं च यत्।
अन्तरं तच्छतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ।। ३७.४१० ।।
एतत्कालान्तरं भाव्या अन्ध्रान्ता ये प्रकीर्त्तिताः।
भविष्यैस्तत्र सङ्ख्याताः पुराणज्ञैः श्रुतर्षिभिः ।। ३७.४११ ।।
सप्तर्षयस्तदा प्राहुः प्रतीपे राज्ञि वै शतम्।
सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते त्वया पुनः ।। ३७.४१२ ।।
सप्तविंशतिपर्य्यन्ते कृत्स्ने नक्षत्रमण्डले।
सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम्।
सप्तर्षीणां युगं ह्येतद्दिव्यया सङ्ख्यया स्मृतम् ।। ३७.४१३ ।।
सा सा दिव्या स्मृता षष्टिर्दिव्याह्नाश्चैव सप्तभिः
तेभ्यः प्रवर्त्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ।। ३७.४१४ ।।
सप्तर्षीणान्तु ये पूर्वा दृश्यन्ते उत्तरादिशि।
ततो मध्येन च क्षेत्रं दृश्यते यत्समं दिवि ।। ३७.४१५।
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः।
नक्षत्राणामृषीणाञ्च योगस्यैतन्निदर्शनम् ।। ३७.४१६ ।।
सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम्।
अन्ध्रांशे स चतुर्व्विशे भविष्यन्ति मते मम ।। ३७.४१७ ।।
इमास्तदा तु प्रकृतिर्व्यापत्स्यन्ति प्रजा भृशम्।
अनृतोपहताः सर्वा धर्मतः कामतोऽर्थतः ।। ३७.४१८।
श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा।
शङ्करं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहिताः ।। ३७.४१९ ।।
संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः।
ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ।। ३७.४२० ।।
उपस्थास्यन्ति तान् विप्रास्तदा वै वृत्तिलिप्सवः
लवं लवं भ्रस्यमानाः प्रजाः सर्वाः क्रमेण तु ।। ३७.४२१ ।।
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये।
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा दिने ।। ३७.४२२ ।।
प्रतिपन्नः कलियुगस्तस्य सङ्ख्यां निबोधत।
सहस्राणां शतानीह त्रीणि मानुषसङ्ख्यया।
षष्टिं चैव सहस्राणि वर्षाणामुच्यते कलिः ।। ३७.४२३ ।।
दिव्ये वर्षसहस्रन्तु तत्सन्ध्यांशं प्रकीर्त्तितम्।
निःशेषे च तदा तस्मिन् कृतं वै प्रतिपत्स्यते ।। ३७.४२४ ।।
ऐल इक्ष्वाकुवंशश्च सह भेदैः प्रकीर्त्तितौ।
इक्ष्वाकोस्तु स्मृतः क्षत्रः सुमित्रान्तं विवस्वतः ।। ३७.४२५ ।।
ऐलं क्षत्रं क्षेमकान्तं सोमवंशविदो विदुः।
एते विवस्वतः पुत्राः कीर्त्तिताः कीर्त्तिवर्द्धनाः ।। ३७.४२६ ।।
अतीता वर्त्तमानाश्च तथैवानागताश्च ये।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्वये स्मृताः ।। ३७.४२७ ।।
युगे युगे महात्मानः समतीताः सहस्रशः।
बहुत्वान्नामधेयानां परिसंख्या कुले कुले ।। ३७.४२८ ।।
पुनरुक्ता बहुत्वाच्च न मया परिकीर्त्तिता।
वैवस्वतेऽन्तरे ह्यस्मिन् निमिवंशः समाप्यते ।। ३७.४२९ ।।
एवायान्तु युगाख्यायां यतः क्षत्रं प्रपत्स्यते ।
तथा हि कथयिष्यामि गदतो मे निबोधत ।। ३७.४३० ।।
देवापिः पौरवो राजा इक्ष्वाकोश्चैव यो मतः।
महायोगबलोपेतः कलापग्राममास्थितः ।। ३७.४३१ ।।
सुवर्च्चाः सोमपुत्रस्तु इक्ष्वाकोस्तु भविष्यति।
एतौ क्षत्रप्रणेतारौ चतुर्विंशे चतुर्युगे ।। ३७.४३२ ।।
न च विंशे युगे सोमवंशस्यादिर्भविष्यति।
देवापिरसपत्नस्तु ऐलादिर्भविता नृपः ।। ३७.४३३ ।।
क्षत्रप्रापर्त्तकौ ह्येतौ भविष्येते चतुर्युगे।
एवं सर्वत्र विज्ञेयं सन्तानार्थे तु लक्षणम् ।। ३७.४३४ ।।
क्षीणे कलियुगे तस्मिन् भविष्ये तु कृते युगे।
सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ।। ३७.४३५।
गोत्राणां क्षत्रियाणाञ्च भविष्येते प्रवर्त्तकौ।
द्वापरांशे न तिष्ठन्ति क्षत्रिया ऋषिभिः सह ।। ३७.४३६।
काले कृतयुगे चैव क्षीणे त्रेतायुगे पुनः।
बीजार्थन्ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ।। ३७.४३७ ।।
एवमेव तु सर्वेषु तिष्ठन्तीहान्तरेषु वै ।
सप्तर्षयो नृपैः सार्द्धं सन्तानार्थं युगे युगे ।। ३७.४३८ ।।
क्षत्रस्यैव समुच्छेदः सम्बन्धो वै द्विजैः स्मृतः।
मन्वन्तराणां सप्तानां सन्तानाश्च श्रुताश्च ते ।। ३७.४३९ ।।
परम्परा युगानाञ्च ब्रह्मक्षत्रस्य चोद्भवः।
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ।। ३७.४४० ।।
सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाक्षयन्तु ते।
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ।। ३७.४४१ ।।
उत्पद्यमानास्त्रेतायां क्षीयमाणे कलौ पुनः।
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ।। ३७.४४२ ।।
जामदग्न्येन रामेण क्षत्रे निरवशेषिते।
कृते वंशकुलाः सर्वाः क्षत्रियैर्वसुधाधिपैः।
द्विवंशकरणाश्चैव कीर्त्तयिष्ये निबोधत ।। ३७.४४३ ।।
ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते।
राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः ।। ३७.४४४ ।।
ऐलवंशस्य ये ख्यातास्तथैवैक्ष्वाकवा नृपाः ।
तेषामेकशतं पूर्णं कुलानामभिषेकिनाम् ।। ३७.४४५ ।।
तावदेव तु भोजानां विस्तारो द्विगुणः स्मृतः ।
भजते त्रिंशकं क्षत्रं चतुर्धा तद्यथादिशम् ।३७.४४६ ।
तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत।
शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ।। ३७.४४७ ।।
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः।
शतञ्च ब्रह्मदत्तानां शीरिणां वीरिणां शतम् ।३७.४४८।
ततः शतं पुरोमानां श्वेतकाशकुशादयः ।
ततोऽपरे सहस्रं वै येऽतीताः शतबिन्दवः ।। ३७.४४९ ।।
ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः ।
एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ।। ३७.४५० ।।
मनोर्वैवस्वतस्यास्मिन् वर्त्तमानेऽन्तरे तु ये ।
तेषां निबोधतोत्पन्ना लोके सन्ततयः स्मृताः ।। ३७.४५१ ।।
नु शक्यं विस्तरं तेषां सन्तानानां परम्परा।
तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ।। ३७.४५२ ।।
अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे।
एता राजर्षिभिः सार्द्धं शिष्टा यास्ता निबोधत ।। ३७.४५३ ।।
चत्वारिंशच्च ये चैव भविष्याः सह राजभिः।
युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ।। ३७.४५४।।
एतद्वः कथितं सर्व्वं समासव्यासयोगतः।
पुनरुक्तं बहुत्वाच्च न शक्यन्तु युगैः सह ।। ३७.४५५ ।।
एते ययातिपुत्राणां पञ्चविंशा विशां हिताः।
कीर्त्तिताश्चामिता ये मे लोकान् वै धारयन्त्युत ।। ३७.४५६ ।।
लभते च वरेण्यञ्च दुर्लभानिह लौकिकान्।
आयुः कीर्त्तिं धनं पुत्रान् स्वर्गं चानन्त्यमश्नुते ।। ३७.४५७ ।।
धारणाच्छ्रवणाच्चैव ते लोकान् धारयन्त्युत।
इत्येष वो मयो पादस्तृतीयः कथितो द्विजाः।
विस्तरेणानुपूर्व्वी च किम्भूयो वर्त्तयाम्यहम् ।। ३७.४५८ ।।
___________________
इति श्रीमहापुराणे वायुप्रोक्ते अनुषङ्गपादो नाम सप्तत्रिंशोऽध्यायः ।। ३७।। इत्यनुषङ्गपादः ।।
दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।। ११ ।।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ।
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।। १२ ।।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ।
भरतस्य विनष्टेषु तनयेषु महीपतेः ।। १३ ।।
मातॄणां तात कोपेन मया ते कथितं पुरा ।
बृहस्पतेराङ्गिरसः पुत्रो राजन् महामुनिः ।
संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ।।१४ ।।
अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः ।
धर्मसंक्रमणं चापि मरुद्भिर्भरताय वै ।। १५ ।।
अयाजयद् भरद्वाजो मरुद्भिः क्रतुभिर्हि तम् ।
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ।। १६ ।।
ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् ।
ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ।। १७ ।।
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ।
स राजा वितथः पुत्राञ्जनयामास पञ्च वै ।। १८ ।।
सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ।
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ।। १९ ।।
काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः ।
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ।। 1.32.२० ।।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।। ११ ।।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ।
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।। १२ ।।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ।
भरतस्य विनष्टेषु तनयेषु महीपतेः ।। १३ ।।
मातॄणां तात कोपेन मया ते कथितं पुरा ।
बृहस्पतेराङ्गिरसः पुत्रो राजन् महामुनिः ।
संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ।।१४ ।।
अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः ।
धर्मसंक्रमणं चापि मरुद्भिर्भरताय वै ।। १५ ।।
अयाजयद् भरद्वाजो मरुद्भिः क्रतुभिर्हि तम् ।
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ।। १६ ।।
ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् ।
ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ।। १७ ।।
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ।
स राजा वितथः पुत्राञ्जनयामास पञ्च वै ।। १८ ।।
सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ।
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ।। १९ ।।
काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः ।
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ।। 1.32.२० ।।
अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत्।। ४६ ।।
तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः ।। ४७ ।।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत्।। ४६ ।।
तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः ।
ऋष्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः ।। ४७ ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें