पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७४
< पद्मपुराणम् | खण्डः २ (भूमिखण्डः)
← (भूमिखण्डः)
अध्यायः ७४
अध्यायः ०७५ →
सुकर्मोवाच-
दूतास्तु ग्रामेषु वदंति सर्वे द्वीपेषु देशेष्वथ पत्तनेषु
लोकाः शृणुध्वं नृपतेस्तदाज्ञां सर्वप्रभावैर्हरिमर्चयंतु १।
दानैश्च यज्ञैर्बहुभिस्तपोभिर्धर्माभिलाषैर्यजनैर्मनोभिः
ध्यायंतु लोका मधुसूदनं तु आदेशमेवं नृपतेस्तु तस्य २।
एवं सुघुष्टं सकलं तु पुण्यमाकर्ण्य तं भूमितलेषु लोकैः
तदाप्रभृत्येव यजंति विष्णुं ध्यायंति गायंति जपंति मर्त्याः ३।
वेदप्रणीतैश्च सुसूक्तमंत्रैः स्तोत्रैः सुपुण्यैरमृतोपमानैः
श्रीकेशवं तद्गतमानसास्ते व्रतोपवासैर्नियमैश्च दानैः ४।
विहाय दोषान्निजकायचित्तवागुद्भवान्प्रेमरताः समस्ताः
लक्ष्मीनिवासं जगतां निवासं श्रीवासुदेवं परिपूजयंति ५।
इत्याज्ञातस्य भूपस्य वर्तते क्षितिमंडले
वैष्णवेनापि भावेन जनाः सर्वे जयंति ते ६।
नामभिः कर्मभिर्विष्णुं यजंते ज्ञानकोविदाः
तद्ध्यानास्तद्व्यवसिता विष्णुपूजापरायणाः ७।
यावद्भूमंडलं सर्वं यावत्तपति भास्करः
तावद्धि मानवा लोकाः सर्वे भागवता बभुः ८।
विष्णोर्ध्यानप्रभावेण पूजास्तोत्रेण नामतः
आधिव्याधिविहीनास्ते संजाता मानवास्तदा ९।
वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः
संजाता वैष्णवा विप्र प्रसादात्तस्य चक्रिणः १०।
आमयैश्च विहीनास्ते दोषैरोषैश्च वर्जिताः
सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ११।
प्रसादात्तस्य देवस्य संजाता मानवास्तदा
अमराः निर्जराः सर्वे धनधान्यसमन्विताः १२।
मर्त्या विष्णुप्रसादेन पुत्रपौत्रैरलंकृताः
तेषामेव महाभाग गृहद्वारेषु नित्यदा १३।
कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः
सर्वकामदुघा गावः सचिंतामणयस्तथा १४।
संति तेषां गृहे पुण्याः सर्वकामप्रदायकाः
अमरा मानवा जाताः पुत्रपौत्रैरलंकृताः १५।
सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः
सर्वसौभाग्यसंपन्नाः पुण्यमंगलसंयुताः १६।
सुपुण्या दानसंपन्ना ज्ञानध्यानपरायणाः
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् १७।
तस्मिञ्शासति धर्मज्ञे ययातौ नृपतौ तदा
वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः १८।
तद्ध्यानास्तद्गताः सर्वे संजाता भावतत्पराः
तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम १९।
पताकाभिः सुशुक्लाभिः शंखयुक्तानि तानि वै
गदांकितध्वजाभिश्च नित्यं चक्रांकितानि च २०।
पद्मांकितानि भासंते विमानप्रतिमानि च
गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः २१।
सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सत्तमाः
वनानि संति दिव्यानि शाद्वलानि शुभानि च २२।
तुलस्या च द्विजश्रेष्ठ तेषु केशवमंदिरैः
भासंते पुण्यदिव्यानि गृहाणि प्राणिनां सदा २३।
सर्वत्र वैष्णवो भावो मंगलो बहु दृश्यते
शंखशब्दाश्च भूलोके मिथः स्फोटरवैः सखे २४।
श्रूयंते तत्र विप्रेंद्र दोषपापविनाशकाः
शंखस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु २५।
विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम
गीतरागसुवर्णैश्च मूर्च्छना तानसुस्वरैः २६।
गायंति केशवं लोका विष्णुध्यानपरायणाः २७।
हरिं मुरारिं प्रवदंति केशवं प्रीत्या जितं माधवमेव चान्ये
श्रीनारसिंहं कमलेक्षणं तं गोविंदमेकं कमलापतिं च २८।
कृष्णं शरण्यं शरणं जपंति रामं च जप्यैः परिपूजयंति
दंडप्रणामैः प्रणमंति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते २९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे चतुःसप्ततितमोऽध्यायः ७४।
_____________________________
पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७७
< पद्मपुराणम् | खण्डः २ (भूमिखण्डः)
←
अध्यायः ७७
सुकर्मोवाच-
कामस्य गीतलास्येन हास्येन ललितेन च
मोहितो राजराजेंद्रो नटरूपेण पिप्पल १
कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः
अकृत्वा पादयोः शौचमासने उपविष्टवान् २
तदंतरं तु संप्राप्य संचचार जरा नृपम्
कामेनापि नृपश्रेष्ठ इंद्रकार्यं कृतं हितम् ३
निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ४
मोहितः काममोहेन विह्वलो विकलेंद्रियः
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ५
एकदा तु गतो राजा मृगया व्यसनातुरः
वने च क्रीडते सोपि मोहरागवशं गतः ६
सरसं क्रीडमानस्य नृपतेश्च महात्मनः
मृगश्चैकः समायातश्चतुःशृंगो ह्यनौपमः ७
सर्वांगसुंदरो राजन्हेमरूपतनूरुहः
रत्नज्योतिः सुचित्रांगो दर्शनीयो मनोहरः ८
अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ९
मृगेण च स तेनापि दूरमाकर्षितो नृपः
गतः सरथवेगेन श्रमेण परिखेदितः १०
वीक्षमाणस्य तस्यापि मृगश्चांतरधीयत
स पश्यति वनं तत्र नंदंनोपममद्भुतम् ११
चारुवृक्षसमाकीर्णं भूतपंचकशोभितम्
गुरुभिश्चंदनैः पुण्यैः कदलीखंडमंडितैः १२
बकुलाशोकपुंनागैर्नालिकेरैश्च तिंदुकैः
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः १३
पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः १४
वीक्षमाणो महाराज ददर्श सर उत्तमम्
पुण्योदकेन संपूर्णं विस्तीर्णं पंचयोजनम् १५
हंसकारंडवाकीर्णं जलपक्षिविनादितम्
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् १६
रक्तोत्पलैः शोभमानं हाटकोत्पलमंडितम्
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् १७
मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् १८
पंचयोजनविस्तीर्णं दशयोजनदीर्घकम्
तडागं सर्वतोभद्रं दिव्यभावैरलंकृतम् १९
रथवेगेन संखिन्नः किंचिच्छ्रमनिपीडितः
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् २०
स्नात्वा पीत्वा जलं शीतं पद्मसौगंध्यवासितम्
सर्वश्रमोपशमनममृतोपममेव तत् २१
वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता
गीतध्वनिः समाकर्णि गीयमानो यथा तथा २२
यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः
गीतप्रियो महाराज एव चिंतां परां गतः २३
चिंताकुलस्तु धर्मात्मा यावच्चिंतयते क्षणम्
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा २४
नृपतेः पश्यतस्तस्य वने तस्मिन्समागता
सर्वाभरणशोभांगी शीललक्षणसंपदा २५
तस्मिन्वने समायाता नृपतेः पुरतः स्थिता
तामुवाच महाराजः का हि कस्य भविष्यसि २६
किमर्थं हि समायाता तन्मे त्वं कारणं वद
पृष्टा सती तदा तेन न किंचिदपि पिप्पल २७
शुभाशुभं च भूपालं प्रत्यवोचद्वरानना
प्रहस्यैव गता शीघ्रं वीणादंडकराऽबला २८
विस्मयेनापि राजेंद्रो महता व्यापितस्तदा
मया संभाषिता चेयं मां न ब्रूते स्म सोत्तरम् २९
पुनश्चिंतां समापेदे ययातिः पृथिवीपतिः
यो वै मृगो मया दृष्टश्चतुःशृंगः सुवर्णकः ३०
तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे
मायारूपमिदं सत्यं दानवानां भविष्यति ३१
चिंतयित्वा क्षणं राजा ययातिर्नहुषात्मजः
यावच्चिंतयते राजा तावन्नारी महावने ३२
अंतर्धानं गता विप्र प्रहस्य नृपनंदनम्
एतस्मिन्नंतरे गीतं सुस्वरं पुनरेव तत् ३३
शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ३४
जलांते पुष्करं चैव सहस्रदलमुत्तमम्
तस्योपरि वरा नारी शीलरूपगुणान्विता ३५
दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता
दिव्यैर्भावैः प्रभात्येका वीणादंडकराविला ३६
गायंती सुस्वरं गीतं तालमानलयान्वितम्
तेन गीतप्रभावेण मोहयंती चराचरान् ३७
देवान्मुनिगणान्सर्वान्दैत्यान्गंधर्वकिन्नरान्
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ३८
संसारे नास्ति चैवान्या नारीदृशी चराचरे
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ३९
संचारितो महाकामस्तदासौ प्रकटोभवत्
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्संप्रजायते ४०
तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ४१
ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी
चिंतयित्वा क्षणं राजा कामसंसक्तमानसः ४२।
तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा
कामाग्निना दह्यमानः कामज्वरेणपीडितः ४३।
कथं स्यान्मम चैवेयं कथं भावो भविष्यति
यदा मां गूहते बाला पद्मास्या पद्मलोचना ४४
यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्
एवं विचिंत्य धर्मात्मा ययातिः पृथिवीपतिः ४५।
तामुवाच वरारोहां का त्वं कस्यापि वा शुभे
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ४६।
तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ४७।
सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ४८।
तव संगमने चेतो भावमेवं प्रवांछते
देहि मे संगमं भद्रे कुरु सुप्रियमेव हि ४९।
यं यं हि वांछसे भद्रे तद्ददामि न संशयः
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ५०।
तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ५१
संगमे तव दास्यामि त्रैलोक्यमिदमेव ते
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ५२
विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ५३
ममापि भावमेकाग्रमस्याग्रे च निवेदय
तस्याश्च वांछितं ज्ञात्वा विशाला भूपतिं तदा ५४
उवाच मधुरालापैः श्रूयतां नृपनंदन
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शंभुना ५५
रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्
अस्मिन्सरसि राजेंद्र सा रतिर्न्यवसत्तदा ५६
तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्
समाकर्ण्य ततो देवाः कृपया परयान्विताः ५७
संजाता राजराजेंद्र शंकरं वाक्यमब्रुवन्
जीवयस्व महादेव पुनरेव मनोभवम् ५८
वराकीयं महाभाग भर्तृहीना हि कीदृशी
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ५९
तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्
कायेनापि विहीनोयं पंचबाणो मनोभवः ६०
भविष्यति न संदेहो माधवस्य सखा पुनः
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ६१
महादेवप्रसादाच्च मीनकेतुः स जीवितः
आशीर्भिरभिनंद्यैवं देव्याः कामं नरोत्तम ६२
गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः
एवमाह महातेजाः स्थितिसंहारकारकः ६३
पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ६४
दग्धे सति महाभागे मन्मथे दुःखधर्षिता
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ६५
अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ६६
नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिंदवः
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ६७
जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ६८
दुःखसंतापकौ चोभौ जज्ञाते दारुणौ तदा
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ६९
शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ७०
तस्याश्च अश्रुबिंदुभ्यो जज्ञिरे विश्वनाशकाः
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापांगधारिणः ७१
मूर्तिमंतो महाराज सद्भावगुणसंयुताः
काम एष समायातः केनाप्युक्तं तदा नृप ७२
महानंदेन संयुक्ता दृष्ट्वा कामं समागतम्
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ७३
अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ७४
तेभ्यो जज्ञे महानंद शांतिश्चान्या नृपोत्तम
जज्ञाते द्वे शुभे कन्ये सुखसंभोगदायिके ७५
लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप
रत्यास्तु वामनेत्राद्वै आनंदादश्रुबिंदवः ७६
जलांते पतिता राजंस्तस्माज्जज्ञे सुपंकजम्
तस्मात्सुपंकजाज्जाता इयं नारी वरानना ७७
अश्रुबिंदुमती नाम रतिपुत्री नरोत्तम
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ७८
सखीभावस्वभावेन संहृष्टा सर्वदा शुभा
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ७९
अस्याश्चांते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ८०
तपश्चचार राजेंद्र पतिकामा वरानना
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ८१
मामेवं हि भजत्वेषा रतिपुत्री वरानना
यमेषा वांछते बाला तत्सर्वं तु ददाम्यहम् ८२
तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ८३
पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्
देवराजसमं राजन्धर्माचारसमन्वितम् ८४
तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ८५
लोक इंद्रसमं राजन्सुयज्ञैर्धर्मतत्परम्
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ८६
देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ८७
एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम्
सुमतिं सुप्रियं कांतं मनसा वरमीप्सति ८८
ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम्
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ८९
विशालोवाच-
भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि ९०
एकेनापि च दोषेण त्वामेषा हि न मन्यते
एष मे संशयो जातो भवान्विष्णुमयो नृप ९१
ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते
तत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव ९२
विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ९३
एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ९४
जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा
समुद्भूतं ममांगे वै तं न जाने जरागमम् ९५
यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभे
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ९६
विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ९७
श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके
जरा संक्राम्यते यस्य तस्यांगे परिसंचरेत् ९८
तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ९९
यथात्मदानपुण्यस्य कृपया यो ददाति च
फलं राजन्हि तत्तस्य जायते नात्र संशयः १००
दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते
सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते १०१
पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च
प्रगृह्यैव समागच्छ सुंदरत्वेन भूपते १०२
यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते
एवमाभाष्य सा भूपं विशाला विरराम ह १०३
सुकर्मोवाच-
एवमाकर्ण्य राजेंद्रो विशालामवदत्तदा
राजोवाच-
एवमस्तु महाभागे करिष्ये वचनं तव १०४
कामासक्तः समूढस्तु ययातिः पृथिवीपतिः
गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह १०५
तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम्
कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् १०६
पुत्रा ऊचुः-
पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम्
उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०७
एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः
आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः १०८
_______________________________
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे सप्तसप्ततितमोऽध्यायः ७७
पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७४
< पद्मपुराणम् खण्डः२(भूमिखण्डः)
←अध्यायः ०७३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७४
अज्ञातलेखकः अध्यायः ०७५ →
सुकर्मोवाच-
दूतास्तु ग्रामेषु वदंति सर्वे द्वीपेषु देशेष्वथ पत्तनेषु
लोकाः शृणुध्वं नृपतेस्तदाज्ञां सर्वप्रभावैर्हरिमर्चयंतु १
दानैश्च यज्ञैर्बहुभिस्तपोभिर्धर्माभिलाषैर्यजनैर्मनोभिः
ध्यायंतु लोका मधुसूदनं तु आदेशमेवं नृपतेस्तु तस्य २
एवं सुघुष्टं सकलं तु पुण्यमाकर्ण्य तं भूमितलेषु लोकैः
तदाप्रभृत्येव यजंति विष्णुं ध्यायंति गायंति जपंति मर्त्याः ३
वेदप्रणीतैश्च सुसूक्तमंत्रैः स्तोत्रैः सुपुण्यैरमृतोपमानैः
श्रीकेशवं तद्गतमानसास्ते व्रतोपवासैर्नियमैश्च दानैः ४
विहाय दोषान्निजकायचित्तवागुद्भवान्प्रेमरताः समस्ताः
लक्ष्मीनिवासं जगतां निवासं श्रीवासुदेवं परिपूजयंति ५
इत्याज्ञातस्य भूपस्य वर्तते क्षितिमंडले
वैष्णवेनापि भावेन जनाः सर्वे जयंति ते ६
नामभिः कर्मभिर्विष्णुं यजंते ज्ञानकोविदाः
तद्ध्यानास्तद्व्यवसिता विष्णुपूजापरायणाः ७
यावद्भूमंडलं सर्वं यावत्तपति भास्करः
तावद्धि मानवा लोकाः सर्वे भागवता बभुः ८
विष्णोर्ध्यानप्रभावेण पूजास्तोत्रेण नामतः
आधिव्याधिविहीनास्ते संजाता मानवास्तदा ९
वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः
संजाता वैष्णवा विप्र प्रसादात्तस्य चक्रिणः १०
आमयैश्च विहीनास्ते दोषैरोषैश्च वर्जिताः
सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ११
प्रसादात्तस्य देवस्य संजाता मानवास्तदा
अमराः निर्जराः सर्वे धनधान्यसमन्विताः १२
मर्त्या विष्णुप्रसादेन पुत्रपौत्रैरलंकृताः
तेषामेव महाभाग गृहद्वारेषु नित्यदा १३
कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः
सर्वकामदुघा गावः सचिंतामणयस्तथा १४
संति तेषां गृहे पुण्याः सर्वकामप्रदायकाः
अमरा मानवा जाताः पुत्रपौत्रैरलंकृताः १५
सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः
सर्वसौभाग्यसंपन्नाः पुण्यमंगलसंयुताः १६
सुपुण्या दानसंपन्ना ज्ञानध्यानपरायणाः
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् १७
तस्मिञ्शासति धर्मज्ञे ययातौ नृपतौ तदा
वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः १८
तद्ध्यानास्तद्गताः सर्वे संजाता भावतत्पराः
तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम १९
पताकाभिः सुशुक्लाभिः शंखयुक्तानि तानि वै
गदांकितध्वजाभिश्च नित्यं चक्रांकितानि च २०
पद्मांकितानि भासंते विमानप्रतिमानि च
गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः २१
सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सत्तमाः
वनानि संति दिव्यानि शाद्वलानि शुभानि च २२
तुलस्या च द्विजश्रेष्ठ तेषु केशवमंदिरैः
भासंते पुण्यदिव्यानि गृहाणि प्राणिनां सदा २३
सर्वत्र वैष्णवो भावो मंगलो बहु दृश्यते
शंखशब्दाश्च भूलोके मिथः स्फोटरवैः सखे २४
श्रूयंते तत्र विप्रेंद्र दोषपापविनाशकाः
शंखस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु २५
विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम
गीतरागसुवर्णैश्च मूर्च्छना तानसुस्वरैः २६
गायंति केशवं लोका विष्णुध्यानपरायणाः २७
हरिं मुरारिं प्रवदंति केशवं प्रीत्या जितं माधवमेव चान्ये
श्रीनारसिंहं कमलेक्षणं तं गोविंदमेकं कमलापतिं च २८
कृष्णं शरण्यं शरणं जपंति रामं च जप्यैः परिपूजयंति
दंडप्रणामैः प्रणमंति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते २९
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे चतुःसप्ततितमोऽध्यायः ७४
पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७७
< पद्मपुराणम् | खण्डः २ (भूमिखण्डः)
← अध्यायः ०७६ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७७
अध्यायः ०७८ →
सुकर्मोवाच-
कामस्य गीतलास्येन हास्येन ललितेन च
मोहितो राजराजेंद्रो नटरूपेण पिप्पल १
कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः
अकृत्वा पादयोः शौचमासने उपविष्टवान् २
तदंतरं तु संप्राप्य संचचार जरा नृपम्
कामेनापि नृपश्रेष्ठ इंद्रकार्यं कृतं हितम् ३
निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ४
मोहितः काममोहेन विह्वलो विकलेंद्रियः
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ५
एकदा तु गतो राजा मृगया व्यसनातुरः
वने च क्रीडते सोपि मोहरागवशं गतः ६
सरसं क्रीडमानस्य नृपतेश्च महात्मनः
मृगश्चैकः समायातश्चतुःशृंगो ह्यनौपमः ७
सर्वांगसुंदरो राजन्हेमरूपतनूरुहः
रत्नज्योतिः सुचित्रांगो दर्शनीयो मनोहरः ८
अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ९
मृगेण च स तेनापि दूरमाकर्षितो नृपः
गतः सरथवेगेन श्रमेण परिखेदितः १०
वीक्षमाणस्य तस्यापि मृगश्चांतरधीयत
स पश्यति वनं तत्र नंदंनोपममद्भुतम् ११
चारुवृक्षसमाकीर्णं भूतपंचकशोभितम्
गुरुभिश्चंदनैः पुण्यैः कदलीखंडमंडितैः १२
बकुलाशोकपुंनागैर्नालिकेरैश्च तिंदुकैः
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः १३
पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः १४
वीक्षमाणो महाराज ददर्श सर उत्तमम्
पुण्योदकेन संपूर्णं विस्तीर्णं पंचयोजनम् १५
हंसकारंडवाकीर्णं जलपक्षिविनादितम्
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् १६
रक्तोत्पलैः शोभमानं हाटकोत्पलमंडितम्
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् १७
मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् १८
पंचयोजनविस्तीर्णं दशयोजनदीर्घकम्
तडागं सर्वतोभद्रं दिव्यभावैरलंकृतम् १९
रथवेगेन संखिन्नः किंचिच्छ्रमनिपीडितः
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् २०
स्नात्वा पीत्वा जलं शीतं पद्मसौगंध्यवासितम्
सर्वश्रमोपशमनममृतोपममेव तत् २१
वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता
गीतध्वनिः समाकर्णि गीयमानो यथा तथा २२
यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः
गीतप्रियो महाराज एव चिंतां परां गतः २३
चिंताकुलस्तु धर्मात्मा यावच्चिंतयते क्षणम्
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा २४
नृपतेः पश्यतस्तस्य वने तस्मिन्समागता
सर्वाभरणशोभांगी शीललक्षणसंपदा २५
तस्मिन्वने समायाता नृपतेः पुरतः स्थिता
तामुवाच महाराजः का हि कस्य भविष्यसि २६
किमर्थं हि समायाता तन्मे त्वं कारणं वद
पृष्टा सती तदा तेन न किंचिदपि पिप्पल २७
शुभाशुभं च भूपालं प्रत्यवोचद्वरानना
प्रहस्यैव गता शीघ्रं वीणादंडकराऽबला २८
विस्मयेनापि राजेंद्रो महता व्यापितस्तदा
मया संभाषिता चेयं मां न ब्रूते स्म सोत्तरम् २९
पुनश्चिंतां समापेदे ययातिः पृथिवीपतिः
यो वै मृगो मया दृष्टश्चतुःशृंगः सुवर्णकः ३०
तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे
मायारूपमिदं सत्यं दानवानां भविष्यति ३१
चिंतयित्वा क्षणं राजा ययातिर्नहुषात्मजः
यावच्चिंतयते राजा तावन्नारी महावने ३२
अंतर्धानं गता विप्र प्रहस्य नृपनंदनम्
एतस्मिन्नंतरे गीतं सुस्वरं पुनरेव तत् ३३
शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ३४
जलांते पुष्करं चैव सहस्रदलमुत्तमम्
तस्योपरि वरा नारी शीलरूपगुणान्विता ३५
दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता
दिव्यैर्भावैः प्रभात्येका वीणादंडकराविला ३६
गायंती सुस्वरं गीतं तालमानलयान्वितम्
तेन गीतप्रभावेण मोहयंती चराचरान् ३७
देवान्मुनिगणान्सर्वान्दैत्यान्गंधर्वकिन्नरान्
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ३८
संसारे नास्ति चैवान्या नारीदृशी चराचरे
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ३९
संचारितो महाकामस्तदासौ प्रकटोभवत्
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्संप्रजायते ४०
तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ४१
ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी
चिंतयित्वा क्षणं राजा कामसंसक्तमानसः ४२
तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा
कामाग्निना दह्यमानः कामज्वरेणपीडितः ४३
कथं स्यान्मम चैवेयं कथं भावो भविष्यति
यदा मां गूहते बाला पद्मास्या पद्मलोचना ४४
यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्
एवं विचिंत्य धर्मात्मा ययातिः पृथिवीपतिः ४५
तामुवाच वरारोहां का त्वं कस्यापि वा शुभे
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ४६
तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ४७
सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ४८
तव संगमने चेतो भावमेवं प्रवांछते
देहि मे संगमं भद्रे कुरु सुप्रियमेव हि ४९
यं यं हि वांछसे भद्रे तद्ददामि न संशयः
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ५०
तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ५१
संगमे तव दास्यामि त्रैलोक्यमिदमेव ते
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ५२
विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ५३
ममापि भावमेकाग्रमस्याग्रे च निवेदय
तस्याश्च वांछितं ज्ञात्वा विशाला भूपतिं तदा ५४
उवाच मधुरालापैः श्रूयतां नृपनंदन
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शंभुना ५५
रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्
अस्मिन्सरसि राजेंद्र सा रतिर्न्यवसत्तदा ५६
तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्
समाकर्ण्य ततो देवाः कृपया परयान्विताः ५७
संजाता राजराजेंद्र शंकरं वाक्यमब्रुवन्
जीवयस्व महादेव पुनरेव मनोभवम् ५८
वराकीयं महाभाग भर्तृहीना हि कीदृशी
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ५९
तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्
कायेनापि विहीनोयं पंचबाणो मनोभवः ६०
भविष्यति न संदेहो माधवस्य सखा पुनः
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ६१
महादेवप्रसादाच्च मीनकेतुः स जीवितः
आशीर्भिरभिनंद्यैवं देव्याः कामं नरोत्तम ६२
गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः
एवमाह महातेजाः स्थितिसंहारकारकः ६३
पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ६४
दग्धे सति महाभागे मन्मथे दुःखधर्षिता
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ६५
अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ६६
नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिंदवः
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ६७
जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ६८
दुःखसंतापकौ चोभौ जज्ञाते दारुणौ तदा
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ६९
शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ७०
तस्याश्च अश्रुबिंदुभ्यो जज्ञिरे विश्वनाशकाः
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापांगधारिणः ७१
मूर्तिमंतो महाराज सद्भावगुणसंयुताः
काम एष समायातः केनाप्युक्तं तदा नृप ७२
महानंदेन संयुक्ता दृष्ट्वा कामं समागतम्
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ७३
अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ७४
तेभ्यो जज्ञे महानंद शांतिश्चान्या नृपोत्तम
जज्ञाते द्वे शुभे कन्ये सुखसंभोगदायिके ७५
लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप
रत्यास्तु वामनेत्राद्वै आनंदादश्रुबिंदवः ७६
जलांते पतिता राजंस्तस्माज्जज्ञे सुपंकजम्
तस्मात्सुपंकजाज्जाता इयं नारी वरानना ७७
अश्रुबिंदुमती नाम रतिपुत्री नरोत्तम
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ७८
सखीभावस्वभावेन संहृष्टा सर्वदा शुभा
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ७९
अस्याश्चांते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ८०
तपश्चचार राजेंद्र पतिकामा वरानना
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ८१
मामेवं हि भजत्वेषा रतिपुत्री वरानना
यमेषा वांछते बाला तत्सर्वं तु ददाम्यहम् ८२
तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ८३
पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्
देवराजसमं राजन्धर्माचारसमन्वितम् ८४
तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ८५
लोक इंद्रसमं राजन्सुयज्ञैर्धर्मतत्परम्
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ८६
देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ८७
एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम्
सुमतिं सुप्रियं कांतं मनसा वरमीप्सति ८८
ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम्
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ८९
विशालोवाच-
भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि ९०
एकेनापि च दोषेण त्वामेषा हि न मन्यते
एष मे संशयो जातो भवान्विष्णुमयो नृप ९१
ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते
तत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव ९२
विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ९३
एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ९४
जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा
समुद्भूतं ममांगे वै तं न जाने जरागमम् ९५
यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभे
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ९६
विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ९७
श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके
जरा संक्राम्यते यस्य तस्यांगे परिसंचरेत् ९८
तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ९९
यथात्मदानपुण्यस्य कृपया यो ददाति च
फलं राजन्हि तत्तस्य जायते नात्र संशयः १००
दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते
सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते १०१
पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च
प्रगृह्यैव समागच्छ सुंदरत्वेन भूपते १०२
यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते
एवमाभाष्य सा भूपं विशाला विरराम ह १०३
सुकर्मोवाच-
एवमाकर्ण्य राजेंद्रो विशालामवदत्तदा
राजोवाच-
एवमस्तु महाभागे करिष्ये वचनं तव १०४
कामासक्तः समूढस्तु ययातिः पृथिवीपतिः
गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह १०५
तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम्
कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् १०६
पुत्रा ऊचुः-
पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम्
उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०७
एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः
आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः १०८
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे सप्तसप्ततितमोऽध्यायः ७७
___
पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७८
< पद्मपुराणम् | खण्डः २ (भूमिखण्डः)
← अध्यायः ०७७ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७८
अज्ञातलेखकः अध्यायः ०७९ →
ययातिरुवाच-
एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी
धीरेण भवतां मध्ये तारुण्यं मम दीयताम् १
स्वकीयं हि महाभागाः स्वरूपमिदमुत्तमम्
संतप्तं मानसं मेद्य स्त्रियां सक्तं सुचंचलम् २
भाजनस्था यथा आप आवर्त्तयति पावकः
तथा मे मानसं पुत्राः कामानलसुचालितम् ३
एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम्
स्वकं ददातु तारुण्यं यथाकामं चराम्यहम् ४
यो मे जरापसरणं करिष्यति सुतोत्तमः
स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति ५
तस्य सौख्यं सुसंपत्तिर्धनं धान्यं भविष्यति
विपुला संततिस्तस्य यशः कीर्तिर्भविष्यति ६
पुत्रा ऊचुः-
भवान्धर्मपरो राजन्प्रजाः सत्येन पालकः
कस्मात्ते हीदृशो भावो जातः प्रकृतिचापलः ७
राजोवाच-
आगता नर्तकाः पूर्वं पुरं मे हि प्रनर्तकाः
तेभ्यो मे कामसंमोहे जातो मोहश्च ईदृशः ८
जरया व्यापितः कायो मन्मथाविष्टमानसः
संबभूव सुतश्रेष्ठाः कामेनाकुलव्याकुलः ९
काचिद्दृष्टा मया नारी दिव्यरूपा वरानना
मया संभाषिता पुत्राः किंचिन्नोवाच मे सती १०
विशालानाम तस्याश्च सखी चारुविचक्षणा
सा मामाह शुभं वाक्यं मम सौख्यप्रदायकम् ११
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एवमंगीकृतं वाक्यं तयोक्तं गृहमागतः १२
मया जरापनोदार्थं तदेवं समुदाहृतम्
एवं ज्ञात्वा प्रकर्तव्यं मत्सुखं हि सुपुत्रकाः १३
तुरुरुवाच-
शरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः
धर्मश्च क्रियते राजञ्शरीरेण विपश्चिता १४
पित्रोः शुश्रूषणं कार्यं पुत्रैश्चापि विशेषतः
न च यौवनदानस्य कालोऽयं मे नराधिप १५
प्रथमे वयसि भोक्तव्यं विषयं मानवैर्नृप
इदानीं तन्न कालोयं वर्तते तव सांप्रतम् १६
जरां तात प्रदत्वा वै पुत्रे तात महद्गताम्
पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम् १७
तस्माद्वाक्यं महाराज करिष्ये नैव ते पुनः
एवमाभाषत नृपं तुरुर्ज्येष्ठसुतस्तदा १८
तुरोर्वाक्यं तु तच्छ्रुत्वा क्रुद्धो राजा बभूव सः
तुरुं शशाप धर्मात्मा क्रोधेनारुणलोचनः १९
अपध्वस्तस्त्वयाऽदेशो ममायं पापचेतन
तस्मात्पापी भव स्वत्वं सर्वधर्मबहिष्कृतः २०
शिखया त्वं विहीनश्च वेदशास्त्रविवर्जितः
सर्वाचारविहीनस्त्वं भविष्यसि न संशयः २१
ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः
चंडकर्मप्रकर्ता त्वं भविष्यसि नराधमः २२
सुरालीनः क्षुधी पापी गोघ्नश्च त्वं भविष्यसि
दुश्चर्मा मुक्तकच्छश्च ब्रह्मद्वेष्टा निराकृतिः २३
परदाराभिगामी त्वं महाचंडः प्रलंपटः
सर्वभक्षश्च दुर्मेधाः सदात्वं च भविष्यसि २४
सगोत्रां रमसे नारीं सर्वधर्मप्रणाशकः
पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि २५
तव पुत्राश्च पौत्राश्च भविष्यंति न संशयः
ईदृशाः सर्वपुण्यघ्ना म्लेच्छाः सुकलुषीकृताः २६
एवं तुरुं सुशप्त्वैव यदुं पुत्रमथाब्रवीत्
जरां वै धारयस्वेह भुंक्ष्व राज्यमकंटकम् २७
बद्धाञ्जलिपुटो भूत्वा यदू राजानमब्रवीत्
यदुरुवाच-
जराभारं न शक्नोमि वोढुं तात कृपां कुरु २८
शीतमध्वा कदन्नं च वयोतीताश्च योषितः
मनसः प्रातिकूल्यं च जरायाः पंचहेतवः २९
जरादुःखं न शक्नोमि नवे वयसि भूपते
कः समर्थो हि वै धर्तुं क्षमस्व त्वं ममाधुना ३०
यदुं क्रुद्धो महाराजः शशाप द्विजनंदन
राज्यार्हो न च ते वंशः कदाचिद्वै भविष्यति ३१
बलतेजः क्षमाहीनः क्षात्रधर्मविवर्जितः
भविष्यति न संदेहो मच्छासनपराङ्मुखः ३२
यदुरुवाच-
निर्दोषोहं महाराज कस्माच्छप्तस्त्वयाधुना
कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव ३३
राजोवाच-
महादेवः कुले ते वै स्वांशेनापि हि पुत्रक
करिष्यति विसृष्टिं च तदा पूतं कुलं तव ३४
यदुरुवाच-
अहं पुत्रो महाराज निर्दोषः शापितस्त्वया
अनुग्रहो दीयतां मे यदि मे वर्त्तते दया ३५
राजोवाच-
यो भवेज्ज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः
राज्यदायं सुभुंक्ते च भारवोढा भवेत्स हि ३६
त्वया धर्मं न प्रवृत्तमभाष्योसि न संशयः
भवता नाशिताज्ञा मे महादंडेन घातिनः ३७
तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु
यदुरुवाच-
यस्मान्मे नाशितं राज्यं कुलं रूपं त्वया नृप ३८
तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप
तव वंशे भविष्यंति नानाभेदास्तु क्षत्त्रियाः ३९
तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै
भोक्ष्यंति च न संदेहो अतिचंडा महाबलाः ४०
मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः
त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः ४१
एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम
अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह ४२
मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि
यावच्चंद्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः ४३
तावन्म्लेच्छाः प्रपक्ष्यंते कुंभीपाके चरौ रवे
कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम् ४४
समाह्वयति तं राजा न सुतं नृपनंदनम्
शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा ४५
शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः
समाहूय बभाषे च जरा मे गृह्यतां पुनः ४६
भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकंटकम्
पूरुरुवाच-
राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव ४७
त्वदादेशं करिष्यामि जरा मे दीयतां नृप
तारुण्येन ममाद्यैव भूत्वा सुंदररूपदृक् ४८
भुंक्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा
यावदिच्छा महाभाग विहरस्व तया सह ४९
यावज्जीवाम्यहं तात जरां तावद्धराम्यहम्
एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः ५०
हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः
यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह ५१
तस्मादहं विधास्यामि बहुसौख्यप्रदायकम्
यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम् ५२
तेन राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते
एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते ५३
तारुण्यंदत्तवानस्मै जग्राहास्माज्जरां नृप
ततः कृते विनिमये वयसोस्तातपुत्रयोः ५४
तस्माद्वृद्धतरः पूरुः सर्वांगेषु व्यदृश्यत
नूतनत्वं गतो राजा यथा षोडशवार्षिकः ५५
रूपेण महताविष्टो द्वितीय इव मन्मथः
धनूराज्यं च छत्रं च व्यजनं चासनं गजम् ५६
कोशं देशं बलं सर्वं चामरं स्यंदनं तथा
ददौ तस्य महाराजः पूरोश्चैव महात्मनः ५७
कामासक्तश्च धर्मात्मा तां नारीमनुचिंतयन्
तत्सरः सागरप्रख्यंकामाख्यं नहुषात्मजः ५८
अश्रुबिंदुमती यत्र जगाम लघुविक्रमः
तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम् ५९
विशालां च महाराजः कंदर्पाकृष्टमानसः
राजोवाच-
आगतोऽस्मि महाभागे विशाले चारुलोचने ६०
जरात्यागःकृतो भद्रे तारुण्येन समन्वितः
युवा भूत्वा समायातो भवत्वेषा ममाधुना ६१
यंयं हि वांछते चैषा तंतं दद्मि न संशयः
विशालोवाच-
यदा भवान्समायातो जरां दुष्टां विहाय च ६२
दोषेणैकेनलिप्तोसि भवंतं नैव मन्यते
राजोवाच-
मम दोषं वदस्व त्वं यदि जानासि निश्चितम् ६३
तं तु दोषं परित्यक्ष्येगुणरूपंनसंशयः ६४
इति श्रीपद्मपुराणेभूमिखंडेवेनोपाख्यानेमातापितृतीर्थवर्णने ययातिचरितेऽष्टसप्ततितमोऽध्यायः ७८
____________________________
पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७९
विशालोवाच-
शर्मिष्ठा यस्य वै भार्या देवयानी वरानना
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते १
तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः २
ससर्पोसि महाराज भूतले चंदनं यथा
सर्पैश्च वेष्टितो राजन्महाचंदन एव हि ३
तथा त्वं वेष्टितः सर्पैः सपत्नीनामसंज्ञकैः
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ४
रूपतेजः समायुक्तं सपत्नीसहितं प्रियम्
न वरं तादृशं कांतं सपत्नीविषसंयुतम् ५
तस्मान्न मन्यते कांतं भवंतं गुणसागरम्
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने ६
इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम्
अश्रुबिंदुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ७
यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम्
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ८
बहुधर्मसमोपेतं चारुलक्षणसंयुतम्
राजोवाच-
अन्य भार्यां न विंदामि त्वां विना वरवर्णिनि ९
राज्यं च सकलामुर्वीं मम कायं वरानने
सकोशं भुंक्ष्व चार्वंगि एष दत्तः करस्तव १०
यदेव भाषसे भद्रे तदेवं तु करोम्यहम्
अश्रुबिंदुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम् ११
एवमाकर्ण्य राजेंद्रो हर्षव्याकुललोचनः
गांधर्वेण विवाहेन ययातिः पृथिवीपतिः १२
उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम
तया सार्द्धं महात्मा वै रमते नृपनंदनः १३
सागरस्य च तीरेषु वनेषूपवनेषु च
पर्वतेषु च रम्येषु सरित्सु च तया सह १४
रमते राजराजेंद्रस्तारुण्येन महीपतिः
एवं विंशत्सहस्राणि गतानि निरतस्य च १५
भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनः
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा १६
कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामते
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः १७
तस्या मोहनकामेन रतेन ललितेन च
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया १८
एकदा मोहितं भूपं ययातिं कामनंदिनी
उवाच प्रणतं नम्रं वशगं चारुलोचना १९
अश्रुबिंदुमत्युवाच-
संजातं दोहदं कांत तन्मे कुरु मनोरथम्
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते २०
राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम्
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् २१
समाहूतः समायातो भक्त्यानमितकंधरः
बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा २२
तस्याः पादौ ननामाथ भक्त्या नमितकंधरः
आदेशो दीयतां राजन्येनाहूतः समागतः २३
किं करोमि महाभाग दासस्ते प्रणतोस्मि च
राजोवाच-
अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक २४
समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान्
एवमुक्तो महातेजाः पूरुः परमधार्मिकः २५
सर्वं चकार संपूर्णं यथोक्तं तु महात्मना
तया सार्धं स जग्राह सुदीक्षां कामकन्यया २६
अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा
ब्राह्मणेभ्यो महाराज भूरिदानमनंतकम् २७
दीनेषु च विशेषेण ययातिः पृथिवीपतिः
यज्ञांते च महाराजस्तामुवाच वराननाम् २८
अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने २९
सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ३०
इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव च
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ३१
दर्शयस्व महाभाग यदहं सुप्रिया तव
एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ३२
साधुसाधुवरारोहेपुण्यमेवप्रभाषसे
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ३३
यत्तवोक्तं महाभागे तदसाध्यं विभाति मे
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ३४
अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ३५
मर्त्यलोकाच्छरीरेण अनेनापि च मानवः
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ३६
ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ३७
देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ३८
तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ३९
क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम्
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ४०
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः ७९
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें