बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् ।६।।
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्ध उच्यते
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ।७।
अपार्थं श्रुतिवाक्यानां दर्शयन्लोकगर्हितम्
स्वकर्म्मरूपं त्याज्यत्वमत्रैव प्रतिपाद्यते ।८।
तान्समाश्वास्य दिक्पालान्मामाह पुरुषोत्तमः
श्रीभगवानुवाच-
त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् २३
पाषंडाचरणं धर्मं कुरुष्व सुरसत्तम
तामसानि पुराणानि कथयस्व च तान्प्रति २४
मोहनानि च शास्त्राणि कुरुष्व च महामते
मयि मुक्ताश्च विप्रश्च भविष्यंति महर्षयः २५
मद्भक्त्या तान्समाविश्य कथयस्व च तामसान्
काणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् २६
कपिलं चैव दुर्वासं मृकंडुं च बृहस्पतिम्
भार्गवं जामदग्न्यं च दशैतांस्तामसानृषीन् २७
भावशक्त्या समाविश्य कुर्वता जगतो शिवम्
त्वच्छक्त्या च निविष्टास्ते तमसोद्रिक्तया भृशम् २८
तामसास्ते भविष्यंति क्षणादेव न संशयः
कथयिष्यंति ते विप्रास्तामसानि जगत्त्रये २९
पुराणानि च शास्त्रणि त्वया सत्वेन बृंहिताः
कपालचर्म्मभस्मास्थि चिह्नान्यमरसर्वशः ३०
त्वमेव धृतवान्लोकान्मोहयस्व जगत्त्रये
तथा पाशुपतं शास्त्रं त्वमेव कुरु सत्कृतः ३१
कंकालशैवपाषंडमहाशैवादिभेदतः
अलक्ष्यं च मतं सम्यग्वेदबाह्यं नराधमाः ३२
भस्मास्थिधारिणः सर्वे भविष्यंति ह्यचेतसः
त्वां परत्वेन वक्ष्यंति सर्वशास्त्रेषु तामसाः ३३
तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाः
भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः ३४
अहमप्यवतारेषु त्वां च रुद्र महाबल
तामसानां मोहनार्थं पूजयामि युगे युगे ३५
मतमेतदवष्टभ्य पतंत्येव न संशयः
महादेव उवाच-
तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि ३६
सुमहद्वदनो दीनो बभूवात्र वरानने
नमस्कृत्वाथ तं देवमब्रवं परमेश्वरम् ३७
त्वयोदितमिदं देव करोमि यदि भूतले
तस्मान्नाशाय मे नाथ भविष्यति न संशयः ३८
तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुना
त्वदाज्ञापि च नोल्लंघ्या एतद्दुःखतरं महत् ३९
एवमुक्ते ततो देवि समाश्वास्य च मां पुनः
आत्मनाशाय तेनात्र भवत्वित्याह मां हरिः ४०
देवतानां हितार्थाय कुरुष्व वचनं मम
तवापि जीवनोपायं कथयामि सुरोत्तम ४१
दत्तवान्कृपया मह्यमात्मनाम सहस्रकम्
हृदये मां समाधाय जप मंत्रं ममाव्ययम् ४२
षडक्षरं महामंत्रं तारकं ब्रह्म उच्यते
ये जपंति हि मां भक्त्या तेषां मुक्तिर्न संशयः ४३
इंदीवरदलश्यामं पद्मपत्रविलोचनम्
शंखांगशार्ङ्गेषुधरं सर्वाभरणभूषितम् ४४
पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभम्
श्रीरामाय नम इत्येवमुच्चार्य्यं मन्त्रमुत्तमम् ४५
सर्वदुःखहरं चैतत्पापिनामपि मुक्तिदम्
इमं मंत्रं जपन्नित्यममलस्त्वं भविष्यसि ४६
भस्मास्थिधारणाद्यत्तु संभूतं किल्बिषं त्वयि
मंगलं तदभूत्सर्वं मन्मंत्रोच्चारणाच्छुभात् ४७
तर्पितो नाशयिष्यामि पापं सर्वं सुरोत्तम
मदन्यदेवताभक्तिर्जायते न तु सुव्रत।।४८
श्रीभागवतमाहात्म्ये चतुर्नवत्यधिकशततमोऽध्यायः १९४
पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५२
← अध्यायः २५१ | पद्मपुराणम् अध्यायः २५२ वेदव्यासः | अध्यायः २५३ → |
श्रीरुद्र उवाच-
अथ मगधाधिपः कंसवधानंतरं द्विषन्नेव यादवान्सदा पीडयामास ते दुःखिताः कृष्णमूचुः १
स च भीमार्जुनावाहूय संमंत्रयामास कृष्णः अनेन रुद्र पूःजितस्तत्प्रसादाच्छस्त्रैरवध्यः परं केनापिप्रकारेण हंतव्य इति २
अथ विचार्य भीममाह एनं प्रतिमल्लयुद्धं कुरु तत्तेन प्रतिज्ञातम् ३
अथ सकल चराचरजगद्वंद्यो वासुदेवो भीमार्जुनसहितो जरासंधस्य पुरीं गत्वा विप्रवेषेण तस्यांतःपुरमवाप ४
सोऽपि महावीर्यान्क्षत्त्रियान्युद्धे निर्जित्य बलाद्गृहीत्वा स्ववेश्मनि निरुध्य मासिमासि कृष्णचतुर्दश्यामेकैकं हत्वा तद्रक्तेनैव बलिं भैरवायाकरोत् ५
एवंविधं सकलजनपार्थिववधं कुर्वतो जरासंधस्य समुद्यमानो भीमार्जुनसहितस्तस्य गृहे विप्रवेषेणैव प्रविवेश ६
स तु तान्दृष्ट्वा दंडवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन संपूज्य धन्योस्मि कृतकृत्योस्मि किमर्थं भवन्तो मे समीप आगतास्तद्वक्तव्यमहं तत्सर्वं भवद्भ्यो दास्यामीत्युवाच ७
तेषां वासुदेवः प्रहसन्पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागताः स्म अस्माकमन्यतमं द्वंद्वयुद्धार्थं वृणीष्वेत्यवदत् ८
सोऽपि तथेत्यवदत्ततो द्वंद्वयुद्धार्थं मारुतिं वरयामास ९
ततो भीमजरासंधयोरभितो भयंकरं मल्लयुद्धं निरंतरं पंचविंशतिवासरमभूत् १०
ततः कृष्णेनैव संचोदितो वायुपुत्रस्तस्य शरीरं द्विधाकृत्य भूमौ निपातयामास ।
एवं जरासंधं पांडुपुत्रेण हत्वा तान्जरासंधनिरोधितान्वासुदेवोऽपि पार्थिवान्मोचयामास ११
निहत्य वायुपुत्रेण जरांसंधं यदूद्वहः
तद्गृहे सन्निरुद्धांस्तु मोचयामास पार्थिवान् १२
ते च तत्र नमस्कृत्य स्तुत्वा च मधुसूदनम्
स्वान्स्वान्जनपदान्सर्वे जग्मुः कृष्णेन रक्षिताः १३
अथ ताभ्यामिंद्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रतुं राजसूयं युधिष्ठिरं कारयामास १४
तत्र समाप्ते क्रतौ अग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान् १५
तत्र शिशुपालः कृष्णं बहून्याक्षेपवाक्यान्युक्तवान् १६
कृष्णोऽपि सुदर्शनेन तस्य शिरश्चिच्छेद १७
असौ जन्मत्रयावसाने हरेः सारूप्यमगमत् १८
अथ शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम १९
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुरामाययौ २०
दंतवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे संग्रामः समवर्त्तत कृष्णस्तु गदया तं जघान २१
पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८३
< पद्मपुराणम् | खण्डः ६ (उत्तरखण्डः)
← अध्यायः १८२ पद्मपुराणम्
अध्यायः १८३
वेदव्यासः अध्यायः १८४ →
श्रीमहादेव उवाच
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात्
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके १
अस्ति माहिष्मतीनाम नगरी नर्मदातटे
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः २
वेदवेदांगतत्वज्ञः कालेकालेऽतिथिप्रियः
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ३
महांतमध्वरं कर्तुं समारेभे कदाचन
आलंभनार्थमानीतश्छागः पूजितविग्रहः ४
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि ५
विनश्वरफलैर्जन्म जरामरणहेतुभिः
एतावत्यपि मे विप्र दशेयं दृश्यतामिति ६
छागस्यैवं वचोतीव कुतूहलपरं जनाः
निशम्यविस्मयं याताः कृतमंडपवासिनः ७
ततो बद्धांजलिपुटो द्विजातिस्तिमितेक्षणः
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात् ८
द्विज उवाच
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद
केन वा कर्मणा वासीच्छागत्वमिति कारणम् ९
छाग उवाच
आसं पुरा द्विजातीनामन्वये चातिनिर्मले
आहर्ता क्रतुसंघानां वेदविद्याविशारदः १०
एकदा मम गेहिन्या पुत्ररोगप्रशांतये
छागः प्रयाचितो मत्तः चंडिकाभक्तिनम्रया ११
ततो निहन्यमानस्य चंडिकामंडपस्थले
छागस्य जननी मां तु शशाप ब्रह्मवादिनी १२
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि १३
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम
निस्तीर्य चानेकविधा योनिसंतापयातनाः १४
विप्र उवाच
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम् १५
छाग उवाच
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम्
कदाचिन्मर्कटो भूवमाहितुंडिकशिक्षया १६
क्रीडद्भिर्वीक्षितो डिंभैर्नृत्यन्प्रतिगृहांगणे
उदारानात्मनो दारान्विलोक्य तनयानपि १७
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसंभ्रमः
ततो वर्तुलदंडैश्च दुःसहैराहितुंडिकः १८
मामुच्चैस्ताडयांचक्रे रुषा लोहितलोचनः
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसंततिः १९
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम्
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे २०
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः
कदाचिदाविशं स्वांतरात्मवेश्ममहानसम्
← अध्यायः १८२ | पद्मपुराणम् अध्यायः १८३ वेदव्यासः | अध्यायः १८४ → |
श्रीमहादेव उवाच
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात्
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके १
अस्ति माहिष्मतीनाम नगरी नर्मदातटे
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः २
वेदवेदांगतत्वज्ञः कालेकालेऽतिथिप्रियः
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ३
महांतमध्वरं कर्तुं समारेभे कदाचन
आलंभनार्थमानीतश्छागः पूजितविग्रहः ४
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि ५
विनश्वरफलैर्जन्म जरामरणहेतुभिः
एतावत्यपि मे विप्र दशेयं दृश्यतामिति ६
छागस्यैवं वचोतीव कुतूहलपरं जनाः
निशम्यविस्मयं याताः कृतमंडपवासिनः ७
ततो बद्धांजलिपुटो द्विजातिस्तिमितेक्षणः
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात् ८
द्विज उवाच
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद
केन वा कर्मणा वासीच्छागत्वमिति कारणम् ९
छाग उवाच
आसं पुरा द्विजातीनामन्वये चातिनिर्मले
आहर्ता क्रतुसंघानां वेदविद्याविशारदः १०
एकदा मम गेहिन्या पुत्ररोगप्रशांतये
छागः प्रयाचितो मत्तः चंडिकाभक्तिनम्रया ११
ततो निहन्यमानस्य चंडिकामंडपस्थले
छागस्य जननी मां तु शशाप ब्रह्मवादिनी १२
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि १३
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम
निस्तीर्य चानेकविधा योनिसंतापयातनाः १४
विप्र उवाच
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम् १५
छाग उवाच
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम्
कदाचिन्मर्कटो भूवमाहितुंडिकशिक्षया १६
क्रीडद्भिर्वीक्षितो डिंभैर्नृत्यन्प्रतिगृहांगणे
उदारानात्मनो दारान्विलोक्य तनयानपि १७
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसंभ्रमः
ततो वर्तुलदंडैश्च दुःसहैराहितुंडिकः १८
मामुच्चैस्ताडयांचक्रे रुषा लोहितलोचनः
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसंततिः १९
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम्
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे २०
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः
कदाचिदाविशं स्वांतरात्मवेश्ममहानसम् २१
बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनम्
जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात् २२
शंकमानो जनरवात्पार्श्वे च विलिहन्निव
ततः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः २३
जायया च जरत्याहं ताडितो लकुटादिभिः
ततो भग्नकटिर्यातो बहुशोणितमुद्वहन् २४
निर्जगाम बहिर्गेहात्कथंचिन्मूर्च्छयाकुलः
अंगेषु पूतिगंधेषु क्रिमिगर्भेषु कालतः २५
ततः कदश्वतां प्राप्तः शौंडिकस्य च वेश्मनि
अश्वोभवमहं विद्वन्मृतः कालक्रमादिह २६
कदाचिच्चत्वरे तेन समानीतो जनाकुले
विक्रयाय जरालीढ पतयालुरदावलि २७
जायया द्वारकायात्रां कर्तुमुद्यतयासकृत्
मौल्येनाल्पीयसा क्रेतुं तुरंगं चेष्टमानया २८
जगृहेहं तया दाम्ना अल्पेन वसुना जरन्
गंतुं चारभतद्वित्रैः पुत्रैरारुह्य मां समम् २९
शनैः शनै सरस्तीरे मग्नोऽहं गाढकर्दमे
तत्राहं कुटिलग्रीवश्चापतन्कर्दमान्तरे ३०
ताड्यमानो मुहुः पुत्रैः लकुटोपलपाणिभिः
उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम् ३१
ततो निश्चित्य मां तत्र मृतं भग्नोद्यमाः सुताः
आक्रुश्य मातरं दीनां प्रावृत्य निर्ययुर्गृहम् ३२
ततः संप्रेत्य बहुना कालेन छागतां गतः
निस्तीर्णानेकहीनोच्च योनिसंतापयातनः ३३
द्विज उवाच
किमनेन महाछाग दुःखजातेन नित्यशः
यथावदंजसा मह्यं सुखमात्यंतिकं भवेत् ३४
छाग उवाच
आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज
स्वस्थमापृच्छमानस्य तवास्ति यदि कौतुकम् ३५
अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकम्
सूर्यवंशोऽभवत्तत्र चंद्रशर्मा महीपतिः ३६
सूर्योपरागसमये श्रद्धया परयान्वितः
दानं स कालपुरुषं दातुं समुपचक्रमे ३७
समाहूय द्विजन्मानं वेदवेदांगपारगम्
स्नातुं पुण्योदकैः पुण्यैर्ययौ सार्द्धं पुरोधसा ३८
अथोच्चैः कालपुरुषो वाचमूचे हसन्निव
अन्येनैव प्रगृह्णंति क्षेत्रे चाण्वपि किंचन ३९
सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले
दानं च कालपुरुषं जिघृक्षसि कथं द्विज ४०
ज्ञात्वापि निश्चितं सर्वमेतत्पातककारकम्
प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया ४१
इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम्
किमनेन महादानभयेनेत्यवदद्द्विजः ४२
एवंविध महादान पातकागाधवारिधिम्
जानामि तरितुं सम्यगुपायमहमेव हि ४३
ततः स्नात्वा महीपालः परिधाय च वाससी
शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः ४४
अवलंब्य करांभोजं पार्श्ववर्तिपुरोधसः
समाययौ सेव्यमानः स तत्कालोचितैर्जनैः ४५
समागत्य च भूपालः संप्रादात्कालपूरुषम्
यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने ४६
निर्भिद्य कालपुरुषहृदयं निर्दयोदयः
पापात्मा निर्ययौ कश्चिच्चांडालो रक्तलोचनः ४७
किंच प्रापितकालस्य परनिंदारसोत्सवे
निंदा चांडालिका देहपार्श्वमागाद्द्विजन्मनः ४८
एतच्चांडालयुगलं निर्गत्यारुणलोचनम्
ततः संचरितं चक्रे प्रसह्यांगे द्विजन्मनः ४९
गीतानां नवमाध्यायं जपन्नेव हृदिस्थितः
कंपमानं द्विजं किंचित्तूष्णीं पश्यति भूपतौ 6.183.५०
अंतर्निद्राणगोविंदं कंपमानमिवांबुधिम्
मरुदांदोलनैर्विद्वान्द्विजन्मा पापसंश्रयम् ५१
ततो गीताक्षरोद्भूतैर्वैष्णवैः परिपीडितम्
पलायमानं चांडालयुगलं निष्फलोद्यमम् ५२
तन्निश्चक्राम वेगेन द्विजातेः पार्श्ववर्ति यत्
शरीरे वर्त्तमानं च परनिंदारसोत्सवे ५३
इत्थं कलितवृत्तांतः प्रत्यक्षं क्षितिवल्लभः
पर्यपृच्छद्द्विजन्मानं विस्मयस्मेरलोचनः ५४
कथमापदियं घोरा निस्तीर्णा महती त्वया
कं मंत्रं जपता विप्र कं वासं स्मरतासुरम् ५५
कः पुमान्का च सा योषित्कथमेतावुपस्थितौ
कथं च शांतिमापन्नावित्युदीरय मे द्विज ५६
द्विज उवाच
चांडालमूर्तिमासाद्य मूर्तिकिल्बिषमुल्बणम्
योषिन्मूर्त्तिमयीं निंदाद्वयमेतदवैम्यहम् ५७
गीताया नवमाध्यायमंत्रमाला मया स्मृता
तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपते ५८
गीताया नवमाध्यायं जपामि प्रत्यहं नृप
निस्तीर्णाश्चापदस्तेन कुप्रतिग्रहसंभवाः ५९
अभ्यस्य नवामाध्यायं राजा तस्माद्द्विजन्मनः
तावुभावपि लेभाते परां निर्वृतिमुत्तमाम् ६०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये त्र्यशीत्यधिकशततमोऽध्यायः १८३
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें