शनिवार, 12 अक्तूबर 2024

यो बन्धुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः ।

सा गर्भधारिणी या च गर्भावासविमोचनी॥ ॥
दयारूपा च भगिनी यमभीतिविमोचनी।६५।

विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ 
गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम्।६६ ॥

आब्रह्मस्तम्बपर्यन्तं ततो विश्वं चराचरम् ॥ 
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः।६७।

वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम् ॥ 
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम्।६८।

दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ॥।
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ।६९।

विष्णुभक्तियुतं ज्ञानं नो ददाति च यो गुरुः ॥ 
 स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् ।७०।

जननीं गर्भजक्लेशाद्यमयातनया तथा ॥ 
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ।७१।

परमानन्दरूपं च कृष्णमार्गमनश्वरम्॥
न दर्शयेद्यः सततं कीदृशो बान्धवो नृणाम् ।७२।

भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम्॥७३॥
__________________

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें