रविवार, 29 अप्रैल 2018

भरद्वाजः पुं भरद्वाभ्यां जायते इति भरद्वाज: कथ्यते

भरद्वाजः, पुं ( भर द्वाभ्यां जायते इति भरद्वाज: कथ्यते अर्थात् बड़े भाई उतथ्य की पत्नी ममता से गौतम और दीर्घ तमा के द्वारा उत्पन्न सन्तान ।
(जन् + डः)
ततः पृषोदरादित्वात् द्वाजः सङ्करः ।
भ्रियते मरुद्भिरिति ।
भृ + अप् = भरः । भरश्चासौ द्बाजश्चेति कर्म्मधारयः ) मुनिविशेषः ।

भागवतपुराण 9,20,36, में भरद्वाज की उत्पत्ति का प्रसंग इस ऱप्रकार है । एक वार बृहस्पति ने अपने छोटे भाई उतथ्य की पत्नी ममता के साथ उसको पहले से भी गर्भवती होने पर बलात्कार करना चाहा  उस समय गर्भस्थ शिशु ने मना किया परन्तु बृहस्पति नहीं माने काम वेग ने उन्हें विवश कर दिया ।
बृहस्पति नें बालक को शाप दे दिया की तू दीर्घ काल तक अन्धा (तमा) हो जाय । यह सुनकर बालक तो निकल भागा परन्तु बृहस्पति ने ममता के साथ बलात्कार करके उसे पुन: गर्भ वती कर दिया  तब वह बालक उत्थ्य और बृहस्पति दौनों की सन्तान होने से
भरद्वाज कहलाया ।

उतथ्य की पत्नी ममता  से दीर्घतमा और गौतम के बलात्कार से उत्पन्न सन्तान ।
स च उतथ्यपत्न्यां ममतायां बृहस्पतिवीर्य्याज्जातः ।
तस्य जन्मविवरणं यथा ।
“ततोऽस्य वितथे पुत्त्रजन्मनि पुत्त्रार्थिने मरुत्सोमयाजिने दीर्घतमसा पार्ष्ण्यपास्ताद्बृहस्पतिवीर्य्यादुतथ्यपत्नी- ममतासमुत्पन्नो भरद्बाजाख्यो नाम पुत्त्रो मरुद्भिर्दत्तः । अस्यापि नामनिर्वचनश्लोकः पठ्यते ।
‘मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ! ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥
’ इति ।
भरद्वाजश्च तस्य वितथे पुत्त्रजन्मनि मरुद्भिर्दत्तो वितथसंज्ञामवाप ॥ ॥
अस्य टीका ।
वितथे अर्थ सति ।
अत्रैवमितिहासः ।
बृहस्पते- रग्रजस्योतथ्यस्य ममताख्या पत्नी गर्भिण्यासीत् तस्यां बृहस्पतिः कामाभिभूतो वीर्य्यं व्यसृजत् ।
तच्च गर्भं प्रविशद्गर्भस्थेन स्थानसङ्कोचभयात् पार्ष्णिप्रहारेणापास्तं बहिः पतितमपि अमोघ- वीर्य्यतया बृहस्पतेर्भरद्वाजनामपुत्त्रोऽभूत् ।
गर्भस्थश्च बृहस्पतिना तस्मादेवापराधादन्धो भवेति शप्तो दीर्घतमा नामाभवत् ।
तत्र भर- द्वाजनामनिरुक्तिपरः तत्पित्रोर्विवादकरोऽयं श्लोको देवैः पठितः ।
हे मूढे ममते द्बाजं द्वाभ्यामावाभ्यां जातमिमं पुत्त्रं त्वं भर रक्ष ।
अर्थात् हे ममता दीर्घ तमा और गौतम दौनों के द्वारा उत्पन्न इस पुत्र का तू पालन  कर !
एवं बृहस्पतिनोक्तेव ममता तमाह हे बृहस्पते !
द्वाजं द्बाभ्यां जातमिममेकाकिनी किमित्यहं भरिष्यामि । त्वमिमं भरेति परस्परमुक्त्वा तं पुत्त्रं त्यक्त्वा यस्मात् पितरौ ममताबृहस्पती ततो यातौ ।
ततो भरद्वाजाख्योऽयम् ।
पाठान्तरे एवं विवदमानौ ।
यद्दुःखात् यन्निमित्ताद् दुःखात् पितरौ यातावित्यर्थः । तदेवं ताभ्यां त्यक्तो मरुद्भिर्भृतः ।
मरुत्सोमाख्येन च यागेनाराधितैर्मरुद्भिस्तस्य वितथे पुत्त्र- जन्मनि सति दत्तत्वाद्बितथसंज्ञाञ्चावाप ।
इति बिष्णुपुराणे ४ अंशे १९ अध्यायः
(द्वादशद्बापरेऽसावेव व्यासः ।
यथा, देवीभाग- वते । १ । ३ । २९ ।
“एकादशेऽथ त्रिवृषो भरद्वाजस्ततःपरम् ।
त्रयोदशे चान्तरिक्षो धर्म्मश्चापि चतुर्द्दशे ॥
यथा च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“रोगाः कार्श्यकरा वलक्षयकरा देहस्य चेष्टाहराः दृष्टा इन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडाकराः । धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा बलात् प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम् ॥ तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै- र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं तेऽब्रुवन् ।
त्वं योग्यो भगवन् ! सहस्रनयनं याचस्व लब्धं क्रमा- दायुर्व्वेदमधीत्य यं गदभयाम्मुक्ता भवामो वयम् ) पक्षिविशेषः ।
भारुइ इति भाषा । तत्पर्य्यायः । व्याघ्राटः २ । इत्यमरः । २ । ५ । १५ ॥ भरद्वाजकः ३ ।
इति शब्दरत्नावली ॥ (गोत्रभेदः । यथा, मनौ । “शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा । भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥
इत्यादि गोत्रशब्दे द्रष्टव्यम् ॥
भृ + शतृ । भरत् + वाजः । संभ्रियमाणहविर्लक्षणान्नेयज- मानादौ, त्रि ।
यथा, ऋग्वेदे । १ । ११६ । १८ ।
“यदयातं दिवोदासाय वर्त्तिर्भरद्वाजायाश्विना हयन्ता ॥” “भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यज- मानाय ।” इति तद्भाष्ये सायनाचार्य्यः )

ज्येष्ठस्य भ्रातुरुतथ्यस्य पत्न्यां ममतायां वृहस्पतिना जनिते मुनिभेदे । तदुत्पत्तिकथा विष्णु पु० ४ अं० १९ अ० । भाग० ९ । २० अ० ।
द्वाजशब्दे ३७९५ पृ० तन्निरुक्ति- रुक्ता । भा० अनु० ९३ अ० अन्यथा निर्वचनमुक्तं यथा “भरेऽसुतान् भरेऽशिष्यान् भरे देवान् भरे द्विजान् । भरे भार्य्या भरद्वाजं भरद्वाजोऽस्वि शोभने!” । “प्रजा वै वाजस्ता एष विभर्त्ति यद्बिभर्त्ति तस्याद्भरद्वाज इति श्रुत्यनुसारेण खनामाह “भरे इति अशिष्यान् शासितु- मयोग्यानपि राचसान् शत्रूंश्च वशेकृत्य करुणया पालयामि तथा असुतान् अपुत्रानुदासीनानपि दीनानदीनान् पालयामि भार्य्यां भार्य्येति पुत्रभृत्यादेरुपलक्षणम् ईदृग्विवोऽन्योऽपि वाजं वेगं शत्रूणां साहसमन्नं वा भरेत्स पृथिवीवत् सर्वं तहोन्नप्रदश्च भवतीति तस्मा- दहमपि तथास्मीत्यर्थः ।
भरे द्वाजमिति च्छेदे तु द्वाभ्यां जातं सङ्करजमित्यर्थः ननु “माता भस्त्रा पितुः पुत्रो येन जातः स एव सः
” इति स्मृतेश्चर्मकोशतुल्या मातेत्यतः सर्वोप्येकज एवेति नास्ति कश्चिद् द्वाजः न हि द्वाभ्यां रेतःसेकाभ्यामेको जायत इति सम्भवति सत्यम् आहवनीयादीनामपि संस्कारवतां सर्वेषां द्विविधं जन्म योनितः संस्कारतश्च तत्र सङ्करोऽन्यस्माज्जातोऽन्येन स्वपुत्र इति बुद्ध्या संस्कृत इति स एव द्वाजः द्विर्जायत इति द्विर्जोऽन्यः द्वाभ्यां स्त्रीपुरुषाभ्यां जायत इत्यर्थः द्वाजादयो निपात्यन्ते तत एव द्वाजा अपि सन्तीति “वशी वशं नयसि एकजात! त्वमिति” मन्त्रे मन्योः संकल्पस्य एकजेति विशेषेणं द्वाजे तु वीजसंस्कार सङ्कारादवश्यं संकल्पयोर्वाड्मनसयोर्वा पौर्वापर्यविरोधा भवतीति विश्वासघातकादयो द्वाजा इति ज्ञेयं तदयं संग्रहः “कौशिके क्रौर्यतपसी राधेये शौर्यभीरुते । खले वाक्चित्तवैमत्ये वीजसंस्कारसङ्करादिति” नीलक० । २ मनोरूपे सचेतने ऋषिभेदे तन्निरुक्तिर्यथा “भरद्वाज ऋषिरिति । मनो वै भरद्वाज ऋषिरन्नं वाजो योवै मनो बिभर्ति सोऽन्नं वाजं भरति तस्मा- न्मनो भरद्वाज ऋषिः” शत० ब्रा० ८ । १ । १ । ९ । अस्यार्थः “भरद्वाज ऋषिः बिभर्तीति भरन् वाजमन्नं यः स भरद्वाजीऽन्नधर्ता मनः मनसि स्रस्थे अन्नादनेच्छोत्पत्तेः ऋषिः सचेतनो मनोरूपः” यजु० १३ । ५५ वेददी० । (भारुइ) ३ खगभेदे पुंस्त्री० अमरः । ४ देशभेदे भा० भी० ९ अ० । भरद्वाज ऋषिश्च गोत्रपवर्त्तकः तच्छब्दे २७९६ पृ० दृश्यम् ।
__________________________________________

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें