जरामृत्युरोगशोकपीडादिवर्जितो भव ॥२५॥
इत्युक्त्वा तस्य कर्णे स महामन्त्रं षडक्षरम् ।
त्रिःकृत्वश्च प्रजजाप वेदाङ्गप्रवरं परम् ॥२६॥
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ।
वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम् ॥२७॥
मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः।
श्रूयतां तद् ब्रह्मपुत्र निबोध कथयामि ते ॥२८॥
प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः।
तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै॥२९॥
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ।
नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम्॥ ३०॥
यद्यद्ददाति नैवेद्यं तस्मै देवाय यो जनः ।
स च खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा॥ ३१॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें