8|2|69 पाणिनीय अष्टाध्यायी 172 रोऽसुपि सूत्रच्छेदः रः (प्रथमैकवचनम्) ,
असुपि (सप्तम्येकवचनम्) अनुवृत्तिः अहन् 8|2|68 (षष्ठ्येकवचनम्, लुप्तषष्ठ्यन्तनिर्देशः) अधिकारः पदस्य 8|1|16> पूर्वत्रासिद्धम् 8|2|1
सम्पूर्णसूत्रम् पदस्य अह्नः असुपि रः सूत्रार्थः अहन्-इत्यस्य नकारस्य सुप्-भिन्ने शब्दे परे पदान्ते रेफादेशः भवति ।
अर्थात् अहन् इस नकारान्त शब्द के सुप् से भिन्न शब्द परे होने पर पद के अन्त में रेफ ( र् ) आदेश हो जाता है
_________________________________________
अहन् 8|2|68 इत्यनेन अहन्-शब्दस्य पदान्ते रुँत्वे प्राप्ते अनेन सूत्रेण सुप्-भिन्ने शब्दे परे "र्" इति आदेशः भवति।
इसके लिए पाणिनीय सूत्र है ।:- रोऽसुपि 8|2|69👇
अहन् 8|2|68 इत्यस्य अयम् अपवादः ।
यथा - (1) अहन् + अहः = अहर् + अहः = अहरहः । (2) अहन् + गणः = अहर् + गणः = अहर्गणः । द्वयोः अपि उदाहरणयोः समासं कृत्वा ततः वर्तमानसूत्रस्य प्रयोगः भवति ।
ज्ञातव्यम् - अस्य सूत्रस्य अनुपस्थितौ अहन् 8|2|68 इत्यनेन रुँत्वे कृते अग्रे हशि च 6|1|114 इत्यनेन उत्वम् अभविष्यत् ।
अत्र वार्तिकद्वयं ज्ञातव्यम् - 1. रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् । "रुप", "रात्रि", "रथ" - एतेषाम् पूर्वस्य अहन्-शब्दस्य रुँत्वं भवति ।
यथा - (अ) अहन् + रूप = अहोरूप । आ) अहन् + रात्रि = अहोरात्र । प्रक्रिया इयम् - अहश्च रात्रिश्च एतयोः समाहारः = अहन् + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।] → अहरुँ + रात्रि + अ
[रोऽसुपि 8|2|69 इत्यत्र पाठितेन रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् इत्यनेन वार्त्तिकेन अहन्-शब्दस्य नकारस्य रुँत्वं भवति ।] → अहर् + रात्रि + अ [उँकारस्य उपदेशेऽजनुनासिक इत 1|3|2 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः] → अह उ + रात्रि + अ [रेफस्य हशि च 6|1|114 इति उकारः] → अहोरात्रि + अ [आद्गुणः 6|1|87 इति गुण-एकादेशः] → अहोरात्र् + अ [यस्येति च 6|4|148 इति इकारलोपः] → अहोरात्र [रात्राह्नाहाः पुंसि 2|4|39 इत्यनेन पुंस्त्वम् ] इ) अहन् + रथन्तर = अहोरथन्तर । 2. अहरादीनां पत्यादिषु वा रेफः । अहरादिगणस्य शब्दानाम् पत्यादिगणस्य शब्देषु परेषु विकल्पेन रेफः भवति । यथा - अहन् + पतिः = अहर् + पतिः = अहर्पतिः । रेफाभावे - अहन् + पतिः → अहरुँ + पतिः [अहन् 8|2|68 इत्यनेन रूत्वम्] → अहः + पतिः [खरवसानयोर्विसर्जनीयः
8|3|15 इत्यनेन विसर्गः] → अहः पतिः, अहXपतिः । [कुप्वोः Xक Xपौ च 8|3|37 इति विकल्पेन उपध्मानीयः] अस्मिन् वार्तिके "अहरादिगण" तथा "पत्यादिगण" एतेषाम् विषये उक्तम् अस्ति ।
एते गणाः एतादृशाः - अहरादिगणः = {अहर् , गिर्, धुर् }(अहर्-इत्यनेन अहन्-शब्दः स्वीक्रियते) । पत्यादिगणः = { पति, गण, पुत्र } अतः अनेन वार्तिकेन एतानि पदानि सिद्ध्यन्ति - अहर्पतिः, गीर्पतिः, धूर्पतिः , अहर्गणः, गीर्गणः, धूर्गणः, अहर्पुत्रः, गीर्पुत्रः, धूर्पुत्रः ।
__________________________________________
अहन् gets a रेफादेश at पदान्त when it is followed by a word that is not a सुप्-प्रत्यय. काशिकावृत्तिः 👇
अहन् को रेफादेश हो जाता है अहन् पद के अन्त में
जब उस अहन् पद के बाद एक ऐसा शब्द आता है जो सुप् -प्रत्यय नहीं होता है।
(काशिकावृत्तिः)
अहनित्येतस्य रेफादशो भवति असुपि परतः।
इस अहन् का रेफादेश हो जाता है असुप् परे होने पर -जैसे :-👇
अहर्ददाति। अहर्भुङ्क्ते।
असुपि इति किम् ? असुप् क्या है ?
अहोभ्याम्। अहोभिः। ननु चत्र अपि प्रत्ययलक्षणेन सुबस्ति,
अहर्ददाति, अहर्भुङ्क्ते इति? न एतदस्ति।
उक्तम् एतत् अह्नोरविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति।
नायमहःशब्दः सुप्परो भवति।
यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घहो ऽत्र, दीर्घाहो निदाघ इति।
अत्र हि हल्ङ्याब्भ्यः इति लोपेन प्रत्ययस्य निवृत्तिः। न्यासः
सिद्धान्तकौमुदी अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः ।
असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ ।रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् (वार्तिकम्) ॥
अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः ।
अहोरथन्तरम् ॥ ।अहरादीनां पत्यादिषु वा रेफः (वार्तिकम्) ॥
विसर्गापवादः ।
अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥
बालमनोरमा :-
तत्त्वबोधिनी लघुसिद्धान्तकौमुदी अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥ महाभाष्यम् रोऽसुपि ।। असुपि रादेशे उपसर्जनसमासे प्रतिषेधोऽलुकि।।
असुपि रादेशे उपसर्जनसमासेऽलुकि प्रतिषेधो वक्तव्यः। दीर्घाहा निदाघ इति। ।।
सिद्धं तु सुपि प्रतिषेधात्।। सिद्धमेतत्।। कथम्?।। सुपि प्रतिषेधात्। प्रसज्याऽयं प्रतिषेधः-सुपि नेति।। इहाऽपि तर्हि न प्राप्नोति अहर्ददाति अहर्भुङ्क्त इति।।
लुकि चोक्तम्(1)।। झ्र्लुकि चोक्तम्(2)ट।। किमुक्तम्(1)?।। अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति।।
_________________________________________
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें