शनिवार, 23 जनवरी 2021

ब्राह्मण्ड पुराण मध्यम भाग में कलियुग में होने वाले राजाओं का वर्णन


विष्णुपुराणम्/चतुर्थांशः/अध्यायः ११


श्रीपराशर उवाच
अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ ४,११.१ ॥
यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ ४,११.२ ॥
अत्र श्लोकः ॥ ४,११.३ ॥
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यंपरं ब्रह्मनराकृति ॥ ४,११.४ ॥
सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा वभुवुः ॥ ४,११.५ ॥
सहस्रजित्पुः शतजित् ॥ ४,११.६ ॥
तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ४,११.७ ॥
हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ ४,११.८ ॥
तत्तनयो महिष्मान् योऽसौ माहिष्मतों पुरीं निर्वापयामास ॥ ४,११.९ ॥
तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ ४,११.१० ॥
कृतवीर्यादर्जुःसप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ४,११.११ ॥
योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषितवांल्लेभे च ॥ ४,११.१२ ॥
तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता ॥ ४,११.१३ ॥
दशयज्ञसहस्राण्यसावयजत् ॥ ४,११.१४ ॥
तस्य च श्लोकोऽद्यापि गीयते ॥ ४,११.१५ ॥
न नूनं कार्तवीर्यस्य गातिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ ४,११.१६ ॥
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ ४,११.१७ ॥
एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतेरोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ ४,११.१८ ॥
माहिष्मत्यां दिग्विजयाभ्यागतो स्थापितः ॥ ४,११.१९ ॥
यश्च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ ४,११.२० ॥
तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ ४,११.२१ ॥जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ २२ ॥
तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ ४,११.२३ ॥
एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ ४,११.२४ ॥
भरताद्वृषः ॥ ४,११.२५ ॥
वृषस्य पुत्रो मधुरभवत् ॥ ४,११.२६ ॥
तस्यापि वृष्णिप्रमुखंपुत्रशतमासीत् ॥ ४,११.२७ ॥
यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ ४,११.२८ ॥
मधुसंज्ञाहेतुश्च मधुरभवत् ॥ ४,११.२९ ॥
यादवाश्च यदुनामोपलक्षणादिति ॥ ४,११.३० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः (११)


  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

← मध्यभागः, अध्यायः ७३ब्रह्माण्डपुराणम्
अध्यायः ७४
[[लेखकः :|]]

विष्णुपुराणम्/चतुर्थांशः/अध्यायः २४

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

 
योऽयं रिपुञ्जयो नाम बार्हद्रथोऽन्त्यः, तस्य सुनिको नामामात्यो भविष्यति ।। ४-२४-१ ।।

स चैनं स्वामिन हत्वा स्वपुत्रं प्रद्योतनामान मभिषेक्ष्यति । तस्यापि पालकनामा पुत्रो भविता । ततश्व विशाखयूपः, ततूपुत्रो जनकः, तस्य च नन्दिवर्द्धनः, इत्येतै अष्टत्रिंशदुत्तरमब्दशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ।। ४-२४-२ ।।

ततश्व शिशुनागः, तत्पुत्रश्व काकवर्णो भविता । ततूपुत्रः क्षेमधर्म्मा, तस्यापि क्षत्रौजाः, ततूपुत्रो विद्मसारः, ततश्वाजतिशत्रुः तस्माज्व दर्भकः, दर्भकाज्वोदयाश्वः, तस्मादपि नन्दिवर्द्धनः ततो महानन्दी, इत्येते
शैशुनागा दश भूमिपा४लस्त्रीणि वर्षशतानि द्रिषष्टयधिकानि भविष्यन्ति ।। ४-२४-३ ।।

महानन्दिसुतः शुद्रागर्भोद्भवोऽतिलुब्धो महापद्मानन्दः परशुराम इवापर्राऽशिलक्षत्रान्तकारी भविता ।। ४-२४-४ ।।

ततः प्रभृति शूद्रा भूमिपाला भविष्यन्ति, स वैकच्छत्रामनुल्लङ्घित शासनो महापद्मः पृथिवीं भोक्ष्यति ।। ४-२४-५ ।।

तस्याप्यष्टौ सुताः सुमात्वाद्या भवितारः । तस्य च महापद्मस्यानु पृथिवी भोक्ष्यन्ति । महापद्म स्ततूपुत्राश्व एकं वर्षशतमवनीपतयो भविष्यन्ति ।
नवैव तान् नन्दान् कौटिल्यो ब्राह्मणः समुद्धरिष्यति ।। ४-२४-६ ।।

तेषामभावे मौर्य्यश्व पृथिवीं भोक्ष्यन्ति । कौटिल्य एव चन्द्रगुप्त राज्ये ऽभिषेक्ष्यति ।। ४-२४-७ ।।
तस्यापि पुत्रो विन्दुसारो भविष्यति । तस्यापि अशोकवर्द्धनः, ततः सुयशाः, ततो दशरथः, ततः सङ्गतः, ततः शालिशुकः, तस्मात् सोमशर्म्मा, तस्मात् शतदधन्वा, तस्याप्यनु बृहद्रथनामा भविता । एवं मौर्य्या दश भूपतयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ।
तेषामन्ते पृथिवीं शुङ्गा भोक्ष्यन्ति ।। ४-२४-८ ।।

ततः पुष्पमित्रः सेनापतिः स्वामिनं हत्वा राज्यं करिष्यति ।। ४-२४-९ ।।

अस्यात्मजोऽग्रिमित्रः, तस्मात् सुज्येष्ठः, ततो वसुमित्रः, तस्मादप्यार्द्रकः, ततः पुलिन्दकः, ततो घोषवसुः, तस्मादपि वजुमित्रः ततो भागवतः ।। ४-२४-१० ।।

तस्माद् देवभूतिः, इत्येते दश शुङ्गा द्राहशोत्तरं वर्षशत पृथिवीं भोक्ष्यन्ति । त्रतः कण्वानेषा बूर्यास्यति ।। ४-२४-११ ।।

देवभूतिस्तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा निपात्य स्वयमवनीं भोक्ता । ततूपुत्रो भूमिमित्रः, तस्यापि नारायणः, नारायणस्य सुशर्म्मा, एते काणवायनाश्वत्वारः पञ्चचत्वारिंशदूर्षाणि भूपतयो भविष्यन्ति ।
सुशर्म्माणां कणवञ्च भृत्यो बलात् शिप्रतनामा हत्वा अन्धजातीयो वसुधां भोक्ष्यति । ततश्व कृष्णनामा तदूभ्राता भूपतिर्भावी । तस्य श्रीकान्तकर्णिऋ,तस्यापि पुर्णोतूसङ्गः, ततूपुत्रश्व शातकर्णिः, तस्माज्व लम्बोदरः, तस्मादू
द्रिविलकः, ततो मेघस्वातिः, ततः पटुमान्, ततश्व अरिष्टकर्म्मा, ततो हालः, हालात् पुत्तलकः, ततः प्रविल्लसेनः, ततः सुन्दरः स्वल्पायूषो शातकर्णी, तस्माज्वकोरः शातकर्णी ।। ४-२४-१२ ।।

ततः शिवस्वातिः, ततश्व गोमतीपुत्रः, ततूपुत्रः पुलिमान्, तस्यापि शातकर्णी शिवश्रीः, ततः शिवस्कन्धः ततो यज्ञश्रीः, ततो विजयः ततश्चन्द्रश्रीः, तस्यापि पुलोमाचिः, ऐवमेते त्रिंशच्चत्वार्य्यब्दशतानि षटू पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति अन्ध्रभृत्याः ।
सप्ताभीरा दश गर्द्दभिला भूभुजो भविष्यन्ति ।। ४-२४-१३ ।।

ततः षोडंश शका भूभुजो भवितारः । ततश्च अष्टौ यवनाः, चतुर्द्दश
तुखाराः, मुण्डाश्च त्रयोदश, एकादश मौनाः एते पृथिवीं त्रयोदश वर्षशतानि नवनवत्वधिकानि बोक्ष्यन्ति ।। ४-२४-१४ ।।

ततश्च पौरा एकादश भूपतयोऽष्ट्शतानि त्रीणि मही भोक्ष्यन्ति ।। ४-२४-१५ ।।

तेषूच्छन्नेषु कैलकिला यवना भूपतयो भविष्यन्ति । मूर्द्धाभिषिक्तस्तेषां विन्धयशक्तिः ।। ४-२४-१६ ।।
ततः पुरञ्जयः, ततो रामचन्द्रः, तस्माद् धर्म्मः, धर्म्मादू वराङ्गः, कृत नन्दनः, सुषिनन्दिः नन्दियशाः शिशकप्रवारी च । एते वर्षशतं षड वर्षाणि च
भविष्यन्ति । ततस्ततूपुत्रास्त्रयोदशैव, वाह्लीकाश्च त्रयः,ततः पुष्पमित्र-पढ़ु मित्र-पद्ममित्रास्त्रयः, दश मेकलाश्च, सप्तकोशलायान्तु नवैव भूपतयो भविष्यन्ति । नैषधास्तु तावन्त एव भूपतयो भविष्यन्ति ।। ४-२४-१७ ।।

मागधायां विश्वस्फटिकसंज्ञोऽन्यान् वर्णान् करिष्यति कैवर्त्तकटु-पुलिन्द-ब्राह्मण्यान् राज्ये स्थापयिष्यन्नुतूसाद्याखिलक्षत्त्रजातिम् ।
नव नागाः पद्मावत्यां कान्तिपुर्य्यां मथुरायामनुगङ्गप्रयागं मागघा गुप्याश्च भोक्ष्यन्ति ।
कोशलोडू (पुराड्रक) ताम्पलिप्यान् समुद्रतटपुरीश्च देवरक्षितो रक्षिष्यति । कलिङ्गमाहिषिकमाहेन्द्रभीमा गुहांभोक्ष्यन्ति नैषाद-नैनीषिक-कालतोयान् जनपदान् मणिधारवंशा भोक्ष्यन्ति । स्त्रीराज्य-(त्रैराज्य) मूषिकजनपदान् कनकाह्वया भोक्ष्यन्ति । सौराष्ट्रावन्तिशूद्रानर्वुदमरुभूमिविषयांश्च व्रात्या द्रितजाबीर शूद्राद्या बोक्ष्यन्ति । सिन्धुतटदार्व्वीकोर्व्वी- चन्द्रभागा - काश्मीरविषयान् व्रात्या म्लेच्छादयः शूद्रा भोक्ष्यन्ति ।
एते च तुल्यकालाः सर्व्वे पृथिव्यां भूभृतो भविष्यन्ति । अल्पप्रसादा बृहतूकोपाः सर्व्वकालमनृताधर्म्मरुचयः स्त्री-बाल-गो-वधकर्त्तारः, परस्वादा नरुचयोऽल्पसारा उदितास्तमितप्रायाः स्वप्यायुषो महेच्छा अत्यल्पधर्म्माश्च भविष्यन्ति ।। ४-२४-१८ ।।

तैश्च विमिश्रा जनपदास्तच्छीलवर्त्तिनो राजा श्रयशुष्मिणे म्लेच्छा श्चार्य्याश्च विर्प्य्ययेण वर्त्तमानाः प्रजाः क्षपयिष्यन्ति ।। ४-२४-१९ ।।

ततश्चानुदिनमल्पाल्पह्रासादू व्यवच्छेदादू धर्म्मावर्थयो र्जगतः संक्षेपो भविष्यति ।। ४-२४-२० ।।
ततश्वार्थ एवाभिजनहेतुः, धनमेवाशेषधर्म्महेतुः, अभिरुचिरेव दाम्पत्यसम्बन्घहेतुः, अनृतमेव व्यवहारजय हेतुः, स्त्रीत्वमेवोपभोगहेतुः, रत्रताम्रभागितैव पृथिवीहेतुः, ब्रह्मसूत्रमेव विप्रत्वहेतुः, लिङ्गधारमेवाश्रमहेतुः, अन्याय एव वृत्तिहेतुः ।। ४-२४-२१&२२ ।।

दौर्बल्यमेव अवृत्तिहेतुः, भयगर्भोज्वारणमेव पाणिडत्यहेतुः ।। ४-२४-२३ ।।

दानमेव घर्म्महेतुः, आञयतैव साधुत्वहेतुः ।। ४-२४-२४ ।।
स्त्रानमेव प्रसाधनहेतुः, स्वीकरणं विवाहहेतुः, सदवेशधार्य्येव पात्रं दूरायतनोदकमेव तीर्थमित्येव मनेकदोषोत्तरे भूमण्डले सर्व्ववर्णेष्वेव यो यो बलवान् स स भूपतिर्भविष्यति । एवञ्चातिलुब्धकरभारासहाः शैलाना मन्तरा द्रोणीः प्रजाः संश्रयिष्यन्ति । मधुशाकमूलफलपत्रपुष्पाहागश्व भविष्यन्ति, तरुवल्कलचीरप्रावरणाश्वातिबहुप्रजाः शीतवातातपवर्षसहा भवि ष्यन्ति । न च कश्वित् त्रयोविंशति वर्षाणि जीविष्यति । अनवरतं चात्र कलियुगे क्षयमायात्यखिलमेवैष जनः क्षयमुपैष्यति ।। ४-२४-२५ ।।

श्रौतस्मार्त्तधर्म्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टु श्वराचरगुरोरादिमयस्यान्तमयस्य सर्व्वमयस्य ब्रह्ममयस्यात्मखरूपिणो भगवतो वासुदेव स्यांशः सम्भलग्रामप्रघानब्राह्मणाविष्णुयशसो गृहे अष्टगूणर्द्धिसम न्वितः कल्किरूपी जगत्यत्रावतीर्य्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामशेषा णामपरिच्छिन्न माहात्म्यशक्तिः क्षयं करिष्यति ।। ४-२४-२६ ।।

स्वधर्म्मेषु चाशिलं जगत् संस्थापयिष्यतीति । अनन्तरञ्चाशेषकलेरवसाने प्रबु द्धानां तेषामेव जनपदानाममलस्फटिकविशुद्धमतयो भविष्यन्ति ।। ४-२४-२७ ।।

तेषाञ्च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतानामपत्य प्रसूतिर्भविष्यति ।। ४-२४-२८ ।।

तानि च तदपत्यानि कृतयुगघर्म्मानुसारीणि भविष्यनीति ।। ४-२४-२९ ।।

यदा चन्द्रश्व सूर्य्यश्व तथा तिष्य-बृहस्पती ।

एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ।। ४-२४-३० ।।

अतीता वर्त्तमानाश्व तथैवानागताश्व ये ।
एते वंशेषु भूपालाः कथिता मुनिसत्तम ।। ४-२४-३१ ।।

यावत् परीक्षितो जन्म यावन्नन्दाभिषेचनम् ।
एतदूवर्षसहस्त्रन्तु ज्ञेयं पञ्चदशोत्तरम् ।। ४-२४-३२ ।।

सप्तर्षीणाञ्च यौ पूर्वौ दृश्येतै उदितौ दिवि ।
तयोस्तु मध्यनक्षत्रं दृश्यते यत् समं निशि ।
तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।। ४-२४-३३ ।।

ते तु पारीक्षिते काले मघास्वासन् द्रिजोत्तम!
तदा प्रवृत्तश्व कलिर्द्रादशाब्दशातात्मकः ।। ४-२४-३४ ।।

यदैव भगवद्रिष्णोरंशो यातो दिव द्रिज!
वसुदेवकुलोदूभूतस्तदैव कलिरागतः ।। ४-२४-३५ ।।

यावत् स पादपद्माभ्यां पस्पर्शेमां वसुन्धराम् ।
तावत् पृथ्वीपरिष्वङ्ग समर्थो नाभवत् कलिः ।। ४-२४-३६ ।।

गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् ।
तत्याज सानुजो राज्यं धर्मपुत्रो युधिष्ठिरः ।। ४-२४-३७ ।।

विपरीतानि दृष्ट्वा च निमित्तानि स पाण्डवः ।
याते कृष्णे चकाराथ सोऽभषेकं परीश्रिने ।। ४-२४-३८ ।।

प्रयास्यन्ति यदा ते च पूर्व्वाषाढ़ां महर्षयः ।
तदा नन्दात् प्रभृत्येष कलिर्बृद्धि गमिष्यति ।। ४-२४-३९ ।।

यस्मिन कृष्णो दिवं यातस्तस्मिंन्नेव तदाहनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ।। ४-२४-४० ।।

त्रीणि लक्षाणि वर्षाण द्रिज! मानुषसंख्या ।
षष्टिञ्चैव सहस्त्राणि भविष्यत्येष वै कलिः ।। ४-२४-४१ ।।

शतानि तानि दिव्यानि सप्त पञ्च च संख्या ।
निः शेषेण ततस्तस्मिन् भविष्यति पुनः कृतम् ।। ४-२४-४२ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्व द्रिजसत्तम!
युगे युगे महात्मानः समतीताः सहस्त्रशः ।। ४-२४-४३ ।।

बहुत्वान्नामधेयानां परिसंख्या कुले कुले ।
पुनरुक्तबहुत्वात्तु न मया परिकीर्त्तिता ।। ४-२४-४४ ।।

देवापिः पौरवो राजा मरुश्चैक्ष्वाकुवंशजः ।
महायोगवलोपेतौ कलापग्रामसश्रथौ ।। ४-२४-४५ ।।

कृते युग इहागत्य क्षत्रप्रावर्त्तकौ हि तौ ।
भविष्यतो मनोर्वंशे बीजभूतौ व्यवस्थितौ ।। ४-२४-४६ ।।

एतेन क्रमयोगेन मनुपुत्रैर्वसुन्धरा ।
कृतत्रेतादिसंज्ञानि युगानि त्रीणि भुज्यते ।। ४-२४-४७ ।।

कलौ तु बीजभूतास्ते केचित् तिष्ठन्ति भूतले ।
यथैव दैवापि-मरू साम्प्रतं समावस्थितौ ।। ४-२४-४८ ।।

एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया ।
निखिला गदितुं शक्यो नैव जन्मशतैरपि ।। ४-२४-४९ ।।

एते चान्ये च भूपाला यैरत्र क्षितिमण्डथले ।
कृतं ममत्वं मोहान्धैर्नित्येऽनित्यकलेवरैः ।। ४-२४-५० ।।

कथं ममेयमचला मतुपुत्रस्य कथं मही ।
मदू शस्येति चिन्तार्त्ता जग्मुरन्तमिमे नृपाः ।। ४-२४-५१ ।।
तेभ्यः पूर्व्वतराश्वान्ये तेभ्यस्तेभ्यस्तथापरे ।
भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यतु ।। ४-२४-५२ ।।

विलोक्यात्मजयोदूयोग-यात्राव्यग्रान् नराधिपान् ।
पुष्पप्रहासैः शरदि हसतीव वसुन्धरा ।। ४-२४-५३ ।।

मैत्रेय!पृथिवीगीताः श्लोकाश्वात्र निबोध तान् ।
यानाह धर्मध्वजिने जनकायासितो मुनिः ।। ४-२४-५४ ।।

कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि ।
येन फेनसधर्माणोऽप्यतिविश्वस्तचेतसः ।। ४-२४-५५ ।।

पूर्व्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्व पौरांश्व जिगीषन्ते तथा रिपून् ।। ४-२४-५६ ।।

क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्रधियो मृत्युं न पश्यन्त्यविदूरगम् ।। ४-२४-५७ ।।

समुद्रावरणं याति मन्मणडलमथो वशम् ।
कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ।। ४-२४-५८ ।।

उत्सृज्य पूर्व्जा याता यां नादाय गतः पिता ।
तां ममेति विमूढ़त्वाजूजेतुमिच्छन्ति पार्थिवाः ।। ४-२४-५९ ।।

मतूकृते पितृपुत्राणां भ्रातृणाञ्चापि विग्रहाः ।
जायन्तेऽत्यन्तमोहेन ममताधृतचेतसाम् ।। ४-२४-६० ।।

पृथ्वी ममेयं सकला ममैषा ममान्वयस्यापि च शाश्वतेयम् ।
यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ।। ४-२४-६१ ।।

दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युपथ व्रजन्तम् ।
तस्यान्वयस्थस्य कथं ममत्वं ह्टद्यास्पदं मतूप्रभवं करोति ।। ४-२४-६२ ।।

पृथ्वी ममैषाशु परित्यजैनां बदन्ति ये दूतमुखैः स्वशत्रुम् ।
नराधिपास्तेषु ममातिहासः पुनश्व मूढ़ेषु दयाभ्युपैति ।। ४-२४-६३ ।।

इत्येते धरणीगीता श्लोका मैत्रेय! यैः श्रुताः ।
ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ।। ४-२४-६४ ।।

इत्येष कथितः सम्यङू मनोर्व्वंशा मया तव ।
यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ।। ४-२४-६५ ।।

श्वृणुयादू य इमं भत्तया मनुवंशमनुक्रमात् ।
तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ।। ४-२४-६६ ।।

दनधान्यर्द्धिमतुलां प्राप्रोत्यव्याहतेन्द्रियः ।
श्रुत्वैवमखिलं वंशं प्रशस्तं शशिसूर्य्ययोः ।। ४-२४-६७ ।।

इक्ष्वाकु-जह्नु-मान्धातृ-सगरा-विक्षितान् रघून् ।
ययाति-नहुषाद्यांश्व ज्ञात्वा निष्ठामुपागतान् ।
महाबलान् महावीर्य्याननन्तघनसञ्चयान् ।। ४-२४-६८ ।।

कृतान् कालेन बलिना कथाशेषान् नराधिपान् ।
श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा ।
र्द्रव्यादौ च कृतप्रज्ञो ममत्वं कुरुते नरः ।। ४-२४-६९ ।।

तप्त तपो यैः पुरुषग्रवीरैरुदूबाहुभिर्वर्षगणाननेकान् ।
इष्टाश्व यज्ञा बलिनोऽतिवीर्य्याः कृतास्तु कालेन कथावशेषाः ।। ४-२४-७० ।।

पृथुः समस्तान् प्रचचार लोकानव्याहतो योऽरिविदारिचक्रः ।
स कालवाताभिहतो विनष्टः क्षिप्त यथा शाल्मलितूलमग्रौ ।। ४-२४-७१ ।।

यः कार्त्तवीर्य्यो बुभूजे समस्तान् द्रीपान् समाक्रम्य हतारिचक्रः ।
कथाप्रसङ्ग त्वभिधीयमानः स एव सङ्कल्पविकल्पहेतुः ।। ४-२४-७२ ।।

दशानना-विक्षित-राघवाणामैश्वर्य्यमुदूभासितदिङूमुखानाम् ।
भस्मापि जातं न कथं क्षणोन भ्रू भङ्गपातेन घिगन्तकस्य ।। ४-२४-७३ ।।

कथाशरीरत्वमवाप यदू वै मान्धातृनामा भुवि चक्रवर्त्ती ।
श्रुत्वापि तं कोऽपि करोति साधुर्ममत्वमात्मन्यपि मन्दचेताः ।। ४-२४-७४ ।।

भगीरथाद्याः सगरः ककुतूस्थो दशाननो राघव-लक्ष्मणौ च ।
युधिष्ठिराद्याश्व बबूवुरेते सत्यं न मिथ्या क्व नुते न विद्मः ।। ४-२४-७५ ।।

ये याम्प्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीर्य्याः ।
एतदू विदित्वा न नरेण कार्य्यं ममत्वमात्मन्यपि पण्डितेन ।
तिष्ठन्तु तावत् तनयात्मजाद्याः क्षेत्रादयो ये तु शरीरतोऽन्ये ।। ४-२४-७६ ।।





ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


सूत उवाच
तुर्वसोस्तु सुतो वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो वीर स्त्रिसानुरपाजितः ॥ २,७४.१ ॥

करन्धमस्तु त्रैसानो मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वाविज्ञितो राजा मरुत्तः कथितः पुरा ॥ २,७४.२ ॥

अनपत्यो मरुत्तस्तु स राजासीदिति श्रुतम् ।
दुष्कन्तं पौरवं चापि स वै पुत्रमकल्पयत् ॥ २,७४.३ ॥

एवं ययातिशापेन जरासंक्रमणे पुरा ।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ २,७४.४ ॥

दुष्कन्तस्य तु दायादः सरूप्यो नाम पार्थिवः ।
सरूप्यात्तु तथाण्डीरश्चत्वारस्तस्य चात्मजाः ॥ २,७४.५ ॥

पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च ।
तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥ २,७४.६ ॥

द्रुह्योश्च तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ ।
अरुद्धः सेतुपुत्रस्तु बाब्रवो रिपुरुच्यते ॥ २,७४.७ ॥

यौवनाश्वेन समितौ कृच्छेण निहतो बली ।
युद्धं सुमहदासीत्तु मासान्परिचतुर्दश ॥ २,७४.८ ॥

अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः ।
ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥ २,७४.९ ॥

गान्धारादेशजाश्चापि तुरगा वाजिनां वराः ।
गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥ २,७४.१० ॥

धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः पुत्रशतं राजानः सर्व एव ते ॥ २,७४.११ ॥

म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमास्थिताः ।
अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः ॥ २,७४.१२ ॥

सभानरः कालचक्षुः पराक्षस्चेति विश्रुताः ।
सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ २,७४.१३ ॥

कालानलस्य धर्मात्मा सृंजयो नाम विश्रुतः ।
सृंजयस्याभवत्पुत्रो वीरो नाम्ना पुरञ्जयः ॥ २,७४.१४ ॥

आसीदिन्द्रसमो राजा प्रतिष्टितयशादिवि ।
महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥ २,७४.१५ ॥

सप्तद्वीपेश्वरो राजा चक्रवर्त्ती महायशाः ।
महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ ॥ २,७४.१६ ॥

उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् ।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ २,७४.१७ ॥

नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती ।
उशीनरस्य पुत्र्यस्तु पञ्च तासु कुलोद्वहाः ॥ २,७४.१८ ॥

तपस्यतः सुमहतो जाता वृद्धस्य धार्मिकाः ।
नृगायास्तु नृगः पुत्रो नवाया नव एव तु ॥ २,७४.१९ ॥

कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ।
दृषद्वती सुतश्चापि शिबिरौशीनरो द्विजाः ॥ २,७४.२० ॥

शिबे शिवपुरं ख्यातं यौधेयं तु नृगस्य च ।
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ २,७४.२१ ॥

सुव्रतस्य तथांबष्टा शिबिपुत्रान्निबोधत ।
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः ॥ २,७४.२२ ॥

वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ।
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ॥ २,७४.२३ ॥

वृषदर्भाः सुवीराश्च तितिक्षोः शृणुत प्रजाः ।
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः ॥ २,७४.२४ ॥

उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ।
हेमस्य सुतपा जज्ञे सुतः सुतपसो बलिः ॥ २,७४.२५ ॥

जातो मनुष्ययोन्यां वै क्षीणे वंशे प्रजेप्सया ।
महायोगी स तु बलिर्बद्धो यः स महामनाः ॥ २,७४.२६ ॥

पुत्रानुत्पादयामास जातुर्वर्ण्यकरान्भुवि ।
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च ॥ २,७४.२७ ॥

युद्धं कलिङ्गं च तथा वालेयं क्षत्रमुच्यते ।
वालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः ॥ २,७४.२८ ॥

बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन धीमतः ।
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥ २,७४.२९ ॥

संग्रामे वाप्यजेयत्वं धर्मे चैव प्रभावतः ।
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥ २,७४.३० ॥

बलेश्चा प्रतिमत्वं वे धर्मतत्त्वार्थदर्शनम् ।
चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति वै ॥ २,७४.३१ ॥

इत्युक्तो विभुना राजा बलिः शान्ति पराययौ ।
कालेन महता विद्वान्स्वं च स्थानमुपागतः ॥ २,७४.३२ ॥

तेषां जनपदाः स्फीता अङ्गवङ्गाश्च सुह्मकाः ।
पुण्ड्राः कलिङ्गश्च तथा तेषां वंशं निबोधत ॥ २,७४.३३ ॥

तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः ।
संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥ २,७४.३४ ॥

ऋषय ऊचुः
कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो ।
ऋषिणा दीर्घतमसा ह्येतत्प्रब्रूहि पृच्छताम् ॥ २,७४.३५ ॥

सूत उवाच
उशिजो नाम विख्यात आसीद्धीमानृषिः पुरा ।
भार्या वै ममता नाम बभूवास्य महात्मनः ॥ २,७४.३६ ॥

उशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् ।
बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ २,७४.३७ ॥

उवाच ममता तं तु बृहस्पतिमनिच्छती ।
अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्यास्य च भामिनी ॥ २,७४.३८ ॥

अयं हि मे महान्गर्भो रोरवीति बृहस्पते ।
अजस्रं ब्रह्म चाभ्यस्य षडङ्गं वेदमुद्गिरन् ॥ २,७४.३९ ॥

अमोघरे तास्त्वं चापि न मां भजितुमर्हसि ।
अस्मिन्नेव यथाकाले यथा वा मन्यसे विभो ॥ २,७४.४० ॥

एवमुक्तस्तया सम्यग्बृहतेजा बृहस्पतिः ।
कामात्मानं महात्मापि नात्मानं सोऽभ्यधारयत् ॥ २,७४.४१ ॥

संबभूवैव धर्मात्मा तया सार्द्धं बृहस्पति ।
उत्सृजन्तं तदा रेतो गर्भस्थः सोऽस्य भाषत ॥ २,७४.४२ ॥

शुक्रं त्याक्षीश्च मा जीव द्वयोर्नेहास्ति संभवः ।
अमोघरेतास्त्वं वापि पूर्वं चाहमिहागतः ॥ २,७४.४३ ॥

शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः ।
उशिजस्य सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ २,७४.४४ ॥

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति ।
मामेवमुक्तवान्मोहात्तमो दीर्घं ग्रवेक्ष्यसि ॥ २,७४.४५ ॥

ततो दीर्घतमा नाम शापादृषिरजायत ।
अथौशिजो बृहत्कीर्तिर्बृहस्पतिरिबौजसा ॥ २,७४.४६ ॥

ऊर्द्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे ।
गोधर्मं सौरभेयात्तु वृषभाच्छतवान्प्रभोः ॥ २,७४.४७ ॥

तस्य भ्राता पितृव्यस्तु चकार भवनं तदा ।
तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ २,७४.४८ ॥

दर्शार्थमास्तृतान्दर्भाञ्चचार सुरभीसुतः ।
जग्राह तं दीर्घ तमा विस्फुरन्तं तु शृङ्गयोः ॥ २,७४.४९ ॥

स तेन निगृहीतस्तु न चचाल पदात्पदम् ।
ततोऽब्रवीद्वृषस्तं वै सुंच मां बलिनां वर ॥ २,७४.५० ॥

न मया सादितस्तात बलवांस्तद्विधः क्वचित् ।
त्र्यंबकं वहता देवं यतो जातोऽस्मि भूतले ॥ २,७४.५१ ॥

सुंच मां बलिनां श्रेष्ठ प्रतिस्नेहं वरं वृणु ।
एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥ २,७४.५२ ॥

तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् ।
ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ २,७४.५३ ॥

नास्माकं विद्यते तात पातकं स्तेयमेव च ।
भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥ २,७४.५४ ॥

कार्या कार्यं च वै विप्र गम्यगम्यं तथैव च ।
न पाप्मानो वयं विप्र धर्मो ह्येष गवां श्रुतः ॥ २,७४.५५ ॥

गवां नाम स वे श्रुत्वा संभ्रान्तस्त ममुञ्चत ।
भक्त्या चानुश्रविकया गोसुतं वै प्रसादयन् ॥ २,७४.५६ ॥

प्रसादतो वृषेन्द्रस्य गोधर्मं जगृहेऽथ सः ।
मनसैव तदा दध्रे तद्विधस्तत्परायणः ॥ २,७४.५७ ॥

ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत ।
विचेष्टमानां रुदतीं दैवात्संमूढचेतनः ॥ २,७४.५८ ॥

अवलेपं तु तंमत्वा सुरद्वांस्तस्य नाक्षमत् ।
गोधर्म वै बलं कृत्वा स्नुषां स ह्यभ्यमन्यत ॥ २,७४.५९ ॥

विपर्ययं तु तं दृष्ट्वा शरद्वान्प्रविचिन्त्य च ।
भविष्यमर्थं ज्ञात्वा च महात्मा त्ववमत्य तम् ॥ २,७४.६० ॥

प्रोवाच दीर्घतमसं क्रोधात्संरक्तलोचनः ।
गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्स्रुषाम् ॥ २,७४.६१ ॥

दुर्वृत्तं त्वां त्यजाम्येष गच्छ त्वं स्वेन कर्मणा ।
यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः ॥ २,७४.६२ ॥

तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतः ।
सूत उवाच
कर्मण्यस्मिंस्ततः क्रूरे तस्य बुद्धिरजायत ॥ २,७४.६३ ॥

निर्भर्त्स्य चैव बहुशो बाहुभ्यां परिगृह्य च ।
कोष्टे समुद्रे प्रक्षिप्य गङ्गांभसि समुत्सृजत् ॥ २,७४.६४ ॥

उह्यमानः समुद्रस्तु सप्ताहं श्रोतसा तदा ।
तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित् ॥ २,७४.६५ ॥

अपश्यन्मज्जमानं तु स्रोतसोभ्यासमागतम् ।
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा ॥ २,७४.६६ ॥

अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ।
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम् ॥ २,७४.६७ ॥

स च तस्माद्वरं वव्रे पुत्रार्थी दानवर्षभः ।
बलिरुवाच
संतानार्थं महाभाग भार्यायां मम मानद ॥ २,७४.६८ ॥

पुत्रान्धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ।
एवमुक्तस्तुतेनर्षिस्तथास्त्वित्युक्तवान्हितम् ॥ २,७४.६९ ॥

सुदेष्णां नाम भार्यां स्वां राजास्मै प्राहिणोत्तदा ।
अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह ॥ २,७४.७० ॥

स्वां च धात्रेयिकां तस्मै भूषयित्वा व्यसर्जयत् ।
कक्षीवच्चक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी ॥ २,७४.७१ ॥

जनया मास धर्मात्मा पुत्रावेतौ महौजसौ ।
कक्षीवच्चक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा ॥ २,७४.७२ ॥

अधीतौ विधिवत्सम्य गीश्वरौ ब्रह्मवादिनौ ।
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि ॥ २,७४.७३ ॥

ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ।
नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत् ॥ २,७४.७४ ॥

उत्पन्नौ शूद्रयोनौ तु भवतः क्ष्मासुरोत्तमौ ।
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव ॥ २,७४.७५ ॥

प्राहिणोदवमानीय शूद्रीं धात्रेयिकां मम ।
ततः प्रसादयामास पुनस्तमृषिसत्तमम् ॥ २,७४.७६ ॥

बलिर्भार्यां सुदेष्णा च भर्त्सयामास वै प्रभुः ।
पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत् ॥ २,७४.७७ ॥

तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ।
दध्ना लवणमिश्रेण स्वभ्यक्तं नग्नकं तथा ॥ २,७४.७८ ॥

लेहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् ।
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान् ॥ २,७४.७९ ॥

तस्य सा तद्वचो देवी सर्वं कृतवती तथा ।
अपानं च समासाद्य जुगुप्संती ह्यवर्जयत् ॥ २,७४.८० ॥

तमुवाच ततः सर्षिर्यस्ते परिहृतं शुभे ।
विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥ २,७४.८१ ॥

ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह ॥
नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ २,७४.८२ ॥

ऋषिरुवाच
तवापरधो देव्येष नान्यथा भविता तु वै ।
देवीदृशं च ते पौत्रमहं दास्यामि सुप्रते ॥ २,७४.८३ ॥

तस्यापानं विना चैव योग्यभावो भविष्यति ।
तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वदमब्रवीत् ॥ २,७४.८४ ॥

प्राशितं दधियत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते ।
तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥ २,७४.८५ ॥

भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः ।
तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥ २,७४.८६ ॥

ततोंऽगस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत ।
वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रः सुह्मस्तथैव च ॥ २,७४.८७ ॥

वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा ।
इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥ २,७४.८८ ॥

प्रजा ह्युपहतास्तस्य ब्रह्मणा कारणं प्रति ।
अपत्यमस्य दारेषु स्वेषु माभून्महात्मनः ॥ २,७४.८९ ॥

ततो मनुष्ययोन्यां वै जनयामास स प्रजाः ।
सुरभिर्दीर्घत मसमथ प्रीतो वचोऽब्रवीत् ॥ २,७४.९० ॥

विचार्य यस्माद्गोधर्मं त्वमेवं कृतवानसि ।
भक्त्या चानन्ययास्मासु मुने प्रीतास्मि तेन ते ॥ २,७४.९१ ॥

तस्मात्तव तमो दीर्घं निस्तदाम्यद्य पश्य वै ।
बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठते तनौ ॥ २,७४.९२ ॥

जरामृत्युभयं चैव ह्याघ्राय प्रणुदामि ते ।
आघ्रातमात्रोऽसा पश्यत्सद्यस्तमसि नाशिते ॥ २,७४.९३ ॥

आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् ।
गवा हृततमाः सोऽथ गौतमः समपद्यत ॥ २,७४.९४ ॥

कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ।
यथोद्दिष्टं हि पित्राथ चचार विपुलं तपः ॥ २,७४.९५ ॥

ततः कालेन महता तपसा भावितः स वै ।
विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः ॥ २,७४.९६ ॥

ततोऽब्रवीत्पिता त्वेनं पुत्रवानस्म्यहं प्रभो ।
सुपुत्रेण त्वया तात कृतार्थश्च यशस्विना ॥ २,७४.९७ ॥

युक्तात्मानं ततः सोऽथ प्राप्तवान्ब्रह्मणः क्षयम् ।
ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान् ॥ २,७४.९८ ॥

कूष्माण्डा गौतमास्ते वै स्मृताः कक्षीवतः सुताः ।
इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥ २,७४.९९ ॥

समागमः समाख्यातः संतानश्चोभयोस्तथा ।
बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान् ॥ २,७४.१०० ॥

कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः ।
अदृश्यः सर्वभूतानां कालाकाक्षी चरत्युत ॥ २,७४.१०१ ॥

तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः ।
सोऽपराधात्सुदेष्णाया अनपानोऽभवन्नृपः ॥ २,७४.१०२ ॥

अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः ।
पुत्रो दिविरथस्यासीद्विद्वान्धर्मरथो नृपः ॥ २,७४.१०३ ॥

एते एक्ष्वाकवः प्रोक्ता भवितारः कलौ युगे ।
बृहद्बलान्वये जाता महावीर्यपराक्रमाः ॥ २,७४.१०४ ॥

शूराश्च कृतविद्याश्च सत्यसंधा जितेन्द्रियाः ।
अत्रानुवंशश्लोकोऽयं भविष्यज्ज्ञैरुदाहृतः ॥ २,७४.१०५ ॥

इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ।
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ २,७४.१०६ ॥

इत्येतन्मानवं क्षत्रमैलं च समुदात्दृतम् ।
अत ऊर्ध्वं प्रवक्ष्यामि मगधो यो बृहद्रथः ॥ २,७४.१०७ ॥

जरासंधस्य ये वंशे सहदेवान्वये नृपाः ।
अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः ॥ २,७४.१०८ ॥

प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ।
संग्रामे भारते तस्मिन्सहदेवो निपातितः ॥ २,७४.१०९ ॥

सोमापिस्तस्य तनयो राजर्षिः स गिरिव्रजे ।
पञ्चाशतं तथाष्टौ च समा राज्यमकारयत् ॥ २,७४.११० ॥

श्रुतश्रवाः सप्तषष्टिः समास्तस्य सुतोऽभवत् ।
अयुतायुस्तु षड्विंशद्राज्यं वर्षाण्यकारयत् ॥ २,७४.१११ ॥

समाः शतं निरामित्रो महीं भुक्त्वा दिवं गतः ।
पञ्चाशतं समाः षट्च सुक्षत्रः प्राप्तवान्महीम् ॥ २,७४.११२ ॥

त्रयोविंशद्बृहत्कर्मा राज्यं वर्षाण्यकारयत् ।
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः ॥ २,७४.११३ ॥

श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति ।
रिपुञ्जयो महाबाहुर्महाबुद्धिपराक्रमः ॥ २,७४.११४ ॥

पञ्जत्रिंशत्तु वर्षाणि महीं पालयिता नृपः ।
अष्टपञ्जाशतं जाब्दान्राज्ये स्थास्यति वै शुचिः ॥ २,७४.११५ ॥

अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ।
सुव्रतस्तु चतुःषष्टिं राज्यं प्राप्स्यति वीर्यवान् ॥ २,७४.११६ ॥

पञ्च वर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ।
भोक्ष्यते नृपतिश्चेमा अष्टपञ्चाशतं समाः ॥ २,७४.११७ ॥

अष्टत्रिंशत्समाराष्ट्रं सुश्रमस्य भविष्यति ।
चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति ॥ २,७४.११८ ॥

त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ।
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥ २,७४.११९ ॥

सत्यजित्पृथिवी राष्ट्रं त्र्यशीतिं भोक्ष्यते समाः ।
प्राप्येमं विश्वाजिच्चापि पञ्चविंशद्भविष्यति ॥ २,७४.१२० ॥

अरिञ्जयस्तु वर्षाणां पञ्चाशत्प्राप्यते महीम् ।
द्वाविंशच्च नृपा ह्येते भवितारो बृहद्रथाः ॥ २,७४.१२१ ॥

पूर्मं वर्षसहस्रं वै तेषां राज्यं भविष्यति ।
बृहद्रथेष्वतीतेषु वीरहन्तृष्ववर्त्तिषु ॥ २,७४.१२२ ॥

शुनकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति ।
मिषतां क्षत्रियाणां हि प्रद्योतिं नृपतिं बलात् ॥ २,७४.१२३ ॥

स वै प्रणतसामन्तो भविष्येण प्रवर्त्तितः ।
त्रयोविंशत्समा राजा भविता स नरोत्तमः ॥ २,७४.१२४ ॥

चतुर्विंशत्समा राजा पालको भविता ततः ।
विशाखयूपो भविता नृपः पञ्चाशतं समाः ॥ २,७४.१२५ ॥

एकविंशत्समा राज्य मजकस्य भविष्यति ।
भविष्यति समा विंशत्तत्सुतो नन्दिवर्द्धनः ॥ २,७४.१२६ ॥

अष्टत्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते नृपाः ।
हत्वा तेषां यशः कृत्स्नं शिशुनागो भविष्यति ॥ २,७४.१२७ ॥

वाराणस्यां सुतस्तस्य संयास्यति गिरिव्रजम् ।
शिशुनागश्च वर्षाणि चत्वारिंशद्भविष्यति ॥ २,७४.१२८ ॥

काकवर्णः सुतस्तस्य पट्त्रिंशच्च भविष्यति ।
ततस्तु विंशतिं राजा क्षेमधर्मा भवष्यति ॥ २,७४.१२९ ॥

चत्वारिंशत्समा राष्ट्रं क्षत्रौजाः प्राप्स्यते ततः ।
अष्टत्रिंशत्समा राजाविधिसारो भविष्यति ॥ २,७४.१३० ॥

अजातशत्रुर्भविता पञ्चविंशत्समा नृपः ।
पञ्चत्रिंशत्समा राजा दर्भकस्तु भविष्यति ॥ २,७४.१३१ ॥

उदयी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः ।
स वै पुरवरं राजा वृथिव्यां कुसुमाह्वयम् ॥ २,७४.१३२ ॥

गगाया दक्षिणे कूले चतुर्थेऽह्नि कारिष्यति ।
चत्वारिशत्समा भाव्यो राजा वै नन्दिवर्द्धनः ॥ २,७४.१३३ ॥

चत्वारिशत्त्रयश्चैव सहानन्दिर्भविष्यति ।
भविष्यन्ति च वर्षाणि षष्ट्युत्तरशतत्रयम् ॥ २,७४.१३४ ॥

शिशुनागा दशैवैते राजानः क्षत्रबन्धवः ।
एतैः सार्द्धं भविष्यन्ति तावत्कालं नृपाः परे ॥ २,७४.१३५ ॥

एक्ष्वाकवश्चतुर्विंशत्पञ्चालाः पञ्चविंशतिः ।
कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः ॥ २,७४.१३६ ॥

द्वात्रिंशदेकलिङ्गास्तु पञ्चविंशत्तथा शकाः ।
कुरवश्चापि षट्त्रिंशदष्टाविंशति मैथिलाः ॥ २,७४.१३७ ॥

शूरसेनास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः ।
तुल्यकालं भविष्यन्ति सर्वं एव महीक्षितः ॥ २,७४.१३८ ॥

महानन्दिसुतश्चापि शूद्रायाः कालसंवृतः ।
उत्पत्स्यते महा पद्मः सर्वक्षत्रान्तकृन्नृपः ॥ २,७४.१३९ ॥

ततः प्रभृति राजानो भविष्यः शूद्रयोनयः ।
एकराट्स महापद्म एकच्चत्रो भविष्यति ॥ २,७४.१४० ॥

अष्टाशीति तु वर्षाणि पृथिवीं पालयिष्यति ।
सर्वक्षत्रं समुद्धृत्य भाविनोर्ऽथस्य वै बलात् ॥ २,७४.१४१ ॥

तत्पश्चात्तत्सुता ह्यष्टौ समाद्वादश ते नृपाः ।
महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ॥ २,७४.१४२ ॥

उद्धरिष्यति तान्सर्वान्कौटिल्यो वै द्विजर्षभः ।
भुक्त्वा महीं वर्षशतं नरेद्रः स भविष्यति ॥ २,७४.१४३ ॥

चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति ।
चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥ २,७४.१४४ ॥

भविता भद्रसारस्तु पञ्चविंशत्समा नृपः ।
षट्त्रिंशत्तु समा राजा अशोकानां च तृप्तिदः ॥ २,७४.१४५ ॥

तस्य पुत्रः कुलालस्तु वर्षाण्यष्टौ भविष्यति ।
कुशालसूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥ २,७४.१४६ ॥

बन्धुपालितदायादो भविता चेन्द्रपालितः ।
भविता सप्त वर्षाणि देववर्मा नराधिपः ॥ २,७४.१४७ ॥

राजा शतधनुश्चापि तस्य पुत्रो भविष्यति ।
बृहद्रथश्च वर्षाणि सप्त वै भविता नृपः ॥ २,७४.१४८ ॥

इत्येते नव मौर्या वै भोक्ष्यन्ति च वसुंधराम् ।
सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गो गमिष्यति ॥ २,७४.१४९ ॥

पुष्पमित्रस्तु सेनानीरुद्धृत्यतु बृहद्रथम् ।
कारयिष्यति वै राज्यं समाः षष्टिं स चैव तु ॥ २,७४.१५० ॥

अग्निमित्रो नृपश्चाष्टौ भविष्यति समा नृपः ।
भविता चापि सुज्येष्टः सप्त वर्षाणि वै ततः ॥ २,७४.१५१ ॥

वसुमित्रस्ततो भाव्यो दशवर्षाणि पार्थिवः ।
ततो भद्रः समे द्वे तु भविष्यति नृपश्च वै ॥ २,७४.१५२ ॥

भविष्यति समास्तस्मात्तिस्र एव पुलिन्दकः ।
राजा घोषस्ततश्चापि वर्षाणि भविता त्रयः ॥ २,७४.१५३ ॥

सप्त वै वज्र मित्रंस्तु समा राजा ततः पुनः ।
द्वात्रिंशद्भविता वापि समा भागवतो नृपः ॥ २,७४.१५४ ॥

भविष्यति सुतस्तस्य देवभूमिः समा दश ।
दशैते शुङ्गराजानो भोक्ष्यन्तीमां वसुंधराम् ॥ २,७४.१५५ ॥

शतं पूर्मं दश द्वे च तेभ्यः कण्वं गमिष्यति ।
अमात्यो वसुदेवस्तु बाल्याद्व्यसनिनं नृपम् ॥ २,७४.१५६ ॥

देवभूमिं ततो हत्वा शुङ्गेषु भविता नृपः ।
भविष्यति समा राजा पञ्च कण्वायनस्तु सः ॥ २,७४.१५७ ॥

भूमिमित्रः सुतस्तस्य चतुर्विंशद्भविष्यति ।
भविता द्वादश समास्तस्मान्नारायणो नृपः ॥ २,७४.१५८ ॥

सुशर्मा तत्सुतश्चापि भविष्यति चतुःसमाः ।
कण्वायनास्तु चत्वारश्चत्वारिंशच्च पञ्च च ॥ २,७४.१५९ ॥

समा भोक्ष्यन्ति वृथिवीं पुनरन्ध्रान्गमिष्यति ।
कण्वायनमथोद्धृत्य सुशर्माणं प्रसह्य तम् ॥ २,७४.१६० ॥

सिंधुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुंधराम् ।
त्रयोविंशत्समा राजा सिंधुको भविता त्वथ ॥ २,७४.१६१ ॥

कृष्णो भ्रातास्य वर्षाणि सोऽस्माद्दश भविष्यति ।
श्रीशान्तकर्णिर्भविता तस्य पुत्रस्तु वै महान् ॥ २,७४.१६२ ॥

पञ्चाशत्तु समाः षट्च शान्तकर्णिर्भविष्यति ।
आपोलवोद्वादश वै तस्य पुत्रो भविष्यति ॥ २,७४.१६३ ॥

चतुर्विंशत्तु वर्षाणि पटुमांश्च भविष्यति ।
भवितानिष्टकर्मा तु वर्षाणां पञ्चविंशतिम् ॥ २,७४.१६४ ॥

ततः संवत्सरं पूर्णं हालो राजा भविष्यति ।
पञ्चपत्तल्लको नाम भविष्यति महाबलः ॥ २,७४.१६५ ॥

भाव्यःपुरीषभीरुस्तु समाः सोऽप्येकविंशतिम् ।
शातकर्णिर्वर्षमेकं भविष्यति नराधिपः ॥ २,७४.१६६ ॥

अष्टविंशतिवर्षाणि शिवस्वातिर्भविष्यति ।
राजा च गौतमी पुत्र एकविंशत्समा नृपः ॥ २,७४.१६७ ॥

एकोनविंशति राजा यज्ञः श्रीशातकर्ण्यथ ।
षडेव भविता त्समाद्विजयस्तु समानृपः ॥ २,७४.१६८ ॥

देडश्रीशातकर्णी च तस्य पुत्रः समास्त्रयः ।
पुलोमारिः समाः सप्त ततश्चैषां भविष्यति ॥ २,७४.१६९ ॥

इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति वै महीम् ।
समाः शतानि चत्वारि पञ्चाशत्षट्तथैव च ॥ २,७४.१७० ॥

अन्ध्राणां संस्थिताः पञ्च तेषां वंश्याश्च ये पुनः ।
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः ॥ २,७४.१७१ ॥

सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ।
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश ॥ २,७४.१७२ ॥

त्रयोदश गुरुण्डाश्च मौना ह्येकादशैव तु ।
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतञ्च वै ॥ २,७४.१७३ ॥

सप्तषष्टिं च वर्षाणि दशाभीरास्ततो नृपाः ।
सप्त गर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिम् ॥ २,७४.१७४ ॥

शतानि त्रीण्यशीतिं च भोक्ष्यन्ति वसुधां शकाः ।
आशीती द्वे च वर्षाणि भोक्तारो यवना महीम् ॥ २,७४.१७५ ॥

पञ्चवर्षशतानीह तुषाराणां मही स्मृता ।
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश ॥ २,७४.१७६ ॥

गुरुण्डा वृषलैः सार्द्धं भोक्ष्यन्ते म्लेच्छजातयः ।
शतानि त्रीणि भोक्ष्यन्ते मौना एकादशैव तु ॥ २,७४.१७७ ॥

तेषु च्छिन्नेषु कालेन ततः किलकिलो नृपः ।
ततः किलकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति ॥ २,७४.१७८ ॥

समाः षण्णवतिं चैव पृथिवीं तु समेष्यति ।
नृपान्वैदिशकांश्चाथ भविष्यांस्तु निबोधत ॥ २,७४.१७९ ॥

शेषस्य नागराजस्य पुत्रः सुर पुरञ्जयः ।
भोगी भविष्यते राजा नृपो नागकुलोद्वहः ॥ २,७४.१८० ॥

सदाचन्द्रस्तु चन्द्राशुर्द्वितीयो नखवांस्तथा ।
धनधर्मा ततश्चापि चतुर्थो वंशजः स्मृतः ॥ २,७४.१८१ ॥

भूतिनन्दस्ततश्चापि वैदिशे तु भविष्यति ।
तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ॥ २,७४.१८२ ॥

तस्यान्वयो भविष्यन्ति राजानस्ते त्रयस्तु वै ।
दैहित्रः शिशिको नाम पूरिकायां नृपोऽभवत् ॥ २,७४.१८३ ॥

विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् ।
भोक्ष्यते च समाः षष्टिं पुरीं काञ्चनकां च वै ॥ २,७४.१८४ ॥

यक्ष्यते वाजपेयैश्च समाप्तवरदक्षिणैः ।
तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥ २,७४.१८५ ॥

विन्ध्यकानां कुलानां ते नृपा वैवाहिकास्त्रयः ।
सुप्रतीको गभीरश्च समा भोक्ष्यति विंशतिम् ॥ २,७४.१८६ ॥

शङ्कमानोऽभवद्राजा महिषीणां महीपतिः ।
पुष्पमित्रा भविष्यन्ति षट्स्त्रिमित्रास्त्रयोदश ॥ २,७४.१८७ ॥

मेकलायां नृपाः सप्त भविष्यन्ति च सप्ततिः ।
कोमलायां तु राजानो भविष्यन्ति महाबलाः ॥ २,७४.१८८ ॥

मेघा इति समाख्याता बुद्धिमन्तो नवैव तु ।
नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात् ॥ २,७४.१८९ ॥

नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः ।
मगधानां महावीर्यो विश्वस्फाणिर्भविष्यति ॥ २,७४.१९० ॥

उत्साद्य पार्थिवान्सर्वान्सोऽन्यान्वर्णान्करिष्यति ।
कैवर्त्तान्मद्रकांश्चेव पुलिन्दान्ब्राह्मणांस्तथा ॥ २,७४.१९१ ॥

स्थापयिष्यन्ति गजानो नानादेशेषु ते जनान् ।
विश्वस्फाणिर्महासत्त्वो युद्धे विष्णुसमप्रभः ॥ २,७४.१९२ ॥

विश्वस्फाणिर्नरपतिः क्लीबाकृतिरिवोच्यते ।
उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत्करिष्यति ॥ २,७४.१९३ ॥

नव नागास्तु भोक्ष्यति पुरीं चंपावतीं नृपाः ।
मथुरां च पुरा रम्यां नागा भोक्ष्यन्ति सप्त वै ॥ २,७४.१९४ ॥

अनुगङ्गाप्रयागं च साकेतं मगधांस्तथा ।
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते सप्तवंशजाः ॥ २,७४.१९५ ॥

नैष धान्य दुकांश्चैव शैशीतान् कालतोयकान् ।
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते मणिधान्यजान् ॥ २,७४.१९६ ॥

कोशलांश्चान्ध्रपैण्ड्रांश्च ताम्रलिप्तान्ससागरान् ।
चंपां चैव पुरीं रम्यां भोक्ष्यन्ते देवरक्षिताः ॥ २,७४.१९७ ॥

कलिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये ।
एताञ्जनपदान्सर्वान् पालयिष्यति वै गुहः ॥ २,७४.१९८ ॥

स्त्रीराष्ट्रभोजकांश्चैव भोक्ष्यते कनकाह्वयः ।
तुल्यकालं भविष्यन्ति सर्वे ह्यते महीक्षितः ॥ २,७४.१९९ ॥

अल्पप्रसादा ह्यनृता महाक्रोधा ह्यधार्मिकाः ।
भविष्यन्तीह यवना धर्मतः कामतोर्ऽथतः ॥ २,७४.२०० ॥

नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः ।
युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ॥ २,७४.२०१ ॥

भविष्यन्तीह पयाये कालेन वृथिवीक्षितः ।
विहीनास्तु भविष्यन्ति धर्मतः काम तोर्ऽथतः ॥ २,७४.२०२ ॥

तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ।
विपर्ययेण वर्तन्ते नाशायिष्यन्ति वै प्रजाः ॥ २,७४.२०३ ॥

लुब्धा अनृतवाचश्च भवितारस्तदा नृपाः ।
तेषां वर्त्तति पर्याये बहुस्त्रीके युगे तदा ॥ २,७४.२०४ ॥

लवाल्लवं भ्रश्यमाना आयुरूपबलश्रुतैः ।
तथा गतासु वै काष्ठं प्रजासु जगतीश्वराः ॥ २,७४.२०५ ॥

राजानः संप्रणश्यति कालेनोपहतास्तदा ।
कल्किना व्याहताः सर्वे म्लेच्छा यास्यन्ति संक्षयम् ॥ २,७४.२०६ ॥

अधार्मिकाश्च येऽत्यर्थं पाखण्डाश्चैव सर्वशः ।
प्रनष्टे नृपशब्दे च संध्याशिष्टे कलौ युगे ॥ २,७४.२०७ ॥

किञ्चिच्छिष्टाः प्रजास्ता वै धर्मे नष्टे परिग्रहाः ।
असाधना हतस्वाश्च व्याधिशोकनिपीडिताः ॥ २,७४.२०८ ॥

अनावृष्टिहताश्चैव परस्परवधेन च ॥ २,७४.२०९ ॥

अनाधाराः परित्रस्ता वार्तामुत्सृज्य दुःखिताः ।
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ॥ २,७४.२१० ॥

एवंरूपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु ।
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनः ॥ २,७४.२११ ॥

वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः ।
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥ २,७४.२१२ ॥

सरितः सागरानूपान्सेवन्ते पर्वतानथ ।
अङ्गान्कलिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान् ॥ २,७४.२१३ ॥

ऋषिकान्तागिरिद्रोणीः संश्रयिष्यन्ति मानवाः ।
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणांभसः ॥ २,७४.२१४ ॥

अरण्यमभिपत्स्यन्ते आर्या म्लेच्छजनैः सह ।
मृगैर्मीनैर्विहङ्गैश्च श्वापदैश्चेक्षुभिस्तथा ॥ २,७४.२१५ ॥

मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ।
चीरं पर्णं च विविधं वल्कलान्यजिनानि च ॥ २,७४.२१६ ॥

स्वयं कृत्वा पिधास्यन्ति यथा मुनिजनस्तथा ।
बीजान्नानि तथा निम्नेष्वी हन्तः काष्ठशङ्कुभिः ॥ २,७४.२१७ ॥

अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ।
नदीर्वत्स्यन्ति तोयार्थे नूनमाश्रित्य मानवाः ॥ २,७४.२१८ ॥

पार्थिवा व्यवहारेण विबाधन्ते परस्परम् ।
बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः ॥ २,७४.२१९ ॥

एवं भविष्यन्ति नरास्तदाधर्म व्यवस्थिताः ।
हीनान्दीनांस्तथाधर्मान्प्रजा समनुवर्त्स्यति ॥ २,७४.२२० ॥

आयुस्तदा त्रयोविंशन्न कश्चिदतिवर्तते ।
दुर्बला विषयग्लाना जराया संपरिप्लुताः ॥ २,७४.२२१ ॥

पत्रमूलफलाहाराश्चीरकृष्णाजिनांबराः ।
वृत्त्यर्थमभिलिप्स्यन्तश्चरिष्यन्ति वसुंधराम् ॥ २,७४.२२२ ॥

एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके ।
क्षीणे कलियुगे तस्मिन्दिव्ये वर्षसहस्रके ॥ २,७४.२२३ ॥

निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु ।
स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥ २,७४.२२४ ॥

यदा यन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।
एकराशौ भविष्यन्ति तदा कृतयुगं भवेत् ॥ २,७४.२२५ ॥

एष वंशक्रमः कृत्स्नः कीर्तितो वो यथाक्रमम् ।
अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ २,७४.२२६ ॥

महानन्दाभिषेकान्त जन्म यावत्परीक्षितः ।
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ २,७४.२२७ ॥

प्रमाणं वै तथा वक्तुं महापद्मोत्तरं च यत् ।
अन्तरं च शतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ॥ २,७४.२२८ ॥

एतत्कालान्तर भाव्यमन्ध्रान्ताद्याः प्रकीर्त्तिताः ।
भविष्यैस्तत्र संख्याताः पुराणज्ञैः श्रुतार्षिभिः ॥ २,७४.२२९ ॥

सप्तर्षयस्तदा प्राप्ताः पित्र्ये पारीक्षिते शतम् ।
सप्तविंशैः शतैर्भाव्या अन्ध्राणां तेऽन्वयाः पुनः ॥ २,७४.२३० ॥

सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले ।
सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतंशतम् ॥ २,७४.२३१ ॥

सप्तर्षीणां युगं त्वेतद्दिव्यया संख्यया स्मृतम् ।
मासा दिव्याः स्मृताः षट्च दिव्याब्दाश्चैव सप्त हि ॥ २,७४.२३२ ॥

तेभ्यः प्रवर्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ।
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उत्तरादिशि ॥ २,७४.२३३ ॥

तयोर्मध्ये च नक्षत्रं दृश्यते यत्समं दिवि ।
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः ॥ २,७४.२३४ ॥

नक्षत्राणामृषीणां च भोगस्यैतन्निदर्शनम् ।
सप्तर्षयो ह्यथायुक्ताः काले परीक्षिते शतम् ॥ २,७४.२३५ ॥

अन्ध्रांशे सचतुर्विंशे भविष्यन्ति शतं समाः ।
इमास्तदा तु प्रकृतीर्व्यापत्स्यन्ते प्रजा भृशम् ॥ २,७४.२३६ ॥

अनृतोपहताः सर्वा धर्मतः कामतोर्ऽथतः ।
श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा ॥ २,७४.२३७ ॥

संकरं दुर्बलात्मानः प्रतियास्यन्ति मोहिताः ।
संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः ॥ २,७४.२३८ ॥

ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ।
उपस्थास्यन्ति तान्विप्रांस्तदा दौर्वृत्त्यलिप्सवः ॥ २,७४.२३९ ॥

लवाल्लवं भ्रश्यमानाः प्रजाः सर्वाः क्रमेण तु ।
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये ॥ २,७४.२४० ॥

यस्मिन्कृष्णो दिव्यं यातस्त स्मिन्नेव तदा दिने ।
प्रतिपन्नः कलियुगस्तस्य संख्यां निबोधत ॥ २,७४.२४१ ॥

सहस्राणां शतानीह त्रीणि मानुषसंख्यया ।
षष्टिं चैव सहस्राणि वर्षाणां तूच्यते कलिः ॥ २,७४.२४२ ॥

दिव्यं वर्षसहस्रं तु तत्संध्यांशे हि कीर्तिते ।
निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते ॥ २,७४.२४३ ॥

एलश्चेक्ष्वाकुवंशश्च सह भेदैः प्रकीर्तितौ ।
इक्ष्वाकोस्तु समृतं क्षत्त्रं सुमित्रान्तं विवस्वतः ॥ २,७४.२४४ ॥

ऐलं क्षत्त्रं क्षेमकान्तं सोम वंशविदो विदुः ।
एते विवस्वतः पुत्राः कीर्तिताः कीर्त्तिवर्द्धनाः ॥ २,७४.२४५ ॥

अतीता वर्तमानाश्च तथैवानागताश्च ये ।
ब्राह्मणाः क्षत्त्रिया वैश्यः शूद्राश्चैवात्र ये स्मृताः ॥ २,७४.२४६ ॥

युगेयुगे महात्मानः समतीताः सहस्रशः ।
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ॥ २,७४.२४७ ॥

पुनरुक्तिबहुत्वाच्च न मया परिकीर्त्तिता ।
वैवस्वतंऽतरे ह्यस्मिन्न निमिवंशः समाप्यते ॥ २,७४.२४८ ॥

एतस्यां तु युगाख्यायां यतः क्षत्त्रं प्रपत्स्यते ।
तथा हि कथयिष्यामि गदतो मे निबोधत ॥ २,७४.२४९ ॥

देवापिः पौरवो राजा ऐक्ष्वाकुश्चैव यो मरुः ।
माहायोगबलोपेतौ कलापग्राममास्थितौ ॥ २,७४.२५० ॥

एतौ क्षत्त्रप्रणेतारौ चतुर्विंशे चतुर्युगे ।
सुवर्चा नाम पुत्रस्तु इक्ष्वाकोस्तु भविष्यति ॥ २,७४.२५१ ॥

नवविंशे युगे सोऽथ वंशस्यादिर्भविष्यति ।
देवापेश्च सपौलस्तु एलादिर्भविता नृपः ॥ २,७४.२५२ ॥

क्षत्रप्रवर्त्तकौ ह्येतौ भविष्येते चतुर्युगे ।
एवं सर्वत्र विज्ञेयं संतानार्थे तु लत्रणम् ॥ २,७४.२५३ ॥

क्षीणे कलियुगे तस्मिन्भविष्ये त कृते युगे ।
सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ॥ २,७४.२५४ ॥

गोत्राणां क्षत्रियाणां च भविष्येते प्रवर्त्तकौ ।
द्वापरांशेन तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥ २,७४.२५५ ॥

भविष्ये तु ततः सर्गे काले कृतयुगे पुनः ।
बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥ २,७४.२५६ ॥

एवमेव तु सर्वेषु तिष्ठन्तीहासुरेषु वै ।
सप्तर्षयो नृपैः सार्द्धं संतानार्थं युगेयुगे ॥ २,७४.२५७ ॥

क्षत्रस्यैव समुच्छेदसंबन्धो वै द्विजैः स्मृतः ।
मन्वन्तराणां सप्तानां संतानश्च श्रुतश्च ते ॥ २,७४.२५८ ॥

परस्पराद्युगानां च ब्रह्मक्षत्रस्य चोद्भवः ।
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥ २,७४.२५९ ॥

सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाद्भवाभवौ ।
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ॥ २,७४.२६० ॥

उत्पद्यमानास्त्रेतायां क्षीयमाणाः कलौ पुनः ।
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ॥ २,७४.२६१ ॥

जामदग्न्येन रामेण क्षत्रे निरवशेषिते ।
कृतेयं संकुला सर्वा क्षत्रियैर्वसुधाधिपैः ॥ २,७४.२६२ ॥

द्विपंशकारणञ्चैव कीर्तयिष्ये निबोधत ।
ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते ॥ २,७४.२६३ ॥

राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः ।
एलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवो नृपाः ॥ २,७४.२६४ ॥

तेषामेकशतं पूर्णं कुलानामभिषेकितम् ।
तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः ॥ २,७४.२६५ ॥

भजते त्र्यंशकं क्षत्त्रं चतुर्थात्त द्यथा दिशम् ।
तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत ॥ २,७४.२६६ ॥

शतं वै प्रतिविन्ध्यानां शतं नागाः सहैहयाः ।
धृत राष्ट्रश्चैकशतमशीतिर्जनमेजयाः ॥ २,७४.२६७ ॥

शतं च ब्रह्मदत्तानां शारिणां विरिणां शतम् ।
ततः शतं तु पौलानां श्वेतकाश्य कुशादयः ॥ २,७४.२६८ ॥

ततोऽपरे सहस्रं वै येऽतीताः शशविन्दवः ।
ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः ॥ २,७४.२६९ ॥

एवं राजर्षयोऽतीता शतशोऽथ सहस्रशः ।
मनोर्वैवस्वतस्यास्मिन्वर्त्तमानेंऽतरे तु ये ॥ २,७४.२७० ॥

तेषां निबोधतोत्पन्ना लोके संततयः स्मृताः ॥
न शक्येविस्तरस्तासां संततीनां परस्परम् ॥ २,७४.२७१ ॥

तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ।
अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेन्तरे ॥ २,७४.२७२ ॥

एतै राजर्षिभिः सार्द्धं शष्टायास्ता निबोधत ।
चत्वारिंशत्त्रयश्चैव भविष्याः सह राजभिः ॥ २,७४.२७३ ॥

युगाख्यानाव शिष्टास्तु ततो वैवस्वतक्षयः ।
एतद्वः कथितं सर्वे समासव्यासयोगतः ॥ २,७४.२७४ ॥

पुनरुक्तिबहुत्वाच्च न शक्य तु युगैः सह ।
एते ययातिपुत्राणां पञ्च वंशा विशां हिताः ॥ २,७४.२७५ ॥

कीर्त्तिताश्च व्यतीता ये ये लोकान्धारयन्त्युत ।
लभते च वरान्पञ्च दुर्लभा निह लौकिकान् ॥ २,७४.२७६ ॥

आयुः कीर्त्तिं धनं पुत्रान्स्वर्गं चानन्त्यमश्नुते ।
धारणाच्छ्रवणाच्चैव पञ्चवंशस्य धीमतः ॥ २,७४.२७७ ॥

इत्येष वो मया पादस्तृतीयः कथितो द्विजाः ।
विस्तरेणानुपूर्व्या च किं भूयो वर्णयाम्यहम् ॥ २,७४.२७८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे वंशानुवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें