शनिवार, 23 जनवरी 2021

ब्रह्माण्ड पुराण मध्यम भाग में पितरों को मास बलि देने का विधान ...


"पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्।।
( 3/68 मनुस्मृति)
धर्म शास्त्रों के एक तरफ ये विधान की गृहस्थ के घर में पाँच कत्ल के स्थान -

(पंच सूना गृहस्थस्य) गृहस्थ पुरुष के पाँच हिंसा के स्थान हैं। (चुल्ली) चूल्हा, (पेषणी) चक्की, (उपस्कर) झाड़ू, (कण्डनी) ओखली, (च) और (उदकुम्भः च) घड़ोंची (घड़ा) (बध्यते याः तु वाहयन्) इनका प्रयोग करने से मनुष्य को हिंसा दोष लगने की संभावना है।

अर्थात् प्रत्येक गृहस्थ चूल्हा, चक्की, झाड़ू, ओखली और घड़ा का प्रयोग करने में किसी न किसी प्राणी की हिंसा कर देता है।
परन्तु दूसरी तरफ हिंसा को धर्म के नाम पर खुला समर्थन नि: सन्देह दो गले विधान का ही रूप है ।

"मां स भक्षयितामुत्र यस्य मांसं इहाद्म्यहम् । 
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ।।5/55

 माम्=मुझको स=वह  भक्षयिता=भक्षण करेगा । लुटलकार अन्य परुष
 एक वचन । यस्य = जिसका । इह = इस संसार से  ।
एतन् मासस्य  = इस मास का । प्रवदन्ति मनीषिण:= ऐसा मनीषी कहते हैं ।
महाभारत में भी यही व्युत्पत्ति मांस शब्द की है।
विद्वजन मांस के यह लक्षण कहते हैं कि जिसके मांस को मैं इस जन्म में खाता हूँ वह आगामी जन्म में मेरे मांस का भक्षण करेगा ।


_____________________________
टिप्पणी :
ये (५।५२ - ५६) पाँच श्लोक निम्नलिखित कारणों से विरोधी हैं  । क्योों कि मनुस्मृति मेें ५।५६ में मांस - भक्षण में कोई दोष न मानते हुए उसे भक्ष्य बताया गया है । एतदर्थ ५।२६ - ४२ श्लोकों की समीक्षा द्रष्टव्य है ।

 ५।५६ में मद्य - शराब पीने में भी दोष नहीं माना है, जब कि मनुस्मृति मेें  अन्यत्र।९।२३५ तथा ११।५४ में मद्य - पान को महापाप माना है ।

 इसी प्रकार मैथुन - व्यभिचार का विधान करना भी मनुस्मृति मेें विरूद्ध है ।  जैसे - ५।५२ में विधिपूर्वक मांस भक्षण का विधान है, और ५।५६ में सब प्रकार के मांस भक्षण का । २. ५।५३ - ५४ श्लोकों में मांस - भक्षण का खण्डन किया है और ५।५६ में मांस का विधान किया है।

क्या ऐसा परस्पर विरोधी कथन कोई विद्वान् कर सकता है ?
 (ग) ५।५२ में मृतकश्राद्ध का कथन है ।  ५।५५ में यह मान्यता भी निराधार है कि इस शरीर में जिसका जो मांस खाता है, अगले जन्म में उसका मांस वह (जिसका मांस खाया है) खायेगा ।
 अगला जन्म कर्मानुसार ईश्वर की व्यवस्था से मिलता है, पता नहीं कौन कहाँ और किस योनि में जन्म लेगा ? फिर कौन किसका मांस कैसे खा सकेगा, यह सिद्धांत निर्धारण करना असम्भव ही है ।
__________________    


जिस प्राणी का मांस मैं इस जन्म में खाता हूं, वह प्राणी परजन्म में मुझे खावेगा, बुद्धिमान् लोग यह मांस का लक्षण बतलाते हैं (मां सः=मांसः)। इसलिए मांस भक्षण कभी न करना चाहिये। -


__________________________________________

ब्रह्माण्डपुराण मध्यभागः/अध्यायः १९

 


                   ।शंयुरुवाच।
किं स्विद्दत्तं पितॄणां तु तृप्तिदं वदतां वर ।
किंस्वित्स्याच्चिररात्राय किं वानन्त्याय कल्पते ॥ २,१९.१ ॥

                  ।बृहस्पतिरुवाच।
हवीषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।
तानि मे शृणु सर्वाणि फलं चैषां यथातथम् ॥ २,१९.२ ॥

तिलैर्व्रीहियवैमाषैरद्भिर्मूलफलैस्तथा ।
दत्तेन मासं प्रीयन्ते श्राद्धेन हि पितामहाः ॥ २,१९.३ ॥


मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु ।
शाशेन चतुरो मासान्पञ्च प्रीणाति शाकुनैः ॥ २,१९.४ ॥

वाराहेण तु षण्मासाञ्छागलं सप्तमासिकम् ।
अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत् ॥ २,१९.५ ॥
________________________
रौरवेण तु प्रीयन्ते नव मासान्पितामहाः ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ २,१९.६ ॥


औरभ्रेण च मांसेन मासानेकादशैव तु ।
श्राद्धे च तृप्तिदं गव्यं पयः संवत्सरं द्विजाः ॥ २,१९.७ ॥

आनन्त्याय भवेत्तद्वत्खड्गमांसं पितृक्षये ।
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य च ॥ २,१९.८ ॥
_________________________________    
कृष्णच्छागस्य मासेन तृप्तिर्भवति शाश्वती ।
अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः ॥ २,१९.९ ॥


तास्तेऽहं कीर्त्तयिष्यामि यथावत्सन्निबोध मे ।
अपि नः स कुले यायाद्यो नो दद्यात्त्रयोदशीम् ॥ २,१९.१० ॥

आजेन सर्वलोहेन वर्षासु च मघासु च ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्यां नालं वा वृषमुत्सृजेत् ॥ २,१९.११ ॥

                    ।शंयुरुवाच।
गयादीनां फलं तात ब्रूहि मे परिपृच्छतः ।
दातॄणां चैव यत्पुण्यं निखिलेन प्रवीहि मे ॥ २,१९.१२ ॥

                   ।बृहस्पतिरुवाच।
गयायामक्षयं श्राद्धञ्जपहोमतपांसि च ।
पितृक्षये हि तत्पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥ २,१९.१३ ॥

पूर्णायामेकविंशं तु गौर्यामुत्पादितः सुतः ।
महामहांश्च जुहुयादिति तस्य फलं स्मृतम् ।
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत ॥ २,१९.१४ ॥

वृषोत्स्रष्टा पुनात्येव दशातीतान्दशावरान् ॥ २,१९.१५ ॥

यत्किञ्चित्स्पृशते तोयमवतीर्णो नदीजले ।
वृषोत्सर्ग्गत्पितॄणां तु ह्यक्षयं समुदाहृतम् ॥ २,१९.१६ ॥

येनयेन स्पृशेत्तोयं लाङ्गूलादिभिरङ्गशः ।
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः।२,१९.१७ ॥

शृङ्गैः खुरैर्वा भूमिं यामुल्लिखत्यनिशं वृषः ।
मधुकुल्याः पितॄंस्तस्य ह्यक्षयाश्च भवन्ति वैै। २,१९.१८ ॥

सहस्रनल्वमात्रेण तडागेन यथास्रुतिः ।
तृप्तिस्तु या पितॄणां वै सा वृषेणेह कल्पते।२,१९.१९ ॥

यो ददाति गुडोन्मिश्रतिलानि श्राद्धकर्मणि ।
मधु वामधुमिश्रं वा सर्वमेवाक्षयं भवेत् ।२,१९.२०।

न ब्राह्मणं परिक्षेत सदा देयं हि मानवैः ।
दैवेकर्मणि पित्र्ये च श्रूयते वै परीक्षणम्।२,१९.२१।

सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः ।
ये च भाषाविदः केचिद्ये च व्याकरणे रताः ॥ २,१९.२२ ॥

अधीयते पुराणं वै धर्मशास्त्रमथापि च ।
त्रिणाचिकेतः पञ्चाग्निः स सौपर्णः षडङ्गवित् ॥ २,१९.२३ ॥

ब्रह्मदेवसुतश्चैव च्छन्दोगो ज्येष्ठसामगः ।
पुण्येषु यश्च तीर्थेषु कृतस्नानः कृतव्रतः।२,१९.२४।

मखेषु ये च सर्वेषु भवन्त्यवभृथाप्लुताः ।
ये च सत्यव्रता नित्यं स्वधर्मनिरताश्च ये।२,१९.२५।

अक्रोधना लोभपरास्ताञ्छ्राद्धेषु निमन्त्रयेत् ।
एतेभ्यो दत्तमक्षय्यमेते वै पङ्क्तिपावनाः॥ २,१९.२६ ॥

श्राद्धीया ब्रह्मणा ये तु योगव्रतसुनिष्ठिताः ।
त्रयोऽपि पूजितास्तेन ब्रह्मविष्णुमहेश्वराः ॥ २,१९.२७॥

पितृभिः सह लोकाश्च यो ह्येतान्पूजयेन्नरः ।
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥ २,१९.२८ ॥

प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयान्प्रवक्ष्यमि गदतो मे निबोधत ॥ २,१९.२९ ॥

कितवो मद्यपो यश्च पशुपालो निराकृतः ।
ग्रामप्रेष्यो वार्धुषिको ह्यापणो वणिजस्तथा ॥ २,१९.३० ॥
_____________________________
अगार दाही गरदो वृषलो ग्रामयाजकः ।
काण्डपृष्ठोऽथ कुण्डाशी मधुपः सोमविक्रयी ॥ २,१९.३१ ॥


समुद्रान्तरितो भृत्यः पिशुनः कूटसाक्षिकः ।
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे।२,१९.३२ ॥

अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।
स्तवकः सूपकारश्च यश्च मित्राणि निन्दति ॥ २,१९.३३ ॥

काणश्च खञ्जकश्चैव नास्तिको वेदवर्जितः ।
उन्मत्तोऽप्यथ षण्ढश्च भ्रूणहा गुरुतल्पगः ॥ २,१९.३४ ॥

भिषग्जीवी प्राशनिकः परस्त्रीं यश्च सेवते ।
विक्रीणाति च यो ब्रह्मव्रतानि नियमांस्तथा ॥ २,१९.३५ ॥

नष्टं स्यान्नास्तिके दत्तं व्रतघ्ने चापवर्जितम् ।
यच्चवाणिजके दत्तं नेह नामुत्र संभवेत् ।२,१९.३६।

निक्षेपहारके चैव कृतघ्ने विदवर्जिते ।
तथा पाणविके वै च कारुके धर्मवर्जिते ॥ २,१९.३७ ॥

क्रीणाति यो ह्यपण्यानि विक्रीणाति प्रशंसति ।
अन्यत्रास्य समाधानं न वणिकूछ्राद्धमर्हति ॥ २,१९.३८ ॥

भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजः ।
षष्टिं काणः शतं षण्ढः श्वित्री पञ्चशतान्यपि ॥ २,१९.३९ ॥

पापरोगी सहस्रं वै दातुर्नाशयते फलम् ।
भ्रश्येद्धि स फलात्तस्मात्प्रदाता यस्तु बालिशः ॥ २,१९.४० ॥

यद्विष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते यच्च दत्तमसत्कृतम् ॥ २,१९.४१ ॥

सर्वं तदसुरेद्राय ब्रह्मा भागमकल्पयत् ।
श्वा चैव ब्रह्महा चैव नावेक्षेत कथञ्चन।२,१९.४२ ॥

तस्मात्परिवृतैर्दद्यात्तिलैश्चान्नं विकीर्य च ।
राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतास्तथा ॥ २,१९.४३ ॥

दर्शनात्सूकरो हन्ति पक्षवातेन कुक्कुटः ।
रजस्वलायाः स्पर्शेन क्रुद्धोयश्च प्रयच्छति ॥ २,१९.४४ ॥

नदीतीरेषु रम्येषु सरित्सु च सरस्सु च ।
विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः।२,१९.४५।

नासव्यंपातयेज्जानु न युक्तो वाचमीरयेत् ।
तस्मात्परिवृतेनेह विधिवद्दर्भपाणिना।२,१९.४६ ॥

पित्रोराराधनं कार्यमेवं प्रीणयते पितॄन् ।
अनुमान्य द्विजान्पूर्वमर्गौं कुर्याद्यथाविधि ॥ २,१९.४७ ॥

पितॄणां निर्वपेद्भूमौ सूर्ये वा दर्भसंस्तरे ।
शुक्लपक्षे च पूर्वाङ्णे श्राद्धं कुर्याद्यथाविधि॥ २,१९.४८ ॥

कृष्णपक्षेऽपरङ्णे तु रौहिणं वै न लङ्घयेत् ।
एवमेते महात्मानो महायोगा महौजसः।२,१९.४९ ॥

सदा वै पितरः पूज्याः सं प्राप्तौ देशकालयोः ।
पितृभक्त्यैव तु नरो योगं प्राप्नोति दुर्ल्लभम् ॥ २,१९.५० ॥

ध्यानेन मोक्षं गच्छेद्धि हित्वा कर्म शुभाशुभम् ।
यज्ञहेतोस्तदुद्धृत्य मोहयित्वा जगत्तथा ॥ २,१९.५१ ॥

गुहायां निहितं ब्रह्म कश्यपेन महात्मना ।
अमृतं गुह्यमुद्धृत्य योगे योगविदां वराः ॥ २,१९.५२ ॥

प्रोक्तः सनत्कुमारेण महातो ब्रह्मणः पदम् ।
देवानां परमं गुह्यमृषीणां च परायणम् ॥ २,१९.५३ ॥

पितृभक्त्या प्रयत्नेन प्राप्य ते तन्मनीषिभिः ।
पितृभक्तः समासेन पितृपूर्वपरश्च यः ॥ २,१९.५४ ॥

अयत्नात्प्राप्नुयादेव सर्वमेतन्न संशयः ॥ २,१९.५५ ॥

                     बृहस्पतिरुवाच
यस्मैश्राद्धानि देयानि यच्च दत्तं महत्फलम् ।
येषु चाप्यक्षयं श्राद्धं तीर्थेषु च गुहासु च ॥ २,१९.५६ ॥

येषु स्वर्गमवाप्नोति तत्ते प्रोक्तं ससंग्रहम् ।
श्रुत्वेमं श्राद्धकल्पं च न कुर्याद्यस्तु मानवः ॥ २,१९.५७ ॥

स मज्जेन्नरके घोरे नास्तिकस्तमसावृते ।
परिवादो न कर्त्तव्यो योगिनां तु विशेषतः ॥ २,१९.५८ ॥

परिवादात्क्रिमिर्भूत्वा तत्रैव परिवर्त्तते ।
योगान्परिवदेद्यस्तु ध्यानिनो मोक्षकाङ्क्षिणः ॥ २,१९.५९ ॥

स गच्छेन्नरकं घोरं श्रोताप्यस्य न संशयः ।
आवृतं तमसः सर्वं नरकं घोरदर्शनम् ।
योगीश्वरपरीवादान्न स्वर्गं याति मानवः।२,१९.६० ॥

योगेश्वराणामा क्रोशं शृणुयाद्यो यतात्मनाम् ।
सहि कालं चिरं मज्जेन्नरके नात्र संशयः ।
कुंभीपाकेषु पच्यन्ते जिह्वाच्छेदे पुनः पुनः ॥ २,१९.६१ ॥

समुद्रे च यथा लोषटस्तद्बत्सीदन्ति ते नराः ।
मनसा कर्मणा वाचा द्वेषं योगेषु वर्जयेत् ।
प्रोत्यानन्तं फलं भुङ्क्त इह वापि न संशयः॥ २,१९.६२ ॥

न पारगो विन्दति परमात्मनस्त्रिलोकमध्ये चरति स्वकर्ममिः ।
ऋचो यजुः साम तदङ्गपारगेऽविकारमेतं ह्यनवाप्य सीदति ॥ २,१९.६३ ॥

विकारपारं प्रकृतेश्च पारगस्त्रयीगुणाना त्रिगुणस्य पारगः ।
यः स्याच्चतुर्विशतितत्त्वपारगः स पारगो नाध्ययनस्य पारगः ॥ २,१९.६४ ॥

कृत्स्नं यथावत्समुपैति तत्परस्तथैव भूयः प्रलयत्वमात्मनः ।
प्रत्याहरेद्योगपथं न यो द्विजो न सर्वपार क्रमपारगोचरः ॥ २,१९.६५ ॥

वेदस्य वेदितव्यं च वेद्यं विन्दति योगवित् ।
तं वै वेदविदः प्राहुस्तमाहुर्वेदपारगम् ॥ २,१९.६६ ॥

वेदं च वेदितव्यं च विदित्वा वै यथास्थितः ।
एवं वेदविदः प्राहुरन्यं वै वेदपारगम् ॥ २,१९.६७ ॥

यज्ञान्वेदांस्तथा कामांस्तपांसि विविधानि च ।
प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो न सशयः ॥ २,१९.६८ ॥

श्रद्धया श्राद्धकल्पं तु यस्त्विमं नियतः पठेत् ।
सर्वाण्येतानि वाप्नोति तीर्थदानफलानि च ॥ २,१९.६९ ॥

स पङ्क्तिपावनश्चैव द्विजानामग्रभुग्भवेत् ।
आश्राव्य च द्विजान्सोऽथ सर्वकामानवाप्नुयात् ॥ २,१९.७० ॥

यश्चैतच्छृणुयान्नित्यम न्यांश्च श्रावयेद्द्विजः ।
अनसूयुर्जितक्रोधो लोभमोहविवर्जितः।२,१९.७१ ॥

तीर्थादीनां फलं प्राप्य दानादीनां च सर्वशः ।
मोक्षोपायं लभेच्छ्रेष्ठं स्वर्गोपायं न संशयः ।
इह चापि परा पुष्ठिस्तस्मात्कुर्वीत नित्यशः ॥ २,१९.७२ ॥

इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसंधिषु ।
अपत्यभागी च परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥ २,१९.७३ ॥

येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयंभुवे ।
महायोगेश्वरेभ्यश्च सदा च प्रणतोऽस्म्यहम् ॥ २,१९.७४ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे ब्रह्मणपरीक्षा नाम एकोनविंशोऽध्यायः ॥ १९॥
                                          

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २३


                वसिष्ठ उवाच


तपस्विनं तदा राममेकाग्रमनसं भवे ।
रहस्येकान्तनिरतं नियतं शंसितव्रतम् ॥ २,२३.१ ॥

श्रुत्वा तमृषयः सर्वे तपोनिर्धूतकल्मषाः ।
ज्ञानकर्मवयोवृद्धा महान्तः शंसितव्रताः ॥ २,२३.२ ॥

दिदृक्षवः समाजग्मुः कुतूहलसमन्विताः ।
ख्यापयन्तस्तपः श्रेष्ठं तस्य राजन्महात्मनः ॥ २,२३.३ ॥

भृग्वत्रिक्रतुजाबालिवामदेवमृकण्डवः ।
संभावयन्तस्ते रामं मुनयो वृद्धसंमताः ॥ २,२३.४ ॥

आजग्मुराश्रमं तस्य रामस्य तपसस्तपः ।
दूरादेव महान्तस्ते पुण्यक्षेत्रनिवासिनः ॥ २,२३.५ ॥

गरीयः सर्वलोकेषु तपोऽग्र्यं ज्ञानमेव च ।
प्रशस्य तस्य ते सर्वेप्रययुः स्वं स्वमाश्रमम् ॥ २,२३.६ ॥

एवं प्रवर्त्ततस्तस्य रामस्य भगवाञ्छिवः ।
प्रसन्नचेता नितरां बभूव नृपसत्तम ॥ २,२३.७ ॥

जिज्ञासुस्तस्य भगवान् भक्तिमात्मनि शङ्करः ।
मृगव्याधवपुर्भूत्वा ययौ राजंस्तदन्तिकम् ॥ २,२३.८ ॥

भिन्नाञ्जनचयप्रख्यो रक्तान्तायतलोचनः ।
शरचापधरः प्रांशुर्वज्रसंहननो युवा ॥ २,२३.९ ॥

उत्तुङ्गहनुबाह्वंसः पिङ्गलश्मश्रुमूर्द्धजः ।
मांसविस्रवसागन्धी सर्वप्राणिविहिंसकः॥२,२३.१०


सकण्टकुलतास्पर्शक्षतारूषितविग्रहः ।
सामटक्संचर्वमाणश्च मांसखण्डमनेकशः।२,२३.११॥

मांसभारद्वयालंबिविधानानतकन्धरः ।
आरुजंस्तरसा वृक्षानूरुवेगेन संघशः ॥ २,२३.१२ ॥

अभ्यवर्त्तत तं देशं पादचारीव पर्वतः ।
आसाद्य सरसस्तस्य तीरं कुसुमितद्रुमम् ॥ २,२३.१३ ॥

न्यदधान्मासभारं च स मूले कस्यचित्तरोः ।
निषसाद क्षणन्तत्र तरुच्छायामुपाश्रितः ॥ २,२३.१४ ॥

तिष्ठन्तं सरसस्तीरे सोऽपश्यद्भृगुनन्दनम् ।
ततः स शीघ्रमुत्थाय समीपमुपसृत्य च ॥ २,२३.१५ ॥

रामाय सेषुचापाभ्यां कराभ्यां विदधेंऽजलिम् ।
सजलांभोदसन्नादगंभीरेण स्वरेण च ॥ २,२३.१६ ॥

जगाद भृगुशार्दूलं गुहान्तरविसर्पिणा ।
तोषप्रवर्षव्याधोऽहं वसाम्यस्मिन्महावने ॥ २,२३.१७ ॥

ईशोऽहमस्य देशस्य सप्राणितरुवीरुधः ।
चरामि समचित्तात्मा नानासत्त्वा मिषाशनः ॥ २,२३.१८ ॥

समश्च सर्वभूतेषु न च पित्रादयोऽपि मे ।
अभक्ष्यागम्यपेयादिच्छन्दवस्तुषु कुत्रचित् ॥ २,२३.१९ ॥

कृत्याकृत्यविधौचैव न विशेषितधीरहम् ।
प्रपन्नो नाभिगमनं निवासमपि कस्यचित् ॥ २,२३.२० ॥

शक्रस्यापि बलेनाहमनुमन्ये न संशयः ।
जानते तध्यथा सर्वे देशोऽयं मदुपाश्रयः ॥ २,२३.२१ ॥

तस्मान्न कश्चिदायाति ममात्रानुमतिं विना ।
इत्येष मम वृत्तान्तः कार्त्स्न्येन कथितस्तव ॥ २,२३.२२ ॥

त्वं च मे ब्रूहि तत्त्वेन निजवृत्तमशेषतः ।
कस्त्वं कस्मादिहायातः किमर्थमिह धिष्ठितः ।
उद्यतोऽन्यत्र वा गन्तुं किं वा तव चिकीर्षितम्।२,२३.२३ ॥

                      वसिष्ठ उवाच
इत्येवमुक्तः प्रहसंस्तेन रामो महाद्युतिः ।
तूष्णीं क्षणमिव स्थित्वा दध्यौ किञ्चिदवाङ्मुखः॥ २,२३.२४ ॥

कोऽयमेव दुराधर्षः सजलांभोदनिस्वनः ।
ब्रवीति च गिरोऽत्यर्थं विस्पष्टार्थपदाक्षराः॥ २,२३.२५ ॥

किं तु मे महतीं शङ्कां तनुरस्य तनोति वै ।
विजातिसंश्रयत्वेन रमणीया तथा शराः ॥२,२३.२६ ॥

एवं चिन्तयतस्तस्य निमित्तानि शुभानि वै ।
बभूवुर्भुवि देहे च स्वाभिप्रेतार्थदान्यलम् ॥२,२३.२७ ॥

ततो विमृश्य बहुशो मनसाभृगुपुङ्गवः ।
उवाच शनकैर्व्याधं वचनं सूनृताक्षरम् ॥२,२३.२८ ॥

जामदग्न्योऽस्मि भद्रं ते रामो नाम्ना तु भार्गवः ।
तपश्चर्तुमिहायातः सांप्रतं गुरुशासनात् ॥२,२३.२९ ॥

तपसा सर्वलोकेशं भक्त्या च नियमेन च ।
आराधयितुमस्मिंस्तु चिरायाहं समुद्यतः ॥२,२३.३० ॥

तस्मात्मर्वेश्वरं सर्वशरण्यमभयप्रदम् ।
त्रिनेत्रं पापदमनं शङ्करं भक्तवत्सलम् ॥२,२३.३१ ॥

तपसा तोषयिष्यामि सर्वज्ञं त्रिपुरान्तकम् ।
आश्रमेऽस्मिनसरस्तीरे नियमं समुपाश्रितः ॥२,२३.३२ ॥

भक्तानुकंपी भगवान्यावत्प्रत्यक्षतां हरः ।
उपैति तावदत्रैव स्थास्यामीति मतिर्मम ॥२,२३.३३ ॥

तस्मादितस्त्वयाद्यैव गन्तुमन्यत्र युज्यते ।
न चेद्भवति मे हानिः स्वकृतेर्नियमस्य च ॥ २,२३.३४ ॥

माननीयोऽथ वाहं ते भक्त्या देशान्तरातिथिः ।
स्वनिवासमुपायातस्तपस्वी च तथा मुनिः ॥ २,२३.३५ ॥

त्वतसंनिधौ निवासो मे भवेत्पापाय केवलम् ।
तव चाप्यसुखोदर्कं मत्समीपनिषेवणम् ॥ २,२३.३६ ॥

स त्वंमदाश्रमोपान्ते परिचङ्क्रमणादिकम् ।
परित्यज्य सुखीभूया लोकयोरुभयोरपि ॥ २,२३.३७ ॥

                      वसिष्ठ उवाच
इति तस्य वचः श्रुत्वा स भूयो भृगुपुङ्गवम् ।
उवाच रोषताम्राक्षस्ताम्राक्षमिदमुत्तरम् ॥ २,२३.३८ ॥

ब्रह्मन् किमिदमत्यर्थं समीपे वसतिं मम ।
परिगर्हयसे येन कृतघ्नस्येव कांप्रतम् ॥ २,२३.३९ ॥

किं मयापकृतं लोके भवतोऽन्यस्य वा क्वचित् ।
अनागस्कारिणं दान्तं कोऽवमन्येत नामतः ॥ २,२३.४० ॥

सन्निधिः परिहर्त्तव्यो यदि मे विप्रपुङ्गव ।
दर्शनं सह संवासः संभाषणमथापि च ॥ २,२३.४१ ॥

आयुष्मताधुनैवास्मादपसर्त्तव्यमाश्रमात् ।
स्वसंश्रयं परित्यज्य क्वाहं यास्ये बुभुक्षितः॥ २,२३.४२ ॥

स्वाधिवासं परित्यज्य भवता योदितः कथम् ।
इतोऽन्यस्मिन् गामिष्यामि दूरे नाहं विशेषतः॥२,२३.४३ ॥

गम्यतां भवतान्यत्र स्थीयतामत्र वेच्छया ।
नाहं चालयितुं शक्यः स्थानादस्मात्कथञ्चन॥२,२३.४४ ॥

                 वसिष्ठ उवाच
तच्छ्रुत्वा वचनं तस्य किञ्चित्कोपसमन्वितः ।
तमुवाच पुनर्वाक्यमिदं राजन्भृगूद्वहः ॥ २,२३.४५ ॥

व्याधजातिरियं क्रूरा सर्वसत्त्वभयावहा ।
खलकर्मरता नित्यं धिक्कृता सर्वजन्तुभिः ॥२,२३.४६ ॥

तस्यां जातोऽसि पापीयान्सर्वप्राणिविहिंसकः ।
स कथं न परित्याज्यः सुजनैः स्यात्तु दुर्मते ॥ २,२३.४७ ॥

तस्माद्विहीनजातीयं विदित्वात्मानमब्यथ ।
शीघ्रमस्माद्व्रजान्यत्र नात्र कार्या विचारणा ॥२,२३.४८ ॥

शरीरत्राणकारुण्यात्समीपं नोपसर्पसि ।
यथा त्वं कण्टकादीनामसहिष्णुतया व्यथाम् ।२,२३.४९ ॥

तथावेहि समस्तानां प्रियाः प्राणाः शरीरिणाम् ।
व्यथा चाभिहतानां तु विद्यते भवतोऽन्यथा ॥ २,२३.५० ॥

अहिंसा सर्वभूतानामिति धर्मः सनातनः ।
एतद्विरुद्धाचरणान्नित्यं सद्भिर्विगर्हितः ॥ २,२३.५१ ॥

आत्मप्राणाभिरक्षार्थं त्वमशेषशरीरिणः ।
हनिष्यसि कथं सत्सुनाप्नोषि वचनीयताम् ॥ २,२३.५२ ॥

तस्माच्छीघ्रं तु भोगच्छ त्वमेव पुरुषाधम ।
त्वया मे कृत्यदोषस्य हानिश्च न भविष्यति ॥ २,२३.५३ ॥

न चत्स्वयमितो गच्छेश्ततस्तव बलादपि ।
अपसर्पणताबुद्धिमहमुत्पादये स्फुटम् ॥२,२३.५४ ॥

क्षणार्द्धमपि ते पाप श्रेयसी नेह संस्थितिः ।
विरुद्धाचरणो नित्यं धर्मद्रिष्को लभेच्च शाम्॥२,२३.५५॥

                        वसिष्ठ उवाच
रामस्य वचनं श्रुत्वा प्रीतोऽपि तमिदं वचः ।
उवाच संक्रुद्ध इव व्याधरूपी पिनाकधृक् ॥ २,२३.५६ ॥

सर्वमेतदहं मन्यं व्यर्थं व्यवसितं तव ।
कुतस्त्वं प्रथमो ज्ञानी कुतः शंभुः कुतस्तपः ॥२,२३.५७ ॥

कुतस्त्वं क्लिश्यसे मूढ तपसा तेन तेऽधुना ।
घ्रुवं मिथ्याप्रवृत्तस्य न हि तुष्यति शङ्करः ॥ २,२३.५८ ॥

विरुद्धलोकाचरणः शंभुस्तस्य वितुष्टये ।
प्रतपत्यबुधो मर्त्त्यस्त्वां विना कः मुदुर्मते ॥ २,२३.५९ ॥

अथ वा च गतं मेऽद्य युक्तमेतदसंशयम् ।
संपूज्य पूजकविद्धौ शंभोस्तव च संगमः ॥ २,२३.६० ॥

त्वया पूजयितुं युक्तः स एव भुवने रतः ।
संपूजकोऽपि तस्य त्वं योग्यो नात्र विचारणा॥२,२३.६१ ॥

पितामहस्य लोकानां ब्रह्मणः परमेष्ठिनः ।
शिरश्छित्त्वा पुनः शंभुर्ब्रह्महत्यामवाप्तवान् ॥२,२३.६२ ॥

ब्रह्महत्याभिभूतेन प्रायस्त्वं शंभुना द्विज ।
उपदिष्टोऽसि तत्कर्तुं नोचेदेवं कथं कृथाः ॥ २,२३.६३ ॥

तादात्म्यगुणसंयोगान्मन्यं रुद्रस्य तेऽधुना ।
तपः सिद्धिरनुप्राप्ता कोलेनाल्पीयसा मुने ॥ २,२३.६४ ॥

प्रायोऽद्य मातरं हत्वा सर्वैलोङ्कैर्निराकृतः ।
तपोव्याजेन गहने निर्जने संप्रवर्त्तसे ॥ २,२३.६५ ॥

गुरुस्त्रीब्रह्महत्योत्थपातकक्षपणाय च ।
तपश्चरसि नानेन तपसा तत्प्रणश्यति ॥ २,२३.६६ ॥

पातकानां किलान्येषां प्रायश्चित्तानि संत्यपि ।
मातृद्रुहामवेहि त्वं न क्वचित्किल निष्कृतिः ॥२,२३.६७॥

अहिंसालक्षणो धर्मो लोकेषु यदि ते मतः ।
स्वहस्तेन कथं राम मातरं कृत्तवानसि ॥२,२३.६८ ॥

कृत्वा मातृवधं घोरं सर्वलोकविगर्हितम् ।
त्वं पुनर्धार्मिको भूत्वा कामतोऽन्यान्विनिन्दसि ।२,२३.६९॥

पश्यता हसतामोघं आत्मदोषमजानता ।
अपर्याप्तमहं नन्यं परं दोषविमर्शनाम् ॥ २,२३.७० ॥

स्वधर्मं यद्यहं त्यक्त्वा वर्त्तेयमकुलोभयम् ।
तर्हि गर्हय मां कामं निरुप्य मनसा स्वयम् ॥ २,२३.७१ ॥

मातापितृसुतादीनां भरणायैव केवलम् ।
क्रियते प्राणिहननं निजधर्मतया मया ॥ २,२३.७२ ॥

स्वधर्मादामिषेणाहं सकुटुम्बो दिनेदिने ।
वर्त्तामि सापि मे वृत्तिर्विधात्रा विहिता पुरा ॥ २,२३.७३ ॥

मांसेन यावता मे स्यान्नित्यं पित्रादि पोषणम् ।
हनिष्ये चेत्तदधिकं तर्हि युज्येयमेनसा ॥ २,२३.७४ ॥


यावत्पोषणघातेन न वयं स्याम निन्दिताः ।
तदेतत्संप्रधार्य त्वं निन्दवा मां प्रशंस वा ॥२,२३.७५ ॥

साधु वासाधु वा कर्म यस्य यद्विहितं पुरा ।
तदेव तेन कर्त्तव्यमापद्यपि कथञ्चन ॥ २,२३.७६ ॥

निरूपय स्वभुद्ध्या त्वमात्मनो मम चान्तरम् ।
अहं तु सर्वभावेन मित्रादिभरणे रतः ॥ २,२३.७७ ॥

संत्यज्य पितरं वृद्धं विनिहत्य च मातरम् ।
भूत्वा तु धार्मिकस्त्वं तु तपश्चर्तुमिहागतः ॥ २,२३.७८ ॥

ये तु मूलविदस्तेषां विस्पष्टं यत्र दर्शनम् ।
यथाजिह्वं भवेन्नात्र वचसापि समीहितुम् ॥ २,२३.७९ ॥

अहं तु सम्यग्जानामि तव वृत्तमशेषतः ।
तस्मादलं ते तपसा निष्फलेन भृगूद्वह ॥ २,२३.८० ॥

सुखमिच्छसि चेत्त्यक्त्वा कायक्लेशकरं तपः ।
याहि राम त्वमन्यत्र यत्र वा न विदुर्जनाः ॥ २,२३.८१ ॥
____________________________________
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे त्रयोविंशतितमोऽध्यायः
                                              



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें