शनिवार, 23 जनवरी 2021

धार्मिक पुण्य जन राक्षस और पितरों को मांस का विधान



ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६३

← मध्यभागः, अध्यायः ६२ब्रह्माण्डपुराणम्
अध्यायः ६३
[[लेखकः :|]]
मध्यभागः, अध्यायः ६४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
कुकुद्मिननस्तु तं लोकं रैवतस्य गतस्य ह ।
त्दृता पुण्यजनैः सर्वा राक्षसैः साकुशस्थली ॥ २,६३.१ ॥
तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः ।
निबध्यमानं नाराचैर्विदिशः प्राद्रवद्भयात् ॥ २,६३.२ ॥
तेषां तु तद्भयक्रान्तक्षत्रियाणां च विद्रुताम् ।
अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः ॥ २,६३.३ ॥
शार्याता इति विख्याता दिक्षु सर्वासु धर्मिकाः ।
धृष्टस्य धर्ष्टिकं सर्वं रणधृष्टं बभूव ह ॥ २,६३.४ ॥
त्रिसाहस्रं तु स गणः क्षत्रियाणां महात्मनाम् ।
नभगस्य च दायादो नाभादो नाम वीर्यवान् ॥ २,६३.५ ॥
अंबरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः ।
पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ २,६३.६ ॥
एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः ।
रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ॥ २,६३.७ ॥
क्षुवतस्तु मनोः पूर्वमिक्ष्वाकुरभिनिःसृतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिमम् ॥ २,६३.८ ॥
तेषां श्रेष्ठो विकुक्षिस्तु निमिर्दण्डश्च ते त्रयः ।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतस्तु ते ॥ २,६३.९ ॥
उत्तरापथदेशस्य रक्षितारो महीक्षितः ।
चत्वारिंशत्तथाष्टौ च दक्षिणस्यां तु वै दिशि ॥ २,६३.१० ॥
विराटप्रमुखास्ते च दक्षिणापथरक्षिणः ।
इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथा दिशत् ॥ २,६३.११ ॥
राजोवाच ।
मांसमानय श्राद्धे त्वं मृगान्हत्वा महाबल ।
श्राद्धं मम तु कर्त्तव्यमष्टकानां न संशयः ॥ २,६३.१२ ॥
स गतो मृगयां चैव वचनात्तस्य धीमतः ।
मृगान्सहस्रकान्हत्वा परिश्रान्तश्च वीर्यवान् ॥ २,६३.१३ ॥
भक्षयच्छशकं तत्र विकुक्षिर्मृगयां गतः ।
आगते हि विकुक्षै तु समांसे महसैनिके ॥ २,६३.१४ ॥
वसिष्ठं चोदयामास मांस प्रोक्षयतामिति ।
तथेति चोदितो राज्ञा विधिवत्तदुपस्थितम् ॥ २,६३.१५ ॥
स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् ।
अनेनोपहतं मांसं पुत्रेण तव पार्थिव ॥ २,६३.१६ ॥
शशभक्षाददुष्टं वै नैव मांसं महाद्युते ।
शशो दुरात्मना पूर्वममना भक्षितोऽनघ ॥ २,६३.१७ ॥
तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ।
इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् ॥ २,६३.१८ ॥
पितृकर्मणि निर्दिष्टो मया च मृगयां गतः ।
शशं भक्षयसेऽरण्ये निर्घृणः पूर्वमद्य तु ॥ २,६३.१९ ॥
तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्मणा ।
एवमिक्ष्वाकुणा त्यक्तो वसिष्ठवचनात्सुतः ॥ २,६३.२० ॥
इक्ष्वाकौसंस्थिते तस्मिञ्छशादः पृथिवीमिमाम् ।
प्राप्तः परगधर्मात्मा स चायोध्याधिपोऽभवत् ॥ २,६३.२१ ॥
तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः ।
ततस्तेनैनसा पूर्णो राज्यावस्थो महीपतिः ॥ २,६३.२२ ॥
कालेन गतवान्सोऽथ शकृन्मूत्रतरङ्गितम् ।
ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेद्बुधः ॥ २,६३.२३ ॥
मांसभक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ २,६३.२४ ॥
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।
इन्द्रस्य वृषभूतस्य ककुत्स्थो जयते पुरा ॥ २,६३.२५ ॥
पूर्वमाडीबके युद्धे ककुत्स्थस्तेन संस्मृतः ।
अनेनास्तु ककुत्स्थस्य पृथुश्चानेन स स्मृतः ॥ २,६३.२६ ॥
दृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् ।
अन्ध्रात्तु युवनाश्वस्तु शावस्तस्तस्य चात्मजः ॥ २,६३.२७ ॥
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ २,६३.२८ ॥
बृहदश्वसुतश्चापि कुवलाश्व इति श्रुतः ।
यस्तु धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ २,६३.२९ ॥
ऋषय ऊचुः
धुन्धोर्वधं महाप्राज्ञ घोतुमिच्छाम विस्तरात् ।
यदर्थं कुवलाश्वस्य धुन्धुमारत्वमागतम् ॥ २,६३.३० ॥
सूत उवाच
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ २,६३.३१ ॥
बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
कुवलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥ २,६३.३२ ॥
बृहदश्वो ह्यभ्यषिञ्चत्तस्मिन्राज्ये नराधिपः ।
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥ २,६३.३३ ॥
बृहदश्वं महाराजं शूरमुत्तमधार्मिकम् ।
प्रयास्यन्तमुतङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥ २,६३.३४ ॥
उत्तङ्क उवाच
भवता रक्षणं कार्यं तत्तावत्कर्त्तुमर्हति ।
निरुद्विग्नस्तपस्छर्तुं न हि शक्रोऽपि पार्थिव ॥ २,६३.३५ ॥
ममाश्रमसमीपेषु मेरोर्हि परितस्तु वै ।
समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ॥ २,६३.३६ ॥
देवतानामवध्यस्तु महाकायो महाबलः ।
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ २,६३.३७ ॥
राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः ।
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ २,६३.३८ ॥
संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ।
यदा तदा मही तत्र चलति स्म सकानना ॥ २,६३.३९ ॥
तस्य निश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथमावृत्य सप्ताहं भूमिकंपनम् ॥ २,६३.४० ॥
सविस्फुलिङ्गं सज्वारं सधूममतिदारुणम् ।
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ २,६३.४१ ॥
तं वारय महाबाहो लोकानां हितकाम्यया ।
तेजस्ते सुमहद्विष्मुस्तेजसाप्याययिष्यति ॥ २,६३.४२ ॥
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहते सुरे ।
त्वं हि तस्य वधार्थाय समर्थः पृथिवीपते ॥ २,६३.४३ ॥
विष्णुना च वरो दत्तो मम पूर्व यतोऽनघ ।
न हि धुन्धुर्महावीर्यस्तेजसाल्पेन शाक्यते ॥ २,६३.४४ ॥
निर्दग्धुं पृथिवीपालैरपि वर्षशतैरपि ।
वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥ २,६३.४५ ॥
एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना ।
कुवलाश्वं तु तं प्रादात्तस्मिन् धुन्धुनिवारणे ॥ २,६३.४६ ॥
भगवन्न्यस्तशस्भोऽहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २,६३.४७ ॥
स तमादिश्य तनयं धुन्धुमाग्णमच्युतम् ।
जगाम स वनायैव तपसे शंसितव्रतः ॥ २,६३.४८ ॥
कुवलाश्वस्तु धर्मात्मा पितुर्वचनमाश्रितः ।
सहक्रैरेकविंशत्या पुत्राणां सह पार्थिवः ॥ २,६३.४९ ॥
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवारणे ।
तमाविशत्ततो विष्णुर्भगवान्स्वेन तेजसा ॥ २,६३.५० ॥
उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ।
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ॥ २,६३.५१ ॥
अद्य प्रभृत्येष नृपो धुन्धुमारो भविष्यति ।
दिव्यैः पुष्पैश्च तं देवाः संमतात्समवाकिरन् ॥ २,६३.५२ ॥
देवदुन्दुभयश्चैव प्रणेदुर्हि तदा भृशम् ।
स गत्वा पुरुषव्याघ्रस्तनयैः सह वीर्यवान् ॥ २,६३.५३ ॥
समुद्रं खानयामास वालुकापूर्णमव्ययम् ।
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ॥ २,६३.५४ ॥
धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् ।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥ २,६३.५५ ॥
वारि सुस्राव चोगेन महोदधिरिवोदये ।
सोमस्य सोऽसुरश्रेष्ठो धारोर्मिकलिलो महान् ॥ २,६३.५६ ॥
तस्य पुत्रास्तु निर्दग्धास्त्रय उर्वरिता मृधे ।
ततः स राजातिबलो राक्षसं तं महाबलम् ॥ २,६३.५७ ॥
आससाद महातेजा धुन्धुं बन्धुनिबर्हणम् ।
तस्य वारिमयं वेगमपि वत्स नराधिपः ॥ २,६३.५८ ॥
योगी योगेन वह्निं च शमयामास वारिणा ।
निरस्यन्तं महाकायं बलेनोदकराक्षसम् ॥ २,६३.५९ ॥
उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ।
उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने ॥ २,६३.६० ॥
ददतश्चाक्षयं वित्तं शत्रुभिश्चाप्य धुष्यताम् ।
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् ॥ २,६३.६१ ॥
पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः ।
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ॥ २,६३.६२ ॥
भद्राश्वः कपिलाश्वश्च कनीयांसौ तु तौ स्मृतौ ।
धैन्धुमारिर्दृढाश्वश्च हर्यश्वस्तस्य चात्मजः ॥ २,६३.६३ ॥
हर्यश्वस्य निकुंभोऽभूत्क्षात्रधर्मरतः सदा ।
संहताश्वो निकुंभस्य सुतो रणविशारदः ॥ २,६३.६४ ॥
कृशाश्वश्चाकृताश्वश्च संहताश्वसुतावुभौ ।
तस्य पत्नी हैमवती सती माता दृषद्वती ॥ २,६३.६५ ॥
विख्याता त्रिषु लोकेषु पुत्रश्चास्य प्रसेनजित् ।
युवनाश्वसुतस्तस्य त्रिषु लोकेषु विश्रुतः ॥ २,६३.६६ ॥
अत्यन्तधार्मिका गौरी तस्य पत्नी पतिव्रता ।
अभिशप्ता (अभिशस्ता) तु सा भर्त्रा नदी सा बाहुदा कृता ॥ २,६३.६७ ॥
तस्यास्तु गौरिकः पुत्रश्चक्रवर्ती बभूव ह ।
मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः ॥ २,६३.६८ ॥
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका द्विजाः ।
यावत्सूर्य उदयते यावच्च प्रतितिष्ठति ॥ २,६३.६९ ॥
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ।
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ॥ २,६३.७० ॥
साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ।
पतिव्रता च ज्येष्ठा च भातॄणामयुतस्य सा ॥ २,६३.७१ ॥
तस्यामुत्पादयामास मान्धाता त्रीन्सुतन्प्रभुः ।
पुरुकुत्समंबरीषं मुचुकुन्दं च विश्रुतम् ॥ २,६३.७२ ॥
अंबरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ।
नर्मदायां समुत्पन्नः संभूतस्तस्य चात्मजः ॥ २,६३.७३ ॥
संभूतस्यात्मजः पुत्रो ङ्यनरण्यः प्रतापवान् ।
रावणेन हतो येन त्रैलोक्यं विजितं पुरा ॥ २,६३.७४ ॥
तेन दृश्योनरण्यस्य हर्यश्वस्तस्य चात्मजः ।
हर्यश्वात्तु दृषद्वत्यां जज्ञे च सुमतिर्नृपः ॥ २,६३.७५ ॥
तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्मिकः ।
आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणिः प्रभुः ॥ २,६३.७६ ॥
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
तेन भार्या विदर्भस्य त्दृता हत्वा दिवौकसः ॥ २,६३.७७ ॥
पाणिग्रहणमन्त्रेषु निष्टानं प्रापितेष्विह ।
कामाद्बलाच्च मोहाच्च संहर्षेण बलेन च ॥ २,६३.७८ ॥
भाविनोर्ऽथस्य च बलात्तत्कृतं तेन धीमता ।
तमधर्मेण संयुक्तं पिता भय्यारुणोऽत्यजत् ॥ २,६३.७९ ॥
अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ।
पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः ॥ २,६३.८० ॥
पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ।
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥ २,६३.८१ ॥
इत्युक्तः स निराक्रामन्नगराद्वचना द्विभोः ।
न चैनं वारयामास वसिष्ठो भगवानृषिः ॥ २,६३.८२ ॥
स तु सत्यव्रतो धीमाञ्श्वपाकावसथान्तिके ।
पित्रा त्यक्तोऽवसद्धीरः पिता चास्य वनं ययौ ॥ २,६३.८३ ॥
तस्मिंस्तु विषये तस्य नावर्षत्पाकशासनः ।
समा द्वादश संपूर्मास्तेनाधर्मेण वै तदा ॥ २,६३.८४ ॥
दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः ॥ २,६३.८५ ॥
तस्य पत्नी गले बद्ध्वा मध्यमंपुत्रमौरसम् ।
शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥ २,६३.८६ ॥
तं तु बद्धं गले दृष्टवा विक्रयार्थं नरोत्तमः ।
महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥ २,६३.८७ ॥
सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुकंपार्थमेव च ॥ २,६३.८८ ॥
सोऽभवद्गालवो नाम गले बद्धो महातपाः ।
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ॥ २,६३.८९ ॥
तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं च बभार विनये स्थितः ॥ २,६३.९० ॥
हत्वा मृगान्वराहांश्च महिषांश्च जलेचरान् ।
विश्वामित्राश्रमाभ्यासे तन्मांसमनयत्ततः ॥ २,६३.९१ ॥
उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगादभजन्नृपे तु वनमास्थिते ॥ २,६३.९२ ॥
अयोध्यां चैव राष्ट्रं च तथैवान्तः पुरं पुनिः ।
याज्योत्थान्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ २,६३.९३ ॥
सत्यव्रतः सुबाल्यात्तु भाविनोर्ऽथस्य वै बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास मन्युना ॥ २,६३.९४ ॥
पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन वै ॥ २,६३.९५ ॥
पाणिग्रहममन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
एवं सत्यव्रतस्तां वै हृतवान्सप्तमे पदे ॥ २,६३.९६ ॥
जानन्धर्मान्वसिष्ठस्तु नवमन्त्रानिहेच्छति ।
इति सत्यव्रतो रोषं वसिष्ठे मनसाकरोत् ॥ २,६३.९७ ॥
गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तपः ।
न तु सत्यव्रतोऽबुध्यदुपांशुव्रतमस्य वै ॥ २,६३.९८ ॥
तस्मिंस्तु परमो रोषः पितुरासीन्महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥ २,६३.९९ ॥
तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिः स्वस्य सृतेयं च भवेदिति ॥ २,६३.१०० ॥
ततो वसिष्ठो भगवान्पित्रा त्यक्तं न वारयत् ।
अभिषेक्ष्याम्यहं नष्टे पश्चादेनमिति प्रभुः ॥ २,६३.१०१ ॥
स तु द्वादशवर्षाणि दीक्षां तामुद्वहन्बली ।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ २,६३.१०२ ॥
सर्वकामदुघां धेनुं स ददर्श नृपात्मजः ।
तां वै क्रोधाच्च मोहाच्च श्रमच्चैव क्षुधान्वितः ॥ २,६३.१०३ ॥
दस्युधर्मगतो दृष्ट्वा जघान बलिनां वरः ।
सतु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ २,६३.१०४ ॥
भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत् ।
प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम् ॥ २,६३.१०५ ॥
पातयेयमहं क्रूर तव शङ्कुम पोह्य वै ।
यदि ते त्रीणि शङ्कूनि न स्युर्हि पुरुषाधम ॥ २,६३.१०६ ॥
पितुश्चापारितोषेण गुरोर्देगध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ २,६३.१०७ ॥
एवं स त्रीणि शङ्कूनि दृष्ट्वा तस्य महातपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ २,६३.१०८ ॥
विश्वामित्रस्तु दाराणामागतो भरणे कृते ।
ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥ २,६३.१०९ ॥
छन्द्यमानो वरेणाथ गुरुं वव्रेनृपात्मजः ।
सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ २,६३.११० ॥
अनावृष्टिभये तस्मिञ्जाते द्वादशवार्षिके ।
अभिषिच्य राज्ये पित्र्ये योजयामास तं मुनिः ॥ २,६३.१११ ॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं वै दिवमारोपयत्प्रभुः ॥ २,६३.११२ ॥
मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥ २,६३.११३ ॥
विश्वामित्रप्रसादेन त्रिशङ्कुर्दिविराजते ।
देवैः सार्द्धं महातेजानुग्रहात्तस्य धीमतः ॥ २,६३.११४ ॥
तस्य सत्यरता नाम भार्या कैकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ २,६३.११५ ॥
स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः ।
अहर्ता राजसूयस्य सम्रडिति परिश्रुतः ॥ २,६३.११६ ॥
हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् ।
हरितो रोहितस्याथ चञ्चुर्हरीत उच्यते ॥ २,६३.११७ ॥
विनयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः ।
चैता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥ २,६३.११८ ॥
रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः ।
रुरुकात्तु वृकः पुत्रस्तस्माद्बाहुर्विजज्ञिवान् ॥ २,६३.११९ ॥
हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः ।
शकैर्यवनकांबोजैः पारदैः पह्लवैस्तथा ॥ २,६३.१२० ॥
नात्यर्थं धार्मिकोऽभूत्स धर्म्ये सति युगे तथा ।
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ॥ २,६३.१२१ ॥
भृगोराश्रममासाद्य ह्यौर्वैण परिरक्षितः ।
अग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः ॥ २,६३.१२२ ॥
जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ।
शकानां पह्लवानां च धर्मं निरसदच्युतः ॥ २,६३.१२३ ॥
क्षत्रियाणां तथा तेषां पारदानां च धर्मवित् ।
ऋषय ऊचुः
कथं स सगरो राजा गरेण सह जज्ञिवान् ॥ २,६३.१२४ ॥
किमर्थं वा शकादीनां क्षत्रियाणां महौजसाम् ।
धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः ॥ २,६३.१२५ ॥
सुत उवाच
बाहोर्व्यसनिनस्तस्य त्दृतं राज्यं पुरा किल ।
हैहयैस्तालजङ्घैश्च शकैः सार्द्धं समागतैः ॥ २,६३.१२६ ॥
यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा ।
हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा ॥ २,६३.१२७ ॥
त्दृतराज्यस्तदाबाहुः संन्यस्य स तदा गृहम् ।
वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥ २,६३.१२८ ॥
कदाचिदप्यकल्पः स तोयार्थं प्रस्थितो नृपः ।
वृद्धत्वाद्दुर्बलत्वाच्च ह्यन्तरा स ममार च ॥ २,६३.१२९ ॥
पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽप्यगात् ।
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥ २,६३.१३० ॥
सा तु भर्तुश्चितां कृत्वा वह्निं तं समारोहयत् ।
और्वस्तं भार्गवो दृष्ट्वा कारुण्याद्धि न्यवर्त्तयत् ॥ २,६३.१३१ ॥
तस्याश्रमे तु गर्भं सा गरेण च तदा सह ।
व्यजायत महाबाहुं सगरं नाम धर्मिकम् ॥ २,६३.१३२ ॥
और्वस्तु जातकर्मादीन्कृत्वा तस्य महात्मनः ।
अध्याप्य वेदाञ्छास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २,६३.१३३ ॥
ततः शकान्स यवनान्कांबोजान्पारदांस्तथा ।
पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ २,६३.१३४ ॥
ते हन्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं सर्वे संप्राप्ताः शरणैषिणः ॥ २,६३.१३५ ॥
वसिष्ठो वीक्ष्य तान्युक्तान्विनयोन महामुनिः ।
सगरं वारयामास तेषां दत्त्वाभयं तथा ॥ २,६३.१३६ ॥
सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च ।
जघान धर्मं वै तेषां वेषान्यत्वं चकार ह ॥ २,६३.१३७ ॥
अर्द्धं शाकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं कांबोजानां तथैव च ॥ २,६३.१३८ ॥
पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ २,६३.१३९ ॥
शका यवन कांबोजाः पह्लवाः पारदैः सह ।
कलिस्पर्शा महिषिका दार्वस्छोलाः खशास्तथा ॥ २,६३.१४० ॥
सर्वे ते क्षत्रियगणा धर्मस्तेषां निराकृतः ।
वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥ २,६३.१४१ ॥
स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं वै चारयामास वाजिमेधाय दीक्षितः ॥ २,६३.१४२ ॥
तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ २,६३.१४३ ॥
स तं देशं सुतैः सर्वैः खानयामास पार्थिवः ।
आसेदुश्च ततस्तस्मिन्खनन्तस्ते महार्मवे ॥ २,६३.१४४ ॥
तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥ २,६३.१४५ ॥
तस्य चक्षुः समासाद्य तेजस्तत्प्रतिपद्यते ।
दग्धाः पुत्रास्तदा सर्वेचत्वारस्त्ववशेषिताः ॥ २,६३.१४६ ॥
बर्हिकेतुः सुकेतुश्च तथा धर्मरथश्च यः ।
शूरः पञ्चजनश्चैव तस्य वंशकराः प्रभोः ॥ २,६३.१४७ ॥
प्रादाच्च तस्य भगवान्हरिर्नारायणो वरान् ।
अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा ॥ २,६३.१४८ ॥
विभुः पुत्रं समुद्रं च स्वर्गे वासं तथाक्षयम् ।
तं समुद्रोऽश्वमादाय ववन्दे सरितांपतिः ॥ २,६३.१४९ ॥
सागरत्वं च लेभे स कर्मणा तेन तस्य वै ।
तं चाश्वमेधिकं सोऽश्वं समुद्रात्प्राप्य पार्थिवः ॥ २,६३.१५० ॥
आजहाराश्वमेधानां शतं चैव पुनः पुनः ।
षष्टिं पुत्रसहस्राणि दग्धान्यस्य रुषा विभो ॥ २,६३.१५१ ॥
तेषां नारायणं तेजः प्रविष्टानि महात्मनाम् ।
पुत्राणां तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ॥ २,६३.१५२ ॥
ऋषय ऊचुः
सगरस्यात्मजा नाना कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥ २,६३.१५३ ॥
सुत उवाच
द्वेपत्न्यौ सगरस्यास्तां तपसा दगधकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ २,६३.१५४ ॥
कनीयसी तु या तस्यपत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ २,६३.१५५ ॥
और्वस्ताभ्यां वरं प्रादात्तपसाराधितः प्रभुः ।
एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम् ॥ २,६३.१५६ ॥
षष्टिं पुत्रसहस्राणि द्वितीया जनयिष्यति ।
मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् ॥ २,६३.१५७ ॥
वंशस्य कारणं श्रेष्ठं जग्राह नृप संसदि ।
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तथा ॥ २,६३.१५८ ॥
महाभागा प्रमुदिता जग्राह सुमतिस्तथा ।
अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत ॥ २,६३.१५९ ॥
असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ।
सुमतिस्त्वपि जज्ञे वै गर्भतुंबं यशस्विनी ॥ २,६३.१६० ॥
षष्टिः पुत्रसहस्राणां तुंबमध्याद्विनिस्सृताः ।
घृतपूर्णेषु कुंभेषु तान्गर्भान्यदधात्ततः ॥ २,६३.१६१ ॥
धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः ।
ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् ॥ २,६३.१६२ ॥
कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः ।
कालेन महाता चैव यैवनं समुपाश्रिताः ॥ २,६३.१६३ ॥
केशिन्यास्तनयो योऽन्यः सगरस्यात्मसंभवः ।
असमञ्ज इति ख्यातो वर्हिकेतुर्महाबलः ॥ २,६३.१६४ ॥
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् ।
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ २,६३.१६५ ॥
तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः ।
दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥ २,६३.१६६ ॥
येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता ।
इहानीता सुरेशाद्वै दुहितृत्वे च कल्पिता ॥ २,६३.१६७ ॥
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ।
भगीरथस्तु तां गङ्गामानयामास कर्मभिः ॥ २,६३.१६८ ॥
तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ।
भगीरथसुतश्चापि श्रुतो नाम बभूवह ॥ २,६३.१६९ ॥
नाभागस्तस्य दायादो नित्यं धर्मपरायणः ।
अम्बरीषः सुतस्तस्य सिंधुद्वीपस्ततोऽभवत् ॥ २,६३.१७० ॥
पूर्वे वंशपुराणज्ञा गायन्तीति परिश्रुतम् ।
नाभागेरंबरीषस्य भुजाभ्यां परिपालिता ॥ २,६३.१७१ ॥
बभूव वसुधात्यर्थं तापत्रयविवर्जिता ।
अयुतायुः सुतस्तस्य सिंधुद्वीपस्य वीर्यवान् ॥ २,६३.१७२ ॥
अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली ॥ २,६३.१७३ ॥
नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ २,६३.१७४ ॥
ऋतुपर्णस्य पुत्रोऽभूत्सर्वकामो जनेश्वरः ।
सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् ॥ २,६३.१७५ ॥
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना सित्रसहश्च सः ॥ २,६३.१७६ ॥
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामास त्विक्ष्वाकुकुलवृद्धये ॥ २,६३.१७७ ॥
अश्मकस्यौरसो यस्तु मूलकस्तत्सुतोऽभवत् ।
अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥ २,६३.१७८ ॥
स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् ।
विवस्त्रस्त्राणमिच्छन्वै नारीकवच ईश्वरः ॥ २,६३.१७९ ॥
मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः ।
तस्माच्छतरथाज्जज्ञे राजा त्विडविडो बली ॥ २,६३.१८० ॥
आसीत्त्वैडविडः श्रीमान्कृशशर्मा प्रतापवान् ।
पुत्रो विश्वसहस्रस्य पुत्रीकस्यां व्यजायत ॥ २,६३.१८१ ॥
दिलीपस्तस्य पुत्रोऽभूत्खट्वाङ्ग इति विश्रुतः ।
येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम् ॥ २,६३.१८२ ॥
त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ २,६३.१८३ ॥
अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ।
राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥ २,६३.१८४ ॥
रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः ।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ २,६३.१८५ ॥
माधवं लवणं हत्वा गत्वा मधुवनं च तत् ।
शत्रुघ्रेन पुरी तत्र मथुरा विनिवेशिता ॥ २,६३.१८६ ॥
सुबाहुः शूरसे नश्च शत्रुघ्नस्य सुतावुभौ ।
पालयामासतुस्तौ तु वैदेह्यौ मथुरां पुरीम् ॥ २,६३.१८७ ॥
अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ ।
हिमवत्पर्वतस्यान्ते स्फीतौ जनपदौ तयोः ॥ २,६३.१८८ ॥
अङ्गदस्याङ्गदाख्याता देशे कारयते पुरी ।
चन्द्रकेतोस्तु विख्याता चन्द्रचक्रा पुरी शुभा ॥ २,६३.१८९ ॥
भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च ।
गान्धारविषये सिद्धे तयोः पुर्यो महात्मनोः ॥ २,६३.१९० ॥
तक्षस्य दिक्षु विख्याता नाम्ना तक्षशिला पुरी ।
पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥ २,६३.१९१ ॥
गाथां चैवात्र गायन्ति ये पुराण विदो जनाः ।
रामेण बद्धां सत्यार्थां महात्म्यात्तस्य धीमतः ॥ २,६३.१९२ ॥
श्यामो युवा लोहिताक्षो दीप्तास्यो मीतभाषितः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ २,६३.१९३ ॥
दशवर्षसहस्राणि रामो राज्यमकारयत् ।
ऋक्सामयजुषां घोषो यो घोषश्च महास्वनः ॥ २,६३.१९४ ॥
अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥ २,६३.१९५ ॥
तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः ।
सीतायाः पदमन्विच्छन्निजघान महायशाः ॥ २,६३.१९६ ॥
सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा ।
अतिसूर्यं च वह्निं च रामो दाशरथिर्बभौ ॥ २,६३.१९७ ॥
एवमेष महाबाहोस्तस्य पुत्रौ बभूवतुः ।
कुशो लव इति ख्यातो तयोर्देशौ निबोधत ॥ २,६३.१९८ ॥
कुशस्य कोशला राज्यं पुरी चापि कुशस्थली ।
रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥ २,६३.१९९ ॥
उत्तराकोशले राज्य लवस्य च महात्मनः ।
श्रावस्तिर्लोकविख्याता कुशवंशं निबोधत ॥ २,६३.२०० ॥
कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः ।
अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥ २,६३.२०१ ॥
निषधस्य नलः पुत्रो नलस्य तु नाभाः सुतः ।
नभसः पुण्डरीकस्तु क्षेम धन्वा ततः स्मृतः ॥ २,६३.२०२ ॥
क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २,६३.२०३ ॥
अहीन गोस्तु दायादः पारियात्रो महायशाः ।
दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ॥ २,६३.२०४ ॥
उलूको नाम धर्मात्मा बलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ॥ २,६३.२०५ ॥
शङ्खणस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः ।
व्युषिताश्वसुतश्चापि राजा विश्वसहः किल ॥ २,६३.२०६ ॥
हिरण्यनाभः कौशल्यो वरिष्ठस्तत्सुतोऽभवत् ।
पौष्यञ्जेश्च स वै शिष्यः स्मृतः प्राच्येषु सामसु ॥ २,६३.२०७ ॥
शतानि संहितानां तु पञ्च योऽधीतवांस्ततः ।
तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥ २,६३.२०८ ॥
पुष्पस्तस्य सुतो विद्वान्ध्रुवसंधिश्च तत्सुतः ।
सुदर्शनस्तस्य सुतो ह्यग्निवर्मः सुदर्शनात् ॥ २,६३.२०९ ॥
अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मरुः स्मृतः ।
मरुस्तु योगमास्थाय कलापग्राममास्थितः ॥ २,६३.२१० ॥
एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ।
प्रभुसुतो मरोः पुत्रः सुसंधिस्तस्य चात्मजः ॥ २,६३.२११ ॥
सुसंधेश्च तथा मर्षः सहस्वान्नाम नामतः ।
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति ॥ २,६३.२१२ ॥
तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ।
एते हीक्ष्वाकुदायादा राजानः शतशः स्मृताः ॥ २,६३.२१३ ॥
वंशे प्रधाना ये तस्मिन्प्राधान्येन तु कीर्त्तिताः ।
पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ॥ २,६३.२१४ ॥
प्रजावानेति सायुज्यं मनोर्वेवस्वतस्य सः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ २,६३.२१५ ॥
विपाप्मा विरजाश्चैव आयुष्माञ्जायतेऽच्युतः ॥ २,६३.२१६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धात पादे भार्गवचरिते इक्ष्वाकुवंशकीर्त्तनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३॥

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८

हविष्य-मत्स्य-मांसैस्तु शशस्य शकुनस्य च ।
शौकच्छागलैरैणौरौरवैर्गवयेन च ।। १ ।।

औरचभ्रगव्यैश्व तथा मासवृद्धया पितामहाः ।
प्रयान्ति तृप्तिं मांसैस्तु नित्यं वाध्रीणासामिषै- ।।२ ।।

खडूगमांसमीतीवात्र कालशाकं तथा मधु ।
शस्तानि कर्मण्यत्यन्त-तृप्तिदानि नरेश्वर ।। ३ ।।

गयामुपेत्य यः श्राद्ध करोति पृथिवीपते ।
सफलं तस्य तज्जन्म जायते पितृतुष्टिदम् ।। ४ ।।

प्रशान्तिकाः सनीवाराः श्यामाका द्रिविधास्तथा ।
वनौषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ।। ५ ।।

यवाः प्रियङ्गवो मुदूगा गोधूमा ब्रीहयस्तिलाः ।
निष्पावाः कोविदाराश्व सर्षपाश्वात्र शोभनाः ।। ६ ।।

अकृताग्रयणं यच्च धान्यजातं नरेश्वेर ।
राजमाषानणूंश्चैव मसूरांश्व विवजयत् ।। ७ ।।

अलाबुं गृञ्तजन्चैव पलाण्ड पिण्डमूलकम् ।
गान्धारकं करम्भाणि लवाणान्यौषराणि च ।। ८ ।।

आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च ।
वर्ज्यान्येतानि वै श्राद्ध यच्च वाचा न शस्यते ।। ९ ।।

नक्ताह्टतं न चोतूसृष्टं तृप्यते न च यत्र गौः ।
दुर्गन्धि फनिलञ्चाम्बु श्राद्धयोग्यं न पार्थिव ।। १० ।।

क्षीरमेकशफानां यदौष्ट्रमाविकमेव च ।
मार्गञ्च माहिषञ्चैव वर्जयेच्छ्राद्धकर्म्मणि ।। ११ ।।

षण्ढापविद्धचाण्डालपाषणडोन्मत्तरोगिभिः ।
कृकवाकु-श्व-नग्नैश्व वानर-ग्रामशूकरैः ।। १२ ।।

उदक्यासूतकाशौचिमृतहारैश्व वीक्षिते ।
श्राद्ध सुरा न पितरो भुञ्जते पुरुषर्षभ ।। १३ ।।

तस्मात् परिश्विते कुर्याच्छ्राद्ध श्रद्धासमन्वितः ।
उर्व्याञ्च तिलंविक्षेपाद् यातुधानान् निवारयेत् ।। १४ ।।

न पूति नैवोपपन्नं केशकीटादिबिनृप ।
न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ।। १५ ।।

श्रद्धासमान्वितैर्दत्तं पितृभ्यो नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ।। १६ ।।

श्रूयन्ते चापि पितृभिर्गीता गाथा महीपते ।
ईक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ।। १७ ।।

अपि नस्ते भविष्यन्ति कुले सन्मार्गगामिनः ।
गयामुपेत्य ये पिण्डान् दास्यन्त्यस्माकमादरात् ।। १८ ।।

अपि नः स्वकुलं जायादू यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्या वर्षासु च मघासु च ।। १९ ।।

गौरीं वाप्युदूहेत् कन्यां नीलं वा वृषमुतूसृजेत् ।
यजेत वाश्वमेधेन विधिवदृक्षिणावता ।। २० ।।

ब्रह्मपुराणम्/अध्यायः २२०

← अध्यायः २१९ब्रह्मपुराणम्
अध्यायः २२०
वेदव्यासः
अध्यायः २२१ →

  1. श्राद्धकल्पवर्णनम्


मुनय ऊचुः
भूयः प्रब्रूहि भगवञ्श्राद्धकल्पं सुविस्तरात्।
कथं क्व च कदा केषु कैस्तद्‌ब्रूहि तपोधन।। २२०.१ ।।

व्यास उवाच
श्रृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात्।
यथा यत्र यदा येषु यैर्द्रव्यैस्तद्वदाम्यहम्।। २२०.२ ।।

ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम्।
कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम्।। २२०.३ ।।

स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात्।
अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम्।। २२०.४ ।।

पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च।
शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः।। २२०.५ ।।

सरित्सु पुण्यतोयासु नदेषु च सरःसु च।
संगमेषु नदीनां च समुद्रेषु च सप्तसु।। २२०.६ ।।

स्वनुलिप्तेषु गेहेषु स्वष्वनुज्ञापितेषु च।
दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च।। २२०.७ ।।

श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते।
किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि।। २२०.८ ।।

दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि।।
सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे।। २२०.९ ।।

पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते।
श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये।। २२०.१० ।।

पौर्णमासेषु(?)श्राद्धं च कर्तव्यमृक्षगोचरे।
नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते।। २२०.११ ।।

नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा।
काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः।। २२०.१२ ।।

वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च।
तत्र युग्मान्द्विजानाहुर्मन्त्रपूर्वं तु वै द्विजाः।। २२०.१३ ।।

कन्यां गते सवितरि दिनानि दश पञ्च च।
पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते।। २२०.१४ ।।

प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा।
पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनासिनी।। २२०.१५ ।।

श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः।
गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम्।। २२०.१६ ।।

स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम्।
वेदांस्तथाऽऽप्नुयात्सर्वानेकादश्यां क्रियापरः।। २२०.१७ ।।

द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः।
प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम्।। २२०.१८ ।।

दीर्घायुरथमैश्वर्यं कुर्वाणस्तु त्रयोदशीम्।
अवाप्नोति न संदेहः श्राद्धं श्रद्धासमन्वितः।। २२०.१९ ।।

यथासंभविनाऽन्नेन श्राद्धं श्रद्धासमन्वितः।
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः।। २२०.२० ।।

तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता।
श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः।। २२०.२१ ।।

सर्वान्कामानवाप्नोति स्वर्गं चानन्तमश्नुते।
अतः परं मुनिश्रेष्ठाः श्रृणुध्वं वदतो मम।। २२०.२२ ।।

पितॄणां प्रीतये यत्र यद्‌देयं प्रीतिकारिणा।
मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते।। २२०.२३ ।।

मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः।
त्रीन्मासान्हारिणं मांसं विज्ञेयं पितृतृप्तये।। २२०.२४ ।।

पुष्णाति चतुरो मासाञ्शशस्य पिशितं पितृन्।
शाकुनं पञ्च वै मासान्षण्मासाञ्शूकरामिषम्।। २२०.२५ ।।

छागलं सप्त वै मासानैणेयं चाष्टमासकान्।
करोति तृप्तिं नव वै रुरुमांसं न संशयः।। २२०.२६ ।।

गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम्।
तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम्।। २२०.२७ ।।

संवत्सरं तथा गव्यं पयः पायसमेव च।
वाध्रीनमा(र्धोणसा)मिषं लोहं कालशाकं तथा मधु।। २२०.२८ ।।

रोहितामिषमन्नं च दत्तान्यात्मकुलोद्‌भवैः।
अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा।। २२०.२९ ।।

पितॄणां नात्र संदोहो गयाश्राद्धं च भो द्विजाः।
यो ददाति गुडोन्मिश्रांस्तिलान्वा श्राद्धकर्मणि।। २२०.३० ।।

मधु वा मधुमिश्रं वा अक्षयं सर्वमेव तत्।
अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम्।। २२०.३१ ।।

पायसं मधुसंयुक्तं वर्षासु च मघासु च।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।। २२०.३२ ।।

गौरीं वाऽप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत्।
कृत्तिकासु पितॄनर्च्य स्वर्गमाप्नोति मानवः।। २२०.३३ ।।

अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत्।
शौर्यमार्द्रासु चाऽऽप्नोति क्षेत्राणि च पुनर्वसौ।। २२०.३४ ।।

पुष्ये तु धनमक्षय्यमाश्लेषे चाऽऽयुरुत्तमम्।
मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च।। २२०.३५ ।।

प्रधानशीलो भवति सापत्यश्चोत्तरासु च।
प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः।। २२०.३६ ।।

रूपं तेजश्च चित्रासु तथाऽऽपत्यमवाप्नुयात्।
वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा।। २२०.३७ ।।

कुर्वन्तां चानुराधासु ता दद्युश्चक्रवर्तिताम्।
आधिपत्यं च ज्येष्ठासु मूले चाऽऽरोग्यमुत्तमम्।। २२०.३८ ।।

आषाढासु यशः प्राप्तिरुत्तरासु विशोकता।
श्रवणेन शुभांल्लोकान्धनिष्ठासु धनं महत्।। २२०.३९ ।।

वेदवित्त्वमभिजिति भिषक्सिद्धिं च वारुणे।
अजाविकं प्रौष्ठपद्यां विन्देद्‌गावस्त(श्च त)थोत्तरे।। २२०.४० ।।

रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान्।
श्राद्धं कुर्वंस्तथाऽऽप्नोति भरणीष्वायुरुत्तमम्।। २२०.४१ ।।

एवं फलमवाप्नोति ऋक्षेष्वेतेषु तत्त्ववित्।
तस्मात्काम्यानि श्राद्धानि देयानि विधिवद्‌द्विजाः।। २२०.४२ ।।

कन्याराशिगते सूर्ये फलमत्यन्तमिच्छता।
यान्यान्कामानभिध्यायन्कन्याराशिगते रवौ।। २२०.४३ ।।

श्राद्धं कुर्वन्ति मनुजास्तांस्तान्कामाँल्लभन्ति ते।
नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ।। २२०.४४ ।।

पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा।
दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च।। २२०.४५ ।।

पिण्डमिच्छन्ति पितरः कन्याराशिगते रवौ।
कन्यां गते सवितरि यान्यहानि तु षोडश।। २२०.४६ ।।

क्रतुभिस्तानि तुल्यानि देवो नारायणोऽब्रवीत्।
राजसूयाश्वमेधाभ्यां य इच्छेद्‌दुर्लभं फलम्।। २२०.४७ ।।

अप्यम्बुशाकमूलाद्यैः पितॄन्कन्यागतेऽर्तयेत्।
उत्तराहस्तनक्षत्रगते तीक्ष्णांशुमालिनि।। २२०.४८ ।।

योऽर्चयेत्स्वपितॄन्भक्त्या तस्य वासस्त्रिविष्टपे।
हस्तर्क्षगे दिनकरे पितृराजानुशासनात्।। २२०.४९ ।।

तावत्पितृरुरी शून्या यावद्‌वृश्चिकदर्शनम्।
वृश्चिके समतिक्रान्ते पितरो दैवतैः सह।। २२०.५० ।।

निः श्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुः सहम्।
अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै।। २२०.५१ ।।

अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते।
ग्रहणे च व्यतीपाते रविचन्द्रसमागमे।। २२०.५२ ।।

जन्मर्क्षे ग्रहपीडायं श्राद्धं पार्वणमुच्यते।
अयनद्वितये श्राद्धं विषुवद्वितये तथा।। २२०.५३ ।।

संक्रान्तिषु च कर्तव्यं श्राद्धं विधिवदुत्तमम्।
एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणावृते।। २२०.५४ ।।

वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य च।
श्राद्धं कार्यं तु शुक्लायां संक्रान्तिविधिना नरैः।। २२०.५५ ।।

त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षयेऽहनि।
श्राद्धं कार्यं पायसेन दक्षिणायनवच्च तत्।। २२०.५६ ।।

यदा च श्रोत्रियोऽभ्येति गेहं वेदविदग्निमान्।
तेनैकेन च कर्तव्यं श्राद्धं विधिवदुत्तमम्।। २२०.५७ ।।

श्राद्धीयद्रव्यसंप्राप्तिर्यदा स्यात्साधुसंमता।
पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः।। २२०.५८ ।।

प्रतिसंवत्सरं कार्यं मातापित्रोरमृतेऽहनि।
पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि।। २२०.५९ ।।

पार्वणं देवपूर्वं स्यादेकोद्दिष्टं सुरैर्विना।
द्वौ दैवे पितृकार्यं त्रीनेकैकमुभयत्र वा।। २२०.६० ।।

मातामहानामप्येवं सर्वमूहेन कीर्तितम्।
प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा।। २२०.६१ ।।

सतिलं सकुशं दद्याद्‌बहिर्जलसमीपतः।
तृतीयेऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः।। २२०.६२ ।।

दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति।। २२०.६३ ।।

सूतकान्ते गृहे श्राद्धमेकोदिदष्टं प्रचक्षते।
द्वादशेऽहनि मासे च त्रिपक्षे च ततः परम्।। २२०.६४ ।।

मासि मासि च कर्तव्यं यावत्संवत्सरं द्विजाः।
ततः परतरं कार्यं सपिण्डिकरणं क्रमात्।। २२०.६५ ।।

कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः।
ततः प्रभृति निर्मुक्ताः प्रेतत्वात्पितृतां गताः।। २२०.६६ ।।

अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः।
नान्दीमुखास्त्वमूर्ताः स्युमूर्तिमन्तोऽथ पार्वणाः।।
एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस्त्रिधा।। २२०.६७ ।।

मुनय ऊचुः
कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम।
प्रेतिभूतस्य विधिवद्‌ब्रूहि नो वदतां वर।। २२०.६८ ।।

व्यास उवाच
सपिण्डीकरणं विप्राः श्रृणुध्वं वदतो मम।
तच्चापि देवरहितमेकार्घैकपवित्रकम्।। २२०.६९ ।।

नैवाग्नौकरणं तत्र तच्चाऽऽवाहनवर्जितम्।
अपसव्यं च तत्रापि भोजयेदयुजो द्विजान्।। २२०.७० ।।

विशेषस्तत्र चान्योऽस्ति प्रतिमासक्रियादिकः।
तं कथ्यमानमेकाग्राः श्रृणुध्वं मे द्विजोत्तमाः।। २२०.७१ ।।

तिलगन्धोकैर्युक्तं तत्र पात्रचतुष्टयम्।
कुर्यात्पितॄणां त्रितयमेकं प्रेतस्य च द्विजाः।। २२०.७२ ।।

पात्रत्रये प्रेतपात्रादर्घं चैव प्रसेचयेत्।
ये समाना इति जपन्पूर्ववच्छेषमाचरेत्।। २२०.७३ ।।

स्ग्रीणामप्येवमेव स्यादेकोद्दिष्टमुदाहृतम्।
सपिण्डीकरणं तासां पुत्राभावे न विद्यते।। २२०.७४ ।।

प्रीतसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः।
मृताहनि च तत्कार्यं पितॄणां विधिचोदितम्।। २२०.७५ ।।

पुत्राभावे सपिण्डास्तु तदभावे सहोदराः।
कुर्युरेतं विधिं सम्यक्पुत्रस्य च सुताः सुताः।। २२०.७६ ।।

कुर्यान्मातामहानां तु पुत्रिकातनयस्तथा।
व्द्यामुष्यायणसंज्ञास्तु मातामहपितामहान्।। २२०.७७ ।।

पूजयेयुर्यथान्यायं श्राद्धैर्नेमित्तिकैरपि।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम्।। २२०.७८ ।।

तदाभावे च नृपतिः कारयेत्त्वकुटुम्बिनाम्।
तज्जातीयैर्नरैः सम्यग्वाहाद्याः सकलाः क्रियाः।। २२०.७९ ।।

सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः।
एता वः कथिता विप्रा नित्या नैमित्तिकास्तथा।। २२०.८० ।।

वक्ष्ये श्राद्धाश्रयामन्यां नित्यनैमित्तिकां क्रियाम्।
दर्शस्त(र्शं त)त्र निमित्तं तु विद्यादिन्दुक्षयान्वितः(तम्)।। २२०.८१ ।।

नित्यस्तु नियतः कालस्तस्मिन्कुर्याद्यथोदितम्।
सपिण्डकरणादूर्ध्वं पितुर्यः प्रपितामहः।। २२०.८२ ।।

स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः।
तेषां हि यश्चतुर्थोऽन्यः स तु लेपभुजो भवेत्।। २२०.८३ ।।

सोऽपि संबन्धतो हीनमुपभोगं प्रपद्यते।
पिता पितामहश्चैव तथैव प्रपितामहः।। २२०.८४ ।।

पिण्डसंबन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः।
लेपसंबन्धिनश्चान्ये पितामहपितामहात्।। २२०.८५ ।।

प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः।
इत्येष मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः।। २२०.८६ ।।

यजमानात्प्रभृत्यूर्ध्वमनुलेपभुजस्तथा।
ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः।। २२०.८७ ।।

येऽपि तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः।
तान्सर्वान्यजमानो वै श्राद्धं कुर्वन्यथाविधि।। २२०.८८ ।।

स समाप्यायते विप्रा येन येन वदामि तत्।
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि।। २२०.८९ ।।

तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः।
यदम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः।। २२०.९० ।।

तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते।
यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले।। २२०.९१ ।।

ताभिराप्यायनं तेषां देवत्वं ये कुले गताः।
उद्धतेष्वथ पिण्डेषु याश्चाम्बुकणिका भुवि।। २२०.९२ ।।

ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः।
यो चादन्ताः कुले बालाः क्रियायोगाद्‌बहिष्कृताः।। २२०.९३ ।।

विपन्नास्त्वनधिकाराः संमार्जितजलाशिनः।
भुक्त्वा चाऽऽचामतां यच्च यज्जलं चाङ्‌घ्रिशौचजम्।। २२०.९४ ।।

ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै।
एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम्।। २२०.९५ ।।

कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा।
तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः।। २२०.९६ ।।

प्रयान्त्याप्यायनं विप्राः सम्यक्श्राद्धक्रियावताम्।
अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः।। २२०.९७ ।।

तृप्यन्ते ते न चाण्डालपुल्कसाद्यासु योनिषु।
एवमाप्यायनं विप्रा बहूनामेव बान्धवैः।। २२०.९८ ।।

श्राद्धं कुर्वद्‌भिरत्राम्बुविक्षेपैः संप्रजायते।
तस्माच्छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि।। २२०.९९ ।।

कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति।
श्राद्धं देयं तु विप्रेषु संयतेष्वग्निहोत्रिषु।। २२०.१०० ।।

अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः।
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित्।। २२०.१०१ ।।

मातापितृपरश्चैव स्वस्रीयः सामवेदवित्।
ऋत्विक्पुरोहिताचार्यमुपाध्यायं च भोजयेत्।। २२०.१०२ ।।

मातुलः श्वशुरः श्यालः संबन्धी द्रोणपाठकः।
मण्डलब्राह्मणो यस्तु पुराणार्थविशारदः।। २२०.१०३ ।।

अकल्पः कल्पसंतृष्टः प्रतिग्रहविवर्जितः।
एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः।। २२०.१०४ ।।

निमन्त्रयेन पूर्वेद्युः पूर्वोक्तान्द्विजसत्तमान्।
दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत्।। २२०.१०५ ।।

तैश्च संयमिभिर्भाध्यं यस्तु श्राद्धं करिष्यति।
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति।। २२०.१०६ ।।

पितरस्तस्य वै मासं तस्मिन्प्रेतसि शेरते।
गत्वां च योषितं श्राद्धं यो भुङ्क्ते यस्तु ग(य)च्छति।। २२०.१०७ ।।

रेतोमूत्रकृताहारास्तं मासं पितरस्तयोः।
तस्मात्त्व(त्तु)प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम्।। २२०.१०८ ।।

अप्राप्तौ तद्दिने वाऽपि वर्ज्या योषित्प्रसङ्गिनः।
भिक्षार्थमागतांश्चापि कालेन संयतान्यतीन्।। २२०.१०९ ।।

भोजयेत्प्रणिपाताद्यैः प्रसाद्य यतमानसः।
योगिनश्च तदा श्राद्धे भोजनीया विपश्चिता।। २२०.११० ।।

योगाधारा हि पितरस्तस्मात्तान्पूजयेत्सदा।
ब्राह्मणानां सहस्राणि एको योगी भवेद्यदि।। २२०.१११ ।।

यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत्।
पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः।। २२०.११२ ।।

या गीता पितृभिः पूर्वमैलस्याऽऽसीन्महीपतेः।
कदा नः संततावग्य्रः कस्यचिद्भविता सुतः।। २२०.११३ ।।

यो योगिभुक्तशेषान्नो भुवि पिण्डान्प्रदास्यति।
गयायामथवा पिण्डं खड्गमांसं तथा हविः।। २२०.११४ ।।

कालशाकं तिलाज्यं च तृप्तये कृसरं च नः।
वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः।। २२०.११५ ।।

विषाणवर्जं शिरसा पादादाशिषामहे।
दद्याच्छ्राद्धं त्रयोदश्यां मघासु च यथाविधि।। २२०.११६ ।।

मधुसर्पिःसमायुक्तं पायसं दक्षिणायने।
तस्मात्संपूजयेद्‌भक्त्या स्वपितॄन्विधिवन्नरः।। २२०.११७ ।।

कामानभिप्सन्सकलान्पापादात्मविमोचनम्।
वसून्रुद्रांस्तथाऽऽदित्यान्नक्षत्रग्रहतारकाः।। २२०.११८ ।।

प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः।
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च।। २२०.११९ ।।

प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः।
तथाऽपराह्णाः पूर्वाह्णात्पितॄणामतिरिच्यते।। २२०.१२० ।।

संपूज्य स्वागतेनैतान्सदनेऽभ्यागतान्द्विजान्।
पवित्रपाणिराचान्तानासनेषूपवेशयेत्।। २२०.१२१ ।।

श्राद्धं कृत्वा विधानेन संभोज्य च द्विजोत्तमान्।
विसर्जयोत्प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः।। २२०.१२२ ।।

आद्वारमनुगच्छेच्च आगच्छेदनुमोदितः।
ततो नित्यक्रियां कुर्याद्‌भोजयेच्च तथाऽतिथीन्।। २२०.१२३ ।।

नित्यक्रियां पितॄणां च केचिदिच्छन्ति सत्तमाः।
न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत्।। २२०.१२४ ।।

पृथक्त्वेन वदनत्यन्ये केचित्पूर्वं च पूर्ववत्।
ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः।। २२०.१२५ ।।

एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः।
यथा च विप्रमुख्यानां परितोषोऽभिजायते।। २२०.१२६ ।।

इदानीं संप्रवक्ष्यामि वर्जनीयान्द्विजाधमान्।
मित्रध्रुक्कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः।। २२०.१२७ ।।

श्यावदन्तोऽथ खल्वाटः काणोऽन्धो बधिरो जडः।
मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ।। २२०.१२८ ।।

कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटोऽलसः।
मित्रसत्रुर्दुष्कुलीनः पशुपालो निरागृतिः।। २२०.१२९ ।।

परिवित्तिः परिवेत्ता परिवेदनिकासुतः।
वृषलीपतिस्तत्सुतश्च न भवेच्छ्राद्धभुग्द्विजः।। २२०.१३० ।।

वृषलीपुत्रसंस्कर्ता अनुढो दिधिषूपतिः।
भृतकाध्यापको यस्तु भृतकाध्यापितश्च यः।। २२०.१३१ ।।

सूतकान्नोपजीवी च मृगयुः सोमविक्रयी।
अभिशस्तस्तथा स्तेनः पतितो वार्धुषिः शठः।। २२०.१३२ ।।

पिशुनो वेदसंत्यागी दानाग्नित्यागनिष्ठुरः।
राज्ञः पुरोहितो भृत्यो विद्याहीनोऽथ मत्सरी।। २२०.१३३ ।।

वृद्धद्विड्दुर्धरः क्रूरो मूढो देवलकस्तथा।
नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः।। २२०.१३४ ।।

अयाज्ययाजकः षण्ढो गर्हिता ये च येऽधमाः।
न ते श्राद्धे नियोक्तव्या दृष्ट्वाऽमी पङ्क्तिदूषकाः।। २२०.१३५ ।।

असतां प्रग्रहो यत्र सतां चैवावमानना।
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः।। २२०.१३६ ।।

हित्वाऽऽगमं सुविहितं बालिशं यस्तु भोजयेत्।
आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति।। २२०.१३७ ।।

यस्त्वाश्रितं द्विजं त्यक्त्वा अन्यमानीय भोजयेत्।
तन्नः श्वासाग्निनिर्दग्धस्तत्र दाता विनश्यति।। २२०.१३८ ।।

वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च।
तस्माद्वासांसि देयानि श्राद्धकाले विशेषतः।। २२०.१३९ ।।

कौशेयं क्षौमकार्पासं दुकूलमहतं तथा।
श्राद्धे त्वेतानि यो दद्यात्कामानाप्नोति चोत्तमान्।। २२०.१४० ।।

यथा गोषु प्रभूतासु वत्सो विन्दति मातरम्।
तथाऽन्नं तत्र विप्राणां जन्तुर्यत्रावतिष्ठते।। २२०.१४१ ।।

नामगोत्रं च मन्त्राश्च दत्तमन्नं नयन्ति ते।
अपि ये निधनं प्राप्तास्तृप्तिस्तानुपतिष्ठते।। २२०.१४२ ।।

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च।
नमः स्वाहायै स्वधायै नित्यमेव भवन्त्विति।। २२०.१४३ ।।

आद्यावसाने श्राद्धस्य त्रिरावृत्त्या जपेत्तदा।
पिण्डनिर्वपणे वाऽपि जपेदेवं समाहितः।। २२०.१४४ ।।

क्षिप्रमायान्ति पितरो राक्षसाः प्रद्रवन्ति च।
प्रीयन्ते त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत।। २२०.१४५ ।।

क्षौमसूत्रं नवं दद्याच्छा(च्छो)णं कार्पासिकं तथा।
पत्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत्।। २२०.१४६ ।।

वर्जयेच्चादशं प्राज्ञो यद्यप्यव्याहतं भवेत्।
न प्रीणयन्त्यथैतानि दातुश्चाप्यनयो भवेत्।। २२०.१४७ ।।

न निवेद्ये भवेद्पिण्डः पितॄणां यस्तु जीवति।
इष्टेनान्नेन भक्ष्येण भोजयेत्तं यथाविधि।। २२०.१४८ ।।

पिण्डमग्नौ सदा दद्याद्‌भोगार्थो सततं नरः।
पत्न्यै दद्यात्प्रजार्थो च मध्यमं मन्त्रपूर्वकम्।। २२०.१४९ ।।

उत्तमां द्युतिमन्विच्छन्पिण्डं गोषु प्रयच्छति।
प्रज्ञो चैव यशः सीर्तिमप्सु चैव निवेदयेत्।। २२०.१५० ।।

प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति।
कुमारशालामन्विच्चन्कुक्कुटेभ्यः प्रयच्छति।। २२०.१५१ ।।

एके विप्राः पुनः प्राहुः पिण्डोद्धरणग्रतः।
अनुज्ञातस्तु विप्रैस्तैः काममुद्ध्रियतामिति।। २२०.१५२ ।।

तस्माच्छ्राद्धं तथा कार्यं यथोक्तमृषिभिः पुरा।
अन्यथा तु भवेद्दोषः पितॄणां नोपतिष्ठति।। २२०.१५३ ।।

यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा।
संतर्पयेत्पितॄनमुद्‌गैः श्यामाकैः सर्षपद्रवैः।। २२०.१५४ ।।

नीवारैर्हस्तिश्यामाकैः प्रियङ्गुभिस्तथाऽऽर्घयेत्।
प्रसातिकां(अस्तिकाः)सतूलिकां द(तीलकान्द)द्याच्छ्राद्धे विचक्षणः।। २२०.१५५ ।।

आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम्।
प्राचीनामलकं क्षीरं नारिकेलं परुषकम्।। २२०.१५६ ।।

नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम्।
पटोलं च प्रियालं च कर्कन्धूबदराणि च।। २२०.१५७ ।।

विकङ्कतं वत्सकं च कस्त्वारु(र्कारू)र्वारकानपि।
एतानि फलजातानि श्राद्धे देयानि यत्नतः।। २२०.१५८ ।।

गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम्।
गव्यं पयो दधि घृतं तैलं च तिलसंभवम्।। २२०.१५९ ।।

सैन्धवं सागरोत्थं च लवणं सारसं तथा।
निवेदयेच्छुचीन्गन्धांश्चन्दनागुरुकुङ्कुमान्।। २२०.१६० ।।

कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा।
शाकमारण्यकं चापि दद्यात्पुण्पाण्यमूनि च।। २२०.१६१ ।।

जातिचम्पकलोध्राश्च मल्लिकाबाणबर्बरी।
वृन्ताशोकाटरूषं च तुलसी तिलकं तथा।। २२०.१६२ ।।

पावन्तीः शतपत्रां च गन्धशोफालिकामपि।
कुब्जकं तगरं चैव मृगमारण्यकेतकीम्।। २२०.१६३ ।।

यूथिकामतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः।
कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः।। २२०.१६४ ।।

इन्दीवरं कोकनदं कह्लारं च नियोजयेत्।
कुष्ठं मांसी बालकं च कुक्कुटी जातिपत्रकम्।। २२०.१६५ ।।

नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी।
पुनरप्येवमादीनि गन्धयोग्यानि चक्षते।। २२०.१६६ ।।

गुग्गुलुं चन्दनं चैव श्रीवासमगुरुं तथा।
धूपानि पितृयोग्यानि ऋषिगुग्गुलमेव च।। २२०.१६७ ।।

राजमाषांश्च चणकान्मसूरन्कोरदूषकान्।
विप्रुषान्मर्कटांश्चैव कोद्रवांश्चैव वर्जयेत्।। २२०.१६८ ।।

माहिषं चामरं मार्गमाविकैकशफोद्भवम्।
स्त्रैणमौष्ट्रमाविकं च दधि क्षीरं घृतं त्यजेत्।। २२०.१६९ ।।

तालं वरुणकाकोलौ बहुपत्रार्जुनीफलम्।
जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत्।। २२०.१७० ।।

मत्स्यसूकरकूर्माश्च गावो वर्ज्या विशेषतः।
पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम्।। २२०.१७१ ।।

कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत्।
पालङ्कं च कुमारीं च किरातं पिण्डमूलकम्।। २२०.१७२ ।।

गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्रिकाम्।
जीवं च शतपुष्पां च नालिकां गन्धशूकरम्।। २२०.१७३ ।।

हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत्।
मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम्।। २२०.१७४ ।।

पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत्।
अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम्।। २२०.१७५ ।।

वार्ताकं शिवजातं च लोमशानि वटानि च।
कालीयं रक्तवाणां च बलाकां लकुचं तथा।। २२०.१७६ ।।

श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा।
आरनालं च शुक्तं च शीर्णं पर्युषितं तथा।। २२०.१७७ ।।

नोग्रागन्धं च दातव्यं कोविदारकशिग्रुकौ।
अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः।। २२०.१७८ ।।

न च देयं गतरसं मद्यगन्धं च यद्भवेत्।
हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके।। २२०.१७९ ।।

कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम्।
दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः।। २२०.१८० ।।

आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत्।
पायसं शाल्लीमुद्रान्मोदकादींश्च भक्तितः।। २२०.१८१ ।।

पानकं च रसालं च गोक्षीरं च निवेदयेत्।
यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः।। २२०.१८२ ।।

ईषदम्लकटून्येव देयानि श्राद्धकर्मणि।
अत्यम्लं चातिलवणमतिरिक्तकटूनि च।। २२०.१८३ ।।

आसुराणीह भोज्यानि तान्यतो दूरतस्त्यजेत्।
मृष्टस्निग्धानि यानि स्युरीषत्कट्‌वम्लकानि च।। २२०.१८४ ।।

स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत्।
छागमांसं वार्तिकं च तैत्तिरं शशकामिषम्।। २२०.१८५ ।।

शिवालावकराजीवमांसं श्राद्धे नियोजयेत्।
वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम्।। २२०.१८६ ।।

सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते।
यदप्युक्तं हि मनुना रोहितं प्रतियोजयेत्।। २२०.१८७ ।।

योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत्।
एवमुक्तं मया विप्रा वाराहेणावलोकितम्।। २२०.१८८ ।।

मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत्।
एतानि च निषिद्धानि वाराहेण तपोधनाः।। २२०.१८९ ।।

अभक्ष्याणि द्विजातीनां न देयानि पितृष्वपि।
रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत्।। २२०.१९० ।।

चक्रवाकं च मद्गुं च शल्कहीनांश्च मत्स्यकान्।
कुररं च निरस्थिं च वासहातं च(?)कुक्कुटान्।। २२०.१९१ ।।

कलविङ्कमयूरांश्च भारद्वाजांश्च शार्ङ्गकान्।
नकुलोलूकमार्जारांल्लोपानन्यान्सुदुर्ग्रहान्।। २२०.१९२ ।।

टिट्टिभान्सार्धजम्बूकान्व्याघ्रॠक्षतरक्षुकान्।
एतानन्यांश्च संदुष्टान्यो भक्षयति दुर्मतिः।।। २२०.१९३ ।।

स महापापकारी तु रौरवं नरकं व्रजेत्।
पितृष्वेतांस्तु यो दद्यात्पापात्मा गर्हितामिषान्।। २२०.१९४ ।।

स स्वर्गस्थानपि पितॄन्नरके पातयिष्यति।
कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम्।। २२०.१९५ ।।

पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम्।
कोद्रवं कोकिलाक्षं च चक्रं कम्बुकपद्मकम्।। २२०.१९६ ।।

चकोरश्येनमांसं च बर्तुलालबुतालिनीम्।
फलं तालतरूणां च भुक्त्या नरकमृच्छति।। २२०.१९७ ।।

दत्त्वा पितृषु तैः सार्धः ब्रजेत्पूयवहं नरः।
तस्मात्सर्वप्रयत्नेन नाऽऽहरेत्तु विचक्षणः।। २२०.१९८ ।।

निषिद्धानि वराहेण स्वयं पित्रर्थमादरात्।
वरमेवाऽऽत्ममांसस्य भक्षणं मुनयः कृतम्।। २२०.१९९ ।।

न त्वेव हि निषिद्धानामादानं पुंभिरादरात्।
अज्ञानाद्वा प्रमादाद्वा सकृदेतानि च द्विजाः।। २२०.२०० ।।

भक्षितानि निषिद्धानि प्रायश्चित्तं ततश्चरेत्।
फलमूलदधिक्षीरतक्रगोमूत्रयावकैः।। २२०.२०१ ।।

भोज्यान्नभोज्यसंभुक्ते प्रत्येकं दिनसप्तकम्।
एवं निषिद्धाचरणे कृते सकृदपि द्विजैः।। २२०.२०२ ।।

शुद्धिं नेयं शरीरं तु विष्णुभक्तैर्विशेषतः।
निषिद्धं वर्जयेद्‌द्रव्यं यथोक्तं च द्विजोत्तमाः।। २२०.२०३ ।।

समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः।
एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम्।।
आब्रह्यस्तम्बपर्यन्तं जगत्प्रीणाति मानव।। २२०.२०४ ।।

मुनय ऊचुः
पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः।
श्राद्धं हि कर्तव्यमेतद्विस्तरशो वद।। २२०.२०५ ।।

व्यास उवाच
यस्मै दद्यात्पिता श्राद्धं तस्मै दद्यात्सुतः स्वयम्।
एवं न हीयते धर्मो लौकिको वैदिकस्तथा।। २२०.२०६ ।।

मुनय ऊचुः
मृतः पिता जीवति च यस्य ब्रह्मन्पितामहः।
स हि श्राद्धं कथं कुर्यादेतत्त्वं वक्तुमर्हसि।। २२०.२०७ ।।

व्यास उवाच
पितुः पिण्डं प्रदद्याच्च भोजयेच्च पितामहम्।
प्रपितामहास्य पिण्डं वैह्यं शास्त्रेषु निर्णयः।। २२०.२०८ ।।

मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत्।
सपिण्डीकरणं नास्ति न च पार्वणमिष्यते।। २२०.२०९ ।।

आचारमाचरेद्यस्तु पितृमेधाश्रितं नरः।
आयुषा धनुपुत्रैश्च वर्धत्याशु न संशयः।। २२०.२१० ।।

पितृमेधाध्यायमिमं श्राद्धकालेषु यः पठेत्।
तदन्नमस्य पितरोऽश्नन्ति च त्रियुगं द्विजाः।। २२०.२११ ।।

एवं मयोक्तः पितृमेधकल्पः, पापापहः पुण्यविवर्धनश्च।
श्रोतव्य एष प्रयतैर्नरैश्च, श्राद्धेषु चैवाप्यनुकीर्तयेत।। २२०.२१२ ।।

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे श्राद्धकल्पनिरूपणं नाम विंशत्यधिकद्विशततमोऽध्यायः।। २२० ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें