नारदपुराणम्- पूर्वार्धः/अध्यायः ५०
सूत उवाच ।।
श्रुत्वा सनंदनस्येत्थं वचनं नारदो मुनिः ।।
असंतुष्ट इव प्राह भ्रातरं तं सनंदनम् ।। ५०-१ ।।
नारद उवाच ।।
भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया ।।
तथापि नात्मा प्रीयेत श्रृण्वन्हरिकथां मुहुः ।। ५०-२ ।।
श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् ।।
सिद्धिं सुमहतीं प्राप्तो निर्विण्णोऽवांतरं बहिः ।। ५०-३ ।।
ब्रह्मन्पुंसस्तु विज्ञानं महतां सेवनं विना ।।
न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ।। ५०-४ ।।
तस्य जन्मरहस्यं मे कमचाप्यस्य श्रृण्वते ।।
समाख्याहि महाभाग मोक्षशास्त्रार्थविद्भवान् ।। ५०-५ ।।
सनंदन उवाच ।।
श्रृणु विप्रप्रवक्ष्यामि शुकोत्पत्तिं समासतः ।।
यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ।। ५०-६ ।।
न हायनैर्न पलितैर्न वित्तेन न बंधुभिः ।।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।। ५०-७ ।।
नारद उवाच ।।
अनूचानः कथंब्रह्मन्पुमान्भवति मानद ।।
तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ।। ५०-८ ।।
सनंदन उवाच ।।
श्रृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् ।।
यज्ज्ञात्वा सांगवेदानामभिज्ञो जायते नरः ।। ५०-९ ।।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ।।
छंदःशास्त्रं षडेतानि वेदांगानि विदुर्बुधाः ।। ५०-१० ।।
ऋग्वेद्रोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ।।
वेदाश्चत्वार एवैते प्रोक्ता धर्मनिरूपणे ।। ५०-११ ।।
सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः ।।
सोऽनूचानः प्रभवति नान्यथा ग्रंथकोटिभिः ।। ५०-१२ ।।
नारद उवाच ।।
अंगानां लक्षणं ब्रूहि वेदानां चापि विस्तरात् ।।
त्वंमस्मासु महाविज्ञः सांगेष्वेतेषु मानद ।। ५०-१३ ।।
सनंदन उवाच ।।
प्रश्नभारोऽयमतुलस्त्वया मम कृतो द्विज ।।
संक्षेपात्कथयिष्यामि सारमेषां सुनिश्चितम् ।। ५०-१४ ।।
स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्दिजैः ।।
वेदानां वेदविद्भिस्तु तच्छृणुष्व वदामि ते ।। ५०-१५ ।।
आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् ।।
कृतांते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ।। ५०-१६ ।।
एकांतरः स्वरो ह्यप्सु गाथासुद्व्यंतरः स्वरः ।।
सामसु त्र्यंतरं विद्यादेतावत्स्वरतोऽन्तरम् ।। ५०-१७ ।।
ऋक्सामयजुरंगानि ये यज्ञेषु प्रयुंजते ।।
अविज्ञानाद्धि शिक्षायास्तेषां भवति विस्वरः ।। ५०-१८ ।।
मंत्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।।
स वाग्वज्रो यजमानं हिनस्ति यथेंद्रशत्रुः स्वरतोऽपराधात् ।। ५०-१९ ।।
उरः कंठः शिरश्चैव स्थानानि त्रीणि वाङ्मये ।।
सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम् ।। ५०-२० ।।
उरः सप्तविवारं स्यात्तथा कंठस्तथा शिरः ।।
न च शक्तोऽसि व्यक्तस्तु तथा प्रावचना विधिः ।। ५०-२१ ।।
कठकालापवृत्तेषु तैत्तिराह्वरकेषु च ।।
ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ।। ५०-२२ ।।
ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते ।।
उच्चमध्यमसंघातः स्वरो भवति पार्थिवः ।। ५०-२३ ।।
तृतीय प्रथमक्रुष्टा कुर्वंत्याह्वरकान् स्वरान् ।।
द्वितीयाद्यास्तु मद्रांतास्तैत्तिरीयाश्चतुःस्वरान् ।। ५०-२४ ।।
प्रथमश्च द्वितीयस्च तृतीयोऽथ चतुर्थकः ।।
मंद्रः क्रुष्टो मुनीश्वर एतान्कुर्वंति सामगाः ।। ५०-२५ ।।
द्वितीयप्रथमावेतौ नांडिभाल्लविनौ स्वरौ ।।
तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ।। ५०-२६ ।।
एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः ।।
इत्येतञ्चरितं सर्वं स्वराणां सार्ववैदिकम् ।। ५०-२७ ।।
सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा ।।
अल्पग्रंथं प्रभूतार्थं सामवेदांगमुत्तमम् ।। ५०-२८ ।।
तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् ।।
पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ।। ५०-२९ ।।
शिक्षामाहुर्द्विजातीनामृग्यजुः सामलक्षणम् ।।
सप्त स्वरास्रयो ग्रामा मृर्छनास्त्वेकविंशतिः ।। ५०-३० ।।
ताना एकोनपंचाशदित्येतस्स्वरमंडलम् ।।
षड्जश्च ऋषभश्चैव गांधारो मध्यमस्तथा ।। ५०-३१ ।।
पंचमो धैवतश्चैवं निषादः सप्तमः स्वरः ।।
षङ्जमध्यमगांधारास्ररयो ग्रामाः प्रकीर्तिताः ।। ५०-३२ ।।
भूर्ल्लोकाज्जायते षड्जो भुवर्लोकाञ्च मध्यमः ।।
स्वर्गाभ्राञ्चैव गांधारो ग्रामस्थानानि त्रीणि हि ।। ५०-३३ ।।
स्वराणां च विशेषेण ग्रामरागा इति स्मृताः ।।
विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश ।। ५०-३४ ।।
तानान्पं चदशेच्छंति गांधारे सामगायिनाम् ।।
नदी विशाला सुमुखी चित्रा चित्रवती मुखा ।। ५०-३५ ।।
बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः ।।
आप्यायिनी विश्वभृता चंद्रा हेमा कपर्दिनी ।। ५०-३६ ।।
मैत्री च बार्हती चैव पितॄणां सप्त मूर्छनाः ।।
षड्जे तूत्तरमंद्रा स्यादृषभे चाभिरूहता ।। ५०-३७ ।।
अश्वक्रांता तु गांधारे तृतीया मूर्च्छना स्मृता ।।
मध्यमे खलु सौवीरा हृषिका पंचमे स्वरे ।। ५०-३८ ।।
धैवते चापि विज्ञेया मूर्छना तूत्तरा मता ।।
निषादे रजनीं विद्यादृषीणां सप्त मूर्छनाः ।। ५०-३९ ।।
उपजीवंति गंधर्वा देवानां सप्त मूर्छनाः ।।
पितॄणां मूर्च्छानाः सप्त तथा यक्षा न संशयः ।। ५०-४० ।।
ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः ।।
षङ्जः प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ।। ५०-४१ ।।
पितॄन् प्रीणाति गांधारो गंधर्वान्मध्यमः स्वरः ।।
देवान्पितॄनृषींश्चैव स्वरः प्रीणाति पंचमः ।। ५०-४२ ।।
यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः ।।
गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ।। ५०-४३ ।।
रक्तं पूर्णमलंकृतं प्रसन्नं व्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम स्वरश्रुतिपूरणाच्छंदः पादाक्षरं संयोगात्पूर्णमित्युच्यते अलंकृतं नामोरसि शिरसि कंठयुक्तमित्यलंकृतं प्रसन्नं नामापगतागद्गदनिर्विशंकं प्रसन्नमित्युच्यते व्यक्तं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गस्वरलिंगं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोञ्चैरुञ्चारितं व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लेक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समं नामावापनिर्वापप्रदेशे प्रत्यंतरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरकुहगरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनीतललितपदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ।। १ ।।
भवन्ति चात्र श्लोकाः ।।
शंकितं भीषणं भीतमुद्धुष्टमनुनासिकम् ।।
काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ।। ५०-४४ ।।
विस्तरं विरसं चैव विश्लिष्टं विषमाहतम् ।।
व्याकुलं तालहीनं च गीतिदोषाश्चतुर्दश ।। ५०-४५ ।।
आचार्याः सममिच्छंति पदच्छेदं तु पंडिताः ।।
स्रियो मधुरमिच्छंति विक्रुष्टमितरे जनाः ।। ५०-४६ ।।
पद्मपत्रप्रभः षङ्ज ऋषभः शुकपिंजरः ।।
कनकाभस्तु गांधारो मध्यमः कुंदसन्निभः ।। ५०-४७ ।।
पंचमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः ।।
निषादः सर्ववर्णः स्यादित्येताः स्वरवर्णताः ।। ५०-४८ ।।
पचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः ।।
ऋषभो धैवतश्चापीत्येतौ वै क्षत्रियावुभौ ।। ५०-४९ ।।
गांधारश्च निषादश्च वैश्यावर्द्धेन वै स्मृतो ।।
शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ।। ५०-५० ।।
ऋषभो मूर्छितवर्जितो धैवतसहितश्च पंचमो यत्र ।।
निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात् ।। ५०-५१ ।।
यदि पंचमो विरमते गांधारश्चांतरस्वरो भवति ।।
ऋषभो निषादसहितस्तं पंचममीदृशं विद्यात् ।। ५०-५२ ।।
गांधारस्याधिपत्येन निषादस्य गतागतैः ।।
धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ।। ५०-५३ ।।
ईषत्पृष्टो निषादस्तु गांधारश्चाधिको भवेत् ।।
धैवतः कंपितो यत्र स षङ्गयाम ईरितः ।। ५०-५४ ।।
अंतरस्वरसंयुक्तः काकलिर्यत्र दृश्यते ।।
तं तु साधारितं विद्यात्पंचमस्थं तु कैशिकम् ।। ५०-५५ ।।
कैशिकं भावयित्वा तु स्वरैः सर्वैः समंततः ।।
यस्मा त्तु मध्यमे न्यासस्तस्मात्कैशिकमध्यमः ।। ५०-५६ ।।
काकलिर्दृश्यते यत्र प्राधान्यं पंचमस्य तु ।।
कश्यपः कैशिकं प्राह मध्यमग्रामसंभवम् ।। ५०-५७ ।।
गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् ।।
वेति वाद्यस्य संज्ञेयं गंधर्वस्य प्ररोचनम् ।। ५०-५८ ।।
यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।।
यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ।। ५०-५९ ।।
चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ।।
षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ।। ५०-६० ।।
षङ्जं मयूरो वदति गावो रंभंति चर्षभम् ।।
अजाविके तु गांधारं क्रौंचो वदति मध्यमम् ।। ५०-६१ ।।
पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् ।।
अश्वस्तु धैवतं वक्ति निषादं वक्ति कुंजरः ।। ५०-६२ ।।
कंठादुत्तिष्टते षङ्जः शिरसस्त्वृषभः स्मृतः ।।
गांधारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ।। ५०-६३ ।।
उरसः शिरसः कंठादुत्थितः पंचमः स्वरः ।।
ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ।। ५०-६४ ।।
नासा कंठमुरस्तालुजिह्वादन्तांश्च संश्रितः ।।
षङ्भिः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृतः ।। ५०-६५ ।।
वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ।।
नर्दत्यृषभवद्यस्मात्तस्मादृषेर्भ उच्यते ।। ५०-६६ ।।
वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ।।
वाति गंधवहः पुण्यो गांधारस्तेन हेतुना ।। ५०-६७ ।।
वायुः समुत्थितो नाभेरुरौ हृदि समाहतः ।।
नाभिप्राप्तो मध्यवर्ती मध्यमत्वं समश्नुते ।। ५०-६८ ।।
वायुः समुत्थितो नाभेरुरोहृत्कंठकाहतः ।।
पंचस्थानोत्थितस्यास्य पंचमत्वं विधीयते ।। ५०-६९ ।।
धैवतं च निषादं च वर्जयित्वा तु तावुभौ ।।
शेषान्पंच स्वरांस्त्वन्ये पंचस्थानोत्थितान्विदुः ।। ५०-७० ।।
पंचस्थानस्थितत्वेन सर्वस्थानानि धार्यते ।।
अग्निगीतस्वरः षङ्ज ऋषभो ब्रह्मणोच्यते ।। ५०-७१ ।।
सोमेन गीतो गांधारो विष्णुना मध्यमः स्वरः ।।
पंचमस्तु स्वरो गीतस्त्वयैवेति निधारय ।। ५०-७२ ।।
धैवतश्च निषादश्च गीतौ तुंबुरुणा स्वरौ ।।
आद्यंस्य दैवतं ब्रह्मा षङ्जस्याप्युच्यते बुधैः ।। ५०-७३ ।।
तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः ।।
गावः प्रणीते तुष्यंति गांधारस्तेन हेतुना ।। ५०-७४ ।।
श्रुत्वा चैवोपतिष्टंति सौरभेया न संशयः ।।
सोमस्तु पंचमस्यापि दैवतं ब्रह्मराद्रस्मृतम् ।। ५०-७५ ।।
निह्रासो यस्य वृद्धिश्च ग्राममासाद्य सोमवत् ।।
अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान् ।। ५०-७६ ।।
तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ।।
निषीदंति स्वरा यस्मान्निषादस्तेन हेतुना ।। ५०-७७ ।।
सर्वांश्चाभिभवत्येष यदादित्योऽस्य दैवतम् ।। ५०-७८ ।।
दारवी गात्रवीणा च द्वे वीणे गानजातिषु ।। ५०-७९ ।।
सामनी गात्रवीणा तु तस्यास्त्वं श्रृणु लक्षणम् ।।
गात्रवीणा तु सा प्रोक्ता यस्यां गायंति सामंगाः ।। ५०-८० ।।
स्वरव्यंजनसंयुक्ता अंगुल्यंगुष्टरंजिता ।।
हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरिस्थितौ ।। ५०-८१ ।।
गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् ।।
प्रणवं प्राक्प्रयुंजीत व्याहृतीस्तदनंतरम् ।। ५०-८२ ।।
सावित्रीं चानुवचनं ततो वै गानमारभेत् ।।
प्रसार्य चांगुलीः सर्वा रोपयेत्स्वरमंडलम् ।। ५०-८३ ।।
न चांगुलीभिरंगुष्टमंगुष्टेनागुलीः स्पृशेत् ।।
विरला नांगुलीः कुर्यान्मूले चैतां न संस्पृशेत् ।। ५०-८४ ।।
अंगुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत् ।।
मात्राद्विमात्रवृद्धानां विभागार्थे विभागवित् ।। ५०-८५ ।।
अंगुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् ।।
त्रिरेखा यस्य दृश्यते सिद्धिं तत्र विनिर्दिशेत् ।। ५०-८६ ।।
स पर्व इति विज्ञेयः शेषमंतरमंतरम् ।।
पर्वांतरं सामसु च ऋक्षु कुर्यात्तिलांतरम् ।। ५०-८७ ।।
स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् ।।
न चात्र कंपयेत्किंचिदंगस्यावयवं बुधः ।। ५०-८८ ।।
अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् ।।
अभ्रमध्ये यथा विद्युदृश्यते मणिसूत्रवत् ।। ५०-८९ ।।
पृषच्छेदविवृत्तीनां यथा बालेषुकर्तरी ।।
कूर्मोऽगानि च संहृत्य चेतोदृष्टिं दिशन्मनः ।। ५०-९० ।।
स्वस्थः प्रशांतो निर्भीको वर्णानुञ्चारयेद्बुधः ।।
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् ।। ५०-९१ ।।
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिंतयेत् ।।
सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ।। ५०-९२ ।।
यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् ।।
नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत् ।। ५०-९३ ।।
समं सामानि गायेत व्योम्नि स्वेन गातिर्यथा ।।
यथा सुचरतां मार्गो मीनानां नोपलभ्यते ।। ५०-९४ ।।
आकाशे वा विहंगानां तद्वत्स्वरगता श्रुतिः ।।
यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथाऽनलः ।। ५०-९५ ।।
प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः ।।
स्वरात्स्वरस्य संक्रामंस्वरसंधिमनुल्बणम् ।। ५०-९६ ।।
अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् ।।
अनागतमतिक्रांतं विच्छिन्नं विषमाहतम् ।। ५०-९७ ।।
तन्वंतमस्थितांतं च वर्जयेत्कर्षणं बुधः ।।
स्वरः स्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते ।। ५०-९८ ।।
विस्तरं सामगा ब्रूयुर्विरक्तमिति वीणिनः ।।
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ।। ५०-९९ ।।
शिष्यणामुपदेशार्थं कुर्याद्वृत्तिं विलंबिताम् ।।
गृहीतग्रंथ एवं तु ग्रंथोञ्चारणशैक्षकान् ।। ५०-१०० ।।
हस्ते नाध्यापयेच्छिष्यान् शैक्षेण विधिना द्विजः ।।
क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ।। ५०-१०१ ।।
भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः ।।
कंठस्थानं चतुर्थस्य मंद्रस्य रसनोच्यते ।। ५०-१०२ ।।
अतिस्वरस्य नीचस्य हृदि स्थानं विधीयते ।।
अंगुष्टस्योत्तमे व्रुष्टो ह्यंगुष्टं प्रथमः स्वरः ।। ५०-१०३ ।।
प्रदेशिन्यां तु गांधार ऋषभस्तदनंतरम् ।।
अनामिकायां षङ्गस्तु कनिष्टायां तु धैवतः ।। ५०-१०४ ।।
तस्याधस्ताञ्च योन्यास्तु निषादं तत्र निर्दिशेत् ।।
अपर्वत्वादमध्यत्वा दव्ययत्वाञ्च नित्यशः ।। ५०-१०५ ।।
मंद्रो हि मंदीभूतस्तु परिस्वार इति स्मृतः ।।
क्रुष्टेन देवा जीवंति प्रथमेन तु मानुषाः ।। ५०-१०६ ।।
पशवस्तु द्वितीयेन गंधर्वाप्सरसस्त्वनु ।।
अंधजाः पितरश्चैव चतुर्थस्वरजीविनः ।। ५०-१०७ ।।
मंद्रत्वेनोपजीवंति पिशाचासुरराक्षसाः ।।
अतिस्वरेण नीचेन जगत्स्थावरजंगमाः ।। ५०-१०८ ।।
सर्वाणि खलु भूतानि धार्यंते सामिकैः स्वरैः ।।
दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ।। ५०-१०९ ।।
श्रुतीनां यो विशेषज्ञो न स आचार्य उच्यते ।।
दीप्ता मंद्रे द्वितीय च प्रचतुर्थे तथैव च ।। ५०-११० ।।
अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः ।।
श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ।। ५०-१११ ।।
तासामपि तु वक्ष्यामि लक्षणानि पृथक् पृथक् ।।
आयतात्वं भवेन्नीचे मृदुता तु विपर्यये ।। ५०-११२ ।।
स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् ।।
द्वितीये विरता या तु क्रुष्टश्च परतो भवेत् ।। ५०-११३ ।।
दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः ।।
अत्रैव विरता या तु चतुर्थेन प्रवर्तते ।। ५०-११४ ।।
तथा मंद्रे भवेद्दीप्ता साम्नश्चैव समापने ।।
नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चांतरे ।। ५०-११५ ।।
तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके ।।
द्विविधा गतिः पदांतस्थितसंधिः सहोष्मभिः ।। ५०-११६ ।।
स्थानेषु पंचस्वेतेषु विज्ञेय घुटिसंज्ञकम् ।।
स्वरांतराविरतानि ह्रस्वदीर्घघुटानि च ।। ५०-११७ ।।
स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् ।।
दीप्तामुदात्ते जानीयाद्दीप्तां च स्वरिते विदुः ।। ५०-११८ ।।
अनुदात्ते मृदुर्ज्ञेया गंधर्वाः श्रुतिसंपदे ।।
उदात्तश्चानुदात्तश्च स्वरितप्रचिते तथा ।। ५०-११९ ।।
निघातश्चेति विज्ञेयः स्वरभेदश्च पंचधा ।।
अत ऊर्ध्वं प्रवक्ष्यामि आचिकस्य स्वरत्रयम् ।। ५०-१२० ।।
उदात्तश्चानुदात्तश्च तृतीयः स्वरितः स्वरः ।।
य एवोदात्त इत्युक्तः स एव स्वरितात्परः ।। ५०-१२१ ।।
प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरांतरम् ।।
वर्णस्वरोऽतीतस्वरः स्वरितो द्विविधः स्मृतः ।। ५०-१२२ ।।
मात्रिको वर्ण एवं तु दीर्घस्तूञ्चरितादनु ।।
स तु सप्तविधो ज्ञेयः स्वरः प्रत्ययदर्शनात् ।। ५०-१२३ ।।
पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः ।।
सप्तस्वरान्प्रयुंजीत दक्षिणं श्रवणं प्रति ।। ५०-१२४ ।।
आचार्यैर्विहितं शास्त्रं पुत्रशिष्यहितैषिभिः ।।
उच्चादुञ्चतरं नास्ति नीचान्नीचतरं तथा ।। ५०-१२५ ।।
वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते ।।
उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ।। ५०-१२६ ।।
तं स्वारं स्वारसंज्ञायां प्रतिजानंति शैक्षिकाः ।।
उदात्ते निषादगांधारावनुदात्तें ऋषभधैवतो ।। ५०-१२७ ।।
स्वरितप्रभवा ह्येते षङ्जमध्यमपंचमाः ।।
यत्र कखपरा ऊष्मा जिह्वामूलप्रयोजनाः ।। ५०-१२८ ।।
तानप्याज्ञापयेन्मात्राप्रकृत्यैव तु सा कला ।।
जात्यः क्षैप्रोऽभिनिहित स्तैरव्यंजन एव च ।। ५०-१२९ ।।
तिरोविरामः प्रश्लिष्टोऽपादवृत्तश्च सप्तमः ।।
स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम् ।। ५०-१३० ।।
उद्दिष्टानां तथा न्यायमुदाहरणमेव च ।।
सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत् ।। ५०-१३१ ।।
न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते ।।
इउवर्णो यदोदात्तावापद्येते पवौ क्वचित् ।। ५०-१३२ ।।
अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्य लक्षणम् ।।
एओ आभ्यामुदात्ताभ्यामकारो निहितश्च यः ।। ५०-१३३ ।।
अकारो यत्र लुंपति तमभिनिहितं विदुः ।।
उदात्तपूर्वे यत्किंचिच्छंदसि स्वरितं भवेत् ।। ५०-१३४ ।।
एष सर्वबहुस्वारस्तैरव्यंजन उच्यते ।।
अवग्रहात्परं यत्र स्वरितं स्यादनंतरम् ।। ५०-१३५ ।।
तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ।।
इकारं यत्र पश्येयुरिकारेणैव संयुतम् ।। ५०-१३६ ।।
उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय ।।
स्वरे चेत्स्वरितं यत्र विवृता यत्र संहिता ।। ५०-१३७ ।।
एतत्पादांतवृत्तस्य लक्षणं शास्त्रनोदितम् ।।
तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ।। ५०-१३८ ।।
ते मन्वताभिनितस्तैरव्यञ्जन ऊतये ।।
तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ।। ५०-१३९ ।।
पादवृत्तः कंदविदेस्वराः सप्तैवमादयः ।।
उञ्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम् ।। ५०-१४० ।।
स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते ।।
चत्वारस्त्वादितः स्वाराः कंषंपुंश्फुतिशास्त्रतः ।। ५०-१४१ ।।
उदात्ते चैकनीचे वा जुह्वोऽग्निस्तन्निदर्शनम् ।।
इकारांते पदे पूर्व उकारे परतः स्थिते ।। ५०-१४२ ।।
ह्रस्वं कंपं विजानीयान्मेधावी नात्र संशयः ।।
इकारांते पदे चैवोकारद्वयं परे पदे ।। ५०-१४३ ।।
दीर्घं कंपं विजानीयाच्छाग्धूष्विति निदर्शनम् ।।
त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै ।। ५०-१४४ ।।
मन्या यथा न इंद्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः ।।
अनेकानामुदात्तानामनुदात्तः प्रत्ययो यदि ।। ५०-१४५ ।।
शिवकंपं विजानीयादुदात्तः प्रत्ययो यदि ।।
यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ।। ५०-१४६ ।।
नीचं वोञ्चं च परतस्तत्रोदात्तं विदुर्बुधाः ।।
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित् ।। ५०-१४७ ।।
न च वर्गद्वितीयेषु न चतुर्थे कदाचन ।।
चतुर्थं तु तृतीयेन द्वितीयः प्रथमेन तु ।। ५०-१४८ ।।
आद्यमंत्यं च मध्यं च स्वाराक्षरेण पीडयेत् ।।
अनंत्यश्च भवेत्पूर्वो ह्यंतश्च परतो यदि ।। ५०-१४९ ।।
तत्र मध्ये यमस्तिष्ठेत्स्ववर्णः पूर्ववणयोः ।।
वर्गांत्यान् शषसैः सार्द्धमंतस्थैर्वापि संयुतान् ।। ५०-१५० ।।
दृष्ट्वा यमा निवर्तंते अदेशिकमिवाध्वगाः ।।
तृतीयश्च चतुर्थश्च चतुर्थादिपरं पदम् ।। ५०-१५१ ।।
द्वौ तृतीयौ हकारश्च हकारादिपरं पदम् ।।
अनुस्वारोपधामूला तान् क्वचित्क्रमतः परम् ।। ५०-१५२ ।।
रहपूर्वसंयुते चाप्युत्तरं क्रमतेऽक्षरम् ।।
संयोगो यत्र दृश्येत र्व्यंजनं विरते पदे ।। ५०-१५३ ।।
पूर्वांगमादितः कृत्वा परांगादौ निवेशयेत् ।।
संयोगे स्वरितं यत्र उद्वातः प्रतनं तथा ।। ५०-१५४ ।।
पूर्वांगं तद्विजानीयाद्येनारंभः परं हि तत् ।।
संयोगात्तु विजानीयात्परं संयोगनायकम् ।। ५०-१५५ ।।
संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् ।।
अनुस्वारः पदांतश्च क्रमजं प्रत्यये स्वके ।। ५०-१५६ ।।
स्वरभक्तिस्तथारेफः पूर्वपूर्वांगमुच्यते ।।
पादादौ चापादादौ संयोगावग्रहेषु च ।। ५०-१५७ ।।
यशब्द इति विज्ञेयो योऽन्यःसय इति स्मृतः ।।
पादादावप्यविच्छेदेसंयोगान्ते च तिष्टताम् ।। ५०-१५८ ।।
वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते ।।
स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वाराग्रिमः स्फुटः ।।
अणुशेषो ह्रिगो वापि युगलादिरविस्फुटः ।। ५०-१५९ ।।
यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति ।।
यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम् ।। ५०-१६० ।।
अग्निः सुतो मित्रमिदं तथा वयमयावहाः ।।
प्रियं दूतं घृतं चित्तमतिशब्दस्तु नीचतः ।। ५०-१६१ ।।
अक्वेष्वेव सुतेष्वेव यज्ञेषु कलशेषु च ।।
शतेषु सपवित्रेषु नीचादुञ्चार्यते श्रुतिः ।। ५०-१६२ ।।
हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः ।।
विश्वानरोनकारश्च शेषास्तुस्वरिता नराः ।। ५०-१६३ ।।
द्वौ वरुणौ वस्वरत उदुत्तमंत्वं वरुणधार चौरुधारामुरुधारेस्वदोहते ।।
मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् ।।
तस्यादितोऽर्द्धमात्रं वै शेषं तु परतो भवेत् ।।
अदीर्घं दीर्घवत्कुर्याद्द्विस्वरं यत्प्रयुज्यते ।। ५०-१६४ ।।
कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च ।।
निमेषकालो मात्रा स्याद्विद्युत्कालेति चापरे ।। ५०-१६५ ।।
ऋक्स्वरा तुल्ययोगा वा कैश्चिदेवमुदीर्यते ।। ५०-१६६ ।।
समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् ।।
येतीक्षरादिकरणं पदांतस्येति तं विदुः ।। ५०-१६७ ।।
(सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोरवग्राह्याः ।।
आदित्यविप्रजातवेदाश्च सत्पतिगोपतिवृत्रहासमुद्राश्च ।।
स्वरयुपुवोदेवयवश्चारितं देवतातपे ) चिकितिश्च धचैव नावगृह्णंति पंडिताः ।।
विवृतयश्चतस्रो वै विज्ञेया इति मे मतम् ।। ५०-१६८ ।।
अक्षराणां नियोगेन तासां नामानि मे श्रृणु ।।
ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ।। ५०-१६९ ।।
पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः ।।
चतसृणां विवृतीनामंतरं मात्रिकं भवेत् ।। ५०-१७० ।।
अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम् ।। ५०-१७१ ।।
आपद्यते मकारो रेफोष्मसु प्रत्ययेऽप्यनुस्वारम् ।।
पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम् ।। ५०-१७२ ।।
नकारांते पदा पूर्वे स्वरे च परतः स्थिते ।।
अकारं रक्तमित्याहुस्तकारेण तु रज्यते ।। ५०-१७३ ।।
नकारांते पदे पूर्वे व्यंजनैश्च यवोहिषु ।।
अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ।। ५०-१७४ ।।
नकारस्वरसंयुक्तश्चतुर्युक्तो विधीयते ।।
रेफो रंगश्च लोपश्च सानुस्वरोऽपि वा क्वचित् ।। ५०-१७५ ।।
हृदयादुत्तिष्टतेरंगः कांस्येन तु समन्वितः ।।
मृदुश्चैव द्विमात्रश्च दधन्वां इति निदर्शनम् ।। ५०-१७६ ।।
यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते ।।
एवं रंगः प्रयोक्तव्यो नारदैतन्मतं मम ।। ५०-१७७ ।।
स्वरा गडदबाश्चैव ङणनमाः सहोष्मभिः ।।
चतुर्णां पदजातीनां पदांता दश कीर्तिताः ।। ५०-१७८ ।।
स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च ।।
व्यंजना न तु वर्तन्ते यत्र तिष्टति स स्वरः ।। ५०-१७९ ।।
स्वरप्रधानं त्रैस्वर्यमाचार्याः प्रतिजानते ।।
मणिवद्व्यंजनं विद्यात्सूत्र वञ्च स्वरं विदुः ।। ५०-१८० ।।
दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः ।।
दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ।। ५०-१८१ ।।
उभावश्च विवृत्तिश्च शषसारेफ एव च ।।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ।। ५०-१८२ ।।
स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् ।।
विसर्गस्तत्र मंतव्यरतालव्यश्चात्र जायते ।। ५०-१८३ ।।
संध्यक्षरे परे संधौ प्राप्तसुप्तौ यवौ यदि ।।
व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ।। ५०-१८४ ।।
ऊष्मांतं विरते यत्र संभावो भवति क्वचित् ।।
विवृत्तिर्या भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत् ।। ५०-१८५ ।।
यद्योभावप्रसंधानमृकारादिपरं पदम् ।।
स्वरांतं तादृशं विद्याद्यदन्यव्द्यक्तमूष्मणः ।। ५०-१८६ ।।
प्रथमा उत्तमाश्चैव पदांतेषु यदि स्थिताः ।।
द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ।। ५०-१८७ ।।
प्रथमानूष्मसंयुक्तान् द्वितीयानिव दर्शयेत् ।।
न चैतान्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ।। ५०-१८८ ।।
छंदोमानं च वृत्तं च पादस्थानं त्रिकारणम् ।।
ऋचः स्वच्छंदवृत्तास्तु पादास्त्वक्षरमानतः ।। ५०-१८९ ।।
ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् ।।
प्रत्ययेत सहारेफमिमीते स्वरभक्तया ।। ५०-१९० ।।
ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत ।।
विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ।। ५०-१९१ ।।
ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते ।।
गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम् ।। ५०-१९२ ।।
ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च ।।
निर्ऋतिपंचमा ह्यत्र ऋकारा नात्र संशयः ।। ५०-१९३ ।।
शषसह रादौ रेफः स्परभक्तिर्जायते द्विपदसंधौ ।।
इउवर्णाभ्यां हीना क्वचिदेकपदाक्रमवियुक्ता ।। ५०-१९४ ।।
स्वरभक्तिर्द्विधा प्रोक्ताऋकारे रेफ एव च ।।
स्वरोदा व्यञ्जनोदा च विहिताक्षरचिंतकैः ।। ५०-१९५ ।।
शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् ।।
शषसेषु विवृतां तु हकारे संवृतां विदुः ।। ५०-१९६ ।।
स्वरभक्तिं प्रयुंजान स्रीन्दोषान्परिवर्जयेत् ।।
इकारं चाप्युकारं ग्रस्तदोषं तथैव च ।। ५०-१९७ ।।
संयोगपरं छपरं विसर्जनीयं द्विमात्रकं चैव ।।
अथ सान्तिक च नङ्मसानुस्वारं घुटतं च ।। ५०-१९८ ।।
यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयोऽपि ।।
अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः ।।
यस्या लक्षणमुक्तं या त्वन्या सा स्मृता विपुला ।। ५०-१९९ ।।
अक्षराणां लघुह्रस्वमसंयोगपरं यदि ।।
तत्संयोगोत्तरं विद्याद्गुरुदार्घाक्षराणि तु ।। ५०-२०० ।।
विवृत्तिर्यत्र दृश्यते स्वारस्यैवाग्रतः स्थितः ।। ५०-२०१ ।।
गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ।।अ
अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम् ।। ५०-२०२ ।।
अंतोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।।
मध्योदात्तं स्वरितं द्विरुदात्तमित्येता अष्टौ पदसंज्ञाः ।। ५०-२०३ ।।
अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः ।।
अंतर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विर्न्नीचमाख्यात इति स्वरितात्पराणि
यानि स्युर्द्धारापक्षराणि तु ।।
सर्वाणि प्रचयस्थान्युपोदात्तं निहन्यते ।। ५०-२०४ ।।
प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः ।।
स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् ।। ५०-२०५ ।।
पंचविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा ।।
अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारणा यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते
प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् ।। ५०-२०६ ।।
तुंबुरुभवद्विशिष्टविश्वावस्वादयश्च गंधर्वाः ।।
सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ।। ५०-२०७ ।।
कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् ।।
जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिंतयेत् ।। ५०-२०८ ।।
शरद्विषुवतोतीतादुषस्युत्थानमिष्यते ।।
यावद्वासंतिकी रात्रिर्मध्यमा पर्युपस्थिता ।। ५०-२०९ ।।
आम्रपालाशबिल्वानामपामार्गशिरीषयोः ।।
वाग्यतः प्रातरुत्थाय भक्षयेद्द्वतधावनम् ।। ५०-२१० ।।
खादिरश्च कदम्बश्च करवीरकरंजयोः ।।
सर्वे कंटकिनः पुण्याः क्षीरिणश्च यशस्विनः ।। ५०-२११ ।।
तेनास्य करणे सौक्ष्म्यं माधुर्यं चोप जायते ।।
वर्णांश्च कुरुते सम्यक्प्राचीनौदवतिर्यथा ।। ५०-२१२ ।।
त्रिफलां लवणाख्येन भक्षयेच्छिष्यकः सदा ।।
अग्निमेधाजनन्येषा स्वरवर्णकरी तथा ।। ५०-२१३ ।।
कृत्वा चावश्यकान्धर्माञ्जाठरं पर्युपास्य च ।।
पीत्वा मधुं घृतं चैव शुचिर्भूत्वा ततो वदेत् ।। ५०-२१४ ।।
मंद्रेणोपक्रमेत्पूर्वं सर्वशाखास्वयं विधिः ।।
सप्तमंत्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ।। ५०-२१५ ।।
न तां समीरयेद्वाचं न प्राणमुपरोधयेत् ।।
प्राणानामुपरोधेन वैस्वर्यं चोपजायते ।।
स्वरव्यंडजनमाधुर्यं लुप्यते नात्र संशयः ।। ५०-२१६ ।।
कुतीर्थादागतं दग्धमपवर्णैश्च भक्षितम् ।। ५०-२१७ ।।
न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्बिषात् ।। ५०-२१७ ।।
सुतीर्थादागतं जग्धुं स्वाम्नातं सुप्रतिष्टितम् ।।
सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ।। ५०-२१८ ।।
न तकालो न लंबोष्टो न च सर्वानुनासिकः ।। ५०-२१८ ।।
गद्गदो बद्धजिह्वश्च प्रयोगान्वक्तुमर्हति ।। ५०-२१९ ।।
एकचित्तो निरुद्धांतः स्नातो गानविवर्ज्जितः ।।
स तु वर्णान्प्रयुंजीत देतोष्ठं यस्य शोभनम् ।। ५०-२२० ।।
पञ्चविद्यां न गृह्णंति चंडा स्तब्धाश्च ये नराः ।।
अलसाश्च सरोगाश्च येषां च विसृतं मनः ।। ५०-२२१ ।।
शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः ।।
शनैरध्वसु वर्तेत योजनान्न परं व्रजेत् ।। ५०-२२२ ।।
योजनानां सहस्त्रं तु शनैर्याति पिपीलिका ।।
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ।। ५०-२२३ ।।
नहि पापहता वाणी प्रयोगान्वक्तुमर्हति ।।
बधिरस्येव जल्पस्य विदग्धा वामलोचना ।। ५०-२२४ ।।
उपांशुचरितं चैव योऽधीते वित्रसन्निव ।।
अपि रूपसहस्रेषु संदेहेष्वेव वर्तते ।। ५०-२२५ ।।
पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ।।
राजते न सभामध्येजारगर्भेव कामिनी ।। ५०-२२६ ।।
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् ।।
अवंध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ।। ५०-२२७ ।।
यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ।।
न तत्र बलसामर्थ्यमुद्योगस्गतत्र कारणम् ।। ५०-२२८ ।।
सहस्रगुणिता विद्या शतशः परिकीर्तिता ।।
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् ।। ५०-२२९ ।।
हयनामिव जात्यानामर्द्धरात्रार्द्धशायिनाम् ।।
नहि वाद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्टति ।। ५०-२३० ।।
न भोजनबिलंवी स्यान्न च नारीनिवंधनः ।।
समुद्रमपि विद्यार्थी व्रजेद्गरुडहंसवत् ।। ५०-२३१ ।।
अहिरिव गणाद्भितः साहित्यान्नरकादिव ।।
राक्षसीभ्य इव स्रिभ्यः स विद्यामधिगच्छति ।। ५०-२३२ ।।
न शठाः प्रान्पुवन्त्यर्थान्न क्लिबा न च मानिनः ।।
न च लोकरवा दीना न च स्वस्वप्रतीक्षकाः ।। ५०-२३३ ।।
यथा खननन्खनित्रेण भूपलं वारि विंदति ।।
एवं गुरुगतां विद्यां शूश्रूषुरधिगच्छति ।। ५०-२३४ ।।
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।।
अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ।। ५०-२३५ ।।
शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति ।।
वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ।। ५०-२३६ ।।
इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रंथं मया तव ।।
ज्ञात्वा वेदांगमाद्यं तु ब्रह्मभूयाय कल्पते ।। ५०-२३७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें