श्री-ब्रह्मसंहिता-

 "जीव-गोस्वामि-कृत-दिग्दर्शनी-टीका-सहिता"



  • ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः। अनादिरादिर्गोविन्दः सर्व-कारण-कारणम् ॥१॥

 


  • ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः। अनादिरादिर्गोविन्दः सर्व-कारण-कारणम् ॥१॥
  •  सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः ।श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥
  • श्री-कृष्ण-रूप-महिमा मम चित्ते महीयताम् ।यस्य प्रसादाद् व्याकर्तुम् इच्छामि ब्रह्म-संहिताम् ॥
  • दुर्योजनापि युक्तार्था सुविचाराद् ऋषि-स्मृतिः ।विचारे तु ममात्र स्याद् ऋषीणां स ऋषिर् गतिः ॥
  • यद्यप्य् अध्याय-शत-युक् संहिता सा तथाप्य् असौ ।अध्यायः सूत्र-रूपत्वात् तस्याः सर्वाङ्गतां गतः ॥
  • श्रीमद्-भागवताद्येषु दृष्टः यन् मृष्ट-बुद्धिभिः । तद् एवात्र परामृष्टं ततो हृष्टं मनो मम ॥
  • यद् यच् छ्री-कृष्ण-सन्दर्भे विस्ताराद् विनिरूपितम् ।अत्र तत् पुनर् आमृश्य व्याख्यातुं स्पृश्यते मया ॥
  • अथ श्रीमद्-भागवते यद् उक्तं एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भागवत पुराण। १.३.२८] इति तद् एव प्रथमम् आह—ईश्वर इति ।
  •  अत्र कृष्ण इत्य् एव विशेष्य तन्-नामैव । कृष्णावतारोत्सव [भा।पु। १०.३.११] इत्य्-आदौ श्री-शुकादि-महाजन-प्रसिद्ध्या, कृष्णाय वासुदेवाय देवकी-नन्दनाय इत्य्-आदौ सामोपनिषदि च । प्रथम-प्रतीतत्वेन तन्-नाम-वर्गाविर्भाव-कृता गर्गेण प्रथमम् उद्दिष्टत्वेन तथा यं मन्त्रम् अधिकृत्य सोऽयम् आरम्भः, तत्राग्रतः परिचितत्वेन मूल-रूपत्वात् । तद् उक्तं पद्म-पुराणे प्रभास-खण्डे1 नारद-कुशध्वज-संवादे श्री-भगवद्-उक्तौ—नाम्नां मुख्यतमं नाम कृष्णाख्यं मे परन्तप इति ।

अत एव ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे—

सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥

इत्य् अत्र श्री-कृष्णस्येत्य् एवोक्तं यत् त्व् अग्रे गोविन्द-नाम्ना स्तोष्यते तत् खलु कृष्णत्वेऽपि तस्य गवेन्द्रत्व-वैशिष्ट्य-दर्शनार्थम् एव ।

तद् एवं रूढित्वेन प्राधान्यात् तस्येश्वर इत्य्-आदीनि विशेषणानि । अथ गुण-द्वारापि तद् दृश्यते । यथाह गर्गः—

आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनूः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ [भा।पु। १०.८.१३-१४]

अनयोर् अर्थः । अस्य कृष्णत्वेन दृश्यमानस्य प्रति-युगं तनूर् नानावतारान् गृह्णतः प्रकाश्यतः शुक्लादयस् त्रयो आसन् प्रकाशम् अवापुः । स च स च शुक्लादिर् अवतार इदानीं साक्षाद् अस्यावतार-समये कृष्णतां गत एतस्मिन्न् एवान्तर्भूतः । अत एव कृष्णे कर्तृत्वात् सर्वोत्कर्षकत्वात् कृष्ण इति मुख्यं नाम ।

तस्माद् अस्यैव तानि रूपाणीत्य् आह—बहूनीति । तद् एवं गुण-द्वारा तन्-नाम्नि प्राधान्य-सूचकस्य कृष्णस्य तन्-नाम्नः प्राधान्ये लब्धे—

कृषिर् भूर्-वाचकः शब्दो णश् च निर्वृति-वाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥

इति योग-वृत्तित्वे तस्य तादृशत्वं लभ्यते । न चेदं पद्यम् अन्य-परम् । तद्-उपासना-तन्त्र-गौतमीय-तन्त्रेऽष्टादशाक्षर-व्याख्यायां तद् एतत् तुल्यं पद्यं दृश्यते—

कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः ।
सुख-रूपो भवेद् आत्मा भावानन्द-मयत्वतः ॥ इति ।

तस्माद् अयम् अर्थः—भवन्त्य् अस्मात् सर्वेऽर्था इति भूर्-धात्व्-अर्थ उच्यते । भाव-शब्दवत् स चात्र कर्षतेर् एवार्थस् तस्यैव प्राप्तत्वात् । गौतमीये भू-शब्दस्य सत्ता-वाचकत्वेऽपि तद्-धात्व्-अर्थ-सत्तैवोच्यते । घटत्वं सत्ता-वाचकम् इत्य् उक्ते घट-सत्तैव गम्यते, न तु पट-सत्ता न वा सामान्य-सत्तेति ।

अथ निर्वृतिर् आनन्दस् तयोर् ऐक्यं सामानाधिकरण्येन व्यक्तं यत् _परं ब्रह्म _सर्वतोऽपि सर्वस्यापि बृंहणं वस्तु तद् बृहत्तमं कृष्ण इत्य् अभिधीयते, किन्तु कृषेर् आकर्ष-मात्रार्थत्वेन ण-शब्दस्य च प्रतिपाद्येनानन्देन सह सामानाधिकरण्यासम्भवाद् धेतु-हेतुमतोर् अभेदोपचारः कार्यः । तच् चाकर्ष-प्राचुर्यार्थम् “आयुर् घृतम्” इतिवत् । ब्रह्म-शब्दस्य तत्-तद्-अर्थत्वं च बृहत्त्वाद् बृंहणत्वाच् च तद् ब्रह्म परमं विदुर् [वि।पु। १.१२.५७] इति विष्णु-पुराणात् ।

एवम् एवोक्तं बृहद्-गौतमीये —

कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः ।
सत्ता-स्वानन्दयोर् योगाच् चित् परं ब्रह्म चोच्यते ॥ इति ।

अद्वय-वादिभिर् अपि सत्तानन्दयोर् ऐक्यं तथा मन्तव्यम्, शाब्दिकैर् भिन्नाभिधेयत्वेन प्रतीतेः । सत्ता-शब्देन चात्र सर्वेषां सतां प्रवृत्ति-हेतुर् यत् परमं स तद् एवोच्यते, सद् एव सौम्येदम् अग्र आसीद् [छा।उ। ६.२.१] इति श्रुतेः । अभिन्नाभिधेयत्वेऽपि वृक्षस् तरुर् इतिवद् विशेषण-विशेष्यत्वायोगाद् एकस्य वैयर्थ्याच् च । गौतमीयं पद्यं चैवं व्याख्येयम् । पूर्वार्धे सर्वाकर्षण-शक्ति-विशिष्ट आनन्दः कृष्ण इत्य् अर्थः । उत्तरार्धे यस्माद् एवं सर्वाकर्षक-सुख-रूपोऽसौ, तस्माद् आत्मा जीवश् च तत्र सुख-रूपो भवेत् । तत्र हेतु-भावः प्रेमा तन्मयानन्दत्वाद् इति ।

तद् एवं स्वरूप-गुणाभ्यां परम-बृहत्तमः सर्वाकर्षक आनन्दः कृष्ण-शब्द-वाच्य इति ज्ञेयम् 

स च शब्दः श्री-देवकीनन्दन एव रूढः । अस्यैव सर्वानन्दकत्वं वासुदेवोपनिषदि दृष्टम्—देवकी-नन्दनो निखिलम् आनन्दयद् इति । आहुश् च नाम-कौमुदी-काराः—कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि श्री-यशोदा-स्तनन्धये पर-ब्रह्मणि रूढिः इति । ततश् चासौ शब्दो नान्यत्र सङ्क्रमणीयः । यथाह भट्टः—

लब्धात्मिका सती रूढिर् भवेद् योगापहारिणी ।
कल्पनीया तु लभन्ते नात्मानं योग-बाधतः ॥ इति ।

पर-ब्रह्मत्वं च श्रीमद्-भागवते—गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१५.५८] इति, यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् इति [भा।पु। १०.१४.३२] । श्री-विष्णु-पुराणे—यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति [वि।पु। ४.११.२] इति । श्री-गीतासु च—ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति । श्री-गोपाल-तापनीषु च—योऽसौ परं ब्रह्म गोपालः [गो।ता।उ। २.९०] इति ।

अथ मूलम् अनुसरामः । यस्माद् एव तादृक् कृष्ण-शब्द-वाच्यस् तस्माद् ईश्वरः सर्व-वशायिता । तद् इदम् उपलक्षितं बृहद्-गौतमीये कृष्ण-शब्दस्यैवार्थान्तरेण ।

अथवा कर्षयेत् सर्वं जगत् स्थावर-जङ्गमम् ।
काल-रूपेण भगवान् तेनायं कृष्ण उच्यते ॥ इति ।

कलयति नियमयति सर्वम् इति काल-शब्दार्थः । तथा च तृतीये तम् उद्दिश्योद्धवस्य पूर्ण एव निर्णयः ।

स्वयं त्व् असाम्यातिशयस् त्र्य्-अधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।

बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोट्य्-एडित-पाद-पीठः ॥ [भा।पु। ३.२.२१] इति ।

श्री-गीतासु विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति । श्री-गोपाल-तापन्याम्—एको वशी सर्वगः कृष्ण ईड्यः [गो।ता।उ। १.१९] इति । यस्माद् एव तादृगीश्वरः, तस्मात् परमः । सर्वोत्कृष्टा मा लक्ष्मी-रूपाः शक्तयो यस्मिन् । तद् उक्तं श्री-भागवते—रेमे रमाभिर् निज-काम-सम्प्लुतः [भा।पु। १०.५९.४३] इति । नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भा।पु। १०.४७.६०] इत्यादि । तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भा।पु। १०.३३.६] इति । ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यरोचताधिकम् [भा।पु। १०.३२.२०] इति च । अत्रैवाग्रे वक्ष्यते—श्रियः कान्ताः कान्तः परम-पुरुषः [ब्रह्मस् ५.५६] इति । तापन्यां च—कृष्णो वै परमं दैवतम् [गो।ता।उ। १.३] इति । यस्माद् एव तादृक् परमस् तस्माद् आदिश् च । तद् उक्तं श्री-दशमे—

श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः ।
आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ [भा।पु। १०.७२.१५] इति ।

टीका च स्वामि-पादानाम्—आद्यो हरिः श्री-कृष्ण इत्य् एषा । एकादशे तु तस्य श्रेष्ठत्वम् आद्यत्वं च युगपद् आह—पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतोऽस्मि [भा।पु। ११.२९.४९] इति ।

न चैतद् आदित्वं तद्-अवतारापेक्षं किन्त्व् अनादि न विद्यते आदिर् यस्य तादृशः । तापन्यां च—एको वशी सर्वगः कृष्ण ईड्यः इत्य् उक्त्वाह नित्यो नित्यानाम् इति च यस्माद् एव तादृशतया आदिस् तस्मात् सर्व-कारण-कारणम् । तथा च दशमे तं प्रति देवकी-वाक्यम्—

यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।
भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ [भा।पु। १०.८५.३१] इति ।

टीका च—यस्यांशः पुरुषस् तस्यांशो माया तस्या अंशा गुणास् तेषां भागेन परमाणु-मात्र-लेशेन विश्वोत्पत्त्य्-आदयो भवन्ति । तं त्वा त्वां गतिं शरणं गतास्मि इत्य् एषा ।

तथा च ब्रह्म-स्तुतौ—नारायणोऽङ्ग नर-भू-जलायनात् [भा।पु। १०.१४.३] इति ।

नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः ।
तस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः ॥

इत्य् अनेन लक्षितो यो नारायणः स तवाङ्गं त्वं पुनर् अङ्गीत्य् अर्थः । श्री-गीतासु विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [१०.४२] इति । तद् एवं कृष्ण-शब्दस्य यौगिकार्थोऽपि साधितः ।

ये च तच्-छब्देन कृषि-णाभ्यां परमानन्द-मात्रं वाचयन्ति तेऽपीश्वरादि-विशेषणैस् तत्र स्वाभाविकी-शक्तिं मन्येरन् । तस्मिन् न द्वितीयत्वेन सर्व-कारणत्वेन च वस्त्व्-अन्तर-शक्तिं मन्येरन् । तस्मिन् न द्वितीयत्वेन सर्व-कारणत्वेन च वस्त्व्-अन्तर-शक्त्य्-आरोपायोगात् । तथा च श्रुतिः—आनन्दो ब्रह्म इति । को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् । आनन्दाद् धीमानि भूतानि जायन्ते । [तै।उ। २.७.१]

न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।

परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] इति ।

ननु स्व-मते योग-वृत्तौ च सर्वाकर्षकं परम-बृहत्तमानन्दः कृष्ण इत्य् अभिधानाद् अविग्रह एव स इत्य् अवगम्यते आनन्दस्य विग्रहानवगमात् । सत्यम् । किन्त्व् अयं परमोऽपूर्वः पूर्व-सिद्धानन्द-विग्रह इति । सच्-चिद्-आनन्द-लक्षणो यो विग्रहस् तद्-रूप एवेत्य् अर्थः । तथा च श्री-दशमे ब्रह्मणः स्तवे त्वय्य् एव नित्य-सुख-बोध-तनाव् इति । तापनी-हयशीर्षयोर् अपि—सच्-चिद्-आननद-रूपाय कृष्णायाक्लिष्ट-कारिणे इति । ब्रह्माण्डे च श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे नन्द-व्रज-जनानन्दी सच्-चिद्-आनन्द-विग्रहः इति ।

एतद् उक्तं भवति । सत्त्वं खल्व् अव्यभिचारित्वम् उच्यते तद्-रूपत्वं च तस्य श्री-दशमे ब्रह्मादि-वाक्ये—

सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ [म।भा। ५.६८.१२] इति ।

श्री-देवकी-वाक्ये च—

नष्टे लोके द्वि-परार्धावसाने
महा-भूतेष्व् आदि-भूतं गतेषु ।

व्यक्तेऽव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यतेऽशेष-संज्ञः ॥ [भा।पु। १०.३.२५]

मर्त्यो मृत्यु-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं नाद्यगच्छत् ।

तत्-पादाब्जं प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युर् अस्माद् अपैति ॥ [भा।पु। १०.३.२४] इत्य् आदि ।

एकोऽसि प्रथमम् [भा।पु। १०.१४.१८] इत्य् आदि श्री-ब्रह्मणो वाक्ये तद् अमितं ब्रह्माद्वयं शिष्यते इति । श्री-गीतासु ब्रह्मणो हि प्रतिष्ठाहम् [१४.२७] इति ।

यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [१५.१८] इति ।

तापन्याम्—

जन्म-जराभ्यां भिन्नः स्थानुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति । योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति गोविन्दान् मृत्युर् बिभेति ॥ [गो।ता।उ। २.२३] इत्य् आदि च ।

तत्र पूर्वत्र सौर्य इति । सौरी यमुना, तद् अदूर-देशे वृन्दावने इत्य् अर्थः ।

अथ चिद्-रूपत्वं स्व-प्रकाशत्वेन पर-प्रकाशत्वम् । तच् चोक्तं श्री-दशमे ब्रह्मणा एकस् त्वम् आत्मा इत्य् आदौ स्वयं ज्योतीर् इति । तापन्यां—

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास् तस्मै गोपायति स्म कृष्णः ।

तं ह दैवम् आत्मबुद्धिप्रकाशं
मुमुक्षुर् वै शरणम् अनुव्रजेत ॥ [गो।ता।उ। १.२६] इति ।

न चक्षुषा पश्यति रूपम् अस्य
यम् एवैष वृणुते तेन लभ्यस्

तस्यैष आत्मा वृणुते तनुं स्वाम् ॥ इत्य् श्रुत्य्-अन्तरवत् ।

यथानन्द-स्वरूपत्वं सर्वांशेन निरुपाधि-परम-प्रेमास्पदत्वम् । तच् च श्री-दशमे ब्रह्म-स्तवान्ते—ब्रह्मन् परोद्भवे कृष्णे [भा।पु। १०.१४.४९] इत्य्-आदि-प्रश्नोत्तरयोर् व्यक्तम् । तथा चानुभूतम् आनकदुन्दुभिना—

विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः
केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् ॥ [भा।पु। १०.३.१३] इति ।

आनन्दं ब्रह्मणो रूपं इति श्रुत्य्-अन्तरवत् ।

तद् एवं तस्य सच्-चिद्-आनन्द-विग्रह-रूपत्वे सिद्धे, विग्रह एवात्मा तथात्मैव विग्रह इति सिद्धम् । ततो जीववद् देहित्वं तस्य नेत्य् अपि सिद्धान्तितम् । यथोक्तं श्री-शुकेन—

कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ [भा।पु। १०.१४.५५] इति ।

तथापि तस्य देहिवल्-लीला-कृपा-परवशतयैवेत्य् अर्थः । माया दम्भे कृपायां च इति विश्व-प्रकाशः । तद् एवम् अस्य तथा तथा-लक्षण-श्री-कृष्ण-रूप्तवे सिद्धे चोभय-लीलाभिनिविष्टत्वेन क्वचिद् वृष्णीन्द्रत्वं क्वचिद् गोविन्दत्वं च दृश्यते । तथाह द्वादशे श्री-सूतः—

श्री-कृष्ण-कृष्ण-सख-वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग्य-वीर्य ।

गोविन्द गोप-वनिता-व्रज-भृत्य-गीत-
तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ [भा।पु। १२.११.२५] इति ।

तद् एवम् अपि स्वाभीष्ट-रूप-लीला-परिकर-विशिष्टतया गोविन्दत्वम् एव स्वाराध्यत्वेन योजयति गोविन्द इति । यथा अत्रैवाग्रे स्तोष्यते चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष इति । अभिषेकान्ते गोविन्द इति चाभ्यधात् [भा।पु। १०.२७.२३] इत्य् उक्त्वा तत् प्रकरणारम्भे श्री-शुक-प्रार्थना प्रीयान् न इन्द्रो गवाम् [भा।पु। १०.२६.२५] इति गवां सर्वाश्रयत्वाद् गवेन्द्रत्वेनैव सर्वेन्द्रत्व-सिद्धेः । न चेदं न्यूनं मन्तव्यम् । तथा हि गो-सूक्तम्—

गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः ।
गोभिर् वेदाः समुद्गीर्णाः षड्-अङ्ग-पदक-क्रमाः ॥ इति ।

अस्तु तावत् परम-गोलोकावतीर्णानां तासां गवाम् इन्द्रत्वम् इति तापनीषु च ब्रह्मणा तदीयम् एव स्वेनाराधनं प्रकाशितम्—गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं समरुद्-गणोऽहं तोषयामि । [गो।ता।उ। १.३७] इति ।

तथैव दशमे—तद् भूरि भाग्यम् इह जन्म किम् अप्य् अटव्याम् [भा।पु। १०.१४.३४] इत्य् आदि, श्री-नन्द-नन्दनत्वेनैव च तं लब्धुं प्रार्थना । नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय इत्य् आदि पशुपाङ्गजाय [भा।पु। १०.१४.१] इति ।

तद् एवं गोविन्द-शब्दस्य नाना-पारमैश्वर्य-मय्य् अन्यार्थतापि तेन नाभिमता । तथा चोक्तं—ईश्वरत्वे परमेश्वरत्वानुवाद-पूर्वक-तात्पर्यावसानतया गौतमीय-तन्त्रे श्रीमद्-दशाक्षर-मन्त्रार्थ-कथने—

गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः ।
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।

सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥
अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् ।

अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥
कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥

अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति ।

प्रकृतिम् इति मायाख्यां जगत्-कारण-शक्तिम् इत्य् अर्थः । तत्त्व-समूहको महद्-आदि-रूपः । अनयोर् आश्रयः सान्द्रानन्दं परं ज्योतिर् ईश्वरो वल्लभ-शब्देन कथ्यते । ईश्वरत्वे हेतुर्—व्याप्त्या कारणत्वेन चेति ।

प्रकृतिर् इति स्वरूप-भूता मायातीता वैकुण्ठादौ प्रकाशमाना महा-लक्ष्म्य्-आख्या शक्तिर् इत्य् अर्थः । अंश-मण्डलं सङ्कर्षणादि-रूपम् ।

अनेक-जन्म-सिद्धानाम् इत्य् अत्र । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता ४.५] इति श्री-भगवद्-गीता-वचनाम् अनादि-जन्म-परम्परायाम् एव तात्पर्यम् ।

तद् एवम् अत्रापि नन्द-नन्दनत्वम् एवाभिमतं, श्री-गर्गेण च यथोक्तम्—प्राग् अयं वासुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इति । आत्मजत्वं हि तस्य श्री-वसुदेवस्यापि मनस्य् आविर्भूतत्वम् एवाभिमतम् । आविवेशांश-भागेन मन आनकदुन्दुभेः [भा।पु। १०.२.१६] इति । श्री-देवक्याम् अपि दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः [भा।पु। १०.२.१८] इत्य्-आदेः ।

श्री-व्रजेश्वरयोर् अपि तथासीद् एव, फलेन फल-कारणम् अनुमीयते । श्री-भगवत्-प्रादुर्भावस्य पूर्वाव्यवहित-कालं व्याप्य तथा तथा सर्वत्र दर्शनात् । किन्त्व् आत्मनि तस्याविर्भावे सत्य् अप्य् आत्मजत्वाय पितृ-भाव-मय-शुद्ध-महा-प्रेमैव प्रयोजकम् । ब्रह्मणः सकाशाद् वराह-देवस्याविर्भावेऽपि परस्परं तथा भाव-दर्शनाभावात्, तथा नृसिंह-देवः स्तम्भयोर् अपि । न च वक्तव्यम् उदर-प्रवेशे सति पुत्रत्वं स्यात् । परीक्षिद्-रक्षणार्थं तन्-मातुर् उदर-प्रविष्टे च तयोस् तादृश-व्यवहाराभावात् । तस्माद् वात्सल्याभिध-प्रेमैव पुत्रत्वे कारणम् । तादृश-शुद्ध-प्रेमा तु श्री-व्रजेश्वरयोर् एव श्री-वसुदेव-देवक्योस् तु परमैश्वर्य-ज्ञानं प्रतिबन्धकं इति साधूक्तं—प्राग् अयं वसुदेवस्य इति ।

अथ श्री-शुकदेवेन तथैव निर्णीतं—नायं सुखापो भगवान् देहिनां गोपिका-सुतः [भा।पु। १०.९.२१] इति । आगम-विद्भिर् अपि सकल-लोक-मङ्गलो नन्द-गोप-तनयो देवता इति । अतः श्रीमद्-दशाक्षर-विनियोगेऽपि तन्-मय एव दृश्यते इति । अथ विशेषः श्री-वैष्णव-तोषण्यां, नन्दस् त्व् आत्मज उत्पन्नः [भा।पु। १०.५.१] इत्य् आदौ द्रष्टव्यः ।

बलदेवः - तम् उदाहरति—ईश्वर इति** । **कृष्ण इति विशेष्यं, तम् आदाय शास्त्रस्य प्रवृत्तत्वात् । स च यशोदा-स्तनन्धयो रूढार्थोऽत्र ग्राह्यः, न तु सत्ताभिन्नानन्दो योगार्थोऽपि, रूढिर् योगम् अपहरति इति न्यायात् । एवम् उक्तं भट्टैः—

लब्धात्मिका सती रूढिर् भवेद्-योगापहारिणी** । **
कल्पनीया तु लभते नात्मानं योगबाधतः ॥ इति ।

नाम-कौमुदी-कृद्भिश् च—कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदा-स्तनन्धये पर-ब्रह्मणि रूढिः इति योगार्थस्यान्यतो लाभाच् च** । परम ईश्वर** इति विशेषणाभ्याम् अनन्यापेक्षित्व-रूपं तस्य स्वयं त्व् अमुक्तम्, अन्यथा ईश्वर इत्य् एव ब्रूयात्** । इत्थं च विलास-स्वांश-वर्गेभ्यो वैलक्षण्यम् । स च किं धातुः ? इत्य् आह—सच्-चिद् इति । चिद्-रूपो य आनन्दः, तद्-भूतो विग्रह इति कर्मधारयः, मूर्त-स्व-प्रकाशानन्द इत्य् अर्थः  सन्न् इति सौन्दर्यम् उक्तम्, अतिरम्याङ्ग-सन्निवेश इत्य् अर्थः । एवं च मुक्त-जीवेभ्यो वैलक्षण्यं, तेषां विग्रहात्म-भेद सत्त्वात् । सच्-छब्देन सर्वत्रानुवृत्तत्वं नोक्तं, तत्त्वस्य सर्व-कारणत्वोक्त्या प्राप्तेः । **लीलाम् आह—गोविन्द इति, सुरभीर् अभिपालयन्तम् [ब।सं। ५.२९] इत्य् उत्तर-पाठात् गो-पालन-लील इत्य् अर्थः । न चानया न्यूनत्वं—

गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः** । **
गोभिर् वेदाः समुद्गीर्णाः स षडङ्ग-पद-क्रमाः ॥ इति गो-सूक्तात् ।** **

नादीयते स्व-विधेयतया न गृह्यते अयम् इत्य् अनादिर् यदूनाम्; आदीयते स्व-विधेयतयेति आदि-व्रजौकसाम्, उपसर्ग घोः किः [पा। ३.३.९२]** । स्वयम् अनादिर् हेतु-शून्यः, अन्येषां त्व् आदिः, इत्य् अर्थस् तु नोक्तः, तस्य उत्तरतो लाभात् । लीलान्तरम् आह—सर्वेति । स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वे। ६.९] इति मन्त्र-वर्णः । एषा लीला स्वांश-पुरुष द्वारेति बोध्यम् । **तथा च स्वयं-रूपः कृष्ण इत्य् उदाहृतम् ॥१३॥

सहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् ।
तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥२॥

अथ तस्य तद्-रूपता-साधकं नित्यं धाम प्रतिपादयति—सहस्र-पत्रं कमलम् इत्य्-आदिना । सहस्राणि पत्राणि यत्र, तत् कमलम् । भूमिश् चिन्तामणि-गणमयी [५६] इति वक्ष्यमाणानुसारेण चिन्तामणि-मयं पद्मं तद्-रूपं **महत् **सर्वोत्कृष्टं पदं स्थानम् । महतः श्री-कृष्णस्य महा-भगवतो वा पदं महा-वैकुण्ठादि-रूपं इत्य् अर्थः । रूढिर् योगम् अपहरतीति न्यायेन तस्यैव प्रतीतेः । एतद् अभिप्रेत्योक्तं श्री-दशमे भगवान् गोकुलेश्वरः [भा।पु। १०.१०.३९] इति शीलार्थे त्व् अत्र वरच्-प्रत्ययः ।

अत एव तद्-अनुकूलत्वेनोत्तर-ग्रन्थोऽपि व्याख्येयः । तद् एव चाम्नातं गोकुलं वन-वैकुण्ठम् इति । तस्य श्री-कृष्णस्य धाम श्री-नन्द-यशोदादिभिः सह वास-योग्यं महान्तः-पुरं, तैः सह वासिता त्व् अग्रे समुद्देक्ष्यते ।

तस्य स्वरूपम् आह—तद् इति । अनन्तस्य श्री-बलदेवस्यांशेन ज्योतिर्-विभाग-विशेषेण सम्भवः सदाविर्भावो यस्य तत् तथा तन्त्रेणैतद् अपि बोध्यते । अनन्तोऽंशो यस्य तस्य श्री-बलदेवस्यापि सम्भवो निवासो यत्र तद् इति ॥२॥

कर्णिकारं महद् यन्त्रं षट्-कोणं वज्र-कीलकम् ।
षड्-अङ्ग-षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥
प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत् ।
ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम् ॥३॥

सर्व-गण-सेवितस्य श्रीमद्-अष्टदशाक्षर-मन्त्र-राजस्य बहु-पीठस्य मुख्य-पीठम् इदम् इत्य् आह—कर्णिकारम् इति द्वयेन । महद् यन्त्रम् इति । यत् प्रकृतिर् एव सर्वत्र मन्त्रत्वेन पूजार्थं लिख्यत इत्य् अर्थः ।

यन्त्रम् एव दर्शयति—षट्-कोणा अभ्यन्तरे यस्य तत् । वज्र-कीलकं कर्णिकारे बीज-रूप-हीर-ककोलक-शोभितम् । यन्त्रे च-कारोपलक्षिता । चतुर्थ्य्-अन्ता चतुर्-अक्षरी कील-रूपा ज्ञेया । षट्-कोणत्वे प्रयोजनम् आह—षड्-अङ्गानि यस्याः सा । षट्-पदी श्रीमद्-अष्टादशाक्षरी, तस्याः स्थानम् ।

**प्रकृतिर् **मन्त्रस्य स्वरूपं स्वयम् एव श्री-कृष्णः, कारण-रूपत्वात् । तच् चोक्तम् ऋष्य्-आदि-स्मरणे—कृष्णः प्रकृतिर् इति । पुरुषश् च स एव, तद्-अधिष्ठातृ-देवता-रूपः । ताभ्याम् अवस्थितम् अधिष्ठितम् । स हि मन्त्रे चतुर्धा प्रतीयते—मन्त्रस्य कारण-रूपत्वेन, अधिष्ठातृ-देवता-रूपत्वेन, वर्ण-समुदाय-रूपत्वेन, आराध्य-रूपत्वेन च । तत्र कारण-रूपत्वेन अधिष्ठातृ-देवता-रूपत्वेनात्रोच्यते । आराध्य-रूपत्वेन प्राग् उक्तः—ईश्वरः परमः कृष्ण इति । वर्ण-रूपत्वेनाग्रे उद्धरिष्यते कामः कृष्णाय इति । यथोक्तं हायशीर्ष-पञ्चरात्रे—

वाच्यत्वं वाचकत्वं देवता-मन्त्रयोर् इह ।
अभेदेनोच्यते ब्रह्म-तत्त्व-विद्भिर् विचारतः ॥ इति ।

गोपाल-तापनी-श्रुतिषु—

वायुर् यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्च-रूपो बभूव ।

कृष्णस् तथैकोऽपि जगद्-धितार्थं
शब्देनासौ पञ्च-पदो विभाति ॥ [गो।ता। १.१६न्] इति ।

क्वचिद् दुर्गाया अधिष्ठातृत्वं शक्ति-शक्तिमतोर् अभेद-विवक्षया, यथा च बृहद्-गौतमीये—

राधा दुर्गा शिवा दुर्गा लक्ष्मी दुर्गा प्रकीर्तिता ।
गोपाल-विष्णु-पूजायाम् आद्य्-अन्ता न तु मध्यमा ॥

अत एवोक्तं गौतमीय-कल्पे—

यः कृष्णः सैव दुर्गा स्याद् या दुर्गा कृष्ण एव सः ।
अनयोर् अन्तरा-दर्शी संसारान् नो विमुच्यते ॥ इत्य् आदि ।

अतः स्वयम् एव श्री-कृष्णस् तत्र स्वरूप-शक्ति-रूपेण दुर्गा नामेति । तस्मान् नेयं मायांश-भूता दुर्गातिगम्यते । निरुक्तिश् चात्र—कृच्छ्रेण दुर्गाराधनादि बहु-प्रयासेन गम्यते ज्ञायत इति । तथा च नारद-पञ्चरात्रे श्रुति-विद्या-संवादे—

जानात्य् एका परा कान्तं सैव दुर्गा तद्-आत्मिका ।
या परा परमा शक्तिर् महा-विष्णु-स्वरूपिणी ॥

यस्या विज्ञान-मात्रेण पराणां परमात्मनः ।
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ॥

एकेयं प्रेम-सर्वस्व-स्वभावा श्री-कुलेश्वरी ।
अनया सुलभो ज्ञेय आदि-देवोऽखिलेश्वरः ॥

भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् ।
ज्ञायतेऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः ॥

दुर्गेति गीयते सद्भिर् अखण्ड-रस-वल्लभा ।
अस्या आवरिका शक्तिर् महा-मायाखिलेश्वरी ।

यया मुग्धं जगत् सर्वं सर्व-देहाभिमानतः ॥ इति च ।

तथा च सम्मोहन-तन्त्रे जयां प्रति श्री-दुर्गा-वचनं—

यन्-नाम्ना नाम्नी दुर्गाहं गुणैर् गुणवती ह्य् अहम् ।
यद्-वैभवा महा-लक्ष्मी राधा नित्यापराद्वया ॥ इति ।

किं च, प्रेम-रूपा ये आनन्द-महानन्द-रसास् तत्-परिपाक-भेदास् तद्-आत्मकेन तथा ज्योती-रूपेण स्व-प्रकाशकेन मनुना मन्त्र-रूपेण काम-बीजेन सङ्गतम् इति मूलान्तर्गतत्वेऽपि काम-बीजस्य पृथग्-उक्तिः कुत्रचन स्वातन्त्र्यापेक्षया ॥३॥

तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि ॥४॥

तद् एवं तद्-धामोक्त्वा तद्-आवरणान्य् आह—तद् इत्य् अर्धेन । तस्य कर्णिका-रूप-धाम्नः किञ्जल्काः, शिखरावलि-वलित-प्राचीर-पङ्क्तय इत्य् अर्थः । तच् च तद्-अंशानां तस्मिन्न् अंशो दायो विद्यते, येषां परम-प्रेम-भाजां सजातीयानां धामेत्य् अर्थः । गोकुलाख्यम् इत्य् उक्तेर् एव । तेषां सजातीयत्वं चोक्तं श्रीबादरायणिना—

एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः ॥ [भा।पु। १०.३६.१५] इति ।

कंस-वधान्ते श्री-व्रज-राजं प्रति स्वयं भगवता—ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति । अत एव कमलस्य पत्राणि श्रियां तत्-प्रेयसीनां गोपी-रूपाणां श्री-राधादीनाम् उपवन-रूपाणि धामानीत्य् अर्थः । गोपी-रूपत्वं चासां मन्त्रस्य तन्-नाम्नालिङ्गितत्वात् राधादित्वं च—

देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति बृहद्-गौतमीयात् ।

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ इति मत्स्य-पुराणात् ।

राधया माधवो देवो माधवेनैव राधिका । विभ्राजन्ते जनेष्व् आ इति ऋक्-परिशिष्ट-श्रुतौ च ।

अत्र विशेष-जिज्ञासायां कृष्णार्चन-दीपिका द्रष्टव्या ।

तत्र पत्राणाम् उच्छ्रित-प्रान्तानां वर्त्माण्य् अग्रिम-सन्धिषु तु गोष्ठानि ज्ञेयानि । अखण्ड-कमलस्य गोकुलत्वात् तथैव गोकुल-समावेशाच् च गोष्ठं । तथैव यत् तु स्थानान्तरे वचनम् अस्ति—

सहस्रारं पद्मं दल-ततिषु देवीभिर् अभितः
परीतो गो-सङ्घैर् अपि निखिल-किञ्जल्क-मिलितैः ।

वराटे यस्यास्ति स्वयम् अखिल-शक्त्या प्रकटित-
प्रभावः सत्यः श्री-परम-पुरुषस् तं किल भजे ॥ इति पद्म-बीज-कोषे इत्य् अर्थः ।

तत्र गो-सङ्ख्यैर् इति तु पाठः समञ्जसः । गो-सङ्ख्याश् च गोपाः इति । गोपे गोपाल-गोसङ्ख्य-गोधुग्-आभीर-वल्लभा इत्य् अमरः । अखिल-शक्त्या प्रकटितः प्रभावो येन सः परम-पुरुषः श्री-कृष्ण इत्य् अर्थः ॥४॥

चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् ।
चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥
चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् ।
शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो दिग्-विदिक्ष्व् अपि ॥
अष्टभिर् निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा
मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥
श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षदर्षभैः
शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः ॥५॥

अथ गोकुलावरणान्य् आह—चतुरस्रम् इति चतुर्भिः । तस्य गोकुलस्य बहिः सर्वतश् चतुरस्रं चतुष्कोणात्मकं स्थानं श्वेतद्वीपाख्यम् । तद् एतद्-उपलक्षणं गोलोकाख्यं चेत्य् अर्थः । यद्यपि गोकुले श्वेतद्वीपत्वम् अस्त्य् एव, तद्-अवान्तर-भूमि-मयत्वात्, तथापि विशेष-नाम्नोक्तत्वात् तेनैव तत् प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्य् अन्तर्-मण्डलं श्री-वृन्दावनाख्यं ज्ञेयम् ।

तथा च स्वायम्भुवागमे—ध्यायेत् तत्र-विशुद्धात्मा इदं सर्वं क्रमेण च इत्य्-आदिकम् उक्त्वा, तन्-मध्ये वृन्दावनं कुसुमितं नाना-वृक्ष-विहङ्गमं संस्मरेत् इत्य् उक्तम् । तथा च बृहद्-वामने श्रुतीनां प्रार्थना-पूर्वकाणि पद्यानि

आनन्द-मात्रम् इति यद् वदन्ति हि पुरा-विदः ।
तद्-रूपे दर्शयास्माकं यदि देयो वरो हि नः ॥

श्रुत्वैतद् दर्शयामास स्वं लोकं प्रकृतेः परम् ।
केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥

यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः ।
मनोरम-निकुञ्जाढ्यं सर्व-र्तु-सुख-संयुतम् ॥ इत्य्-आदि तच् च चतुरस्रम् ।

चतुर्-मूर्तेश् चतुर्-व्यूहस्य वासुदेवादि-चतुष्टयस्य । चतुष्कृतं चतुर्धा विभक्तम् चतुर्-धाम । किन्तु देव-लीलत्वात् तद्-उपरि-व्योम-यान-स्था एव ज्ञेयाः । हेतुभिस् तत्-पुरुषार्थ-साधनैः मनु-रूपैः स्व-स्व-मन्त्रात्मकैर् दिक्-पालैः इन्द्रादिभिः । श्यामादयः चत्वारो वेदाः, तैर् इत्य् अर्थः, कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः [भा।पु। १०.२८.१७] इति दशमात् । शक्तिभिः विमलादिभिः ।

तद् एवं गोलोक-नामा अयं लोकः श्री-भागवते साधितः ।

नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥

ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥

इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥

जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥

इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥

सत्यं ज्ञानम् अनन्तं यत् ब्रह्म ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥

ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥

नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भा।पु। १०.२८.१०-१७] इति ।

अतीन्द्रियम् अदृष्ट-पूर्वम् । स्व-गतिं स्व-धाम । सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यन् उपधास्यति । अस्मान् प्रापयिष्यतीत्य् अर्थः । इति सङ्कल्पितवन्त इति शेषः । जनोऽसौ व्रज-वासी मम स्वजनः । सालोक्य-सार्ष्टि- [भा।पु। ३.२९.१२] इत्य् आदि पद्ये जना इतिवद् उभयत्राप्य् अन्य-जनत्वम् अप्रस्तुतम् इति । व्रज-जनस्य तु तदीय-स्वजनतमत्वं तेन स्वयम् एव विभावितम्—

तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भा।पु। १०.२५.१८] इत्य् अनेन ।

स एतस्मिन् प्रापञ्चिके लोकेऽविद्याभिर् या उच्चावचा देव-तिर्यग्-आदि-रूपा गतयस् तासु स्वां गतिं भ्रमन् तन्-मिश्रतयाभिव्यक्तेः तन्-निर्विशेषतया जानन्, ताम् एव स्वां गतिं भवेद् इत्य् अर्थः, मदीय-लौकिक-लीलावेशेन ज्ञानांश-तिरोधानाद् इति भावः ।

इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.२८]

इति श्री-दशमोक्तेर् अविद्या-काम-कर्मणां तत्रासामर्थ्यात् । गोपानां स्वां लोकं गोलोकम् इति । अर्थात् तान् प्रत्य् एव सन्दर्शयामास । तमसः प्रकृतेः परम् स्वरूप-शक्त्याभिव्यक्तत्वात् । अत एव सच्चिदानन्द-रूप एवासौ लोक इत्य् आह—सत्यम् इति ।

अथ श्री-वृन्दावने तादृश-दर्शनं कतम-देश-स्थितानां तेषाम् इत्य् अत आह—ते त्व् इति । ब्रह्म-ह्रदम् अक्रूर-तीर्थं कृष्णेन नीता पुनश् च तेनैव मग्नाः मज्जिताः पुनश् च तस्मात् तेनैवोद्धृताः । उद्धृत्य पुनः स्व-स्थान-प्रापिताः सन्तो, ब्रह्मणः परम-बृहत्तमस्य तस्यैव लोकं गोलोकाख्यं ददृशुः । मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनं [भा।पु। २.५.३८] इति द्वितीये । वैकुण्ठान्त-रस्यापि तत् तयाख्यातेः ।

कोऽसौ ब्रह्म-ह्रदः? तत्राह—यत्रेति । पुरेत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति कोष-काराः । सेयं च परिपाटी तत् तीर्थं महिमानं लक्ष्यम् एव विधातुम् इति भावः । तत्र स्वां गतिम् इति तदीयता-निर्देशो गोपानां स्वं लोकम् इति षष्ठी-स्व-शब्दयोर् निर्देशः । कृष्णम् इति साक्षान्-निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य श्री-गोलोकम् एव स्थापितवान् इति ।

तथा च हरि-वंशे शक्र-वचनम्—

स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥

तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥

उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।

गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।

गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।

धृतो धृतिमता वीर निघन्तोपद्रवान् गवाम् ॥ [ह।वं। २.१९.२९-३५] इति ।

तत्रापात-प्रतीतार्थान्तरे स्वर्गाद् ऊर्ध्वं ब्रह्मणो लोक इत्य् अयुक्तं स्याल् लोक-त्रयम् अतिक्रम्योक्तेः । तत्र सोम-गतिश् चैवेत्य् अपि न सम्भवति चन्द्रस्यान्येषाम् अपि ज्योतिषां ध्रुव-लोकाधस्ताद् एव गतेः । तत्र साध्यास् तं पालयन्तीत्य् अपि नोपपद्यते । देव-योनि-रूपाणां तेषां स्वर्ग-लोकस्यापि पालनम् असम्भव्यम् । किम् उत तद्-उपरि गोलोकस्य । तथा तस्य लोकस्य सुरभि-लोकत्वे सति सर्व-गत इत्य् अनुपपन्नं स्यात् । श्री-भगवद्-विग्रह-लोकयोर् अचिन्त्य-शक्तित्वेन विभुत्वं घटते न पुनर् अस्येति । अत एव सर्वातीतत्वात् तत्रापि तव गतिर् इत्य् अपि शब्दो विस्मये प्रयुक्तः । यां न विद्मो वयं सर्वे इत्य्-आदिकं चोक्तम् ।

तस्मात् प्राकृत-गोलोकाद् अन्य एवासौ गोलोक इति सिद्धम् । तथा च मोक्ष-धर्मे नारायणीयोपाख्याने श्री-भगवद्-वाक्यं—

एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [म।भा। १२.३३०.६८] इति ।

तस्माद् अयम् अर्थः स्वर्ग-शब्देन—

भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोकोऽस्य नाभितः ।
हृदा स्वर्-लोक उरसा महर्-लोको महात्मनः ॥ [भा।पु। २.५.४२]

इति द्वितीयानुसारेण स्वर्-लोकम् आरभ्य सत्य-लोक-पर्यन्तं लोक-पञ्चकम् उच्यते । तस्माद् ऊर्ध्वम् उपरि ब्रह्म-लोको ब्रह्मात्मको लोको ब्रह्म-लोकः सच्-चिद्-आनन्द-रूपत्वात् । ब्रह्मणो भगवतो लोक इति वा । मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनः [भा।पु। २.५.३८] इति द्वितीयात् । तथा च टीका—ब्रह्म-लोको वैकुण्ठाख्यः । सनातनो नित्यः । न तु सृज्यः प्रपञ्चान्तर्वर्ती । इत्य् एषा । श्रुतिश् च—एष ब्रह्म-लोकः । एष आत्म-लोकः । इति ।

स च ब्रह्मर्षि-गण-सेवितः । ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश् च श्री-नारदादयः । गणाश् च श्री-गरुड-विष्वक्सेनादयः । तैः सेवितः । एवं नित्याश्रितान् उक्त्वा तद्-गमनाधिकारिण आह । तत्र ब्रह्म-लोके उमया सह वर्तत इति सोमः श्री-शिवस् तस्य गतिः ।

स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।

अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भा।पु। ४.२४.२९] इति चतुर्थे श्री-रुद्र-गीतम् ।

सोमेति सुपां सुलुग् इत्य् आदिना षष्ठ्या लुक् छान्दसः । तत उत्तरत्रापि गतिर् इत्य् अस्यान्वयः । ज्योतिर् ब्रह्म तद्-ऐकात्म्य-भावानां मुक्तानाम् इत्य् अर्थः ।

ननु तादृशाम् अपि सर्वेषां किन्तु महात्मनां महाशयानां मोक्षानादरतया भजतां श्री-सनकादि-तुल्यानाम् इत्य् अर्थः ।

मुक्तानाम् अपि सिद्धानां नारायण-परायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ [भा।पु। ६.१४.५] इति षष्ठात् ।

योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४७] इति गीताभ्यश् च ।

तेष्व् एव महत्त्व-पर्यवसनात् । तस्य च ब्रह्म-लोकस्योपरि सर्वोर्ध्व-प्रदेशे गवां लोकः श्री-गोलोक इत्य् अर्थः । तं च गोलोकं साध्याः प्रापञ्चिक-देवानां प्रसाधनीया मूल-रूपा नित्य-तदीय-देव-गणाः पालयन्ति दिक्-पालतया वर्तन्ते ते ह नाकं महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः [ऋ।वे। १०.९०.१६] इति श्रुतेः ।

तत्र पूर्वे ये च साध्या विश्वे देवाः सनातनाः ।
ते ह नाकं महिमानः सचन्तः शुभ-दर्शनाः ॥ इति महा-वैकुण्ठ-वर्णने पाद्मोत्तर-खण्डाच् च ।

यद् वा तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि [भा।पु। १०.१४.३४] इति श्री-ब्रह्म-स्तवानुसारेण तद्-विध-परम-भक्तानाम् अपि साध्यास् तादृश-सिद्धि-प्राप्तये प्रासाधनीयाः श्री-गोपी-प्रभृतयस् तं पालयन्ति ।

तद् एवं सर्वोपरि-गतत्वेऽपि । हि प्रसिद्धौ । स श्री-गोलोकः सर्व-गतः श्री-नारायण इव प्रापञ्चिकाप्रापञ्चिक-वस्तु-व्यापकः । कैश्चित् क्रम-मुक्ति-व्यवस्थया तथा प्राप्यमानोऽप्य् असौ द्वितीय-स्कन्ध-वर्णित-कमलासन-दृष्ट-वैकुण्ठवच् छ्री-व्रज-वासिभिर् अत्रापि यस्माद् दृष्ट इति भावः ।

अत एव महान् भगवद्-रूप एव । महान्तं विभुम् आत्मानम् [क।उ। २.२२] इति श्रुतेः । तत्र हेतुः । महाकाशः परम-व्योमाख्यः ब्रह्म-विशेषण-लाभाद् आकाशस् तल्-लिङ्गाद् [वे।सू। १.१.२२] इति न्याय-प्रसिद्धेश् च । तद्-गत-ब्रह्माकारोदयान्तरम् एव वैकुण्ठ-प्राप्तेः यथाजामिलस्य । तद् एवम् उपर्य् उपरि सर्वोपर्य् अपि विराजमाने तत्र श्री-गोलोकेऽपि तव गतिः । श्री-गोविन्द-रूपेण क्रीडा वर्तत इत्य् अर्थः ।

अत एव सा च गतिः साधारणी न भवति किन्तु तपोमयी । तपोऽत्रानवच्छिन्नैश्वर्यं सहस्र-नाम-भाष्येऽपि परमं यो महत् तपः इत्य् अत्र तत्र व्याख्यातम् । स तपोऽतप्यत इति परमेश्वर-विषयक-श्रुतेः । ऐश्वर्यं प्राकाशयद् इति तत्रार्थः । अत एव ब्रह्मादि-दुर्वितर्क्यत्वम् अप्य् आह याम् इति । अधुना तस्य श्री-गोलोक इत्य् आख्या बीजम् अभिव्यञ्जयति गतिर् इति । ब्राह्म्ये ब्रह्म-लोक-प्रापके तपसि विष्णु-विषयक-मनः-प्रणिधाने युक्तानां यत-चित्तानां तत्-प्रेम-भक्तानाम् इत्य् अर्थः । यस्य ज्ञान-मयं तपः इति श्रुतेः । ब्रह्म-लोको वैकुण्ठ-लोकः । परा प्रकृत्य्-अतीता । गवां व्रज-वासि-मात्राणां मोचयन् व्रज-गवां दिन-तापम् [भा।पु। १०.३५.२५] इत्य्-उक्तानुसारेणआत्रैव निघ्नतोपद्रवान् गवाम् इत्य् उक्त्या च गोलोक-वासि-मात्राणां स्वतस् तद्-भाव-भावितानां च साधन-वशाद् इत्य् अर्थः । अतस् तद्-भावस्य दुर्लभत्वाद् दुरारोहा । तद् एवं गोलोकं वर्णयित्वा तस्य गोकुलेन सहाभेदम् आह स त्व् इति ।

स एव तु स लोको धृतो रक्षितः श्री-गोवर्धनोद्धरणेनेति । एवम् एव मोक्ष-धर्म-श्री-नारायणीयोपाख्याने श्री-भगवद्-वाक्यम्—

एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [म।भा। १२.३३०.६८] इति ।

तथा च मृत्यु-सञ्जय-तन्त्रे—

एकदा सान्तरीक्षाच् च वैकुण्ठं स्वेच्छया भुवि ।
गोकुलत्वेन संस्थाप्य गोपीमय-महोत्सवा ।

भक्ति-रूपां सतां भक्तिम् उत्पादितवती भृशम् ॥ इति ।

एवं नारद-पञ्चरात्रे विजयाख्याने—

तत् सर्वोपरि गोलोके श्री-गोविन्दः सदा स्वयम् ।
विहरेत् परमानन्दी गोपी-गोकुल-नायकः ॥ इति ।

तथा ऋक्षु चायम् एव प्रदिष्टः—

तां वां वास्तून्य् उश्मसि गमध्यै
यत्र गावो भूरि-शृङ्गा अयासः ।

अत्राह तद् उरुगायस्य वृष्णः
परमं पदम् अवभाति भूरि ॥ [ऋ।वे। १.१५४.२०] इति ।

व्याख्यातं च—तां तानि वां युवयोः कृष्ण-रामयोर् वास्तूनि लीला-स्थानानि गमध्यै प्राप्तुं उश्मसि कामयामहे । तानि किं विशिष्टानि? यत्र येषु भूरि-शृङ्गा महा-शृङ्ग्यो गावो बहु-शुभ-लक्षणा इति वा । अयासः शुभाः । अयः शुभावहो विधिर् इत्य् अमरः । देवास इतिवज् जस्-अन्तं पदम् । अत्र भूमौ तल्-लोके वेदे च प्रसिद्धं श्री-गोलोकाख्यम् उरुगायस्य स्वयं भगवतो तच्-चरणारविन्दस्य परमं प्रपञ्चातीतं पदं स्थानं भूरि बहुधा अवभातीत्य् आह वेद इति ।

यजुःसु—माध्यन्दिनीया स्तूयते धामान्य् उश्मसि इत्य् आदौ । विष्णोः परमं पदम् अवभातीति भूरीति चात्र प्रकारान्तरं पठन्ति शेषं समानम् ॥५॥

एवं ज्योतिर्-मयो देवः सद्-आनन्दं परात् परः ।
आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः ॥६॥

अथ मूल-व्याख्याम् अनुसरामः । विराट्-तद्-अन्तर्यामिनोर् अभेद-विवक्षया पुरुष-सूक्तादाव् एक-पुरुषत्वं यथा निरूपितं, तथा गोलोक-तद्-अधिष्ठात्रोर् अप्य् आह—एवम् इति ।

देवो गोलोकस् तद्-अधिष्ठातृ-श्री-गोविन्द-रूपः । सदानन्दम् इति तत्-स्वरूपम् इत्य् अर्थः, नपुंसकत्वं विज्ञानम् आनन्दं ब्रह्म इति श्रुतेः । आत्मारामस्य अन्य-निरपेक्षस्य प्रकृत्या मायया न समागमः । यथोक्तं द्वितीये—न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः [भा।पु। २.९.१०] ॥६॥

मायया रममाणस्य न वियोगस् तया सह ।
आत्मना रमया रेमे त्यक्त-कालं सिसृक्षया ।
नियतिः सा रमा देवी तत्-प्रिया तद्-वशं तदा
2** ॥७॥**

अथ प्रपञ्चात्मनस् तद्-अंशस्य पुरुषस्य तु न तादृशत्वम् इत्य् आह—माययेति । प्राकृत-प्रलयेऽपि तस्मिंस् तस्यालयाद् यस्यांशांशांश-भागेन [भा।पु। १०.८५.३१] इत्य्-आदेः ।

ननु तर्हि जीववत् तल्-लिप्तत्वेनानीश्वरत्वं स्यात्? तत्राह—आत्मनेति । स त्व् आत्मना अन्तर्-वृत्या तु रमया स्वरूप-शक्त्यैव रेमे रतिं प्राप्नोति । बहिर् एव मायया सेव्य इत्य् अर्थः ।

एष प्रपन्न-वरदो रमयात्म-शक्त्या
यद् यत् करिष्यति गृहीत-गुणावतारः ॥ [भा।पु। ३.९.२३] इति तृतीये ब्रह्म-स्तवात् ।

अत्र—मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि [भा।पु। १.७.२३] इति प्रथमे श्रीमद्-अर्जुन-वचनात् ।

तर्हि तत्-प्रेरणं विना कथं सृष्टिः ? तत्राह—सिसृक्षया स्रष्टुम् इच्छया त्यक्तः सृष्ट्य्-अर्थं प्रहितः कालः यस्मात् रमणात् तादृशं यथा स्यात् तथा रेमे । प्रथमान्त-पाठस् तु सुगमः । तत्-प्रभाव-रूपेण तेनैव सा सिध्यतीति भावः ।

प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् [भा।पु। ३.२६.१६]
काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।

पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [भा।पु। ३.५.२६] इति च तृतीयात् ।

ननु रमैव सा का ? तत्राह—नियतिर् इत्य् अर्धेन । नियम्यते स्वयं भगवत्य् एव नित्यता भवतीति नियतिः स्वरूप-भूता तच्-छक्तिः । देवी द्योतमाना स्व-प्रकाश-रूपा इत्य् अर्थः । तद्-उक्तं द्वादशे—अनपायिनी भगवती श्रीः शाक्षाद् आत्मनो हरेः [भा।पु। १२.११.२०] इति । टीका च—अनपायिनी हरेः शक्तिः । तत्र हेतुः साक्षाद् आत्मन इति स्वरूपस्य चिद्-रूपत्वात् तस्यास् तद्-अभेदाद् इत्य् अर्थः । इत्य् एषा ।

अत्र साक्षात्-शब्देन विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया [भा।पु। २.५.१३] इत्य् आद्य्-उक्त्या माया नेति ध्वनितम् । तत्रानपायित्वं यथा विष्णु-पुराणे—

नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी
यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ [वि।पु। १.८.१७] इति ।

एवं यथा जगत्-स्वामी देव-देवो जनार्दनः ।
अवतारं करोत्य् एषा तथा श्रीस् तत्-सहायिनी ॥ [वि।पु। १.९.१४२] इति च ।

देवत्वे देव-देहा सा मानुषत्वे च मानुषी ।
हरेर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥ [वि।पु। १.९.१४५] इति च ।

हयशीर्ष-पञ्चरात्रे—न विष्णुना विना देवी न हरिः पद्मजां विना इति ॥७॥

**बलदेवः- **स्वयं-रूपस्य कृष्णस्यैव मूर्तिः सदा-शिव इत्य् अत्र निर्णायकं वाक्यम् आह—नियतिः सेति । अस्यार्थः—पूर्वं रमया रमणम् उक्तं, रमा सा कीदृशी? इत्य् आह—नियतिर् इति । नियम्यते नियता भवति रमणे तस्मिन्न् इति तद् अनपायिनी तत्-स्वरूप-भूतेति यावत् । अत उक्तं—तत्-प्रिया तद्-वशंवदा इति, न विष्णुना विना देवी न विष्णुः पद्मजां विना इति हयशीर्ष-पञ्चरात्रात्, नित्यैव सा जगन्माता विष्णोः श्रीर् अनपायिनी [वि।पु। १.८.१५] इति वैष्णवाच् च ।

तल्-लिङ्गं भगवान् शम्भुर् ज्योती-रूपः सनातनः ।
या योनिः सापरा शक्तिः कामो बीजं महद् धरेः ॥८॥

ननु कुत्रापि शिव-शक्त्योः कारणता श्रूयते, तत्र विराड्-वर्णनवत् कल्पनयेति तद्-अङ्ग-विशेषत्वेनाह—तल्-लिङ्गम् इति । यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता [वि।पु। १.९.५३] इति विष्णु-पुराणानुसारेण प्रपञ्चात्मनस् तस्य महा-भगवद्-अंशस्य स्वांश-ज्योतिर्-आच्छन्नत्वाद् अप्रकट-रूपस्य पुरुषस्य लिङ्गं लिङ्ग-स्थानीयः यः प्रपञ्चोत्पादकोऽंशः, स एव शम्भुः । अन्यस् तु तद्-आविर्भाव-विशेषत्वाद् एव शम्भुर् उच्यते इत्य् अर्थः । वक्ष्यते च, क्षीरं यथा दधि-विकार-विशेष-योगाद् सञ्जायते न तु ततः पृथग् अस्ति हेतोर् [४५] इत्य् आदि ।

तथा तस्य वीर्यावधान-स्थान-रूपाया मायाया अप्य् अप्रकट-रूपाया या योनिर् योनि-स्थानीयोऽंशः सैवापरा प्रधानाख्या शक्तिर् इति पूर्ववत् । तत्र च हरेस् तस्य पुरुषाख्य-हर्य्-अंशस्य कामो भवति सृष्ट्य्-अर्थं तद्-दिदृक्षा जायत इत्य् अर्थः । ततश् च महद् इति स-जीव-महत्-तत्त्व-रूपं तु मायायाम् इति तृतीयाच् च ॥८॥

बलदेवः **- **तस्य स्वयं-रूपस्य भगवान् शम्भुः लिङ्गं चिह्नं भवति, लिङ्गं चिह्नेऽनुमाने च इति विश्वः । भगवान् षड्-ऐश्वर्य-विशिष्टः पर-व्योमाधीशः । शं भावयति स्व-द्वितीय-व्यूह-सङ्कर्षणात्मना प्रकृति-विलीनानां जीवानां तत्-तद्-उपाधि-सृष्टयेति शम्भुः, मित-भ्व्-आदित्वाड् डुः । ज्योतीरूपः चैतन्य-विग्रहः । अनेन तद्-अधीशत्वेन कृष्णस्य स्वयं-रूपत्वं परिचीयते, सास्नादिनेव गोर् गोत्वम् । यस्यासौ विलासः, स स्वयम् इत्य् अतस् तस्य स लिङ्गम् उच्यते । या खलु योनिः महद्-आद्य्-उपादान-भूता, सा त्व् अपरा शक्तिः त्रिगुणेत्य् अर्थः ।

लिङ्ग-योन्य्-आत्मिका जाता इमा माहेश्वरी-प्रजाः ॥९॥

वस्तुतस् तु पूर्वाभिप्रायत्वम् एवेत्य् आह—लिङ्गेत्य् अर्धेन । माहेश्वरीः माहेश्वर्यः ॥९॥

शक्तिमान् पुरुषः सोऽयं लिङ्ग-रूपी महेश्वरः ।
तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥१०॥

शक्तिमान् इत्य् अर्धेन तद् एवानूद्य तस्मिन् पूर्वोक्ताप्रकट-रूपस्य प्रकट-रूपतया पुनर् अभिव्यक्तिर् इत्य् आह—तस्मिन्न् इत्य् अर्धेन । तस्माल् लिङ्ग-रूपी प्रपञ्चोत्पादकस् तद्-अंशोऽपि शक्तिमान् पुरुष उच्यते, महेश्वरोऽप्य् उच्यते । ततश् च तस्मिन् भूत-सूक्ष्म-पर्यन्ततां प्राप्ते लिङ्गे स्वयं तद्-अंशी महा-विष्णुर् आविरभूत् प्रकट-रूपेणाविर्भवति । यतो जगतां सर्वेषां परावरेषां जीवानां स एव पतिर् इति ॥ १० ॥

बलदेवः - हरेः तद्-अंशस्य सङ्कर्षणस्य, कामः तद्-दिदृक्षा-लक्षणः, महद्-आदि-सृष्टि-फलको भवति, ततो बीजं महद् इति । महत् अपरिमितं जीव-तत्त्वं, तस्याम् आहितं भवति । अत इमा **माहेश्वर्यः **प्रजाः, लिङ्ग-योन्य्-आत्मिकाः पुरुष-प्रकृति-कारणिकाः, जाताः कथ्यन्ते । प्रकृतेर् उपसर्जनत्वेन तादधीन्यात् माहेश्वरीर् इति प्रजानाम् इत्य् उपपादयति—शक्तिमान् इत्य् अर्धकेन । अथोक्तार्थम् एव स्फुटयति—तस्मिन्न् इति । लिङ्गे—तद्-अधीशे तत्-सन्निधौ । महा-विष्णुः सङ्कर्षणः ॥२४॥

सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात् ।
सहस्र-बाहुर् विश्वात्मा सहस्रांशः सहस्र-सूः ॥११॥

तद् एवं रूपं विवृणोति—सहस्र-शीर्षेति । सहस्रम् अंशा अवतारा यस्य स सहस्रांशः । सहस्रं सूते सृजति यः, स सहस्र-सूः । सहस्र-शब्द-सर्वत्रासङ्ख्यता-परः । द्वितीये च तस्यैव रूपम् इदम् उक्तम्—आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४२] इति । अस्य टीकायां—यस्य सहस्र-शीर्षेत्य् उक्तो लीला-विग्रहः परस्य भूम्नः आद्योऽवतारः इति ॥११॥

नारायणः स भगवान् आपस् तस्मात् सनातनात् ।
आविरासीत् कारणार्णो-निधिः सङ्कर्षणात्मकः ।
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥१२॥

अयम् एव कारणार्णवशायीत्य् आह—नारायण इति सार्धेन । ता आप एव कारणार्णो-निधिर् आविरासीत्,  तु नारायणः सङ्कर्षणात्मक इति । पूर्वं गोलोकावरणतया यश् चतुर्व्यूह-मध्ये सङ्कर्षणः सम्मतः, तस्यैवांशोऽयम् इत्य् अर्थः । तद् उक्तं—

आपो नारा इति प्रोक्ता आपो वै नर-सूनवः ।
तस्य ता अयनं पूर्वं तेन नारायणः स्मृतः ॥१२॥

तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च ।
हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥१३॥

तस्माद् एव ब्रह्माण्डानाम् उत्पत्तिम् आह—तद्-रोमेति । तद् इति तस्येत्य् अर्थः । तस्य सङ्कर्षणात्मकस्य यद् बीजं योनि-शक्ताव् अध्यस्तं, तद् एव पूर्वं भूत-सूक्ष्म-पर्यन्ततां प्राप्तं सत्, पश्चात् तस्य रोम-बिल-जालेषु विवरेषु अन्तर्-भूतं च सत्, हैमान्य् अण्डानि जातानि तानि चापञ्ची-कृतांशैः महा-भूतैर् जातानीत्य् अर्थः । तद् उक्तं दशमे ब्रह्मणा—

क्वेदृग्-विधा विगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ [भा।पु। १०.१४.११] इति ।

तृतीये च—

विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः ।
आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः ॥

दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् ।
लक्ष्यतेऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः ॥ [भा।पु। ३.११.३९-४०] इति ॥१३॥

प्रत्य्-अण्डम् एवम् एकांशाद् एकांशाद् विशति स्वयम् ।
सहस्र-मूर्धा विश्वात्मा महा-विष्णुः सनातनः ॥१४॥

ततश् च तेषु ब्रह्माण्डेषु पृथक् पृथक् स्वरूपैः स्वरूपान्तरैः स एव प्रविवेशेत्य् आह प्रत्यण्डम् इति । एकांशाद् एकांशाद् एकेनैकेनांशेनेत्य् अर्थः ॥ १४ ॥

वामाङ्गाद् असृजद् विष्णुं दक्षिणाङ्गात् प्रजापतिम् ।
ज्योतिर्-लिङ्ग-मयं शम्भुं कूर्च-देशाद् अवासृजत् ॥१५॥

पुनः किं चकार तत्राह—वामाङ्गाद् इति । विष्ण्व्-आदय इमे सर्वेषाम् एव ब्रह्माण्डानां पालकादयः प्रति ब्रह्माण्डान्तः स्थितानां विष्ण्व्-आदीनां स्वांशानां प्रयोक्तारः । यथा प्रति-ब्रह्माण्डे तथाधिब्रह्माण्ड-मण्डलम् अभ्युपगन्तव्यम् इति भावः । येषु प्रजापतिर् अयं हिरण्यगर्भ-रूप एव, न तु वक्ष्यमाण-चतुर्मुख-रूप एव । सोऽयं तत्-तद्-आवरण-गत-तत्-तद्-देवानां स्रष्टेति । विष्णु-शम्भू अपि तत्-तत्-पालन-संहार-कर्तारौ ज्ञेयौ । कूर्च-देशात् भ्रुवोर् मध्यात् । एषां जलावरण एव स्थानानि ज्ञेयानि ॥ १५ ॥

अहङ्कारात्मकं विश्वं तस्माद् एतद् व्यजायत ॥१६॥

तत्र शम्भोः कार्यान्तरम् अप्य् आह—अहङ्कारात्मकम् इत्य् अर्धेन । एतद् विश्वं तस्माद् एव अहङ्कारात्मकं व्यजायत बभूव । विश्वस्याहङ्कारात्मकता तस्माज् जातेत्य् अर्थः सर्वाहङ्काराधिष्ठातृत्वात् तस्य ॥ १६ ॥

अथ तैस् त्रि-विधैर् वेशैर् लीलाम् उद्वहतः किल ।
योग-निद्रा भगवती तस्य श्रीर् इव सङ्गता ॥१७॥

ब्रह्माण्ड-प्रविष्टस्य तु तत्-तद्-रूपस्य लीलाम् आह—अथ तैर् इत्य् आदि । तैस् तत् सदृशैस् त्रिविधैः प्रति-ब्रह्माण्ड-गत-विष्ण्व्-आदिभिर् वेशै रूपैर् लीलां ब्रह्माण्डान्तर्गत-पालनादि-रूपाम् उद्वहतो ब्रह्माण्डान्तर्गत-पुरुषस्येति ताम् उद्वहति । तस्मिन्न् इत्य् अर्थः । योग-निद्रा—पूर्वोक्त-महा-योग-निद्रांश-भूता भगवती स्वरूपानन्द-समाधिमयत्वाद् अन्तर्भूत-सर्वैश्वर्या सङ्गता श्रीर् इवेति । तत्र यथा श्रीर् अप्य् अंशेन सङ्गता तथा सापीत्य् अर्थः ॥१७॥

सिसृक्षायां ततो नाभेस् तस्य पद्मं विनिर्ययौ ।
तन्-नालं हेम-नलिनं ब्रह्मणो लोकम् अद्भुतम् ॥१८॥

ततश् च सिसृक्षायाम् इति । नालं नाल-युक्तं तद्-धेम-नलिनं ब्रह्मणो जन्म-शयनयोः स्थानत्वात् लोक इत्य् अर्थः ॥१८॥

तत्त्वानि पूर्व-रूढानि कारणानि परस्परम् ।
समवायाप्रयोगाच् च विभिन्नानि पृथक् पृथक् ॥
चिच्-छक्त्या सज्जमानोऽथ भगवान् आदि-पूरुषः ।
योजयन् मायया देवो योग-निद्राम् अकल्पयत् ॥१९॥

तथासङ्ख्य-जीवात्मकस्य समष्टि-जीवस्य प्रबोधं वक्तुं पुनः कारणार्णोनिधि-शायिनस् तृतीय-स्कन्धोक्तानुसारिणीं सृष्टि-प्रक्रियां विवृत्याह—तत्त्वानीति त्रयेण । तत्र द्वयम् आह—मायया स्व-शक्त्या परस्परं तत्त्वानि योजयन्न् इति योजनानन्तरम् एव निरीहतया योग-निद्राम् एव स्वीकृतवान् इत्य् अर्थः ॥ १९ ॥

योजयित्वा तु तान्य् एव प्रविवेश स्वयं गुहाम् ।
गुहां प्रविष्टे तस्मिंस् तु जीवात्मा प्रतिबुध्यते ॥२०॥

अथ तृतीयम् आह—योजयित्वेति । योजयित्वा तद् योजना-योग-निद्रयोर् अन्तराले इत्य् अर्थः । गुहाः विराड्-विग्रहम् । प्रतिबुध्यते प्रलय-स्वापाज् जागर्ति ॥ २० ॥

स नित्यो नित्य-सम्बन्धः प्रकृतिश् च परैव सा ॥२१॥

जीवस्य स्वाभाविकी स्थितिम् आह—स नित्य इत्य् अर्धेनेति । नित्योऽनाद्य्-अनन्त-काल-भावी नित्य-सम्बन्धो भगवता सह समवायो यस्य सः । सूर्येण तद्-रश्मि-जालस्येवेति भावः ।

यत्-तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥ इति नारद-पञ्चरात्रात् ।

ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.६] इति श्री-गीतोपनिषद्भ्यश् च ।

अत एव प्रकृतिः साक्षि-रूपेण स्वरूप-स्थित एव । स्व-प्रतिबिम्ब-रूपेण प्रमातृ-रूपेण प्रकृतिम् इव प्राप्तश् चेत्य् अर्थः । प्रकृतिं विद्धि मे पराम् जीव-भूताम् इति श्री-गीतास्व् एव । द्वा सुपर्णा सयुजा सखाया इति श्रुतिश् च नित्य-स्वरूपं दर्शयति ॥ २१ ॥

एवं सर्वात्म-सम्बन्धं नाभ्यां पद्मं हरेर् अभूत् ।
तत्र ब्रह्माभवद् भूयश् चतुर्-वेदि चतुर्-मुखः ॥२२॥

अथ तस्य समष्टि-जीवास्थानं गुहा-प्रविष्टात् पुरुषाद् उद्भूतम् इत्य् आह—एवम् इति । ततः समष्टि-देहाभिमानिनस् तस्य हिरण्य-गर्भ-ब्रह्मणस् तस्मात् भोग-विग्रहोत्पत्तिम् आह तत्रेति ॥ २२ ॥

स जातो भगवच्-छक्त्या तत्-कालं किल चोदितः ।
सिसृक्षायां मतिं चक्रे पूर्व-संस्कार-संस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत् किम् अपि सर्वतः ॥२३॥

अथ तस्य चतुर्मुखस्य चेष्टाम् आह स जात इत्य् सार्धेन । स्पष्टम् ॥ २३ ॥

उवाच पुरतस् तस्मै तस्य दिव्या सरस्वती ।
कामः कृष्णाय गोविन्द हे गोपी-जन इत्य् अपि ।
वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम् ॥२४॥

अथ तस्मिन् पूर्वोपासना-भाग्य-लब्धां भगवत्-कृपाम् आहोवाचेति सार्धेन । स्पष्टम् ॥ २४ ॥

तपस् त्वं तप एतेन तव सिद्धिर् भविष्यति ॥२५॥

एतद् एव स्पर्शेषु यत् षोडशम् एकविंशम् [भा।पु। २.९.६] इति तृतीय-स्कन्धानुसारेण योजयति तप त्वं इत्य् अर्धेन । स्पष्टम् ॥ २५ ॥

अथ तेपे स सुचिरं प्रीणन् गोविन्दम् अव्ययम् ।
श्वेतद्वीप-पतिं कृष्णं गोलोक-स्थं परात् परम् ॥
प्रकृत्या गुण-रूपिण्या रूपिण्या पर्युपासितम् ।
सहस्र-दल-सम्पन्ने कोटि-किञ्जल्क-बृंहिते ॥
भूमिश् चिन्तामणिस् तत्र कर्णिकारे महासने ।
समासीनं चिद्-आनन्दं ज्योति-रूपं सनातनम् ॥
शब्द-ब्रह्म-मयं वेणुं वादयन्तं मुखाम्बुजे ।
विलासिनी-गण-वृतं स्वैः स्वैर् अंशैर् अभिष्टुतम् ॥२६॥

स तु तेन मन्त्रेण स्व-कामना-विशेषानुसारात् सृष्टि-कृत्-शक्ति-विशिष्टतया वक्ष्यमाणस् तवानुसाराद् गोकुलाख्य-पीठ-गततया श्री-गोविन्दम् उपासितवान् इत्य् आह—अथ तेपे इत्य्-आदि चतुर्भिः । गुण-रूपिण्या सत्त्व-रजस्-तमो-गुण-मय्या रूपिण्या मूर्तिमत्या पर्युपासितं परितस् तद् गोकुलाद् बहिः-स्थितयोपासितं ध्यानादिनार्चितम् । माया परेत्य् अभिमुखे च विलज्जमाना [भा।पु। २.७.४७] इति । बलिम् उद्वहन्त्य् अजया निमिषा इति च श्री-भागवतात् । अंशैस् तद्-आवरण-स्थैः परिकरैः ॥ २६ ॥

अथ वेणु-निनादस्य त्रयी-मूर्ति-मयी गतिः ।
स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः ॥
गायत्रीं गायतस् तस्माद् अधिगत्य सरोजजः ।
संस्कृतश् चादि-गुरुणा द्विजताम् अगमत् ततः ॥२७॥

तद् एवं दीक्षातः परस्ताद् एव तस्य ध्रुवस्येव द्विजत्व-संस्कारस् तद्-आराधितात् तन्-मन्त्राधिदेवाज् जातः इत्य् आह—अथ वेण्व् इति द्वयेन । त्रयी-मूर्तिर् गायत्री वेद-मातृत्वात् । द्वितीय-पद्ये तस्य एव व्यक्तिभावित्वाच् च । तन्-मयी गतिः परिपाटी । मुखाब्जानि प्रविवेशेत्य् अष्ट-कर्णैः प्रविवेशेत्य् अर्थः । आदि-गुरुणा श्री-कृष्णेन ॥२७॥

त्रय्या प्रबुद्धोऽथ विधिर् विज्ञात-तत्त्व-सागरः ।
तुष्टाव वेद-सारेण स्तोत्रेणानेन केशवम् ॥२८॥

ततश् च त्रयीम् अपि तस्मात् प्राप्य तम् एव तुष्टावेत्य् आह—त्रय्येति । केशान् अंशून् अवयति विस्तारयतीति केशवस् तम् ।

अंशवो ये प्रकाशन्ते माम् ते केश-संज्ञिताः ।
सर्वज्ञाः केशवं तस्मान् माम् आहुर् मुनि-सत्तमाः ॥

इति सहस्र-नाम-भाष्योत्थापित-केशव-निरुक्तौ भारत-वचनात् ॥ २८ ॥

चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥२९॥

स्तुतिम् आह चिन्तामणीत्य् आदिभिः । तत्र गोलोकेऽस्मिन् मन्त्र-भेदेन तद्-एक-देशेषु बृहद्-ध्यान-मयादिष्व् एकस्यापि मन्त्रस्य रास-मयादिषु च पीठेषु सत्स्व् अपि मध्यस्थत्वेन मुख्यतया प्रथमं गोलोकाख्य-पीठ-निवास-योग्य-लीलया स्तौति चिन्ताम्णीत्य् एकेन ।

अभि सर्वतो-भावेन वन-नयन-चारण-गो-स्थानानयन-सम्भालन-प्रकारेण पालयन्तं स-स्नेहं रक्षन्तम् । कदाचिद् रहसि तु वैलक्षण्यम् इत्य् आह लक्ष्मीति लक्ष्म्योऽत्र गोप-सुन्दर्य एवेति व्याख्यातम् एव ॥२९॥

वेणुं क्वणन्तम् अरविन्द-दलायताक्षम्-
बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् ।
कन्दर्प-कोटि-कमनीय-विशेष-शोभं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३०॥

तद् एवं चिन्तामणि-प्रकर-सद्म-मयीं कथा-गानं नाट्यं गमनम् अपीति वक्ष्यमाणानुसारेण गोलोखाख्य-विलक्षण-पीठ-गतां लीलाम् उक्त्वा एक-स्थान-स्थितिकां कथा-गानादि-रहितां बृहद्-ध्यानादि-दृष्टां द्वितीय-पीठ-गतां लीलाम् आह वेणुम् इति द्वयेन । वेणुम् इति तत्र स्पष्टम् ॥३०॥

आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी-
रत्नाङ्गदं प्रणय-केलि-कला-विलासम् ।
श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३१॥

आलोलेत्य् आदि । प्रणय-पूर्वको यः केलि-परिहासस् तत्र या वैदग्धी सैव विलासो यस्य तं, द्रव-केलि-परीहासा इत्य् अमरः ॥३१॥

अङ्गानि यस्य सकलेन्द्रिय-वृत्ति-मन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्द-चिन्मय-सद्-उज्ज्वल-विग्रहस्य
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३२॥

तद् एवं लीला-द्वयम् उक्त्वा परमाचिन्त्य-शक्त्या वैभव-विशेषान् आह—अङ्गानीति चतुर्भिः । तत्र श्री-विग्रहस्याङ्गानि हस्तोऽपि द्रष्टुं शक्नोति, चक्षुर् अपि पालयितुं पारयति, तथा अन्यद् अन्यद् अप्य् अङ्गम् अन्यद् अन्यत् कलयितुं प्रभवतीति । एवम् एवोक्तं—सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखम् इत्य् आदि । जगन्तीति । लीला-परिकरेषु तत्-तद्-अङ्गं यथा-स्वम् एव व्यवहरतीति भावः । तत्र च तस्य विग्रहस्य वैलक्षण्यम् एव हेतुर् इत्य् आह आनन्देति ॥३२॥

अद्वैतम् अच्युतम् अनादिम् अनन्त-रूपम्
आद्यं पुराण-पुरुषं नव-यौवनं च ।
वेदेषु दुर्लभम् अदुर्लभम् आत्म-भक्तौ
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३३॥

वैलक्षण्यम् एव पुष्णात्य् अद्वैतम् इति त्रिभिः । अद्वैतं पृथिव्या मयम् अद्वैतो राजेतिवद् अतुल्यम् इत्य् अर्थः । विस्मापनं स्वस्य च तृतीय-स्थस्योद्धव-वाक्यात् । अच्युतं

न च्यवन्ते हि यद् भक्ताः महत्यां प्रलयापदि ।
अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ इति काशी-काण्ड-वचनात् ।

कंसो बताद्याकृतम् एत्य् अनुग्रहं
द्रक्ष्येऽङ्घ्रि-पद्मं प्रहितोऽमुना हरेः ।

कृतावतारस्य दुरत्ययं तमः
पूर्वेऽतरन् यन् नख-मण्डल-त्विषा ॥

यद्-अर्चितं ब्रह्म-भवादिभिः सुरैः श्रिया च इत्य् आदि दशम-स्थाक्रूर-वाक्यान् ।

या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर्
योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् ।

कृष्णस्य तद् भगवतश् चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भा।पु। १०.४७.६२] इति श्रीमद्-उद्धव-वाक्यम् ।

दर्शयामास लोकं स्वं गोपानां तमसः परम् [भा।पु। १०.२८.१४] इत्य् उक्त्वा,

नन्दादयस् तु तं दृष्ट्वा
परमानन्द-निर्वृताः ।

कृष्णं च तत्र च्छन्दोभिः
स्तूयमानं सुविस्मिताः ॥ [भा।पु। १०.२८.१७] इति श्री-शुक-वाक्याच् च ।

अनादिम् इत्य् आदि-त्रयं यथैकादश-साङ्ख्य-कथने, कालो माया-मये जीवः [भा।पु। ११.२४.२७] इत्य् आदौ महा-प्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तदापि तस्य द्रष्टृत्वं स्वयं भगवान् स्वस्मिन्न् आह—

एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः ।
प्रतिलोमानुलोमाभ्यां परावर-दृशा मया ॥ [भा।पु। ११.२४.२९] इति ।

पुराण पुरुषः—एकस् त्वम् आत्मा पुरुषः पुराणः [भा।पु। १०.१४.२०] इति ब्रह्म-वाक्यात् गूढः पुराण-पुरुषो वन-चित्र-माल्यः [भा।पु। ७.१५.५८] इति माथुर-वाक्याच् च ।

तथापि नव-यौवनं—पुरापि नवः पुराण इति निरुक्तेः । गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपम् [भा।पु। १०.४४.१४] इत्य् आदौ । अनुसवाभिनवं इति दशमात् । यस्याननं मकर-कुण्डलादि नित्योत्सवम् [भा।पु। ९.२४.६५] इति नवमात् । सत्यं शौचम् इत्य् आदौ सौभग-कान्त्य्-आदीन् पठित्वा,

एते चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ [भा।पु। १.१६.३] इति प्रथमात् ।

बृहद्-ध्यानादौ तथा श्रवणात्—गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् [गो।ता।उ। १.८] इति तापनी-श्रुतौ । तद्-ध्याने तरुण-शब्दस्य नव-यौवन एव शोभा विधानत्वेन तात्पर्यात् ।

वेदेषु दुर्लभं—भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् [भा।पु। १०.४७.६१] इति । अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव [भा।पु। १०.१४.३४] इति च श्री-दशमात् ।

अदुर्लभम् आत्म-भक्तौ—भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.११] इत्य् एकादशात् । पुरेह भूमन् [भा।पु। १०.१४.५] इत्य् आदि श्री-दशमाच् च ।

यद् वा, ननु तस्यातुल्यत्वे किम् इति स्वार्थः । कथं वातुल्यत्वं निज-भक्तेभ्य आत्मनो देहस्यापि प्रदानात् । किं वावशिष्यत इत्य् आह अच्युतम् इति । निज-भक्तेभ्य आत्म-प्रदानादिनापि न विद्यते च्युतिर् यस्य सदैव एक-रसम् इत्य् अर्थः । तर्हि किं नारायणं स्तौषि तस्यैवाच्युतत्वाद् अनादेश् च नेत्य् आह अनादिम् इति न विद्यते आदिर् यस्य यस्माद् वा सर्वेषां परम-कारणं स्वयं तु स्व-प्रकाशं कारण-शून्यम् इत्य् अर्थः । नन्व् एकेन कथं सर्वेषां परिपालनं घटत इत्य् अत आह अनन्तेति । अनन्तं रूपं यस्य । अथवा प्रपञ्च-गतत्वेन नास्त्य् अन्तो यस्य । अथवा अनन्तस्य रूपं स्वरूपं यस्य । यस्माद् एवांशेनानन्तादीनाम् उत्पत्तिः ।

ननु नारायणाद् एवानन्तादि प्राकाट्य-प्रसिद्धिर् इत्य् आह आद्यं यस्य विलास-रूपो नारायणस् तम् । ननु ज्ञातं तस्यैव पुरुषाख्यानं, नेत्य् आह पुराणेति यस्य विलास-वपुः पुरुषाख्यस् तं नन्व् आयातं तस्य वृद्धत्वम् इत्य् आह नव-यौवनम् इति कैशोरम् इत्य् अर्थः । च-कारात् य एव पुरातनः । स एव किशोर-वया इत्य् अनिर्वचनत्वं नित्यत्वं च । ननु वेदेषु नारायण एव गीयते इत्य् आह । वेदेष्व् इति वेदैस् तत्त्वं ज्ञायते चेत् तेषु सुलभम् इत्य् अर्थः । भक्तिं विना न ज्ञायते इत्य् आह—अदुर्लभम् इति ॥ ३३ ॥

पन्थास् तु कोटि-शत-वत्सर-सम्प्रगम्यो
वायोर् अथापि मनसो मुनि-पुङ्गवानाम् ।
सोऽप्य् अस्ति यत्-प्रपद-सीम्न्य् अविचिन्त्य-तत्त्वे
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३४॥

पन्थास् त्व् इति प्रपद-सीम्नि चरणारविन्दयोर् अग्रे ।

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२]

एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन् बहुधा योऽवभाति । [गो।ता।उ। १.१९] इति गोपाल-तापन्याम् ।

तत्र सिद्धान्तम् आह—अविचिन्त्य-तत्त्वे इति । आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः इति तृतीयात् ।

अचिन्त्याः खलु ये भावा न तांस् तर्केन योजयेत् ।

प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ [म।भा। ६.६.११] इति स्कान्दाद् भारताच् च ।

श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति ब्रह्म-सूत्रात् । अचिन्त्यो हि मणि-मन्त्र-महौषधीनां प्रभावः इति भाष्य-युक्तेश् चेति भावः ॥३४॥

एकोऽप्य् असौ रचयितुं जगद्-अण्ड-कोटिं
यच्-छक्तिर् अस्ति जगद्-अण्ड-चया यद्-अन्तः ।
अण्डान्तर-स्थ-परमाणु-चयान्तर-स्थं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३५॥

अचिन्त्य-शक्तिम् आह—एकोऽप्य् असाव् इति ।

तावत् सर्वे वत्स-पालाः पश्यतोऽजस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ [भा।पु। १०.१३.४६]

इत्य् आरभ्य तैर् वत्स-पालादिभिर् एवानन्त-ब्रह्माण्ड-सामग्री-युत-तत्-तद्-अधि-पुरुषाणां तेनाविर्भावनात् । जगद्-अण्ड-चयेति न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य् आदेः । अणोर् अणीयान् महतो महीयान् [श्वे।उ। ३.२०] इत्य् आदि श्रुतेः । योऽसौ सर्वेषु भूतेष्व् आविश्य भूतानि विदधाति स वो हि स्वामी भवति [गो।ता।उ। २.२२] । योऽसौ सर्व-भूतात्मा गोपालः [गो।ता।उ। २.९४] । एको देवः सर्व-भूतेषु गूढः [गो।ता।उ। २.९६] इत्य् आदि तापनीभ्यः ॥३५॥

यद्-भाव-भावित-धियो मनुजास् तथैव
सम्प्राप्य रूप-महिमासन-यान-भूषाः ।
सूक्तैर् यम् एव निगम-प्रथितैः स्तुवन्ति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३६॥

अथ तस्य साधक-चयेष्व् अपि भक्तेषु वदान्यत्वं वदन्न् इत्य् एषु कैमुत्यम् आह यद्-भावेति । यथा समान-गुण-शील-वयो-विलास-वेशैश् चेत्य् आगम-रीत्या नित्य-तत्-सङ्गिनां तत् साम्यं श्रूयते तथैव सम्भाव्येत्य् अर्थः—

वैरेण यं नृपतयः शिशुपाल-पौण्ड्र-
शाल्वादयो गति-विलास-विलोकनाद्यैः ।

ध्यायन्त आकृत-धियः शयनासनादौ
तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ [भा। ११.५.४८] इत्य् एकादशात् ॥३६॥

तत्-प्रेयसीनां तु किं वक्तव्यम्, यतः परम-श्रीणां तासां साहित्येनैव तस्य तल्-लोके वास इत्य् आह—

आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३७॥
अखिलानां
 गोलोक-वासिनां अन्येषाम् अपि प्रिय-वर्गानां आत्म-भूतः परम-प्रेष्ठतयात्मवद् अव्यभिचार्य् अपि ताभिर् एव सह निवसतीति तासाम् अतिशयित्वं दर्शितम् । अत्र हेतुः—कलाभिः ह्लादिनी-शक्ति-वृत्ति-रूपाभिः । अत्रापि वैशिष्ट्यम् आह—आनन्द-चिन्मयो यो रसः, परम-प्रेम-मय उज्ज्वल-नामा, तेन प्रतिभाविताभिः । पूर्वं तावत् तासां तन्-नाम्ना रसेन सोऽयं भावितो वासितो जातः । ततश् च तेन याः प्रतिभाविता जाताः, ताभिः सह इत्य् अर्थः । प्रति-शब्दाल् लभ्यते । यथा प्रत्य्-उपकृतः स इत्य् उक्तेः ।

तस्य प्राग्-उपकारित्वम् आयाति तद्वत् तत्रापि निज-रूपतया स्व-दारत्वेनैव, न तु प्रकट-लीलावत् पर-दारत्व-व्यवहारेणेत्य् अर्थः । परम-लक्ष्मीणां तासां तत्-पर-दारत्वासम्भवाद् अस्य स्व-दारत्व-मय-रसस्य कौतुकावगुण्ठिततया सौमुत्कण्ठा पोषणार्थं प्रकट-लीलायां माययैव तादृशत्वं व्यञ्जितम् इति भावः ।

य एव इत्य् एव-कारेण यत् प्रापञ्चिक-प्रकट-लीलायां तासु पर-दारता-व्यवहारेण निवसति, सोऽयं य एव तद्-अप्रकट-लीलायां तासु पर-दारता व्यवहारेण निवसति, सोऽयं य एव तद्-अप्रकट-लीलास्पदे गोलोके निज-रूपता-व्यवहारेण निवसतीति व्यज्यते । तथा च व्याख्यातं गौतमीय-तन्त्रे तद्-अप्रकट-नित्य-लीला-शीलन-दशार्ण-व्याख्याने—अनेक-जन्म-सिद्धानाम् इत्य् आदौ दर्शितम् एव । गोलोक एवेत्य् एव-कारेण सेयं लीला तु क्वापि नान्यत्र विद्यते इति प्रकाश्यते ॥३७॥

**दिग्-दर्षनी (बृ।भा। २.७.९२)- **तत्रादाव् उक्तं श्री-गोलोक-माहात्म्यम् एव मधुर-मधुर-विशेष-वचनैः पुनः पुनश् च स-प्रमाणम् इव प्रमाणयन् तल्-लोकाधिपतेः श्री-गोविन्दस्य भगवतस् तत्रत्य-परिवार-परिच्छदादीनां च माहात्म्य-विशेष-पराणि ब्रह्म-संहितायाम् अनन्ताख्याने आदि-पुरुष-स्तोत्रस्य चतुष्-पद्यान्य् आह—आनन्द- [ब्र।सं। ५.४२] इत्य्-आदीनि ।

यो गोविन्दस् ताभिः सुप्रसिद्धाभिर् अनिर्वचनीयाभिर् वा कलाभिर् वैदग्धीभिः गुण-रूपादि-सम्बन्धि-विचित्र-शोभाभिर् वा क्रीडाभिर् वा । यद् वा, निजांश-भूतैर् गोप-गोपी-प्रभृतिभिः सह गोलोक एव, न त्व् अन्यत्र नितरां वसति । कथं-भूताभिः ? निज-रूपतया स्वाभाविकतया, यद् वा, गोविन्दस्य स्वरूपत्वेन समान-रूपत्वेन वा, आनन्द-चिन्-मयेन परम-सुखात्मकेन रसेन अनुभव-विशेषेण, यद् वा, आनन्द-ज्ञान-घनेन भाव-विशेषेण गोविन्दस्य प्रतिबिम्बतया तद्-रस-तद्-रस-प्रतिमा-रूपतया वा प्रतिभाविताभिर् निर्मिताभिः, यद् वा, तद्-रसेन प्रतिक्षण-नूतनतया संस्कृताभिः । अखिलानां जीवानाम् आत्म-भूतः अन्तर्यामितया परमात्मत्वेन सदा हृदि वसन्न् अपीत्य् अर्थः । यद् वा, अखिलानाम् आत्मनि चित्ते भूतः नित्यं प्रकटतया स्थितोऽपि, एवम् अपि स एवार्थः । आदि-पुरुषं सर्वावतार-बीजत्वात् श्री-वैकुण्ठ-नाथादिभ्योऽपि श्रेष्ठत्वाच् च । तम् इति परमोर्ध्वतर-श्री-गोलोकेऽत्यन्त-दूरे निवासित्वेन परोक्षवद् उक्तिः ॥९२॥

कृष्ण-सन्दर्भ (१८६)- ताभिः श्री-गोपीभिर् मन्त्रे तच्-छब्द-प्रयोगात्[^३] । कलाभिः शक्तिभिः । निज-रूपतया स्व-स्वरूपतया । शक्तित्वं च तासां पूर्वोक्तोत्कर्षेण परम-पूर्ण-प्रादुर्भावानां सर्वासाम् अपि लक्ष्मीत्वम् एव । तद् उक्तं तत्रैव—लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इति, श्रियः कान्ताः कान्तः परम-पुरुषः [ब्र।सं। ५.२९] इति च । एतद् अभिप्रेत्यैव स्वायम्भुवागमेऽपि श्री-भू-लीला-शब्दैस् तत्-प्रेयसी-विशेष-त्रयम् उपदिष्टम् । तस्माल् लक्ष्मीतोऽप्य् उत्कर्ष-वर्णनम् आसां पर-व्योमादि-स्थिताभ्यस् तन्-नाम्नैव लक्ष्मीभ्य आधिक्य-विवक्षयेति मन्तव्यम् । श्री-वृन्दावन-लक्ष्म्यस् त्व् एता एवेति ।

एवम् एव पाद-न्यासैर् भुज-विधूतिभिः [भा।पु। १०.३३.७] इत्य्-आदौ कृष्ण-वध्वः इत्य् उक्तम् । अत एव गोपी-जनाविद्या-कला-प्रेरकः [गो।ता।उ। १.८] इत्य् अत्र तापनी-वाक्ये श्रीमद्-दशाक्षरस्थ-नाम-निरुक्तौ ये गोपी-जनास् ते आ सम्यग् या विद्या परम-प्रेम-रूपा तस्याः कला वृत्ति-रूपा इति व्याख्येयम् । राज-विद्या राज-गुह्यम् [गीता ९.२] इत्य् आदि श्री-गीता-प्रकरणात् । (अविद्या-कला-शब्देन अविद्यैव कला वृत्तिर् यस्याः सा सर्वेन्द्रिय-विमोह-कारिणी प्रेम-शक्तिर् एवाख्याता ।) व्याख्यान्तरे भगवत्य् अविद्या-संश्लेषाभावात् । तद् उक्तं—

ह्लादिन्या संविद्-आश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्या-संवृतो जीवः संक्लेश-निकराकरः ॥ इति स्वामि-सूक्तौ । तथा—

ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९] इति विष्णु-पुराणे च ।

[ब् हेरे अद्द्स्- अथवा वैभव-मात्राभिज्ञान् प्रति विराड्-उपासनावत् गोपीजन-शब्दस्यान्य-निरुक्तिर् इयम् । यथा तत्रैव गोपाल-पद-निरुक्तौ सृष्टि-पर्यन्तम् आलातीत्य् उक्तम् । तत्राविद्या-कला-शब्देन मायैवोच्यते इति । ब् अद्दितिओन् एन्द्स्।]

ततस् तासां प्रेरकस् तत्-तत्-क्रीडायां प्रवर्तक इति वल्लभ-शब्देनैकार्थ्यम् एव । स वो हि स्वामी इति तस्याम् एव श्रुतौ ताः प्रति दुर्वाससो वाक्यात् । यच् च तासां क्वचित् पूर्व-जन्मनि साधकत्वम् इव श्रूयते । तत् तु पूर्वासाम् एव व्याख्येयम् । तास् तु नित्य-सिद्धा एव । अत इदम् इत्थम् एव व्याख्येयम्—

ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ [भा।पु। १०.३२.१०]

यथा यथावत् । अत एवाधिकं व्यरोचत इत्य् उक्तम् उपपद्यते, स्व-शक्त्य्-एक-प्रकाशकत्वात् श्री-भगवतः—

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् ।
गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तं विजह्रिरे ॥ [भा।पु। १०.३३.१५]

गोप्य एव श्रियः । कान्तं मनोहरम् । एकान्त-वल्लभं रहो-रमणम् (अपाणिग्राहकत्वात्) ॥

लोचन-रोचनी (श्री-जीव, उज्ज्वल-नीलमणि ३.५५)- तत्र प्रमाणं दर्शयति—आनन्द-चिन्मयेति । कलाभिः स्वांश-रृऊपाभिः शक्तिभिः निज-रूपतया स्वीयत्वेन न त्व् अवतार-लीलायाम् इव परकीयात्वाभासेनेत्य् अर्थः ॥५५॥

विश्वनाथः (उज्ज्वल-नीलमणि ३.५५)- आनन्देति ब्रह्मणः स्तुतिः । श्री-कृष्णस्य यत् सच्-चिद्-आनन्द-स्वरूपत्वं, तत्र ये आनन्द-चिन्-मया आनन्दानुभव-मया रस्, तैः प्रतिभाविताभिः, ततः पृथक्त्वेनाविर्भाविताभिः—ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रया [वि।पु। १.१२.६८] इति वैष्णवात् । यद् वा, आनन्द-चिन्-मयैर् अप्राकृतैः प्रेम-रूपैर् इत्य् अर्थः । रसैः शृङ्गारैः प्रतिभाविताभिः । आदौ ताभिर् भावितः, पश्चात् ता अपि स्वेन भाविताः, भाव-युक्ती-कृता इति परस्पर-भाव-निष्ठत्वं प्रति-शब्द-बलाद्य्-आख्यातम् । निजस्य रूपतया ताभिः स्वरूप-भूताभिः शक्तिभिर् इत्य् अर्थः । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया [श्वे।उ। ६.८] च इति श्रुतेः । विष्णु-शक्तिः परा प्रोक्ता [वि।पु। ६.७.६१] इति ह्लादिनी इत्य्-आदि विष्णु-पुराणाच् च । कलाभिर् इति करण-पदं शृङ्गारोपयोगिनीभिश् चतुःषष्ठि-कलाभिर् निवसति । निरन्तरं विहर्तुम् इत्य् अर्थः । अखिलात्म-भूतोऽखण्ड-परमात्माकारः सन् गोलोके महा-वैकुण्ठोपरितेन कृष्ण-लोके, तथा प्रपञ्चान्तर्-वर्ति-भूर्-लोकस्थे गोकुलेऽखिलानां सर्वेषाम् आत्म-भूतो जीवनी-भूतः । मानुषाकार इत्य् अर्थः । गोलोक-शब्दस्योभयत्रैव प्रवृत्ति-दर्शनात् । यद् उक्तं ब्रह्म-संहितायां—गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवी-महेश-हरि-धाम इत्य् आदिषु । तथा हरि-वंशे—

ऽऽऽ

गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना । ऽऽऽ

ऽधृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ऽ [ह।वं। २.१९.३४-३५] इति ।

रक्षित इति शेषः । गोलोक-शब्दस्योभय-वाचित्वेऽपि दुरारोहो हि सा गतिः इत्य् अनेन गोकुलस्योत्कर्षः सूचितः । गोलोक एवेति । एव-कारो वैकुण्ठान्तर-व्यावर्तकः ॥५५॥

प्रेमाञ्जन-च्छुरित-भक्ति-विलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरम् अचिन्त्य-गुण-स्वरूपं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३८॥

यद्यपि गोलोक एव निवसति तथापि प्रेमाञ्जनेति । अचिन्त्य-गुण-स्वरूपम् अपि प्रेमाख्यं यद् अञ्जन-च्छुरितवद् उच्चैः प्रकाशमानं भक्ति-रूप-विलोचनं तेनेत्य् अर्थः । तेन प्रतिबिम्बवद् दूराद् अप्य् उदितं हृदये मनस्य् अपि पश्यन्तीत्य् अर्थः । भक्तिर् अत्र समाधिः । तद् उक्तं श्री-गीतासु—ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् [गीता ९.२९] इति ॥३८॥

रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३९॥

स एव कदाचित् प्रपञ्चे निजांशेन स्वयम् अवतरतीत्य् आह—रामादीति । यः कृष्णाख्यः परमः पुमान् कला-नियमेन तत्र तत्र नियतानाम् एव शक्तीनां प्रकाशेन रामादि-मूर्तिषु तिष्ठन् तत्-तन्-मूर्तीः प्रकाशयन् नानावतारम् अकरोत् । य एव स्वयं समभवद् अवततार । तं लीला-विशेषेण गोविन्दं सन्तम् अहं भजामीत्य् अर्थः । तद् उक्तं श्री-दशमे देवैः—

मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृतावतारः ।

त्वं पासि नस् त्रि-भुवनं च यथाधुनेश
भारं भुवो हर यदूत्तम वन्दनं ते ॥ [भा।पु। १०.२.४०] इति ॥३९॥

यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४०॥

तद् एवं तस्य सर्वावतारित्वेन पूर्णत्वम् उक्त्वा स्वरूपेणाप्य् आह यस्येति । द्वयोर् एक-रूपत्वेऽपि विशिष्टतयाविर्भावात् श्री-गोविन्दस्य धर्मि-रूपत्वम् अविशिष्टतयाविर्भावात् ब्रह्मणो धर्म-रूपत्वं ततः पूर्वस्य मण्डल-स्नानीयत्वम् इति भावः । तत्र विष्णु-पुराणम् अपि सम्प्रवदते शुभाश्रयः स-चित्तस्य सर्वगस्य तथात्मनः [वि।पु। ६.७.७६] इति । व्याख्यातं च श्रीधर-स्वामिभिः—सर्वगस्यात्मनः पर-ब्रह्मणो अप्य् आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति ।

अत एवैकादशे स्व-विभूति-गणनायां तद् अपि स्वयं गणितम्—

पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् ।
विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ [भा।पु। ११.१६.३७] इति ।

टीका चात्र—परं ब्रह्म च इत्य् एषा । श्री-मत्स्य-देवेनाप्य् अष्टमे तथोक्तम्—मदीयं महिमानं च परं ब्रह्मेति शब्दितम् [भा।पु। ८.२४.३८] । अत एव श्री-यामुनाचार्य-चरणैर् अपि—

यद्-अण्डान्तर-गोचरं च यद्
दशोत्तराण्य् आवरणानि यानि च ।

गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः ॥ [स्तोत्र-रत्नम् १४] इति ।

अत एवाह ध्रुवश् चतुर्थे—

या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।

सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ [भा।पु। ४.९.१०]

अतएवात्मारामाणाम् अपि तद् गुणेनाकर्षः श्रूयते ।

आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्भूतो गुणो हरिः ॥ [भा।पु। १.७.११] इति ।

अत्र विशेष-जिज्ञासा चेत् श्री-भागवत-सन्दर्भो दृश्यताम् इत्य् अलम् अतिविस्तरेण ॥४०॥

दिग्दर्शिनी [बृ।भा। २.१.१७९]- यस्य प्रभा कला अंशः ब्रह्म, तद् अनिरूप्यम् । तद् एव विशिनष्टि—निष्कलम् इति पद-त्रयेणेति । तथा च एकादश-स्कन्धेऽपि[^४]—

अनारम्भं तमो यान्ति परमात्म-विनिन्दनात् ।
पराधीनश् च बद्धश् च स्वल्प-ज्ञान-सुखे हितः ॥

अल्प-शक्तिः सदोषश् च जीवात्मा नेदृशः परः ।
वदता तु तयोर् ऐक्यं किं तैर् न दुष्कृतं कृतम् ॥

अन्तर्याम्य्-ऐक्य-वाचीनि वचनानीह यानि तु ।
तानि दृष्ट्वा भ्रमन्तीह दुरात्मानोऽल्प-चेतसः ॥

अस्य् अस्मि त्वम् अहं स्वात्मेत्य्-अभिदा गोचरो यतः ।
सर्वान्तरत्वात् पुरुषस् त्व् अन्तर्यामी भिदाम् अयन् ॥

अतो रमन्ति वचनैर् असुरा मोह-तत्-परैः ।
तन्-मोहने परा प्रीतिर् देवानां परमस्य च ।

अतो महान्ध-तमसि नरके यान्त्य् अभेदतः ॥ इत्य्-आदि ॥

यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४०॥
बलदेवः
 - नराकृतेः सान्द्र-चैतन्य-राशेः कृष्णस्य निराकारश् चैतन्य-राशिः प्रभा-स्थानीयो ब्रह्म-प्रकाशत्वेनोच्यते, इत्य् अत्र प्रमाणं वाचनिकम् आह—यस्य प्रभेत्यादि । प्रभवतो यस्य प्रभा, तद् ब्रह्मतं गोविन्दम् अहं भजामि इत्य् अन्वयः ।

कीदृशं ब्रह्म? इत्य् आह—जगद्-अण्ड-कोटि-कोटिषु असङ्ख्यातेषु जगद्-अण्डेषु, **वसुधादिभिर् विभूतिभिर् भिन्नं, **कारणात्मना एकं तत्-कार्यात्मना असङ्ख्यातम् इत्य् अर्थः ।

ननु सोऽकामयत बहु स्याम् [तै।उ। २.६] इत्य्-आदौ प्रभोर् एव परेशात् कार्यं श्रुतं, न तु तत् प्रभाया इति चेत्? उच्यते । प्रभोः प्रभैव कार्य-निष्पादिकेति विवक्षया तद्-उक्तिर् इति तत्-प्रभयैव क्षुब्धा प्रकृतिर् जगद्-अण्डान्य् असूतेत्य् अर्थः । केवलाद्वैतिभिर् यद् ब्रह्म स्वरूपं निर्णीयते, तद् अत्र नाभिमतं । तद् धि निर्धर्मकं शब्दा वाच्यम् अद्वितीयश् च । इदं तु विशुद्धत्व-प्रकाश-मयत्वादि-धर्म-युक्, शास्त्र वाच्यं, जगत्-कारणत्वात् स द्वितीयश् चेति महद्-अन्तरम् ।

किं च, तद्-अभिमतं ब्रह्म तु न श्रद्धेयं, तस्मिन् प्रमाणाभावात्; न तावत् तत्र प्रत्यक्षं प्रमाणं, रूपादि-विरहात् । नाप्य् अनुमानं, तद् व्याप्य-लिङ्गाभावात्, न च शब्दः, प्रवृत्ति-निमित्तस्य जात्यादेर् अभावात्, न च लक्षणा, सर्व-शब्दा-वाच्ये तस्या असम्भवात्, न च तत्-पक्षे ततः सृष्टिः, तद्-धेतोः सङ्कल्प-शक्तेर् विरहात्, न चोपदेशः, उपदेष्टुर् उपदेश्यस्य चाभावात् ।

ननु भ्रान्त्या तत्-तत्-सिद्धिः? मैवम् । क्व भ्रमः, ब्रह्मणि जीवे वा ? नाद्यः विज्ञान-राशेस् तस्य तद्-असम्भवात् । नान्त्यः प्राग्-अभ्रान्तेस् तस्यैवाभावात्, इति तुच्छं तत् ॥१०२॥

माया हि यस्य जगद्-अण्ड-शतानि सूते
त्रैगुण्य-तद्-विषय-वेद-वितायमाना ।
सत्त्वावलम्बि-पर-सत्त्वं विशुद्ध-सत्त्वं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४१॥

तद् एवं तस्य स्वरूप-गत-माहात्म्यं दर्शयित्वा जगद्-गत-माहात्म्यं दर्शयति द्वाभ्याम् । तत्र बहिरङ्ग-शक्ति-मायाचिन्त्य-कार्य-गतम् आह माया हीति । मायया हि तस्य स्पर्शो नास्तीत्य् आह सत्त्वेति । सत्त्वस्य रजस्-तमो-मिश्रस्याश्रयि यत् परं तद् अमिश्रं शुद्धं सत्त्वं तस्माद् अपि विशुद्धं चिच्-छक्ति-वृत्ति-रूपं सत्त्वं यस्य तम् । तथोक्तं श्री-विष्णु-पुराणे—

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥

ह्लादिनी सन्धिनी संवित् त्वय्य् एका गुण-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.९.४४-४५] इति ।

विशेषतः श्री-भागवत-सन्दर्भे तद् इदम् अपि विवृतम् अस्ति ॥ ४१ ॥

आनन्द-चिन्मय-रसात्मतया मनःसु
यः प्राणिनां प्रतिफलन् स्मरताम् उपेत्य ।
लीलायितेन भुवनानि जयत्य् अजस्रं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४२॥

अथ तन्-मय-मोहनत्वम् आह—आनन्देति । आनन्द-चिन्-मयस्य उज्ज्वलाख्यः प्रेम-रसः, तद्-आत्मतया तद्-आलिङ्गिततया प्राणिनां मनःसु प्रतिफलन् सर्व-मोहन-स्वांश-च्छुरित-परमाणु-प्रतिबिम्बतया किञ्चिद् उदयन्न् अपि स्मरताम् उपेत्य इत्य्-आदि योज्यम् । यद् उक्तं रास-पञ्चाध्याय्यां—साक्षान् मन्मथ-मन्मथः [भा।पु। १०.३२.२] इति, चक्षुषश् चक्षुः [के।उ। १.२] इतिवत् । तद् एवं तत्-कारणत्वेऽपि स्मरावेशस्य दुष्टत्वं जगद्-आवेशवत् ॥४२॥

गोलोक-नाम्नि निज-धाम्नि तले च तस्य
देवि महेश-हरि-धामसु तेषु तेषु ।
ते ते प्रभाव-निचया विहिताश् च येन
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४३॥

तद् इदं प्रपञ्च-गतं माहात्म्यम् उक्त्वा निज-धाम-गत-माहात्म्यम् आह गोलोकेति । देवी-महेशेत्य्-आदि-गणनं व्युत्क्रमेण ज्ञेयम् । देव्य्-आदीनां यथोत्तर-मूर्धार्ध-प्रभवत्वात् तल्-लोकानाम् ऊर्ध्वोर्ध्व-भावित्वम् इति । गोलोकस्य सर्वोर्ध्व-गामित्वं व्यापकत्वं च व्यवस्थापितम् अस्ति । भुवि प्रकाशमानस्य वृन्दावनस्य तु तेनाभेदः पूर्वत्र दर्शितः ।

स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघन्तोपद्रवान् गवाम् ॥ [ह।वं। ६२.३३] इति ।

इत्य् अनेनाभेदेनैव हि गोलोक एव निवसतीत्य् एव-कारः संघटते । यतो भुवि प्रकाशमानेऽस्मिन् वृन्दावनेऽपि तस्य नित्य-विहारित्वं श्रूयते । यथा आदि-वाराहे—

वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥

तत्र च विशेषतः—

कृष्ण-क्रीडा-सेतु-बन्धं महापातक-नाशनम् ।
वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥

गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने ।
तत्रैव रमणार्थं हि नित्य-कालं स गच्छति ॥ इति ।

अत एव गौतमीये श्री-नारद उवाच—

किम् इदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते ।
श्रोतुम् इच्छामि भगवन् यदि योग्योऽस्मि मे वद ॥

श्री-कृष्ण उवाच—
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।

अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥

अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥

पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥

अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥

आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति

एतद्-रूपम् एवाश्रित्य वाराहादौ ते नित्य-कदम्बादयो वर्णिताः । तस्माद् अदृश्यमानस्यैव वृन्दावनस्य अस्मद्-अदृश्य तादृश-प्रकाश-विशेष एव गोलोक इति लब्धम् । यदा चास्मद्-दृश्यमाने प्रकाशे स-परिकरः श्री-कृष्ण आविर्भवति तदैव तस्यावतार उच्यते । तदैव च रस-विशेष-पोषाय संयोग-विरहः, पुनः संयोगादिमय-विचित्र-लीला-पारदार्यादि-व्यवहारश् च गम्यते । यदा तु यथात्र यथा वान्यत्र तन्त्र-यामल-संहिता-पञ्चरात्रादिषु तथा दिग्-दर्शनेन विशेषा ज्ञेयाः । तथा च दशमे जयति जन-निवासो देवकी-जन्म-वादः [भा।पु। १०.९०.४८] इत्य् आदि । तथा च पाद्मे निर्वाण-खण्डे श्री-भगवद्-व्यास-वाक्ये—

पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् ।
ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ॥

गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥ इति ।

अनेन अत्र या गोप-कन्याश् चेति पूर्वोक्तेन चानालब्ध-स्त्री-धर्म-वयस्कतादि-बोधकेन कन्या-पदेन तासाम् अन्यादृशत्वं निराक्रियते । तथा च गौतमीये चतुर्थाध्याये—अथ वृन्दावनं ध्यायेत् इत्य् आरभ्य तद्-ध्यानं—

स्वर्गाद् इव परिभ्रष्ट कन्यका-शत-मण्डितम् ।
गोप-वत्स-गणाकीर्णं वृक्ष-षण्डैश् च मण्डितम् ॥

गोप-कन्या-सहस्रैस् तु पद्म-पत्रायतेक्षणैः ।
अर्चितं भाव-कुसुमैस् त्रैलोक्यैक-गुरुं परम् ॥ इत्य् आदि ।

तद्-दर्शनादिकारी च दर्शितस् तत्रैव सद्-आचार-प्रसङ्गे—

अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।

अत एव तापन्यां ब्रह्म-वाक्यम्—तद् उ होवाच ब्रह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः । परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः पुरस्ताद् आविर्बभूव ॥ इति तस्म्âत् क्षीरोद-शाय्य् आद्य्-अवतारतया तस्य यत् कथनं तत् तु तद्-अंशानां तत्र प्रवेशापेक्षया । अलम् अतिविस्तरेण श्री-कृष्ण-सन्दर्भे दर्शित-चरेण ॥४३॥

दिग्-दर्षनी (बृ।भा। ३.७.९३)- आदि-पुरुषत्वादि-माहात्म्य-विशेषम् एवाभिव्यञ्जयति—गोलोकेति । गोलोक इति नाम यस्य, तस्मिन् निजे धाम्नि स्थाने, तथा तस्य गोलोकस्य तले अधस्ताद् वर्तमानेषु देवी-महेशयोः हरेश् च श्री-वैकुण्ठ-नाथस्य धामसु लोकेषु श्री-वैकुण्ठादिषु, तेषु तेषु परमानिर्वचनीयषु, यद् वा, तेषु तषु च महा-काल-पुर-प्रभृतिषु अनन्त-लोकाः, तेषु पूर्व-पूर्वोद्दिष्टेषु स्थानेष्व् अपि ।

देवी-सद्म महेश-लोकाधस्तात् तल्-लोकान्तर्गतम् एव । यद् वा, देवी अष्टमावरणाधिष्ठात्री प्रकृतिः, अदौ तन्-निर्देशः अधो-लोकतोऽनुक्रमापेक्षया । एतत् स्तोत्र-कर्तुस् तद्-अधः-स्थितेः प्रभावो वैभव-विशेषः शक्ति-विशेषो वा सच्-चिद्-आनन्द-रुपत्वादिनैक्येऽपि विविध-विशेषवत्त्वादिः तस्य निचयाः समूहा येन गोविन्देन विहिताः प्रकटिता इत्य् अर्थः । एवं श्री-गोविन्दस्य तस्य परिवारादीनां च माहात्म्य-विशेषोक्त्या श्री-गोलोकस्यैव माहात्म्य-विशेष उक्तः ॥९३॥

सृष्टि-स्थिति-प्रलय-साधन-शक्तिर् एका
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपम् अपि यस्य च चेष्टते सा
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४४॥

अथ प्रस्तुतम् अनुसरामः । पूर्वं देवी-महेश-हरि-धाम्नाम् उपरिचर-धामत्वं तस्य चरितं, सम्प्रति तु तत्-तद्-आश्रयत्वाद् एव योग्यम् इति दर्शयति सृष्टीति पञ्चभिः । यथोक्तं श्रुतिभिः—त्वम् अकरणः स्वराड् अखिल-कारक-शक्ति-धरस् तव बलिम् उद्वहन्ति समदन्त्यजया निमिषा इति ॥४४॥

क्षीरं यथा दधि विकार-विशेष-योगात्
सञ्जायते न हि ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४५॥

अथ क्रम-प्राप्तं महेशं निरूपयति—क्षीरम् इति । कार्य-कारण-भाव-मात्रांशे दृष्टान्तोऽयं, दार्ष्टान्तिक-कारणस्य निर्विकारत्वात्, चिन्तामण्य्-आदिवद् अचिन्त्य-शक्त्यैव तद्-आदि-कार्यतयापि स्थितत्वात् ।

श्रुतिश् च—एको नारायण एवाग्र आसीत्, न ब्रह्मा न च शङ्करः, स मुनिर् भूत्वा समचिन्तयत् । तत एवैते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर् वरुण-रुद्रेन्द्राः इति । तथा, स ब्रह्मणा सृजति रुद्रेण नाशयति । सोऽनुत्पत्ति-लय एव हरिः । कारण-रूपः परः परमानन्दः । इति ।

शम्भोर् अपि कार्यत्वं गुण-संवलनात् । यथोक्तं श्री-दशमे—

हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भा।पु। १०.८८.५] इति ।

एतद् एवोक्तं—विकार-विशेष-योगाद् इति । कुत्रचिद् अभेदोक्तिर् या दृश्यते ताम् अपि समादधाति—ततो हेतोः पृथक्त्वं नास्तीति । यथोक्तम् ऋग्-वेद-शिरसि—अथ नित्यो देव एको नारायणः । ब्रह्मा नारायणः । शिवश् च नारायणः । शक्रश् च नारायणः । द्वादशादित्याश् च नारायणः । वासवो नारायणः । अश्विनी नारायणः । सर्वे ऋषयो नारायणः । कालश् च नारायणः । दिशश् च नारायणः । अधश् च नारायणः । ऊर्ध्वश् च नारायणः । अन्तर् बहिश् च नारायणः । नारायण एवेदं सर्वं जातं जगत्यां जगद् इत्य् आदि ।

द्वितीये ब्रह्मणा त्व् एवम् उक्तं—

सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ [भा।पु। २.६.३३] इति ॥४५॥

बलदेवः - पुरुष-धामत्वात् निर्गुणत्वं, तमो-योगात् विकारवत्त्व-भणितिः, इत्य् अत्र प्रमाणं—क्षीरं यथेति । विकार-विशेष-योगात् क्षीरं यथा दधि सञ्जायते, ततः क्षीरात् हेतोः दधि पृथक् भिन्नं न अस्ति न भवति, तथा, यः गोविन्दः तमो-योगात् स्वेच्छा-गृहीत-तमः-सम्बन्धात्, शम्भुर् भवति, न तु गोविन्दात् शम्भुर् अन्य इत्य् अर्थः । तथा च विकारस्यागन्तुकत्वात् स्वरूपे न तत्-प्रसङ्ग इति ॥४५॥

दीपार्चिर् एव हि दशान्तरम् अभ्युपेत्य
दीपायते विवृत-हेतु-समान-धर्मा ।
यस् तादृग् एव हि च विष्णुतया विभाति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४६॥

अथ क्रम-प्राप्तं हरि-स्वरूपम् एकं निरूपयन् गुणावतार-महेश-प्रसङ्गाद् गुणावतारं विष्णुं निरूपयति—दीपार्चिर् इति । तादृक्त्वे हेतुः—विवृत-हेतु-समान-धर्मेति । यद्यपि श्री-गोविन्दांशांशः कारणार्णव-शायी, तस्य गर्भोदक-शायी, तस्य चावतारोऽयं विष्णुर् इति लभ्यते, तथापि महा-दीपात् क्रम-परम्परयातिसूक्ष्म-निर्मल-दीपस्योदितस्य ज्योती-रूपत्वांशे यथा तेन सह साम्यं, तथा गोविन्देन विष्णुर् गम्यते ।

शम्भोस् तु तमोऽधिष्ठानत्वात् कज्जल-मय-सूक्ष्म-दीप-शिखा-स्थानीयस्य, न तथा साम्यम् इति बोधनाय तद् इत्थम् उच्यते । महा-विष्णोर् अपि कला-विशेषत्वेन दर्शयिष्यमाणत्वात् ॥४६॥

यः कारणार्णव-जले भजति स्म योग-
निद्राम् अनन्त-जगद्-अण्ड-स-रोम-कूपः ।
आधार-शक्तिम् अवलम्ब्य परां स्व-मूर्तिं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४७॥

अथ कारणार्णव-शायिनं निरूपयति । अनन्त-जगद्-अण्डैः सह रोम-कूपा यस्य सः । सह-शब्दस्य पूर्व-निपाताभाव आर्षः । आधार-शक्ति-मयीं परां स्व-मूर्तिं, शेषाख्याम् ॥४७॥

यस्यैक-निःश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४८॥

तत्र सर्व-ब्रह्माण्ड-पालको यस् तवावतारतया महा-ब्रह्मादि-सहचरत्वेन तद्-अतिभिन्नत्वेन च महा-विष्णुर् दर्शितः । अत्र च तम् अप्य् एवं तत्-सलक्षणतया वर्णयति । तत्-तज्-जगद्-अण्ड-नाथा विष्ण्व्-आदयो जीवन्ति तत्-तद्-अधिकारितया जगति प्रकटं तिष्ठन्ति ॥४८॥

**दुर्गम-सङ्गमनी (२.१.२५०) - **यस्यैक-निःश्वसित-कालम् इत्य् अत्र च गोविन्द-शब्देन च तत्र श्री-व्रजेन्द्र-नन्दन एवोच्यते । सुरभीर् अभिपालयनतम् [ब्र।सं। ५.२९] इत्य् आदिना वेणुं क्वणन्तम् [ब्र।सं। ५.३०] इत्य् आदिना च पूर्वं तस्यैव वर्णनात् । ततस् तन् महा-माधुर्यम् अपि सूचितम् । न चायं श्री-नन्द-नन्दनाद् अन्य एव मन्तव्यः । गौतमीये दशार्णष्टादशार्णयोर् व्याख्यायाम्—

अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥

इति बहुष्व् अर्थेष्व् अप्य् अस्यैवार्थस्य पर्यवसायित्वात् । सकल-लोक-मङ्गलो नन्द-गोप-तनयो देवता इति ऋष्य्-आदि-स्मरणाच् च ॥४८॥

बलदेवः - गर्भोदशयस्य कृष्णांशत्वे ब्रह्म-वाक्यम् आह—यस्येति । यस्य गर्भोदशयस्य पुरुषस्य एक-निःश्वसित-कालम् अवलम्ब्य, जगद्-अण्ड-नाथाः—ब्रह्म-विष्ण्व्-ईशाः जीवन्ति तत्-तत्-कार्याधिकारितया वर्तन्ते । समाकृष्टे श्वासे प्रलये सति तत् तत् कार्याधिकारा न भवन्तीति ईदृशो विष्णुः, सः, यस्य—गोविन्दस्य, कला-विशेषः—स्वांशः, भवतीति ॥

भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयम् कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एष जगद्-अण्ड-विधान-कर्ता
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४९॥

तद् एवं देव्य्-आदीनां तद्-आश्रयकत्वं दर्शयित्वा प्रसङ्ग-सङ्गत्या ब्रह्मणश् च दर्शयन्न् अतीव-भिन्नतया जीवत्वम् एव स्पष्टयति—भास्वान् इति । भास्वान् सूर्यो, यथा निजेषु नित्य-स्वीयत्वेन विख्यातेष्व् अश्म-सकलेषु सूर्य-कान्ताख्येषु स्वीयं किञ्चित् तेजः प्रकटयति । अपि-शब्दात् तेन तद्-उपाधिकांशेन दाहादि-कार्यं स्वयम् एव करोति । तथा य एव जीव-विशेष-किञ्चित्-तेजः प्रकटयति । तेन तद्-उपाधिकांशेन स्वयम् एव ब्रह्मा सन् जगद्-अण्डे ब्रह्माण्डे विधान-कर्ता व्यष्टि-सृष्टि-कर्ता भवतीत्य् अर्थः ।

यद् वा, महा-ब्रह्मैवायं वर्ण्यते । तद्-उपलक्षितो महा-शिवश् च ज्ञेयः । ततश् च जगद्-अण्डानां विधान-कर्तृत्वं च युक्तम् एव । यद्यपि दुर्गाख्या माया कारणार्णव-शायिन एव कर्म-करी, यद्यपि च ब्रह्म-विष्ण्व्-आद्या गर्भोदक-शायिन एवावतारास्, तथापि तस्य सर्वाश्रयतया तेऽपि तद्-आश्रिततया गणिताः । एवम् उत्तरत्रापि ॥४९॥

बलदेवः [लघु-भागवतामृत]- आवेश-पक्षम् उदाहरति—भास्वान् इति । सूर्यः यथा निजेषु अश्म-शकलेषु सूर्य-कान्त-मणि-खण्डेषु, स्वीयं कियत् तेजः प्रकटयति, अपिना तैर् दाहं प्रकाशं च किंचित् करोति । तद्वत् यः गोविन्दः, अत्र जगति, कदाचित् पुरु-पुण्ये जीवे स्वीयं तेजो निधाय इत्य् अवशिष्टम् । जगद्-अण्डे यत् विधानं व्यष्टि-निर्माण; तत्-कर्ता इत्य् अर्थः । उरु-वाक्यान्तरश् च रुद्र-निरूपणे द्रष्टव्यम् ॥४९॥

यत्-पाद-पल्लव-युगं विनिधाय कुम्भ-
द्वन्द्वे प्रणाम-समये स गणाधिराजः ।
विघ्नान् विहन्तुम् अलम् अस्य जगत्-त्रयस्य
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥५०॥

अथ सर्वे सर्व-विघ्न-निवारणार्थं प्रथमं गणपतिं स्तुवन्तीति तस्यैव स्तुति-योग्यतेत्य् आशङ्कया प्रत्याचष्टे यत्-पादेति । कैमुत्येन तद् एवं दृढीकृतं श्री-कपिल-देवेन—यत्-पाद-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् [भा।पु। ३.२८.२२] इति ॥५०॥

अग्निर् महि गगनम् अम्बु मरुद् दिशश् च
कालस् तथात्म-मनसीति जगत्-त्रयाणि ।
यस्माद् भवन्ति विभवन्ति विशन्ति यं च
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥५१॥

तच् च युक्तम् इत्य् आह अग्निर् महीति । सर्वं स्पष्टम् ॥५१॥

यच्-चक्षुर् एष सविता सकल-ग्रहाणां
राजा समस्त-सुर-मूर्तिर् अशेष-तेजाः ।
यस्याज्ञया भ्रमति सम्भृत-काल-चक्रो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥५२॥

केचित् स-वितारं सर्वेश्वरं वदन्ति यथाह यच्-चक्षुर् इति य एव चक्षुः प्रकाशको यस्य सः ।

यद् आदित्य-गतं तेजो जगद् भासयतेऽखिलम् ।

यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥ इति गीताभ्यः ।

भीषास्माद् वातः पवते भीषोदेति सूर्यः ॥ इत्य् आदि श्रुतेः । विराड्-रूपस्यैव सवितृ-चक्षुष्ट्वाच् च ॥५२॥

धर्मोऽथ पाप-निचयः श्रुतयस् तपांसि
ब्रह्मादि-कीट-पतगावधयश् च जीवाः ।
यद्-दत्त-मात्र-विभव-प्रकट-प्रभावा
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥५३॥

किं बहुना, धर्म इति । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०.८] इति श्री-गीताभ्यः ॥ ५३ ॥

यस् त्व् इन्द्रगोपम् अथवेन्द्रम् अहो स्व-कर्म-
बन्धानुरूप-फल-भाजनम् आतनोति ।
कर्माणि निर्दहति किन्तु च भक्ति-भाजां
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥५४॥

अत एव सर्वेश्वरस् तु पर्जन्यवद् द्रष्टव्य इति न्यायेन कर्मानुरूप-फल-दातृत्वेन साम्येऽपि भक्ते तु पक्षपात-विशेषं करोतीत्य् आह यस् त्व् इन्द्रेति ।

समोऽहं सर्व-भूतेषु न मे द्वेषोऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति ।

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता ९.२२] इति च श्री-गीताभ्यः ॥५४॥

यं क्रोध-काम-सहज-प्रणयादि-भीति-
वात्सल्य-मोह-गुरु-गौरव-सेव्य-भावैः ।
सञ्चिन्त्य तस्य सदृशीं तनुम् आपुर् एते
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥५५॥

य एव च वैरिभ्योऽप्य् अन्य-दुर्लभ-फलं ददाति किम् उत स्व-विषयक-कामादिना निष्काम-श्रेष्ठेभ्यः । ततः को वान्यो भजनीय इति भजामीत्य् अन्त-प्रकरणम् उपसंहरति यं क्रोधेति । सहज-प्रणयं सख्यम् । वात्सल्य-पित्राद्य्-उचित-भावः । मोहः सर्व-विस्मरण-मय-भावः पर-ब्रह्मतयास्फूर्तिः । गुरु-गौरवं स्वस्मिन् पितृत्वादि-भावनामयम् । सेव्योऽयं मेमेति भावना दास्यम् इत्य् अर्थः । तस्य सदृशीं क्रोधावेशिनोऽप्राकृत-मात्रांशेन, तु तत् तद् भावना योग्य-रूप-गुणांश-लाभ-तारतम्येन तुल्यम् इत्य् अर्थः । अदृष्टान्यतमं लोके शीलौदार्य-गुणैः समम् [भा।पु। १०.३.४१] इति श्री-वासुदेव-वाक्यस्य । जगद्-व्यापार-वर्जम् [वे।सू। ४.४.१७] इति ब्रह्म-सूत्रस्य, प्रयोज्यमाने मयि तां शुद्धां भागवतीं तनुम् [भा।पु। १.६.२८] इति श्री-नारद-वाक्यस्य च दृष्ट्या सर्वथा तत्-सदृशत्वे विरोधात् । वैरेण यं नृपतयः [भा।पु। ११.५.४८] इत्य् आदाव् अनुरक्त-धियाम् पुनः किम् इत्य् अनुरक्त-धीषु सुष्ठ्व् इति । अनेन गोलोक-स्थ-प्रपञ्चावतीर्णयोर् एकत्वम् एव दर्शितम् । तद् उक्तं—नन्दादयस् तु तं दृष्ट्वा [भा।पु। १०.२८.१७] इत्य् आदि ॥ ५५ ॥

श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो
द्रुमा भूमिश् चिन्तामणि-गण-मयी तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखी
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥५६॥

तद् एवं निजेष्ट-देवं भजनीयत्वेन स्तुत्वा तेन विशिष्टं तल् लोकं तथा स्तौति—

श्रियः कान्ता इति युग्मकेन । श्रियः श्री-व्रज-सुन्दरी-रूपाः, तासाम् एव मन्त्रे ध्याने च सर्वत्र प्रसिद्धेः । तासाम् अनन्तानाम् अप्य् एक एव कान्त इति **परमो **नारायणादिभ्योऽपि तस्य तत्-तल्-लोकेभ्योऽपि तदीय-लोकस्य चास्य माहात्म्यं दर्शितम् ।

कल्प-तरवो द्रुमा इति तेषां सर्वेषाम् एव सर्व-प्रदत्वात् तथैव प्रथितम् । भूमिर् इत्य्-आदिकं च तद्वत् । भूमिर् अपि सर्व-स्पृहां ददाति, किम् उत कौस्तुभादि । तोयम् अप्य् अमृतम् इव स्वादु, किम् उतामृतम् इत्य्-आदि । वंशी प्रिय-सखीव सर्वतः श्री-कृष्णस्य सुख-स्थिति-श्रावकत्वेन ज्ञेयम् । चिद्-आनन्द-लक्षणं वस्त्व् एव ज्योतिश् चन्द्र-सूर्यादि-रूपम्, समानोदित-चन्द्रार्कम् इति वृन्दावन-विशेषणं गौतमीय-तन्त्र-द्वये । तच् च नित्य-पूर्ण-चन्द्रत्वात् । तथा तद् एव परम् अपि तत् तत् प्रकाश्यम् अपीत्य् अर्थः । तथा तद् एव तेषाम् आस्वाद्यं भोग्यम् अपि च चिच्-छक्तिमयत्वाद् इति भावः । दर्शयामास लोकं स्वं गोपानां तमसः परम् [भा।पु। १०.२८.१४] इति श्री-दशमात् । हयशीर्ष-पञ्चरात्रे च वैकुण्ठ-स्थ-तत्त्व-निरूपणे–

द्रव्य-तत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः ।
सर्व-भोग-प्रदा यत्र पादपाः कल्प-पादपाः ॥

गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् ।
हेयांशानाम् अभावाच् च रस-रूपं भवेच् च तत् ॥

त्वग् बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ।
सर्वं तद् भौतिकं विद्धि नहि भूतमयं हि तत् ।

रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ इति ।

सुरभीभ्यश् च सरतीति तदीय-वंशी-ध्वन्य्-आद्य्-आवेशाद् इति भावः । व्रजति नहीति तद्-आवेशेन ते तद्-वासिनः कालम् अपि न जानन्तीति भावः । काल-दोषास् तत्र न सन्तीति वा । न च कालः विक्रमः [भा।पु। २.९.१०] इति द्वितीयात् । अत एव श्वेतं शुद्धं द्वीपं अन्यासङ्ग-रहितम् । यथा—सरसि पद्मं तिष्ठति तथा भूम्यां हि तिष्ठति [गो।ता।उ। २.२७] इति तापनीभ्यः । क्षितीति तद् उक्तं, यं न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् [ह।वं। ६२.२९] इति ॥ ५६ ॥

**सनातनः (हरि-भक्ति-विलास ५.१४३)- **क्षीर-सिन्धुः श्री-मथुरा । श्वेतद्वीपश् च श्री-वृन्दावनम् इति श्री-ब्रह्म-संहिता-वचनेन साधयति—स यत्रेति । तं श्वेतद्वीपं भजे आश्रये, यं श्वेतद्वीपं गोलोकं वैकुण्ठ-लोकोपरि स्थितं गवां लोकम् इति विदन्तः, ते अनिर्वचनीयाः कतिपये अल्पा एव भवन्ति, न तु बहवः । अतः क्षिति-विरल-चाराः, परम-दुर्लभा इत्य् अर्थः । यद् वा, परम-गोप्य-प्रकाश-शङ्कया प्रेम-विशेषोदयापादित-सर्व-सङ्ग-परित्यागेन वा लोकेषु निभृतं चरन्तीत्य् अर्थः ।

ननु शाक-द्वीपे क्षीर-सिन्दौ वर्तमानं प्रपञ्चान्तर्गतं प्रसिद्धं श्वेतद्वीपं नित्य-परमानन्द-रसात्मकानन्त-क्षीर-सागराकीर्ण-प्रपञ्चातीत-गोलोकम् इति कथं ते ज्ञातुम् अर्हन्ति ? परस्पर-विरोधेनैक्यासम्भवात् । सत्यं, सोऽपि तादृश एवेति विशेसण-द्वयेन साधयति । स अनिर्वचनीय इत्य् अप्राकृतत्वं परमानन्द-रस-मयत्वादिकं च सूचितम् । सुरभीभ्यः काम-धेनुभ्यः, प्रसरतीति वर्तमान-निर्देशादिना नित्यत्वं च दर्शितम् । किं च, सुमहान् वत्सरावृत्त्या परार्धाख्यो वा निमेषार्धाख्योऽत्यन्त-सूक्ष्मो वा समयः कालोऽपि न यत्र व्रजति, यत्रत्यान् न प्राप्नोतीत्य् अर्थः ।

श्री-मथुरायाश् च तादृशत्वात् श्री-मथुरैव श्री-गोलोक इति श्री-भागवतामृतोत्तर-खण्डे गोलोक-माहात्म्ये विस्तरेणोक्तम् एवास्ति । एवं गोलोकस्य श्वेतद्वीपेन सहाभेदात् क्षीर-सिन्धु-श्वेतद्वीप-न्यासोऽपि न विरुद्ध इति भावः ।

यद् वा, गवां लोको निवास-स्थानं गोकुलम् इति प्रसिद्धा श्री-वृन्दावनादि-श्री-नन्द-व्रज-भूमिः । यं गोलोकं श्वेतद्वीपम् इति विदन्तः, तं गोलोकं भजे इत्य् अन्वयः । एवं श्री-गोलोकस्य माहात्म्य-विशेष-सम्पत्त्या दुरान्वयोऽपि सोढव्यः ।

ननु श्वेतद्वीपे क्षीर-समुद्रो नित्यं वर्तते, भगवद्-एक-निष्ठानां श्वेत-महा-पुरुषाणां निवासेन काल-भयं च नास्तीत्य् आशङ्क्य गोलोकस्याप्य् अस्य तादृशत्वं विशेषणाभ्याम् आह—यत्र यस्मिन् गोलोके स इत्य् अनेन सुरभीभ्यः सरतीत्य् आदिना च श्वेतद्वीपतोऽप्य् अस्य विशेष उक्तः । अन्यत् समानम् । एवं श्री-वृन्दावनादि-व्रज-भूमेर् मथुरान्तर्गतत्वेन श्री-मथुरा क्षीर-सिन्धुस् तद्-व्रज-भूमि-प्रधानं च श्री-गोवर्धनादि-व्यापि वृन्दावनं श्वेतद्वीप इति सिद्धम् ।

यद् वा, आर्यावर्तान्तर्वर्ति श्री-वृन्दावनम् एवेदं श्वेतद्वीपः । तं च परमोर्ध्वतर-गोलोकम् इति विदन्त इति यथा-क्रमम् एवान्वयः । वृन्दावनस्य श्वेतद्वीपत्वे हेतुः—स यत्र इति । अन्यत् पूर्ववद् एव । एवं सन्ततानन्त-श्री-नन्द-गोप-राज-व्रज-काम-धेनु-यूथ-निवासतोऽनुक्षण-क्षीर-धारा-परिक्षरणेन धवलितत्वात् श्री-कालिन्दी-वेष्टितत्वेन मण्डलाकारतया द्वीपवद् दृश्यमानत्वाच् च, तथा सर्वथा विशुद्धानां लोकानां श्री-नन्दादीनाम् आश्रयत्वाच् च तथा तद्-देशाधिकारिणः श्वेत-वर्णस्य निवासत्वाद् अपि श्री-वृन्दावनम् एव श्वेतद्वीप इति युक्तम् एव । अन्यथा शाक-द्वीपे नित्यं क्षीर-समुद्र-सिद्धेः श्वेतद्वीपे सुरभीभ्यः सरतीत्य् उक्तेर् अघतनाद् इति दिक् । तस्य गोलोकत्वेन वेदनेऽप्य् एष एव हेतुर् उन्नेयः, गोलोकस्य तस्य तथा-भूतत्वात् । एवं प्रपञ्चान्तर्वर्ति श्री-मथुरा-मण्डलस्थ-श्वेतद्वीपाख्य-श्री-वृन्दावनम् इदं प्रपञ्चातीत-वैकुण्ठोपरि-स्थित-गोलोकम् इति ये विदन्ति, ते क्षिति-विरल-चारा इति पूर्ववद् एवार्थः । एवं श्री-वृन्दावनं श्वेतद्वीप एव, तत्-प्रधानक-व्रज-भूमिमयत्वात् श्री-मथुरा क्षीर-सिन्धुर् इति सिद्धम् ॥५६॥

**दिग्-दर्षनी (बृ।भा। २.७.९३-९४) - **इदानीं विशेषतः साक्षात्तया श्री-गोलोकस्यैव माहात्म्यम् आह—श्रियः [ब्र।सं। ५.५६] इति द्वाभ्याम् । उत्तर-श्लोकस्य यत्रेति पदं तत्रत्य-**च-**कार-बलाद् अत्रापि सर्वत्र सम्बध्यत एव । यस्मिन् श्वेतद्वीपे कान्ताः स्त्रियः समस्ता एव श्रियः लक्ष्मी-सदृश्यः लक्ष्म्य्-अंशत्वात् । यद् वा, तत्रत्या एव श्रियो महा-लक्ष्म्यो, न त्व् अन्यत्रेत्य् अर्थः ।

यत्र परम-पुरुषः श्री-गोविन्द एव कान्तः रमणः । बहुत्व-पाठे महा-पुरुषाः श्वेताः श्री-भगवद्-एक-निष्ठाः कान्ताः पतयः । यद् वा, श्रीणां बहुत्वेन प्रत्येकं ता रमयतः श्री-गोविन्दस्यापि बहुत्वापेक्षया बहुत्वं ज्ञेयम् ।

यत्र द्रुमाः सर्वे कल्प-तरवः, सर्व-मनोरथ-पूरणादिना । यत्र कथैव गानं, गीतवच्-छ्रवण-सुखावहत्वादिना । यत्र गमनम् एव नाट्यं, सुन्दर-गति-विशेषवत्त्वात् । यत्र वंश्य् एव प्रिय-सखीम्, सदा सहचरत्वात्, प्रीत्या पाणौ गृहीतत्वाच् च । यत्र तद् अनिर्वचनीयं चिद् आनन्दं परं ज्यातिर् अपि श्री-गोविन्दाख्यं तदीय-प्रेम-विशेषात्मकं वा आस्वाद्यम् अनुभवनीयम् अपि निश्चये । यद् वा, ज्योतिः प्रदीपादि-तेजोऽपि परं चिद्-आनन्द-पर-ब्रह्मात्मकतया परम-प्रकाशकत्वात् परमानन्दकत्वाच् च । किं च, यत्र तत् अनिर्वचनीय-द्रव्यं श्री-गोविन्दाधरामृतम् अपि चास्वाद्यम् उपभोग्यम् । ततश् च प्रायस् तत्र भगवतीनां श्री-गोपीनाम् एव प्राधान्याद् एवम् उक्तम् ॥

किं च, सः अनिर्वचनीयः क्षीरब्धिर् यत्र सुरभीभ्यः काम-धेनुभ्यः सरति प्रवर्तते निःसरति वा । यत्र सुमहान् द्विपरार्धाख्यः निमेषार्धाख्यो वा समयः कालोऽपि न हि व्रजति, न तं व्याप्नोतीत्य् अर्थः । काल-हेतुक-भय-परिणामोत्पत्त्य्-आद्य्-अभावात् । तं श्वेतद्वीपं विशुद्धं द्वीपवत् स्थान-विशेषम् अहं भजे आश्रयामि ।

ननु तर्हि प्रपञ्चान्तर्गत-क्षीर-समूद्र-वर्ती प्रसिद्धश्वेतद्वीपोऽस्तु नेत्य् आह—इह अस्मिन् लोके यं श्वेतद्वीपं गोलोकम् इति विदन्तः जानन्तः सन्तः ते अनिर्वचनीयाः सन्तः साधवः क्षितौ विरल-चारा भवन्ति, तद् एव प्रीत्या निःसङ्गतया निभृतं चरन्तीत्य् अर्थः । कतिपय इति तादृशानां बाहुल्यासम्भवात् । एवं परम-गूढत्वं सूचितम् । अत एव सर्वे तं न जानन्तीति भावः ।

यद्यपि प्रसिद्धः श्वेतद्वीपे अपि तद्-वृत्तिर् घटते, तथापि तत्र सर्वासाम् एव स्त्रीणां श्रीत्वाभावात् परम-पुरुषस्यैकस्य कान्तत्वाभावात् तथा वंशी-प्रिय-सखीत्य्-आद्य्-अभावाच् च । तथा तत्र नित्य-क्षीराब्धि-वृत्तेः सुरभीभ्योऽनिर्वचनीय-क्षीराब्धि-प्रसरणोक्त्य्-अयोगाच् च । सर्वथा प्रपञ्चातीतो वैकुण्ठोपरि वर्तमानः श्री-गोलोक एव सङ्गच्छते । ततश् च तस्य श्वेतता परम-शुद्धत्वात् सदा गव्य-क्षीर-मयत्वेन धावल्याच् च, तथा द्वीप-शब्दस्याश्रय-वाचित्वेन परम-विशुद्धानां श्री-नन्दादीनां निवास-स्थानत्वाच् च ।

द्वीपत्वं च श्री-मथुरा-मण्डल-सादृश्येन श्री-यमुना-तीर-वर्तित्वात् मण्डलाकारत्वात् परितः क्षीर-प्लुततया क्षीराब्धेर् इव मध्य-वर्तित्वाच् चोह्यम् । एवं च श्री-मथुरैव क्षीराब्धिः गो-प्रधान-देशतया क्षीरमयत्वाच् च । तथा श्री-वृन्दावनम् एव श्वेतद्वीपः व्रज-भूमि-प्रधानत्वेन निरन्तर-क्षीर-धारा-प्लुतत्वादिनेति वक्तव्यं स्याद् इति दिक् ॥९४-९५॥

अथोवाच महा-विष्णुर् भगवन्तं प्रजापतिम् ।
ब्रह्मन् महत्त्व-विज्ञाने प्रजा-सर्गे च चेन् मतिः ।
पञ्च-श्लोकीम् इमां विद्यां वत्स दत्तां निबोध मे ॥५७॥

तद् एवं तस्य स्तुतिम् उक्त्वा श्री-भगवत्-प्रसाद-लाभम् आह—अथेति । सर्वं स्पष्टम् ॥ ५७ ॥

प्रबुद्धे ज्ञान-भक्तिभ्याम् आत्मन्य् आनन्द-चिन्-मयी ।
उदेत्य् अनुत्तमा भक्तिर् भगवत्-प्रेम-लक्षणा ॥५८॥

तत्र प्रसाद-रूपां पञ्च-श्लोकीम् आह प्रबुद्ध इति । ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावितः ॥ [भा।पु। ११.१९.५] इत्य् एकादशात् ॥ ५८ ॥

प्रमाणैस् तत्-सद्-आचारैस् तद्-अभ्यासैर् निरन्तरम् ।
बोधयन् आत्मनात्मानं भक्तिम् अप्य् उत्तमां लभेत् ॥५९॥

प्रेम-लक्षण-भक्तेः साधन-ज्ञान-रूपयोः भक्त्योः प्राप्त्य्-उपायम् आह प्रमाणैर् इति । प्रमाणैर् भगवच्-छास्त्रैस् तत्-सदाचारैस् तदीया ये सन्तस् तेषाम् आचारैर् अनुस्टानैस् तद्-अभ्यासैस् तेषाम् एव पौनःपुण्येन बाहुल्येनात्मना आत्मानं बोधयति स्वयम् एव स्वं भगवद्-आश्रितः शुद्ध-जीव-रूपम् अनुभवति, ततोऽप्य् उत्तमां शुद्धां भक्तिं लभत इति । तथा च श्रुति-स्तवे—

स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् ।

इति नृ-गतिं विविच्य कवयो निगमावपनं
भवत उपासतेऽङ्घ्रिम् अभवं भुवि विश्वसिताः ॥ [भा।पु। १०.८७.२०] इति ॥५९॥

यस्याः श्रेयस्-करं नास्ति यया निर्वृतिम् आप्नुयात् ।
या साधयति माम् एव भक्तिं ताम् एव साधयेत् ॥६०॥
धर्मान् अन्यान् परित्यज्य माम् एकं भज विश्वसन् ।
यादृशी यादृशी श्रद्धा सिद्धिर् भवति तादृशी ॥
कुर्वन् निरन्तरं कर्म लोकोऽयम् अनुवर्तते ।
तेनैव कर्मणा ध्यायन् मां परां भक्तिम् इच्छति ॥६१॥

पुनः शुद्धाम् एव साधन-भक्तिं द्रढयन्न् अकामैर् अपि ताम् एव कुर्याद् इत्य् आह—धर्मान् अन्यान् इति । तद् उक्तं—

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०] इति ॥६१॥

अहं हि विश्वस्य चराचरस्य
बीजं प्रधानं प्रकृतिः पुमांश् च ।
मयाहितं तेज इदं बिभर्षि
विधे विधेहि त्वम् अथो जगन्ति ॥६२॥

तस्मात् तव सिसृक्षापि फलिष्यतीति स-युक्तिकम् आह—अहं हीति । प्रधानं श्रेष्ठं बीजं, पूर्ण-भगवद्-रूपं प्रकृतिर् अव्यक्तं, पुमान् तद्-द्रष्टा, किं बहुना त्वम् अपि मयाहितं अर्पितं तेज इदं बिभर्षि, तस्मात् तेन मत्-तेजसा जगन्ति सर्वाणि स्थावर-जङ्गमानि हे विधे हि कुर्व् इति ॥६२॥

इति श्री-ब्रह्म-संहितायां मूल-सूत्राख्यस्य पञ्चमाध्यायस्य श्रील-श्रीपाद-श्री-जीव-गोस्वामि-कृता दिग्-दर्शनी नाम्नी टीका समाप्ता ॥

[^३]- उवाच पुरतस् तस्मै तस्य दिव्या सरस्वती । कामः कृष्णाय गोविन्द हे गोपी जन इत्य् अपि । वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम् ॥२४॥

[^४]- तत्राप्राप्या एते श्लोकाः