{सावित्र्युपाख्याने कर्मविपाकवर्णनम्}
"श्रीनारायण उवाच
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥१।
"धर्म उवाच
कन्या द्वादशवर्षीया वत्से त्वं वयसाधुना।
ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम् ॥२॥
*सेवन्ते द्विभुजं कृष्णं परमात्मानमीश्वरम् ।
गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः ॥२७॥
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥२८॥
काले गते च निष्कामा भवन्त्येव क्रमेण च ।
भक्तिं च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः॥ २९ ॥
*ब्राह्मणा वैष्णवाश्चैव सकामाः सर्वजन्मसु ।
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः॥३०॥
*मूलप्रकृतिभक्ता ये निष्कामा धर्मचारिणः।
मणिद्वीपं प्रयान्त्येव पुनरावृत्तिवर्जितम् ॥३४॥
*स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् ।
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ॥४९॥
*तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥६९॥
*अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
देवतीर्थसहायेन कायव्यूहेन शुध्यति।
एतत्ते कथितं किञ्चित् किं भूयः श्रोतुमिच्छसि॥ ७०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कर्मविपाकवर्णनं नामैकोनत्रिशोऽध्यायः ॥२९॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें