शनिवार, 5 मार्च 2022

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०९ आभीर कन्या गायत्री वर्णन-

शृणु लक्ष्म्यैकदा सत्ये ब्रह्माणं प्रति नारदः।
दर्शनार्थं ययौ भ्रान्त्वा लोकत्रयं ननाम तम् ।१।

ब्रह्मा पप्रच्छ च कुतः पुत्र आगम्यते, वद ।
नारदः प्राह मर्त्यानां मण्डलानि विलोक्य च ।२।

तव पूजाविधानाय विज्ञापयितुं हृद्गतम् ।
समागतोऽस्मि च पितः श्रुत्वा कुरु यथोचितम् ।३।

दैत्यानां हि बलं लोके सर्वत्राऽस्ति प्रवर्तितम् ।
यज्ञाश्च सत्यधर्माश्च सत्कर्माणि च सर्वथा ।४।

प्रसह्य तैर्विनाश्यन्ते देवा भक्ताश्च दुःखिनः।
तस्माद् यथेष्टं भगवन् कल्याणं कर्तुमर्हसि।५।

इत्येवं विनिवेद्यैव नत्वा सम्पूज्य संययौ ।
ब्रह्मा वै चिन्तयामास यज्ञार्थं शुभभूतलम् ।६।

निर्विघ्नं तत्स्थलं क्वास्तीत्याज्ञातुं पद्मपुष्पकम् ।
करस्थं स समुवाच पत स्थले तु पावने ।७।

ततश्चिक्षेप पुष्पं तद् भ्रान्त्वा लोकान् समन्ततः।
हाटकेश्वरजे क्षेत्रे सम्पपात सुपावने ।८।
___________________________________
एतस्मिन्नन्तरे प्राप्तः पश्चात् तस्य पितामहः ।
क्षेत्रं दृष्ट्वा प्रसन्नोऽभूद् यज्ञार्थं प्रपितामहः ।९।

आदिदेश ततो वायुं समानय पुरन्दरम् ।
आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः ।। 1.509.१०।

गन्धर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा ।
ये च मे स्युः सहायास्तैः समस्ते यज्ञकर्मणि।११।

वायुश्चेन्द्रं देवगणैर्युतं समानिनाय च ।
ब्रह्मा प्राह महेन्द्रं च वैशाख्यामग्निष्टोमकम्।१२।

यज्ञं कर्तुं समीहेऽत्र सम्भारानाहरस्व वै ।
ब्राह्मणाँश्च तदर्हान् वै योग्योपस्कारकाँस्तथा।१३।

इन्द्रस्तानानयामास संभाराँश्च द्विजोत्तमान् ।
आरेभे च ततो यज्ञं विधिवत् प्रपितामहः ।१४।

शंभुर्देवगणैः सार्ध तत्र यज्ञे समागतः ।
देवान् ब्रह्मा समुवाच स्वस्वस्थानेषु तिष्ठत।१५।
________________________________

विश्वकर्मन् कुरु यज्ञमण्डपं यज्ञवेदिकाः ।
पत्नीशालाः सदश्चापि कुण्डान्यावश्यकानि च। ६६।
यज्ञपात्राणि च गृहान् चमसाँश्च चषालकान् ।
यूपान् शयनगर्तांश्च स्थण्डिलानि प्रकारय ।१७।

हिरण्मयं सुपुरुषं कारय त्वं सुरूपिणाम् ।
बृहस्पते त्वमानीहि यज्ञार्हानृत्विजोऽखिलान् । १८।

यावत् षोडशसंख्याकान् शुश्रूषां कुरु देवराड् ।
कुबेर च त्वया देया दक्षिणा कालसंभवा ।१९।

त्वया विधे विधौ कार्यं कृत्याऽकृत्यपरीक्षणम् ।
लोकपालाः प्ररक्षन्तु त्वैन्द्र्यादिका दिशस्तथा ।।।1.509.२०।

भूतप्रेतपिशाचानां प्रवेशो दैत्यरक्षसाम् ।
मा भूदित्यथ यज्ञेन दीयतां दानमुत्तमम् ।२१।

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
भवन्तु परिवेष्टारो भोक्तुकामजनस्य तु ।२२।

यज्ञार्हा ब्राह्मणा वृत्तास्तिष्ठन्तु यज्ञमण्डपे ।
मैत्रावरुणश्च्यवनोऽथर्वाको गालवस्तथा।२३।
______
मरीचिर्मार्कवश्चैते सर्वकर्मविशारदाः ।
प्रस्थानकर्ता चाध्वर्युः पुलस्त्यस्तत्र तिष्ठतु ।२४।

रैभ्यो मुनिस्तथोन्नेता तिष्ठतु यज्ञमण्डपे ।
ब्रह्मा भवतु नारदो गर्गोऽस्तु सत्रवीक्षकः ।२५।

होतारोऽग्नीध्रभरद्वाजपराशरास्त्रयः ।
बृहस्पतिस्तथाऽऽचार्य उद्गाता गोभिलो मुनिः।२६।
________________________________
शाण्डिल्यः प्रतिहर्ता च सुब्रह्मण्यस्तथाऽङ्गिराः।
अस्य यज्ञस्य सिद्ध्यर्थं सन्त्वृत्विजस्तु षोडश।२७।

ब्रह्मा तान् पूजयामास दीक्षितस्तैस्तु विश्वसृट् ।
यजमानोऽभवद् यज्ञकार्यं ततः प्रवर्तितम् ।२८।
_________________________________
ब्रह्मा च नारदं प्राह सावित्रीं क्षिप्रमानय ।
वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः ।२९।

गन्धर्वैर्वाद्यसंयुक्तैरुच्चारणपरैर्द्विजैः ।
अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत् ।।1.509.३०।

पत्नीपत्नीतिविप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थितः ।
ब्रह्मा पुनर्नारदं संज्ञया करस्य वै द्रुतम् ।३१।
____________________________
गृहं सम्प्रेषयामास पत्नी चानीयतामिति ।
सोऽपि गत्वाऽऽह सावित्रीं पित्रा सम्प्रेषितोऽस्म्यहम् ।३२।

आगच्छ मण्डपं देवि यज्ञकार्यं प्रवर्तते ।
परमेकाकिनी कीदृग्रूपा सदसि दृश्यसे ।३३।

आनीयन्तां ततो देव्यस्ताभिर्वृत्ता प्रयास्यसि ।
इत्युक्त्वा प्रययौ यज्ञे नारदोऽजमुवाच ह ।३४।

देवीभिः सह सावित्री समायास्यति सुक्षणम् ।
पुनस्तं प्रेषयामास ब्रह्माऽथ नारदो ययौ ।३५।

मातः शीघ्रं समायाहि देवीभिः परिवारिता ।
सावित्र्यपि तदा प्राह यामि केशान् प्रसाध्य वै ।३६।

नारदोऽजं प्राह केशान् प्रसाध्याऽऽयाति वै ततः ।
सोमपानमुहूर्तस्याऽवशेषे सत्वरं तदा ।।३७।

पुलस्त्यश्च ययौ तत्र सावित्री त्वेकलाऽस्ति हि ।
किं देवि सालसा भासि गच्छ शीघ्रं क्रतोः स्थलम् ।३८।

सावित्र्युवाच तं ब्रूहि मुहूर्तं परिपाल्यताम् 
यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथाऽपराः ।३९।

देवकन्याः समाजेऽत्र ताभिरेष्यामि संहिता ।
सोऽपि गत्वा द्रुतं प्राह सोमभाराऽर्दितं विधिम् ।।1.509.४०।

सा मां प्राह च देवीभिः सहिताऽऽयामि वै मखे ।
अहं यास्यामि सहिता न त्वेकला कथंचन ।४१।

एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते ।
अतिक्रामति कालश्च यज्ञपानक्षणात्मकः ।४२।

श्रुत्वा ब्रह्मा महेन्द्रं च प्राह सा शिथिलात्मिका 
नाऽऽयात्येवाऽन्यया पत्न्या यज्ञः कार्यो भवत्विति ।।४३।।
______________     ____________________

ब्रह्माज्ञया भ्रममाणां कन्यां कांचित् सुरेश्वरः ।
चन्द्रास्यां गोपजां तन्वीं कलशव्यग्रमस्तकाम् ।४४।

युवतीं सुकुमारीं च पप्रच्छ काऽसि कन्यके ।
गोपकन्येति सा प्राह तक्रं विक्रेतुमागता ।४५।

परिगृह्णासि चेत् तक्रं देहि मूल्यं द्रुतं मम ।
इन्द्रो जग्राह तां तक्रसहितां गोपकन्यकाम् ।४६।
______________________________________

श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीविवाहे गायत्रीतीर्थमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोअध्यायः ॥ १८१ ॥ निम्न श्लोकों को देखें-
                
                   ॥ ब्रह्मोवाच ॥
शक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका ॥
अनया भार्यया यज्ञो मया कार्योऽयमेव तु ॥ ५४ ॥

गच्छ शक्र समानीहि कन्यां कांचित्त्वरान्वितः ॥
यावन्न क्रमते कालो यज्ञयानसमुद्भवः ॥ ५५ ॥

पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः ॥
शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः ॥ ५६ ॥

अथ तक्रघटव्यग्रमस्तका तेन वीक्षिता ॥
कन्यका गोपजा तन्वी चंद्रास्या पद्मलोचना।५७ ॥

सर्वलक्षणसंपूर्णा यौवनारंभमाश्रिता ॥
सा शक्रेणाथ संपृष्टा का त्वं कमललोचने ॥ ५८ ॥

कुमारी वा सनाथा वा सुता कस्य ब्रवीहि न:।५९ ॥
               ॥ कन्यो वाच ॥

गोपकन्यास्मि भद्रं ते तक्रं विक्रेतुमागता ॥
यदि गृह्णासि मे मूल्यं तच्छीघ्रं देहि मा चिरम् ॥ ६.१८१.६० ॥

तच्छ्रुत्वा त्रिदिवेन्द्रोऽपि मत्वा तां गोपकन्यकाम् ॥
जगृहे त्वरया युक्तस्तक्रं चोत्सृज्य भूतले ॥ ६१ ॥

अथ तां रुदतीं शक्रः समादाय त्वरान्वितः ॥
गोवक्त्रेण प्रवेश्याथ गुह्येनाकर्षयत्ततः ॥ ६२ ॥

एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः ॥
ज्येष्ठकुण्डस्य विप्रेन्द्राः परिधाय्य सुवाससी ॥६३।

ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम् ॥
द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे ॥ ६४ ॥

कन्यकेयं सुरश्रेष्ठ समानीता मयाऽधुना ॥
तवार्थाय सुरूपांगी सर्वलक्षणलक्षिता ॥ ६५ ॥

गोपकन्या विदित्वेमां गोवक्त्रेण प्रवेश्य च ॥
आकर्षिता च गुह्येन पावनार्थं चतुर्मुख ॥ ६६ ॥
_____________________________________
              ॥ श्रीवासुदेव उवाच ॥ 
गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ॥
एकत्र मंत्रास्तिष्ठंति हविरन्यत्र तिष्ठति ॥ ६७ ॥

धेनूदराद्विनिष्क्रांता तज्जातेयं द्विजन्मनाम् ॥
अस्याः पाणिग्रहं देव त्वं कुरुष्व मखाप्तये ॥ ६८।

यावन्न चलते कालो यज्ञयानसमुद्भवः ॥ ६९ ॥
                ॥ रुद्र उवाच ॥
प्रविष्टा गोमुखे यस्मादपानेन विनिर्गता॥
गायत्रीनाम ते पत्नी तस्मादेषा भविष्यति॥ ६.१८१.७०॥

                ॥ ब्रह्मोवाच ॥
वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि ॥
संभूय ब्राह्मणीश्रेष्ठा यथा पत्नी भवेन्मम ॥ ७१ ॥

                ॥ ब्राह्मणा ऊचुः ॥ 
एषा स्याद्ब्राह्मणश्रेष्ठा गोपजातिविवर्जिता ॥
अस्मद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम्। ७२

                    ॥ सूत उवाच ॥
ततः पाणिग्रहं चक्रे तस्या देवः पितामहः ॥
कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः ।७३।

संतिष्ठति च तत्रस्था महादेवी सुपावनी ॥
अद्यापि लोके विख्याता धनसौभाग्यदायिनी ।७४।

यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः ॥
समस्तं फलमाप्नोति राजसूयाश्वमेधयोः ॥ ७९।

कन्या हस्तग्रहं तत्र याऽऽप्नोति पतिना सह ॥
सा स्यात्पुत्रवती साध्वी सुखसौभाग्यसंयुता।७६।

पिंडदानं नरस्तस्यां यः करोति द्विजोत्तमाः ॥
पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थवत् ॥७७॥
__________________________________
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीविवाहे गायत्रीतीर्थमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोअध्यायः ॥ १८१ ॥

________________________________________

गोर्वक्त्रेणाऽऽवेशयित्वा मूत्रेणाऽऽकर्षयत् ततः 
एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः।४७।।

सुवाससी धारयित्वा नीत्वा धृत्वाऽजसन्निधौ ।
आनीतेयं त्वदर्थं वै ब्रह्मन् सर्वगुणान्विता ।४८।

यह श्लोक वस्तुत: वैदिक सिद्धांत के विरुद्ध ही है क्योंकि गाय विराट पुरुष के ऊरु( ऊर्णूयते आच्छाद्यते ऊर्णु--कर्मणि कु नुलोपश्च । जानूपरिभागे तस्य वस्त्रादिभिराच्छादनीयत्वात् तथात्वम् ( घुटनों का ऊपरी भाग-)
_____
अवयो वक्षसश्चक्रे मुखतोजांश्च सृष्टवान्
सृष्टवानुदराद्गाश्च महिषांश्च प्रजापतिः।१०५।
(पद्म-पुराण सृष्टि-खण्ड अध्याय-३)

सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा।
सुरभिश्च गवां माता महिषाणां च निश्चितम्।१७।
 (ब्रह्मवैवर्त-पराण ब्रह्मखण्ड अध्याय ९)

_______________
गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ।
एकत्र मन्त्रस्तिष्ठन्ति हविरेकत्र तिष्ठति ।४९।
____________________________________

गोरुदराद् विनिष्क्रान्ता प्रापितेयं द्विजन्मताम् ।
पाणिग्रहं कुरुष्वास्या यज्ञपानं समाचर ।।1.509.५० ।।

रुद्रः प्राह च गोयन्त्रनिष्क्रान्तेयं ततः खलु ।
गायत्रीनामपत्नी ते भवत्वत्र मखे सदा ।।५१ ।।

ब्राह्मणास्तु तदा प्राहुरेषाऽस्तु ब्राह्मणीवरा ।
गोपजातिवर्जितायास्त्वं पाणिग्रहणं कुरु ।।५२।।

ब्रह्मा पाणिग्रहं चक्रे समारेभे शुभक्रियाम् ।
गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा ।।५३।।

वाद्यमानेषु वाद्येषु सम्प्राप्ता यज्ञमण्डपम् ।
विधिश्चक्रे स्वकेशानां क्षौरकर्म ततः परम् ।।५४।।

विश्वकर्मा तु गायत्रीनखच्छेदं चकार ह ।
औदुम्बरं ततो दण्डं पौलस्त्यो ब्रह्मणे ददौ ।।५५।।

एणशृंगान्वितं चर्म समन्त्रं प्रददौ तथा ।
पत्नीं शालां गृहीत्वा च गायत्रीं मौनधारिणीम्।५६।।

मेखलां निदधे त्वन्यां कट्यां मौञ्जीमयीं शुभाम् ।
ततो ब्रह्मा च ऋत्विग्भिः सह चक्रे क्रतुक्रियाम् ।।५७।।

कर्मणि जायमाने च तत्राऽऽश्चर्यमभून्महत् ।
जाल्मरूपधरः कश्चिद् दिग्वासा विकृताननः ।५८।।

कपालपाणिरायातो भोजनं दीयतामिति ।
निषिध्यमानोऽपि विप्रैः प्रविष्टो यज्ञमण्डपम् ।।५९।।

सदस्यास्तु तिरश्चक्रुः कस्त्वं पापः समागतः ।
कपाली नग्नरूपश्चाऽपवित्रखर्परान्वितः।1.509.६ ०।

यज्ञभूमिरशुद्धा स्याद् गच्छ शीघ्रमितो बहिः ।
जाल्मः प्राह कथं चास्मि ह्यशुद्धो भिक्षुको व्रती ।।६१ ।।
_______________________________
ब्रह्मयज्ञमिमं ज्ञात्वा शुद्धः स्नात्वा समागतः ।
गोपालकन्या नित्यं या शूद्री त्वशुद्धजातिका ।।६२।।

स्थापिताऽत्र नु सा शुद्धा विप्रोऽहं पावनो न किम् ।
तावत् तत्र समायातो ब्राह्मणो वृद्धरूपवान् ।।६३।।

श्रीकृष्णो वै तमुवाच प्रत्युत्तरं शृणु प्रिये ।
जाल्म नैषाऽस्ति शूद्राणी ब्राह्मणी जातितोऽस्ति वै ।।६४।।

शृणु जानामि तद्वृत्तं नान्ये जानन्त्यतद्विदः ।
पुरा सृष्टे समारम्भे श्रीकृष्णेन परात्मना ।।६५।।

स्वांशरूपा हि सावित्री स्वमूर्तेः प्रकटीकृता ।
अथ द्वितीया कन्या च पतिव्रताऽभिधा कृता ।।६६।।

कुमारश्च कृतः पत्नीव्रताख्यो ब्राह्मणस्ततः ।
ब्रह्मा वैराजदेहाच्च कृतस्तस्मै समर्पिता ।।६७।।
__________
सावित्री श्रीहरिणैव गोलोके एव सन्निधौ ।
अथ यज्ञप्रवाहार्थं ब्रह्मा यज्ञं करिष्यति ।।६८।।

पृथिव्यां मर्त्यरूपेण तत्र मानुषविग्रहा ।
पत्नी यज्ञस्य कार्यार्थमपेक्षिता भविष्यति ।।६९।।

हेतुनाऽनेन कृष्णेन सावित्र्याज्ञापिता तदा ।
द्वितीयेन स्वरूपेण त्वया गन्तव्यमेव ह ।।1.509.७०।।

प्रागेव भूतले कन्यारूपेण ब्रह्मणः कृते ।
सावित्री श्रीकृष्णमाह कौ तत्र पितरौ मम ।।७ १।

श्रीकृष्णस्तां तदा सन्दर्शयामास शुभौ तु तौ ।
इमौ पत्नीव्रतो विप्रो विप्राणी च पतिव्रता ।।७२।।

मदंशौ मत्स्वरूपौ चाऽयोनिजौ दिव्यविग्रहौ ।
पृथ्व्यां कुंकुमवाप्यां वै क्षेत्रेऽश्वपट्टसारसे ।७३ ।

सृष्ट्यारंभे विप्ररूपौ वर्तिष्येतेऽतिपावनौ ।
वैश्वदेवादियज्ञादिहव्याद्यर्थं गवान्वितौ ।।७४।।
_____________________
सौराष्ट्रे च यदा ब्रह्मा यज्ञार्थं संगमिष्यति ।
तत्पूर्वं तौ गोभिलश्च गोभिला चेति संज्ञिता ।।७२।।

गवा प्रपालकौ भूत्वाऽऽनर्तदेशे गमिष्यतः ।
यत्राऽऽभीरा निवसन्ति तत्समौ वेषकर्मभिः ।।७६।  

दैत्यकृतार्दनं तेन प्रच्छन्नयोर्न वै भवेत् ।
इतिःहेतोर्यज्ञपूर्वं दैत्यक्लेशभिया तु तौ ।।७७।।

श्रीहरेराज्ञयाऽऽनर्ते जातावाभीररूपिणौ ।
गवां वै पालकौ विप्रौ पितरौ च त्वया हि तौ।७८।
कर्तव्यौ गोपवेषौ वै वस्तुतो ब्राह्मणावुभौ ।
मदंशौ तत्र सावित्रि ! त्वया द्वितीयरूपतः ।।७९।।

अयोनिजतया पुत्र्या भाव्यं वै दिव्ययोषिता ।
दधिदुग्धादिविक्रेत्र्या गन्तव्यं तत्स्थले तदा ।।1.509.८०।।

यदा यज्ञो भवेत् तत्र तदा स्मृत्वा सुयोगतः ।
मानुष्या तु त्वया नूत्नवध्वा क्रतुं करिष्यति।८१।

सहभावं गतो ब्रह्मा गायत्री त्वं भविष्यसि ।
ब्राह्मणयोः सुता गूढा गोपमध्यनिवासिनोः।८२।

ब्रह्माणी च ततो भूत्वा सत्यलोकं गमिष्यसि ।
ब्राह्मणास्त्वां जपिष्यन्ति मर्त्यलोकगतास्ततः ।।८३।

इत्येवं जायमानैषा गायत्री ब्राह्मणी सुता ।
वर्तते गोपवेषीया नाऽशुद्धा जातितो हि सा ।।८४।

एवं प्रत्युत्तरितः स जाल्मः कृष्णेन वै तदा ।
तावत् तत्र समायातौ गोभिलागोभिलौ मुदा ।।८५।

अस्मत्पुत्र्या महद्भाग्यं ब्रह्मणा या विवाहिता ।
आवयोस्तु महद्भाग्यं दैत्यकष्टं निवार्यते ।।८६।।

यज्ञद्वारेण देवानां ब्राह्मणानां सतां तथा ।
इत्युक्त्वा तौ गोपवेषौ त्यक्त्वा ब्राह्मणरूपिणौ८७।
  
__
पितामहौ हि विप्राणां परिचितौ महात्मनाम् ।
सर्वेषां पूर्वजौ तत्र जातौ दिव्यौ च भूसुरौ ।।८८।।

ब्रह्माद्याश्च तदा नेमुश्चक्रुः सत्कारमादरात् ।
यज्ञे च स्थापयामासुः सर्वं हृष्टाः सुरादयः ।।८९।।

ब्रह्माणं मालया कुंकुमाक्षतैः कुसुमादिभिः ।
वर्धयित्वा सुतां तत्र ददतुर्यज्ञमण्डपे ।। 1.509.९०।।

वृद्धो वै ब्राह्मणस्तत्र कृष्णरूपं दधार ह ।
सर्वैश्च वन्दितः साधु साध्वित्याहुः सुरादयः।९१।

जाल्मः कृष्णं हरिं दृष्ट्वा गायत्रीपितरौ तथा ।
दृष्ट्वा ननाम भावेन प्राह भिक्षां प्रदेहि मे ।।९२।।
_______
बुभुक्षितोऽस्मि विप्रेन्द्रा गर्हयन्तु न मां द्विजाः ।
दीनान्धैः कृपणैः सर्वैस्तर्पितैरिष्टिरुच्यते ।९३।

अन्यथा स्याद्विनाशाय क्रतुर्युष्मत्कृतोऽप्ययम् ।
अन्नहीनो दहेद् राष्ट्रं मन्त्रहीनस्तु ऋत्विजः।९४।

याज्ञिकं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ।
श्रीकृष्णश्च तदा प्राह जाल्मे ददतु भोजनम् ।।९५।

विप्राः प्राहुः खप्परं ते त्वशुद्धं विद्यते ततः ।
बहिर्निःसर दास्यामो भिक्षां पार्श्वमहानसे ।।९६।।

एतस्यामन्नशालायां भुञ्जन्ति यत्र तापसाः ।
दीनान्धाः कृपणाश्चैव तथा क्षुत्क्षामका द्विजाः ।।९७।।

अशुद्धं ते कपालं वै यज्ञभूमेर्बहिर्नय ।
गृहाणाऽन्यच्छुद्धपात्रं दूरं प्रक्षिप्य खप्परम्।९८।

एवमुक्तश्च जाल्मः स रोषाच्चिक्षेप खप्परम् ।
यज्ञमण्डपमध्ये च स्वयं त्वदृश्यतां गतः ।।९९।।

सर्वेप्याश्चर्यमापन्ना विप्रा दण्डेन खप्परम् ।
चिक्षिपुस्तद्बहिस्तावद् द्वितीयं समपद्यत ।। 1.509.१० ०।।

तस्मिन्नपि परिक्षिप्ते तृतीयं समपद्यत ।
एवं शतसहस्राणि समपद्यन्त वै तदा ।१०१।

परिश्रान्ता ब्राह्मणाश्च यज्ञवाटः सखप्परः ।
समन्ततस्तदा जातो हाहाकरो हि सर्वतः ।१०२।

ब्रह्मा वै प्रार्थयामास सन्नत्वा तां दिशं मुहुः ।
किमिदं युज्यते देव यज्ञेऽस्मिन् कर्मणः क्षतिः ।। १०३ ।।

तस्मात् संहर सर्वाणि कपालानि महेश्वर ।
यज्ञकर्मविलोपोऽयं मा भूत् त्वयि समागते।१०४।

ततः शब्दोऽभवद् व्योम्नः पात्रं मे मेध्यमस्ति वै ।
भुक्तिपात्रं मम त्वेते कथं निन्दन्ति भूसुराः।१ ०८५।

तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि ।
यथाऽन्या देवतास्तद्वन्मन्त्रपूतं हविर्विधे ।१ ०६।

अतोऽत्र मां समुद्दिश्य विशेषाज्जातवेदसि ।
होतव्यं हविरेवात्र समाप्तिं यास्यति क्रतुः ।। १०७।।

ब्रह्मा प्राह तदा प्रत्युत्तरं व्योम्नि च तं प्रति ।
तव रूपाणि वै योगिन्नसंख्यानि भवन्ति हि ।। १ ०८।।

कपालं मण्डपे यावद् वर्तते तावदेव च ।
नात्र चमसकर्म स्यात् खप्परं पात्रमेव न ।१०९।

यज्ञपात्रं न तत्प्रोक्तं यतोऽशुद्धं सदा हि तत् ।
यद्रूपं यादृशं पात्रं यादृशं कर्मणः स्थलम् ।। 1.509.११ ०।।

तादृशं तत्र योक्तव्यं नैतत्पात्रस्य योजनम् ।
मृन्मयेषु कपालेषु हविः पाच्यं क्रतौ मतम् ।१११।

तस्मात् कपालं दूरं वै नीयतां यत् क्रतुर्भवेत् ।
त्वया रूपं कपालिन् वै यादृशं चात्र दर्शितम्।११२।

तस्य रूपस्य यज्ञेऽस्मिन् पुरोडाशेऽधिकारिता ।
भवत्वेव च भिक्षां संगृहाण तृप्तिमाप्नुहि ।११३।

अद्यप्रभृति यज्ञेषु पुरोडाशात्मकं द्विजैः ।
तवोद्देशेन देवेश होतव्यं शतरुद्रिकम् ।११४।

विशेषात् सर्वयज्ञेषु जप्यं चैव विशेषतः ।
अत्र यज्ञं समारभ्य यस्त्वा प्राक् पूजयिष्यति ।११५।

अविघ्नेन क्रतुस्तस्य समाप्तिं प्रव्रजिष्यति ।
एवमुक्ते तदाश्चर्यं जातं शृणु तु पद्मजे । ११६।

यान्यासँश्च कपालानि तानि सर्वाणि तत्क्षणम् ।
रुद्राण्यश्चान्नपूर्णा वै देव्यो जाताः सहस्रशः।११७।

सर्वास्ताः पार्वतीरूपा अन्नपूर्णात्मिकाः स्त्रियः ।
भिक्षादात्र्यो विना याभिर्भिक्षा नैवोपपद्यते ।१ १८।

तावच्छ्रीशंकरश्चापि प्रहृष्टः पञ्चमस्तकः ।
यज्ञमण्डपमासाद्य संस्थितो वेदिसन्निधौ ।११ ९।

ब्राह्मणा मुनयो देवा नमश्चक्रुर्हरं तथा ।
रुद्राणीः पूजयामासुरारेभिरे क्रतुक्रियाम् ।। 1.509.१२०।।

सहस्रशः क्रतौ देव्यो निषेदुः शिवयोषितः ।
शिवेन सहिताश्चान्याः कोटिशो देवयोषितः ।। १२१ ।।

एवं शंभुः क्रतौ भागं स्थापयामास सर्वदा ।
पठनाच्छ्रवणाच्चास्य यज्ञस्य फलमाप्नुयात् ।। १२२।।

_____________________ 
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणा यज्ञार्थं हाटकेश्वरक्षेत्रे नागवत्यास्तीरे देवादिद्वारा ससामग्रीमण्डपादिरचना कारिता, जाल्मरूपेण शंकरागमनम्, गायत्र्या ब्राह्मणीजातीयतावृत्तान्तः, कपालानां अन्नपूर्णादेव्यात्मकत्वं, शंकरस्य यज्ञे स्थानं, चेत्यादिनिरूपणनामा नवाऽधिकपञ्चशततमोऽध्यायः।।५०९।।     

ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम्।
एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति।२३।
यह श्लोक अनेक पुराणों में बनाकर जोड़ा गया जैसे नान्दीउपपुराण-    महाभारत -अनुशासनपर्व, स्कन्दपुराणनागर -खण्ड ,लक्ष्मी नारायण संहिता
कालान्तरण में कुछ द्वेषवादी पुरोहितों नें  वैश्यवर्णीय गाय को ब्राह्मण कुल की बताने के लिए वैदिक सिद्धांत के विरुद्ध विना विचारे उपर्युक्त श्लोक को तो रच दिया परन्तु वर्णव्यवस्था के उद्घोषक  ।
मैं इस स्थल पर ऋग्वेद की उस ऋचा का उल्लेख कर रहा हूं जिसमें चारों वर्णों की बात की गई है:

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायतः//

(ऋग्वेद संहिता, मण्डल 10, सूक्त 90, ऋचा 12)

(ब्राह्मणः अस्य मुखम् आसीत् बाहू राजन्यः कृतः ऊरू तत्-अस्य यत्-वैश्यः पद्भ्याम् शूद्रः अजायतः ।)

यदि शब्दों के अनुसार देखें तो इस ऋचा का अर्थ यों समझा जा सकता है:

सृष्टि के मूल उस परम ब्रह्मा का मुख ब्राह्मण था, बाहु से क्षत्रिय  बने, उसकी जंघाओ से वैश्य बने और पैरों से शूद्र उत्पन्न हुआ ।

क्या उक्त ऋचा की व्याख्या इतने सरल एवं नितांत शाब्दिक तरीके से किया जाना चाहिए ? या यह बौद्धिक तथा दैहिक श्रम-विभाजन पर आधारित एक अधिक सार्थक सामाजिक व्यवस्था की ओर इशारा करती है ? 

मनुस्मृति में भी त

लोकानां तु विवृद्ध्यर्थं मुखबाहूरूपादतः ।ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥(मनुस्मृति, अध्याय 1, श्लोक 31)

(लोकानां तु विवृद्धि-अर्थम् मुख-बाहू-ऊरू-पादतः ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निर्-अवर्तयत् ।)

शाब्दिक अर्थ: समाज की वृद्धि के उद्येश्य से उसने (ब्रह्म ने) मुख, बाहुओं, जंघाओं एवं पैरों से क्रमशः ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र का निर्माण किया ।

(महाभारत अनुशासन पर्व ८६ वाँ अध्याय)

ब्रह्मा के मुख से बकरी और ब्राह्मण उत्पन्न होने से दौनों सजातीय ही हैं।

 "मुखतोऽजाः सृजन्सो वै वक्षसश्चावयोऽसृजत् गावश्चैवोदराद्ब्रह्मा पुनरन्याँश्च निर्ममे।1.107.३०
(विष्णु धर्मोत्तरपुराण खण्ड प्रथम अध्याय (१०७)

ब्रह्मा ने मुख से बकरियाँ उत्पन्न कीं और वक्ष से भेड़ों को और उदर से गायों को उत्पन्न किया ।
और दोनों पैरों से घोड़ो और तुरंगो' गदहों और नीलगाय तथा ऊँटों को उत्पन्न किया और भी इसी प्रकार सूकर(वराह)कुत्ता जैसी अन्य जातियाँ उत्पन्न कीं ।

बकरी ब्राह्मणों की सजातीय अथवा उनके ही कुल की है।

इसीलिए है कि ब्राह्मण भी ब्रह्मा जी के मुख से उत्पन्न हुए हैं नकि उदर अथवा ऊरु से ऊरु से तो वैश्य वर्ण के लोग उत्पन्न हुए हैं।
वेद-सम्मत शास्त्रों की तो यही वैधानिक मान्यता है।

_________________________
(ऋग्वेद मण्डल- दश सूक्त- नवति ऋचा -एकतो द्वादश पर्यन्त यही वर्णन है )
१०/९०/ १ से १२ तक ऋग्वेद

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥

एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥४॥

तस्माद्विराळजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मःशरद्धविः॥६॥

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः।
तेन देवा अयजन्त साध्या ऋषयश्च ये॥७॥

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशून् ताँश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥८॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥
_____________________________
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः।१०॥
________________________________
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते।११।

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥१२॥
__________________________________

तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥
पदपाठ-
तस्मात् । अश्वाः । अजायन्त । ये । के। च । उभयादतः ।
गाव: । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अजावयः ॥ १० ॥

“तस्मात् =पूर्वोक्ताद्यज्ञात् “अश्वा “अजायन्त= उत्पन्नाः। तथा “ये ="के “च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त। तथा “तस्मात् यज्ञात् "गावः च “जज्ञिरे । किंच “तस्मात् यज्ञात् "अजावयः च "जाताः ॥ ॥ १८ ॥
पदपाठ-
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒: सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शून्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
तस्मात् । यज्ञात् । सर्वऽहुतः । सम्ऽभृतम् । पृषत्ऽआज्यम् ।।
पशून् । तान् । चक्रे । वायव्यान् । आरण्यान्। ग्राम्याः । च । ये ॥ ८ ॥

“सर्वहुतः । सर्वात्मकः पुरुषः यस्मिन् यज्ञे हूयते सोऽयं सर्वहुत् । तादृशात् “तस्मात् पूर्वोक्तात् मानसात् "यज्ञात् “पृषदाज्यं दधिमिश्रमाज्यं “संभृतं संपादितम् । दधि चाज्यं चेत्येवमादिभोग्यजातं सर्वं संपादितमित्यर्थः । तथा “वायव्यान् वायुदेवताकाँल्लोकप्रसिद्धान् “आरण्यान् “पशून “चक्रे उत्पादितवान् । आरण्या हरिणादयः । तथा “ये “च “ग्राम्याः गवाश्वादयः तानपि चक्रे। पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं यजुर्ब्राह्मणे समाम्नायते-- वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः। वायव एवैनान्परिददाति ' ( तै. ब्रा. ३. २. १. ३) इति ।

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒: सामा॑नि जज्ञिरे ।
छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥
तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामनि । जज्ञिरे ।
छन्दांसि । जज्ञिरे । तस्मात् । यजुः । तस्मात् । अजायत ।९॥

"सर्वहुतः “तस्मात् पूर्वोक्तात् यज्ञात् “ऋचः “सामानि च जज्ञिरे उत्पन्नाः। “तस्मात् यज्ञात् “छन्दांसि गायत्र्यादीनि “जज्ञिरे। “तस्मात् यज्ञात् "यजुः अपि अजायत ॥

“तस्मात् पूर्वोक्ताद्यज्ञात् “अश्वा “अजायन्त उत्पन्नाः। तथा “ये "के “च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च उभयादतः ऊर्ध्वाधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽप्यजायन्त। तथा “तस्मात् यज्ञात् "गावः च “जज्ञिरे । किंच “तस्मात् यज्ञात् "अजावयः च "जाताः ॥ ॥ १८ ॥

यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥
यत् । पुरुषम् । वि । अदधुः । कतिधा। वि । अकल्पयन् ।।
मुखम् । किम् । अस्य । कौ । बाहू इति । कौ । ऊरू इति । पादौ । उच्येते इति ॥११॥

प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवाः “यत् यदा “पुरुषं विराड्रूपं “व्यदधुः संकल्पेनोत्पादितवन्तः तदानीं “कतिधा कतिभिः प्रकारैः “व्यकल्पयन् विविधं कल्पितवन्तः । “अस्य पुरुषस्य “मुखं “किम् आसीत्। “कौ “बाहू अभूताम् “का “ऊरू। कौ च “पादावुच्येते । प्रथमं सामान्यरूपः प्रश्नः पश्चात् मुखं किमित्यादिना विशेष विषयाः प्रश्नाः ॥

ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥
ब्राह्मणः । अस्य । मुखम् । आसीत् । बाहू इति । राजन्यः । कृतः ।
ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥ १२ ॥

इदानीं पूर्वोक्तानां प्रश्नानामुत्तराणि दर्शयति । “अस्य प्रजापतेः “ब्राह्मणः ब्राह्मणत्वजातिविशिष्टः पुरुषः “मुखमासीत मुखादुत्पन्न इत्यर्थः । योऽयं “राजन्यः क्षत्रियत्वजातिमान् पुरुषः सः "बाहू “कृतः बाहुत्वेन निष्पादितः । बाहुभ्यामुत्पादित इत्यर्थः । तत् तदानीम् अस्य प्रजापतेः “यत् यौ “ऊरू तद्रूपः "वैश्यः संपन्नः । ऊरुभ्यामुत्पन्न इत्यर्थः । तथास्य “पद्भ्यां पादाभ्यां "शूद्रः शूद्रत्वजातिमान् पुरुषः "अजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां सप्तमकाण्डे ‘स मुखतस्त्रिवृतं निरमिमीत' (तै. सं. ७. १. १. ४ ) इत्यादौ विस्पष्टमाम्नाता। अतः प्रश्नोत्तरे उभे अपि तत्परतयैव योजनीये

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥
चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत ।
मुखात् । इन्द्रः । च। अग्निः । च। प्राणात् । वायुः । अजायत ॥ १३ ॥

यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । प्रजापतेः “मनसः सकाशाद् “चन्द्रमाः “जातः । “चक्षोः च चक्षुषः “सूर्यः अपि “अजायत । अस्य “मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ । अस्य “प्राणाद्वायुरजायत ॥
__________________________
मुखतोऽजाः सृजन्सो वै वक्षसश्चावयोऽसृजत् गावश्चैवोदराद्ब्रह्मा  पुनरन्याँश्च निर्ममे ।1.107.३० । 
पादतोऽश्वांस्तुरङ्गांश्च रासभान्गवयान्मृगान् ।उष्ट्रांश्चैव वराहांश्च श्वानानन्यांश्च जातयः 1.107.३१।
व्याकरणिक पद विवेचना अर्थ समन्विता।
__________
१-मुखत: - मुख से अपादान कारक पञ्चमीविभक्ति एकवचन। 
२-अजा:- बहुत सी बकरीं अजा का बहुवचन कर्म कारक द्वितीय विभक्ति रूप ।
३-सृज्+शतृप्रत्यय-सृजन्
(उत्पन्न करता हुआ ।
४-वक्षसः -वक्ष से ( बखा छाती से) 
पञ्चमीविभक्ति एक वचन अपादानकारक नपुंसक लिंग रूप।
पेट और गले के बीच में पड़नेवाला भाग जिसमें स्त्रियों के स्तन और पुरुषों के स्तन के से चिह्न होते हैं  अर्थात छाती।
५-च -और ।
६-अवय:-बहुत सी भेड़े़। अवि का बहुवचन रूप कर्ताकारक । 
७-असृजत्- उसने उत्पन्न किया। सृज् धातु का लङ्लकार प्रथम पुरुष एकवचन का रूप।
८-गावः-गो पद का  प्रथमा विभक्ति बहुवचन  =बहुत सी गायें।
 ९-चैव( च+एव) और ही ।
१०-उदरात्- उदर से - उदर पद का पञ्चमी विभक्ति अपादान कारक एकवचन।
११-ब्रह्मा- ब्रह्मा जी ने।
१२-पुनः ( पुनर्)- दुवारा।
१३-च अन्यान्( चान्याँ)
१४-निर्ममे ( निर्+ मा-निर्माणेधातु का आत्मनेपदीय लङ्लकार रूप अन्यपुरुष एकवचन निर्माण किया।।
१५-पादतो ( पादाभ्याम्- दोनों पैरों से।       १६-अश्वान्- घोड़ों को और 
१७ तुरङ्गान् - तुरङ्गाें को और 
१८-रासभान्- गदहों को और 
१९-गवयान्- गवयों( नीलगायों) को तथा 
२०-उष्ट्रान्- ऊँटों को । और इसी प्रकार 
२१-वराहान् -वराहों और ।
२२-शवान्-अन्यान्- कुत्ता जैसी अन्य ।
२३-जातय:- जातियों को  उत्पन्न किया ।
__________________
ब्रह्मा ने मुख से बकरियाँ उत्पन्न हुई । वक्ष से भेड़ों को और उदर से गायों को उत्पन्न किया ।३०।
और दोनों पैरों से घोड़ो तथा तुरंगो 'गदहों और नील गाय तथा ऊँटों को उत्पन्न किया और भी इसी प्रकार सूकर(वराह) कुत्ता जैसी अन्य जातियाँ उत्पन्न हुईं ।३१।
सन्दर्भ-(विष्णु धर्मोत्तर पुराण खण्ड प्रथम अध्याय (१०७)
_______________    
अवयो वक्षसश्चक्रे मुखतोजाः स सृष्टवान् ।
सृष्टवानुदराद्गाश्च पार्श्वभ्यां च प्रजापतिः ।४८।

पद्भ्यां चाश्वान्समातङ्गान्रासभान्गवयान्मृगान्।
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः। ४९।
(विष्णु पुराण प्रथमाँश पञ्चमो८ध्याय (५)

ततः स्वदेहतोऽन्यानि वयांसि पशवोऽसृजत् ।
__________________
मुखतोऽजाः ससर्जाथ वक्षसश्चावयोऽसृजत्॥४८.२५॥

गावश्चैवोदराद् ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।
पद्भ्याञ्चाश्वान् स मातङ्गान् रासबान् शशकान् मृगान्॥४८.२६॥
____________________
इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकारणनामाष्टचत्वारिंशोऽध्यायः

49(46)
ऊनपञ्चाशोऽध्यायः- ४९
मार्कण्डेय पुराण में भी देखें कि ब्रह्मा के मुख से बकरी और ब्राह्मण उत्पन्न होते हैं ।

विष्णु पुराण प्रथमाँश पञ्चमो८ध्याय (५)

में भी बकरी और ब्राह्मण ब्रह्मा जी के मुख से उत्पन्न हुए। हैं ।

सदाशिवो भवो विष्णुर्ब्रह्मा सर्वात्मको यतः।।
एकदंडे तथा लोका इमे कर्ता पितामहः।। ३.३८ ।

प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया।।
सर्गश्चाबुद्धिपूर्वस्तु द्विजाः प्राथमिकः शुभः।। ३.३९ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे प्राकृतप्राथमिकसर्गकथनं नाम तृतीयोऽध्यायः।। ३ ।।

अव्यक्तादिविशेषांतं विश्वं तस्याः समुच्छ्रितम्।।
विश्वधात्री त्वजाख्या च शैवी सा प्रकृतिः स्मृता।। ३.१२ ।।

तामजां लोहितां शुक्लां कृष्णामेका बहुप्रजाम्।।
जनित्रीमनुशेते स्म जुषमाणः स्वरूपिणीम्।। ३.१३ ।।
_______________________________
तामेवाजामजोऽन्यस्तु भुक्तभोगां जहाति च।।
अजा जनित्री जगतां साजेन समधिष्ठिता।३.१४ ।
_________________________

पक्षिणस्तु स सृष्ट्वा वै ततः पशुगणान्सृजन् ।
मुखतोजाः सृजन्सोऽथ वक्षसश्चाप्यवीः सृजन्॥ १,८.४३ ॥

गावश्चैवोदराद्ब्रह्मा पाश्वीभ्यां च विनिर्ममे ।
पादतोऽश्वान्समातङ्गान् रासभान् गवयान्मृगान् ॥ १,८.४४ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे मानससृष्टिवर्णनं नामाष्टमोऽध्यायः
_________

ब्रह्माण्ड पुराण पूर्व भाग अष्टम अध्याय का ४४ वाँ श्लोक

शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १२

इसे भी देखें
मुखतोऽजान् ससर्जान्यान् उदराद्‌गाश्चनिर्ममे।
पद्भ्यांचाश्वान् समातङ्गान् रासभान् गवयान् मृगान्।    ।७.५५।

(कूर्मपुराण पूर्व भाग सप्तम अध्याय )

अवयो वक्षसश्चक्रे मुखतोजांश्च सृष्टवान्
सृष्टवान्  उदराद् गा: च महिषांश्च प्रजापतिः ।१०५।

पद्भ्यां चाश्वान्स मातंगान्रासभान्गवयान्मृगान्
उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः ।१०६।

पद्म पुराण सृष्टि खण्ड अध्याय (३) का १०५ वाँ श्लोक

वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत्॥ 
मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे। 56।।

गायन्तो जज्ञिरे वाचं गन्धर्वाप्सरसश्च ये।
स्वर्गं द्यौर्वक्षसश्चक्रे सुखतोऽजाः स सृष्टवान्।4.30।
सृष्टवानुदराद्राश्च पार्श्वाभ्यां च प्रजापतिः।
पद्भ्यां चैवांत्यमातङ्गान्महिषोष्ट्राविकांस्तथा ।4.31।

ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे।
गौरजः पुरुषो मेध्यो ह्यश्वाश्वतरगर्दभाः।4.32 ।

एतान् ग्राम्यान्पशून्प्राहुरारण्यांश्च निबोध मे ।।
श्वापदं द्विखुरं हस्तिवानराः पक्षिपञ्चमाः ।4.33।

औदकाः पशवः षष्ठाः सप्तमाश्च सरीसृपाः।
पूर्वादिभ्यो मुखेभ्यस्तु ऋग्वेदाद्याः प्रजज्ञिरे। 4.34।

आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियाः स्मृताः।
ऊरुभ्यां तु विशः सृष्टाः शूद्रः पद्भ्यां जायत । 4.35।
___________________

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सृष्टिवर्णनं नाम चतुर्थोऽध्यायः ।।4।।

विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः ०४१-०४५
किसी अन्य भाषा में पढ़ें

< विष्णुधर्मोत्तरपुराणम्‎ | खण्डः २
2.41
                ।। पुष्कर उवाच ।।
सावित्री च ततः साध्वी जगाम वरवर्णिनी ।।
यथायथागतेनैव यत्रासौ सत्यवान्मृतः ।। १ ।।

सा समासाद्य भर्तारं तस्योत्सङ्गगतं शिरः ।।
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ।। २ ।।

सत्यवानपि निर्मुक्तो धर्मराज्ञा शनैः शनैः ।।
उन्मीलयति ते नेत्रे प्रस्यन्दत च भार्गव ।। ३ ।।

ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ।।
क्वाऽसौ प्रयातः पुरुषो यो मामाकृष्य गच्छति ।। ४ ।।

जानामि न वरारोहे कश्चासौ पुरुषः शुभे ।।
वनेऽस्मिँश्चारुसर्वाङ्गि सुप्तस्य च चिरं गतम् ।५ ।।

उपवासपरिक्लान्ता कर्षिता भवती मया ।।
अस्माद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा ।। ६ ।।

द्रष्टुमिच्छाम्यहं सुभ्रु गमने त्वरिता भव ।।
सावित्र्युवाच ।।
आदित्योऽस्तमनुप्राप्तो यदि ते रुचितं प्रभो ।। ७।

आश्रमन्तु प्रयास्यावः श्वशुरौ तप्यतो मम ।।
यथावृत्तं च तत्रैव तव वक्ष्याम्यथाश्रमे ।। ८ ।।

             ।।पुष्कर उवाच ।।
एतावदुक्त्वा भर्तारं सह भर्त्रा ययौ तदा ।।
आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ।। ९ ।।

एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ।।
द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव ।। 2.41.१० ।।

सावित्र्यपि वरारोहा सह सत्यवता तदा ।।
ववन्दे तत्र राजानं सभार्यं भृगुनन्दन ।। ११ ।।

परिष्वक्तस्तदा पित्रा सत्यवान्राजनन्दनः।
अभिवाद्य ततः सर्वान्वने तस्मिँस्तपोधनान् ।१२।

उवास तां तदा रात्रिमृषिभिः सह धर्मवित् ।।
सावित्र्यपि जगादाथ यथा वृत्तमनिन्दिता ।१३।

व्रतं समापयामास तस्यामेव तदा निशि ।।
ततस्तु राम रात्र्यन्ते शाल्वेभ्यस्तस्य भूपतेः ।१४।

आजगाम जनः सर्वो राज्यार्थाय निमन्त्रणे ।।
आज्ञापयामास तदा तथा प्रकृतिशासनम् ।१५।

विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम् ।।
अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ।१६ ।

एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ।।
लेभे च सकलं वाक्यं धर्मराज्ञो महात्मनः ।। १७ ।।

भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ।।
एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ।। १८ ।।

उज्जहार वरारोहा भर्तृपक्षं तथैव च ।।
मोचयामास भर्तारं मृत्युपाशवशीकृतम् ।। १९ ।।

तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ।।
तासां राम प्रसादेन धार्यते वै जगत्त्रयम् ।। 2.41.२० ।।

तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ।।
तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ।। २१ ।।

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशात्तमोऽध्यायः ।। ४१ ।।

                ।पुष्कर उवाच ।।
गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ।।
गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः।१ ।।

गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ।।
शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ।। २ ।।

तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता ।।
उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ।। ३ ।।

गवां मूत्रपुरीषेषु ष्ठीवनाद्यं न सन्त्यजेत् ।।
गोरजः परमं पुण्यमलक्ष्मीविघ्ननाशनम् ।। ४ ।।

गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।।
तासां शृङ्गोदकश्चैव जाह्नवीजलसन्निभम् ।। ५ ।।

गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च रोचनम् ।।
षडङ्गमेतन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ।। ६ ।।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।।
पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ।। ७ ।।

रक्षोघ्नमेतन्माङ्गल्यं कलिदुःखप्रणाशनम् ।।
रोचना च तथा धन्या रक्षोरगगदापहा ।।८।

यस्तु कल्ये समुत्थाय मुखमाज्ये निरीक्षते ।।
तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ।। ९ ।।
गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ।।
यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ।। 2.42.१० ।।

धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ।।
दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ।११ ।

नरकं समवाप्नोति नात्र कार्या विचारणा ।।
दत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते ।। १२ ।।

शैशिरं सकलं कालं ग्रासं परगवे तथा ।।
दत्त्वा स्वर्गमवाप्नोति संवत्सरशतानि षट् ।। १३ ।।

अग्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम् ।।
मासषट्केन लभते नाकलोकं समायुतम् ।। १४ ।।

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।।
तत्रैवमशनं दत्त्वा गवां नित्यमतन्द्रितः ।। १५ ।।

द्वितीयं यः समश्नाति तेन संवत्सरान्नरः ।।
गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज ।। १६ ।।

गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः ।।
वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम् ।।
परां तृप्तिमवाप्नोति यत्रयत्राभिजायते ।। १७ ।।

गवां प्रचारभूमिं तु वाहयित्वा हलादिना ।।
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश ।। १६ ।।

गवां पानप्रवृतानां यस्तु विघ्नं समाचरेत ।।
ब्रह्महत्या कृता तेन घोरा भवति भार्गव ।।
सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम् ।१९।
 
गामुद्धृत्य नरः स्वर्गे कल्पभोगानुपाश्नुते ।।
गवां यवसदानेन रूपवानभिजायते ।। 2.42.२० 

सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम ।।
औषधं च तथा दत्त्वा विरोगस्त्वभिजायते । २१ ।

औषधं लवणं तोयमाहारं च प्रयच्छतः ।।
विपत्तौ पातकं नास्य भवत्युद्बन्धनादिकम ।। २२।
वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे ।।

तत्रापि तन्नियुक्तश्च कश्चिदन्यो न चेद्भवेत् ।। २३।

तासां चेदविरुद्धानां चरन्तीनां मिथो वने ।।
यामुत्पत्य वृको हन्यान्नपालस्तत्र किल्बिषी ।। २४

संरुद्धासु तथैवासु वृकः पाले त्वनायति ।।
यामुत्पत्य वृको हन्यात्पाले तत्किल्बिषं भवेत ।। २५ ।।

गोवधेन नरो याति नरकानेकविंशतिम् ।।
तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम् ।२६ ।

विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते ।।
तासां च कीर्तनादेव नरः पापाद्विमुच्यते ।। २७ ।।

तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ।।
दानेन च तथा तासां कुलान्यपि समुद्धरेत् ।२८ ।।

उदक्या सूतिको दोषो नैव तत्र गृहे भवेत् ।।
भूमिदोषास्तथान्येऽपि यत्रैका वसते तु गौः ।२९ ।।

गवां निश्वासवातेन परा शान्तिर्गृहे भवेत ।।
नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम् ।। 2.42.३० ।।

गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम् ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।३१।

एकरात्रोपवासं च श्वपाकमपि शोधयेत् ।।
पृथक्त्वप्रत्ययाभ्यस्तमतिसन्तपनं स्मृतम् ।३२ ।।

सर्वाशुभविमोक्षाय पुरा चरितमीश्वरेः ।।
प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम् ।३३।

सर्वकामप्रदं राम सर्वाशुभविनाशनम् ।।
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ।। ३४ 

निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः ।।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ।। ।। ३५ 

त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ।।
तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम् ।। ३६ ।

शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः प्रकीर्तितः ।।
सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ।। ३७।

गोमूत्रेण चरेत्स्नानं वृत्तिं कुर्यात्तु गोरसैः ।।
उत्थितामुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः ।। ३८।

अभुक्तवत्सु नाश्नीयादपीतासु च नो पिबेत् ।।
त्राणं तु रामाकृत्वैव तथा देवे प्रवर्षति ।। ३९ ।।

त्राणं नैवात्मनः कार्यं भया र्त्ताश्च समुद्धरेत् ।।
आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम् ।। 2.42.४० ।।

सर्वपापप्रशमनं मासेनैकेन भार्गव ।।
व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत् ।। ४१ ।।
अभीष्टमथ वा राम यावदिन्द्राश्चतुर्दश ।।
गवां निर्हारनिर्मुक्तानश्नन्प्रतिदिनं यवान् ।। ४२ ।।
मासेन तदवाप्नोति यत्कि ञ्चिन्मनसेच्छति ।।
गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन् ।। ४३ ।।
गोलोकमाप्नोति नरो नात्र कार्या विचारणा ।।
उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः ।। ४४ ।।
निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि ।।
विमानेषु विचित्रेषु वृतेष्वप्सरसां गणैः ।। ४५ ।।
किङ्किणी जालचित्रेषु वीणामुरजनादिषु ।।
सदा कामजला नद्यः क्षीरपायसकर्दमाः ।। ४६ ।।
शीतलामलपानीयाः सुवर्णसिकतास्तथा ।।
पुष्करिण्यः शुभास्तत्र वैडूर्यकमलोत्पलाः ।। ४७ ।।
मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम ।।
तञ्च लोकं नरा यान्ति गवां भक्त्या न संशयः ।। ४८ ।।
गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ।।
तां तु मे वदतो विप्र शृणुष्व सुसमाहितः ।। ४९ ।।
गावः सुरभयो नित्यं गावो गुग्गु लुगन्धिकाः।।।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम् ।। 2.42.५० ।।
अन्नमेव परं गावो देवानां हविरुत्तमम् ।।
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ।।५१।।
हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ।।
ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः ।। ५२ ।।
सर्वेषामेव भूतानां गावः शरणमुत्तमम् ।।
गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ।। ५३ ।।
गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः ।।
ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।। ५४ ।।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ।।
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् ।। ५५ ।।
एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ।।
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ।। ५६ ।।
धार्यते वै सदा तस्मात्सर्वे पूज्यतमा सदा ।।
यत्र तीर्थे सदा गावः पिबन्ति तृषि ता जलम् ।।
उत्तरन्ति पथा येन स्थिता तत्र सरस्वती ।।५७।।
गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा तद्रजसि प्रवृद्धा ।।
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ।। ५८ ।। ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं शत्तमोऽध्यायः ।। ४२ ।।
2.43
।। पुष्कर उवाच ।। ।।
अतः परं प्रवक्ष्यामि तव राम चिकित्सितम् ।।
संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ।। ।। १ ।।
शृङ्गमूलेषु धेनूनां तैलं दद्यात्ससैन्धवम् ।।
शृङ्गीवीरबलामांसीकल्कसिद्धं समाक्षिकम् ।। २ ।।
सिमिचूर्णयुतं देयमथवापि तथा घृतम् ।।
कर्णमूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः ।। ३ ।।
सिद्धं तैलं प्रदातव्यं गोरसो वाथवा पुनः ।।
माक्षिकं सैन्धवं शंखं तगरीं पिप्पलीं सिहाम् ।। ४ ।।
अजाक्षीरेण संपेष्य गुलिकां कारयेद्भिषक् ।।
एतन्नेत्राञ्जनं श्रेष्ठं घृतमाक्षिकसंयुतम् ।। ५ ।।
बिल्वमूलमपामार्गं धातकीं च सपाटलाम् ।।
कुटजं दन्तमूलेषु लेपं तच्छूलनाशनम् ।। ६ ।।
दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितम् ।।
मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवम् ।। ७ ।।
शृङ्गवेरं हरिद्रे द्वे त्रिफलां च गलग्रहे ।।
शृङ्गवेरं हरिद्रे द्वे वल्कलं कुटजस्य च ।। ८ ।।
अपामार्गविडंगांश्च लवणेन विमिश्रितम् ।।
औषधं मुखरोगघ्नं ज्वरदाहविनाशनम् ।। ९ ।।
हृच्छूले बस्तिशूले च वातरोगे क्षते तथा ।।
त्रिफलाघृतसमिश्रं गवां पानं प्रशस्यते ।। 2.43.१० ।।
शतपुष्पायुतं पक्वं तैलं कुटजचित्रकैः ।।
गवां राम प्रदातव्यं सर्वहृद्रोगनाशनम् ।। ११ ।।
अतीसारे हरिद्रे द्वे पाठां चैव प्रदापयेत् ।।
आनाहे घृतसंयुक्तां दापयेत्पद्मचारिणीम् ।। ।। १२ ।।
सर्वेषु कुष्ठरोगेषु तथा शाखागदेषु च ।।
शृङ्गवेरं च दार्वीं च कासे श्वासे प्रदापयेत् ।।१३।।
दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता ।
वातरोगेषु सर्वेषु शतपुष्पाविपाचितम् ।। १४ ।।
गवां तैलं प्रदातव्यं सर्ववातगदापहम् ।।
यूषणं मधुसंमिश्रं कफरोगेषु दापयेत् ।। १५ ।।
पित्त रोगेषु सर्वेषु मधुयष्टिविपाचितम् ।।
गव्यमाज्यं प्रदातव्यं सर्वपित्तगदापहम् ।। १६ ।।
शाखोटकरमापानं रक्तपित्ते प्रशस्यते ।।
गोधूमानां च चूर्णानि माषाश्चैव ससर्षपाः ।। १७ ।।
पयसा च समालोड्य गुरुमिश्राः प्रदापयेत् ।।
रक्तस्रावेषु कृच्छ्रेषु गवामेतत्प्रशस्यते ।। १८ ।।
तिलाम्भकरुहांश्चैव हरितालं घृतं तथा ।।
भग्नक्षतानां धेनूनां लेपने तत्प्रशस्यते ।। १९ ।।
वत्सानां च सरोगाणां पाठां तक्रेण पाययेत् ।।
हरिद्रां क्षीरसंयुक्तामथवा रोगशान्तये ।। 2.43.२० ।।
माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा ।।
एषां पिण्डाः प्रदातव्या लवणेन सुसँस्कृताः।।
पुष्टिप्रदा तु वत्सानां वृषभाणां बलप्रदा ।। २१ ।।
देवदारुवचामांसीगुग्गुलुर्हिङ्गुसर्षपाः ।।
एष धूपः प्रदातव्यः किञ्चिद्घृतपरिप्लुतः ।। २२ ।।
सर्वग्रह विनाशाय पलङ्कशयुतः शुभः ।।
घण्टा चापि गवां कार्या धूपेनानेन धूपिता ।। २३ ।।
अश्वगन्धा तिलं चुक्रं वस्तियोगे प्रशस्यते ।।
अश्वगन्धायुतं तक्रं तिलान्वस्ति प्रशस्यते ।।
भवति क्षीरिणी तेन धेनुर्भृगुकुलोद्भव ।। २४ ।।
पिण्याकमेव निर्दिष्टं गवां राम रसायनम् ।।
शीतोदपानमार्द्रञ्च यवसं च विवर्जयेत् ।। २५ ।।
जरान्विता तथा स्थानं तच्च शीतं द्विजोत्तम ।।
धार्यं चैव गवां मध्ये मत्तोजः सर्वथा भवेत् ।। ।। २६ ।।
गवां वेश्मनि दीपास्तु दातव्या राम रात्रिकाः ।। २७ ।।
गवां हि रोगोपशमाय शस्तं गतेऽर्धमासे लवणं सदैव ।।
आनाहशूलारुचिनाशनं तदजाविकस्यापि तथा प्रशस्तम् ।।२८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०- रामं प्रति पुष्करोपाख्याने गोचिकित्सितं नाम त्रिच
त्वारिंशत्तमोऽध्यायः ।। ४३ ।।
2.44
पुष्कर उवाच ।।
अतः परं प्रवक्ष्यामि शान्तिकर्म गवां तव ।।
नित्यं नैमित्तिकं काम्यं तथा पुष्टिविवर्धनम् ।। ऽ ।।
पञ्चमीषु च शुक्लासु श्रियः पूजा विधीयते ।।
गवां पुरीषे धर्मज्ञ धूपदीपान्नसम्पदा ।। २ ।।
वन्यैः सुकुसुमैर्भक्त्या ब्राह्मणानां च पूजनम् ।।
तत्रैवाहनि कर्तव्यं वासुदेवस्य पूजनम् ।। ३ ।।
स हि सर्वगतो देवः क्षीरोदधिनिकेतनः ।।
त्रैलोक्याधारभूतानां विशेषेण तथा गवाम् ।। ४ ।।
आश्वयुक्शुक्लपक्षस्य पञ्चदश्यां भृगूत्तम ।।
वृत्रान्तकस्य कर्तव्यस्तदा यागस्तु गोमता ।। '५ ।।
गन्धधूपनमस्कारपुष्पदीपान्नसम्पदा ।।
इह प्रजायाः साम्राधः पृषदश्वा तथैव च ।। ६ ।।
घृतप्रतीकश्च तथा रौद्रीभिश्च भृगूत्तम ।।
नित्याभिश्च तथा वह्निं घृतेन जुहुयाद्बुधः ।। ७ ।।
अम्भस्थेति च मन्त्रेण लवणं चाभिमन्त्रयेत् ।।
दध्ना संप्राशनं कार्यं दधिक्राव्णेत्यनन्तरम् ।। ८ ।।
यजमानेन देया च धेनुः स्याच्छतधेनुना ।।
तदूनवित्तो दद्याच्च होत्रे शक्त्यैव दक्षिणाम्।।९।।
गावः स्वलंकृताः पश्चाद्गन्धमाल्यफलादिभिः ।।
स्वाशिता मुक्तवत्साश्च कुर्युर्वह्निं प्रदक्षिणम् ।। 2.44.१० ।।
क्ष्वेडाकिलकिलाशब्दैः शङखवाद्यरवैस्तथा ।।
वृषाणां योजयेद्युद्धं गोपालानां तथैव च ।। ११ ।।
द्वितीयेऽहनि धेनूनां वृषाणां सह वत्सकैः ।।
लवणं तत्प्रदातव्यं ब्राह्मणेनाभिमन्त्रितम।।१२।।
भोजनं गोरसप्रायं ब्राह्मणांश्चात्र भोजयेत् ।।
स्वस्ति वाच्यं ततः पश्चाद्दत्तदायान्विसर्जयेत ।। १ ३।।
नित्यमेतत्तु वो दिष्टं शान्तिकर्म शुभं गवाम् ।।
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ।। १४ ।।
धेनूनां मारके प्राप्ते तथा रोगाऽद्युपद्रवे ।।
क्षीरक्षये तथान्यस्मिन्प्रकृतेस्तु विपर्यये ।। १५ ।।
त्रिरात्रोपोषितो विद्वानेकरात्रोषितोऽथ वा ।।
गवां मध्ये शुभे देशे स्थण्डिलं परिकल्पयेत।।१६।।
अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम् ।।
पूजयेत्कर्णिकामध्ये वासुदेवं श्रिया सह ।। १७ ।।
कृसरैः पूजन कार्यं देवतानां यथाक्रमम् ।।
यासां तासां प्रवक्ष्यामि तव नामानि भार्गव ।। १८ ।।
सुभद्रां नाम दिग्धेनुं पूर्वभागे समर्चयेत् ।।
पूजनीयस्ततो ब्रह्मा सुरभिस्तदनन्तरम् ।। ।। १९ ।।
ततः सूर्यस्ततो धेनुर्बहुरूपा द्विजोत्तम ।।
ततस्तु पृथिवीं देवीं ततोऽनन्तं प्रपूजयेत् ।। 2.44.२० ।।
ततश्च विश्वरूपाक्षं दिग्धेनुं तदनन्तरम् ।।
ततः सिद्धिं ततो ऋद्धिं ततः शान्तिं समर्चयेत् ।। २१ ।।
रोहिणी नाम दिग्धेनुस्ततः पूज्या द्विजोत्तम ।।
ततश्चन्द्रमसं देवं महादेववृषं ततः ।। २२ ।।
महादेवं ततो देवं पूजयेत्तदनन्तरम् ।।
इत्येता देवताः प्रोक्ताः कृसरे तव षोडश ।। २३ ।।
पत्रेषु पूजनीयाश्च दिक्पालाश्च यथादिशम् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। २४ ।।
प्रत्येकां पूजयेद्राम देवतां प्रयतो द्विजः ।।
पूर्णकुम्भानि सर्वाणि प्रत्येकं विनिवेदयेत ।। २५ ।।
भक्त्यास्थगितवक्त्राणि वर्धमानैस्सतण्डुलैः ।।
सहिरण्यैर्यथाशक्ति ततो होमं समारभेत् ।। २६ ।।
वेदिं कृत्वा यथशास्त्रं समिध्य च हुताशनम् ।।
एकैकं दैवतं राम समुद्दिश्य यथाविधि ।। २७ ।।
चतुर्थ्यन्तेन धर्मज्ञ नाम्ना तु प्रणवादिना ।।
होमद्रव्यैस्तथैकैकं शतसंख्यं तु होमयेत् ।। २८ ।।
समिधः क्षीरवृक्षस्य अक्षतानि तिलाँस्तथा ।।
सिद्धार्थकान्यथाज्यं च प्रत्येकं जुहुयात्क्रमात् ।। २९ ।।
ततो रक्षोहणैर्मन्त्रैर्जुहुयाद्गौरसर्षपान् ।।
ततः समापयेद्विद्वानग्निकर्म यथाविधि ।। 2.44.३० ।।
सुवर्णं च तथा कांस्यं धेनुं वस्त्रयुगं तथा ।।
कर्तुर्देयमुपस्रष्टुर्वस्त्रयुग्मं गुरोस्तथा ।। ३१ ।।

स्वस्ति वाच्यं ततः पश्चाद्दत्तदाया द्विजोत्तमाः ।। ३२ ।।
रक्षोहणैस्तथा मन्त्रैः कुर्युरभ्युक्षणं गवाम् ।।
गवां च पूजा कर्तव्या गन्धमाल्यानुलेपनैः ।। ३३ ।।
मोक्तव्याश्च तदा वत्सा यथाकामं द्विजोत्तम ।।
शान्तिकर्म गवामेतत्सर्वोत्पातप्रशान्तये ।। ३४ ।।
कर्तव्यं भृगुशार्दूल परमं कर्म दारुणम् ।।
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ ।। ३५ ।।
कर्ता तूपवसेत्तत्र कारकैश्च तथैव च ।।
पूर्वभाद्रपदायोगमाहिर्बुध्न्यगते तथा ।। ३६ ।।
स्नानं निशाकरे कुर्याद्द्वितीयेऽहनि शास्त्रवित् ।।
उदुम्बरस्य पत्राणि पञ्चगव्यं कुशोदकम् ।। ३७ ।।
रोचनां च समंगां च क्षिपेत्कुम्भद्वये ततः ।।
कुम्भद्वयं बुधः कुर्याद्गन्धमाल्योज्ज्वलं दृढम् ।। ३६ ।।
अकालमूलं संस्थाप्य कर्ता तेन तदा भवेत् ।।
स्नात्वा गोवालचीराणि परिधाय समाहितः ।। ३९ ।।
पूजयेच्चाप्यहिर्बुध्न्यमादित्यं च तथैव च ।।
वरुणं च शशाङ्कं च गन्धमाल्यान्नसम्पदा ।। ।। 2.44.४० ।।
धूपदीपनमस्कारैस्तथैव बलिकर्मणा ।।
अक्षतानां च पात्राणि ततो राम चतुर्दश ।। ४१ ।।
अहिर्बुध्न्याय रुद्राय सफलांश्च निवेदयेत्।।
खट्वांगेन तु दातव्यं तथा धूपं द्विजोत्तम ।। ४२ ।।
ततस्तु पूजा कर्तव्या देवदेवस्य चक्रिणः ।।
ॐकारपूर्वमाज्यं च सर्वासां जुहुयात्ततः ।। ४३ ।।
देवतानां यथोक्तानामेकैकस्य शतंशतम् ।।
गोवालशफशृङ्गैश्च त्रिवृतं कारयेन्मणिम् ।। ४४ ।।
धारणं तस्य कर्तव्यं कण्ठे मूर्ध्न्यथवा भुजे ।।
कर्त्रे चैवोपद्रष्ट्रे च शक्त्या देया च दक्षिणा ।। ४५ ।।
ब्राह्मणानां च सर्वेषां यथावदनुपूर्वशः ।।
अलंघयन्भद्रपदामथान्त्यां करोति यः स्नानमिदं सदैव 
भवन्ति तस्यायुतशश्च गावः परामवाप्नोति तथैव वृद्धिम् ।। ४६ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने गवां शान्तिकर्म नाम चतुश्चत्वारिंशत्तमोऽध्यायः ।। ४४ ।।
2.45
पुष्कर उवाच ।।
राज्ञां तुरङ्गमायत्तो विजयो भृगुनन्दन ।।
तस्मात्सर्वं प्रयत्नेन तुरङ्गाणां समर्जनम् ।। १ ।।

राज्ञा यत्नवता भाव्यं पालने च विशेषतः ।।
तावन्तस्तुरगा धार्या यावतां पोषणं सुखम् ।। २ ।।

कर्तुं शक्यं न धार्यास्ते दुःखिताः क्षुधितास्तथा ।।
दुःखितास्ते श्रियं लोके विनिघ्नन्ति जयं तथा ।३।

धारणीयाः सुविहिता विधिना यवसादिताः।।
विधृतास्ते तथा कुर्युर्लोकद्वयजयं तथा ।।४।

मङ्गल्यास्ते पवित्रास्ते रजस्तेषां तथैव च ।।
कैवल्यस्यैव ते भक्ता देवस्य परमेष्ठिनः ।।५।

अन्ति मध्ये तथा तेन नानुज्ञाता दिवौकसाम् ।।
ततोऽश्वमेधतुरगस्तस्यैवैकस्य हूयते । ६।

सर्वरत्नाधिको जातस्तुरगोऽमृतमन्थनात्।
उच्चैःश्रवास्तेन हयः सर्वरत्नोत्तमः स्मृतः ।७।

सपक्षा देववाह्यास्ते मनुष्याणामपक्षकाः।
पद्मना शालिहोत्रेण वाहनार्थं पुरा कृताः । ८ ।

नीराजयन्ति ते देशान्ह्रेषितैर्बलशालिनः ।।
गन्धर्वास्ते विनिर्दिष्टाः श्रियः पुत्रा जितश्रमाः । ९ ।

प्रधानमंगं सैन्यस्य शोभा च परमा हयाः ।
सुदूरगमने युद्धे यानश्रेष्ठास्तुरङ्गमाः । 2.45.१०।

वल्गन्तमुच्चैस्तुरगं चामरापीडधारिणम् ।।
आरुह्य या भवेत्तुष्टिर्न सा राम त्रिविष्टपे ।।११।

सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः ।।
दृष्टैरेवारिसैन्यस्य पतन्ति हृदयान्यलम् ।१२।

तुरङ्गपादोद्धृतधूलिदण्डं यस्यातपत्रानुकृतिं करोति।
नभः समग्रा वसुधा तु तस्य शैलावतंसा भवतीह वश्या ।। १३ ।।
__________
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने अश्वप्रशंसा नाम पञ्चचत्वारिंशत्तमोऽध्यायः ।। ४५ ।।

नौस्थैरेव परैः शीघ्रं तुरगा नृपबाहुभिः ।।महिषीणां च सङ्घानि गवां च यदुनन्दन ।। 1.206.३० ।।

जग्मुर्गोपालकैः सार्धं परं पारं च बाहुभिः ।।उष्ट्रगर्दभसंघानि तार्यमाणानि बाहुभिः ।। ३१ ।।

(अध्याय ११० विष्णु धर्मोंत्तर पुराण)
________
मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत्।
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।।३९।
__________

पद्भ्याञ्चाश्चान् समातङ्गान् शरभान् गवयान् मृगान्।
उष्ट्रानश्चतरांश्चैव ताश्वान्याश्चैव जातयः।४०।

ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे।
एवं पश्वोषधीः सृष्ट्वा न्ययुञ्जत्सोऽध्वरे प्रभुः ।।४१।।
____________________
तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा।
गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्द्दभौ।
एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोधत ।।४२।

श्वापदा द्विखुरो हस्ती वानरः पक्षिपञ्चमाः।
उन्दकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः ।।४३।।
________________
गायत्रं वरुणञ्चैव त्रिवृत्सौम्यं रथन्तरम्।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ।।४४।।

छन्दांसि त्रैष्टुभङ्कर्म स्तोमं पञ्चदशन्तथा।
बृहत्साममथोक्थञ्च दक्षिणात्सोऽसृजन्मुखात् ।।४५।।

सामानि जगती च्छन्दस्तोमं पञ्चदशन्तथा।
वैरूप्यमतिरात्रञ्च पश्चिमादसृजन्मुखात् ।।४६।।

एकविंशमथर्वाणमाप्तोर्यामाणमेव च।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ।।४७।।
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च।
वयांसि च ससर्ज्जादौ कल्पस्य भगवान् प्रभुः ।।४८।।

विश्वरूपमथार्यायाः पृथग्देहविभावनात्।
श्रृणु संक्षेपतस्तस्या यथावदनुपूर्वशः ।।८०।।

____________________________
प्रकृतिर्नियता रौद्री दुर्गा भद्रा प्रमाथिनी।
कालरात्रिर्महामाया रेवती भुतनायिका ।।८१।।
___________________
द्वापरान्तविकारेषु देव्या नामानि मे श्रृणु।
गौतमी कौशिकी आर्या चण्डी कात्यायनी सती ।।८२।।
___________________
कुमारी यादवी देवी वरदा कृष्णपिङ्गला।
बर्हिर्ध्वजा शूलधरा परमब्रह्मचारिणी ।८३।

माहेन्द्री चेन्द्रभगिनी वृषकन्यैकवाससी।
अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी ।।८४।

एकानसा दैत्यहनी माया महिषमर्द्दिनी।
अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका ।।८५।
देवीनामविकाराणि इत्येतानि यथाक्रमम्।
भद्रकाल्यास्तवोक्तानि देव्या नामानि तत्त्वतः।८६।

इति श्रीमहापुरणे वायुप्रोक्ते देवादिसृष्टिवर्णनं नाम नवमोऽध्यायः ।। ९ ।।
___________________

तुलना करें-
वायुपुराण
मुखतोऽजान् ससर्ज्जाथ वक्षसश्चवयोऽसृजत्।
गाश्चैवाथोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे ।३९।
 वायुपुराण पूर्वार्ध नवम अध्याय श्लोक ३९ वाँ।
________

वायुपुराण
रजस्तमोभ्यामाविष्टांस्ततोऽन्यानसृजत् प्रभुः।।
वयांसि वयसः सृष्ट्वा अवीन्वै वक्षसोऽसृजत् ।७.५४
________

कूर्मपुराण-
मुखतोऽजान् ससर्जान्यान् उदराद्‌गाश्चनिर्ममे ।
पद्भ्यांचाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ।७.५५
______________
इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तमोऽध्यायः।।७।।
कूर्मपुराणपूर्वभाग सप्तम अध्याय -

____________________________   

लक्ष्मीनारायण-संहिता-खण्डः(१)        (कृतयुगसन्तानः)-अध्यायः (५०९)
            __________________

               -श्रीनारायण उवाच-

अस्मद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम्। ७२॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें