★-"इतिहास के बिखरे हुए पन्ने"-★

रविवार, 26 मार्च 2023

राधाष्टमी का महात्यम्यपद्मपुराण-/खण्डः ४ (ब्रह्मखण्डः राधाष्टमी का महात्यम्य-)अध्यायः ०८

            "सनत्कुमार उवाच"
पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ।।
वचनं मम शोकघ्नं सुखदं सर्वदैव वः ।।२७ ।।
विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी ।।
ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती ।२८।।
धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ।
तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति । २९ ।
वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ।।
भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः।। 2.3.2.३०।।

कलावती वृषभानस्य कौतुकात्कन्यया सह ।।
जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः ।३३।
कलावतीसुता राधा साक्षाद्गोलोकवासिनी ।।
गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति।।2.3.2.४०।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।
देवीभागवतपुराण स्कन्ध ९ अध्यायः १

< देवीभागवतपुराणम्‎ | स्कन्धः ०९

           प्रकृतिचरित्रवर्णनम्

           श्रीनारायण उवाच
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता॥१ ॥

               नारद उवाच
आविर्बभूव सा केन का वा सा ज्ञानिनांवर ।
किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम् ॥२।
सर्वासां चरितं पूजाविधानं गुण ईप्सितः ।
अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
श्रीनारायण उवाच
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् ।
किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ॥४ ॥
प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ ५ ॥
गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः ।
मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः ॥ ६ ॥
त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता ।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥ ७ ॥
प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता ॥ ८॥
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।
पुमांश्च दक्षिणार्धाङ्‌गो वामार्धा प्रकृतिः स्मृता॥९।
सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी ।
यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता ॥ १० ॥
अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते ।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद ॥ ११ ॥
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ।
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ॥ १२ ॥
तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका ।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥ १३ ॥
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥ १४ ॥
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता ।
सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी ॥ १५ ॥
धर्मसत्यपुण्यकीर्तिर्यशोमङ्‌गलदायिनी ।
सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी ॥ १६ ॥
शरणागतदीनार्तपरित्राणपरायणा ।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ॥ १७ ॥
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ।
सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी॥१८।
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः ।
जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना ॥ १९॥
तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च ।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥२०॥
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ॥२१॥
शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः ।
सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता ॥ २२ ॥
कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्‌गला ।
लोभमोहकामरोषमदाहङ्‌कारवर्जिता ॥ २३ ॥
भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता ।
प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा ॥ २४ ॥
सर्वसस्यात्मिका देवी जीवनोपायरूपिणी ।
महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती ॥ २५ ॥
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा ॥ २६ ॥
सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा ।
कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥ २७ ॥
वाणिज्यरूपा वणिजां पापिनां कलहाङ्‌कुरा ।
दयारूपा च कथिता वेदोक्ता सर्वसम्मता ॥ २८ ॥
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ।
वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः ॥ २९ ॥
सर्वविद्यास्वरूपा या सा च देवी सरस्वती ।
सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ॥ ३० ॥
नानाप्रकारसिद्धान्तभेदार्थकलना मता ।
व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी ॥३१।
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ।
स्वरसङ्‌गीतसन्धानतालकारणरूपिणी ॥ ३२ ॥
विषयज्ञानवाग्‍रूपा प्रतिविश्वोपजीविनी ।
व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी ॥ ३३ ॥
शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया ।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ॥ ३४ ॥
यजन्ती परमात्मानं श्रीकृष्णं रत्‍नमालया ।
तपःस्वरूपा तपसां फलदात्री तपस्विनाम् ॥ ३५ ॥
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा ।
यया विना तु विप्रौघो मूको मृतसमः सदा ॥ ३६ ॥
देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका ।
यथागमं यथाकिञ्चिदपरां त्वं निबोध मे ॥ ३७ ॥
माता चतुर्णां वर्णानां वेदाङ्‌गानां च छन्दसाम् ।
सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा ॥३८।
द्विजातिजातिरूपा च जपरूपा तपस्विनी ।
ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ॥ ३९ ॥
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ।
तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये ॥ ४०॥
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी ।
परमानन्दरूपा च परमा च सनातनी ॥ ४१ ॥
परब्रह्मस्वरूपा च निर्वाणपददायिनी ।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥ ४२ ॥
यत्पादरजसा पूतं जगत्सर्वं च नारद ।
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥ ४३ ॥
पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ।
प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा ॥ ४४ ॥
सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता ।
वामाङ्‌गार्धस्वरूपा च गुणेन तेजसा समा ॥ ४५ ॥

___________
परावरा सारभूता परमाद्या सनातनी ।
परमानन्दरूपा च धन्या मान्या च पूजिता ॥ ४६ ॥

रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः ।
रासमण्डलसम्भूता रासमण्डलमण्डिता ॥ ४७।
रासेश्वरी सुरसिका रासावासनिवासिनी ।
गोलोकवासिनी देवी गोपीवेषविधायिका॥४८।

परमाह्लादरूपा च सन्तोषहर्षरूपिणी ।
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥ ४९ ॥
निरीहा निरहङ्‌कारा भक्तानुग्रहविग्रहा ।
वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः ॥ ५० ॥
दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्‌गवैः ।
वह्निशुद्धांशुकधरा नानालङ्‌कारभूषिता ॥ ५१ ॥
कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा ।
श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम् ॥५२ ॥
अवतारे च वाराहे वृषभानुसुता च या ।
यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा ॥ ५३ ॥

___________________________________
ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते ।
स्त्रीरत्‍नसारसम्भूता कृष्णवक्षःस्थले स्थिता ॥५४॥
यथाम्बरे नवघने लोला सौदामनी मुने ।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥ ५५ ॥


यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।
न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा॥५६।
तेनैव तपसा दृष्टा भुवि वृन्दावने वने ।
कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता ॥५७।


अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः ।
प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः ॥ ५८ ॥
परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः ।
या याः प्रधानांशरूपा वर्णयामि निशामय ॥ ५९ ॥
प्रधानांशस्वरूपा सा गङ्‌गा भुवनपावनी ।
विष्णुविग्रहसम्भूता द्रवरूपा सनातनी ॥ ६० ॥
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।
सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी ॥ ६१ ॥
गोलोकस्थानप्रस्थानसुखसोपानरूपिणी ।
पवित्ररूपा तीर्थानां सरितां च परावरा ॥ ६२ ॥
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी ।
तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम् ॥ ६३ ॥
चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ।
निर्मला निरहङ्‌कारा साध्वी नारायणप्रिया ॥६४॥
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ।
विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥६५॥
तपःसंकल्पपूजादिसङ्‌घसम्पादिनी मुने ।
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥ ६६ ॥
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी ।
कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी ॥ ६७ ॥
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा ।
यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये ॥ ६८ ॥
यया विना च विश्वेषु सर्वकर्म च निष्फलम् ।
मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा ॥ ६९ ॥
कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी ।
भारतीनां प्रीणनाय जाता या परदेवता ॥ ७० ॥
प्रधानांशस्वरूपा या मनसा कश्यपात्मजा ।
शङ्‌करप्रियशिष्या च महाज्ञानविशारदा ॥ ७१ ॥
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥ ७२ ॥
नागेन्द्रगणसंयुक्ता नागभूषणभूषिता ।
नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी ॥ ७३ ॥
विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा ।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥ ७४ ॥
दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः ।
तपस्विनीषु पूज्या च तपस्विषु च भारते ॥ ७५ ॥
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा ।
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥ ७६ ॥
जरत्कारुमुनेः पत्‍नी कृष्णांशस्य पतिव्रता ।
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ॥७७ ॥
प्रधानांशस्वरूपा या देवसेना च नारद ।
मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता ॥७८ ॥
पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती ।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ॥ ७९ ॥
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ॥ ८० ॥
पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः ।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ॥ ८१ ॥
मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा ।
मातृका च दयारूपा शश्वद्‌रक्षणकारिणी ॥ ८२ ॥
जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे ।
प्रधानांशस्वरूपा च देवीमङ्‌गलचण्डिका ॥ ८३ ॥
प्रकृतेर्मुखसम्भूता सर्वमङ्‌गलदा सदा ।
सृष्टौ मङ्‌गलरूपा च संहारे कोपरूपिणी ॥ ८४ ॥
तेन मङ्‌गलचण्डी सा पण्डितैः परिकीर्तिता ।
प्रतिमङ्‌गलवारेषु प्रतिविश्वेषु पूजिता ॥ ८५ ॥
पुत्रपौत्रधनैश्वर्ययशोमङ्‌गलदायिनी ।
परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम् ॥ ८६ ॥
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी ।
प्रधानांशस्वरूपा सा काली कमललोचना ॥ ८७ ॥
दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः ।
दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा ॥ ८८ ॥
कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा ।
प्रधाना सर्वशक्तीनां बला बलवती परा ॥ ८९ ॥
सर्वसिद्धिप्रदा देवी परमा योगरूपिणी ।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः॥९०॥


कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ।
संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः ॥ ९१ ॥
रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया ।
धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता ॥ ९२ ॥
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ।
प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा ॥ ९३ ॥
आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता ।
रत्‍नाकरा रत्‍नगर्भा सर्वरत्‍नाकराश्रया ॥ ९४ ॥
प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा ।
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ॥ ९५ ॥
यया विना जगत्सर्वं निराधारं चराचरम् ।
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ॥ ९६ ॥
यस्य यस्य च या पत्‍नी तत्सर्वं वर्णयामि ते ।
स्वाहादेवी वह्निपत्‍नी प्रतिविश्वेषु पूजिता ॥ ९७ ॥
यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः ।
दक्षिणा यज्ञपत्‍नी च दीक्षा सर्वत्र पूजिता ॥ ९८ ॥

यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् ।
स्वधा पितॄणां पत्‍नी च मुनिभिर्मनुभिर्नरैः ॥ ९९ ॥
पूजिता पितृदानं हि निष्कलं च यया विना ।
स्वस्तिदेवी वायुपत्‍नी प्रतिविश्वेषु पूजिता ॥१००॥

आदानं च प्रदानं च निष्फलं च यया विना ।
पुष्टिर्गणपतेः पत्‍नी पूजिता जगतीतले ॥ १०१ ॥
यया विना परिक्षीणाः पुमांसो योषितोऽपि च ।
अनन्तपत्‍नी तुष्टिश्च पूजिता वन्दिता भवेत् ॥१०२।
यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः ।
ईशानपत्‍नी सम्पत्तिः पूजिता च सुरैर्नरैः ॥ १०३ ॥
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना ।
धृतिः कपिलपत्‍नी च सर्वैः सर्वत्र पूजिता ॥१०४ ॥
सर्वे लोका अधैर्याश्च जगत्सु च यया विना ।
सत्यपत्‍नी सती मुक्तैः पूजिता च जगत्प्रिया ॥ १०५ ॥
यया विना भवेल्लोको बन्धुतारहितः सदा ।
मोहपत्‍नी दया साध्वी पूजिता च जगत्प्रिया ॥ १०६ ॥
सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना ।
पुण्यपत्‍नी प्रतिष्ठा सा पूजिता पुण्यदा सदा ॥ १०७ ॥
यया विना जगत्सर्वं जीवन्मृतसमं मुने ।
सुकर्मपत्‍नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता ॥ १०८ ॥
यया विना जगत्सर्वं यशोहीनं मृतं यथा ।
क्रिया तूद्योगपत्‍नी च पूजिता सर्वसम्मता ॥ १०९ ॥
यया विना जगत्सर्वं विधिहीनं च नारद ।
अधर्मपत्‍नी मिथ्या सा सर्वधूर्तैश्च पूजिता ॥ ११० ॥
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ।
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ॥ १११ ॥
अर्धावयवरूपा च द्वापरे चैव संवृता ।
कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात् ॥ ११२ ॥
कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे ।
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥ ११३ ॥
याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद ।
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा ॥ ११४ ॥
याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा ।
मूर्तिश्च धर्मपत्‍नी सा कान्तिरूपा मनोहरा ॥ ११५ ॥
परमात्मा च विश्वौघो निराधारो यया विना ।
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ॥ ११६ ॥
श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता ।
कालाग्नी रुद्रपत्‍नी च निद्रा सा सिद्धयोगिनी ॥ ११७ ॥
सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु ।
कालस्य तिस्रो भार्याश्च संध्या रात्रिर्दिनानि च ॥ ११८ ॥
याभिर्विना विधाता च संख्यां कर्तुं न शक्यते ।
क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ॥११९।
याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् ।
प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ॥१२०।
याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः ।
कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये ॥१२१ ॥
याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ ।
निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये ॥ १२२ ॥
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ।
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ॥१२३।
याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने ।
अदितिर्देवमाता च सुरभी च गवां प्रसूः ॥ १२४ ॥
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ।
उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः ॥ १२५ ॥
कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ।
रोहिणी चन्द्रपत्‍नी च संज्ञा सूर्यस्य कामिनी ॥ १२६ ॥
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी ।
तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती ॥ १२७ ॥
अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी ।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ॥ १२८ ॥
पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ।
लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा ॥१२९।
वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा ।
कान्ता च दमयन्ती च यशोदा देवकी तथा ॥१३० ॥
गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया ।
वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा ॥ १३१
॥
मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा ।
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ॥ १३२ ॥
जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा ।
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ॥ १३३ ॥
काली योजनगन्धा च व्यासमाता महासती ।
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥ १३४ ॥
प्रभावती भानुमती तथा मायावती सती ।
रेणुका च भृगोर्माता राममाता च रोहिणी ॥१३५ ॥
एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती ।
बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते ॥ १३६ ॥
या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः ।
कलांशांशसमुद्‌भूताः प्रतिविश्वेषु योषितः॥१३७ ॥
योषितामवमानेन प्रकृतेश्च पराभवः ।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ॥१३८ ॥
प्रकृतिः पूजिता तेन वस्त्रालङ्‌कारचन्दनैः ।
कुमारी चाष्टवर्षीया वस्त्रालङ्‌कारचन्दनैः ॥१३९॥
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता ।
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः ॥ १४० ॥
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ।
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः ॥ १४१ ॥
सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा ।
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ॥ १४२ ॥
दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः ।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥ १४३ ॥

प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः ।
एवं निगदितं सर्वं प्रकृते रूपवर्णनम् ॥ १४४ ॥
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते ।
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥ १४५ ॥
ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना ।
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ॥१४६।
जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् ।
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ॥ १४७ ॥

__________________
जज्ञे हिमवतः पत्‍न्यां लेभे पशुपतिं पतिम् ।
गणेशश्च स्वयं कृष्णः स्कन्दो वृष्णि- कलोद्‍भवः॥ १४८ ॥

बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ।
लक्ष्मीर्मङ्‌गलभूपेन प्रथमं परिपूजिता ॥ १४९ ॥
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ।
सावित्री चाश्वपतिना प्रथमं परिपूजिता ॥ १५० ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्‌गवैः ।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ॥ १५१ ॥
तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्‌गवैः ।
प्रथमं पूजिता राधा गोलोके रासमण्डले ॥ १५२ ॥

पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना ।
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ॥ १५३ ॥
गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः ।
तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा ॥ १५४ ॥
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा ।
पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता ॥ १५५ ॥
शङ्‌करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ।
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ॥ १५६ ॥
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा ।
कला या याः समुद्‌भूता पूजितास्ताश्च भारते ॥ १५७ ॥
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ।
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥ १५८ ॥
यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥ १५९।

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे प्रकृतिचरित्रवर्णनं नाम प्रथमोध्यायः ॥ १ ॥

_______________________________

गोलोकेऽस्मिन्महेशान गोपगोपीसुखावहः।
स कदाचिद्धरालोके माथुरे मंडले शिव।।८१-२६।।

आविर्भूयाद्भुतां क्रीडां वृंदाग्ण्ये करिष्यति ।।
वृषभानुसुता राधा श्रीदामानं हरेः प्रियम् । ८१-२७।

सखायं विरजागेहद्वाःस्थं क्रुद्धा शपिष्यति ।
ततः सोऽपि महाभाग राधां प्रतिशपिष्यति ।८१-२८।

याहि त्वं मानुषं लोकं मिथः शापाद्धरां ततः।
प्राप्स्यत्यथ हरिः पश्चाद्ब्रह्मणा प्रार्थितः क्षितौ ।८१-२९ ।

भूभारहरणायैव वासुदेवो भविष्यति ।
वसुदेवगृहे जन्म प्राप्य यादवनंदनः।८१-३०।

कंसासुरभिया पश्चाद्व्रजं नन्दस्य यास्यति ।।
तत्र यातो हरिः प्राप्तां पूतनां बालघातिनीम् ।८१-३१।

वियोजयिष्यति प्राणैश्चक्रवातं च दानवम् ।
वत्सासुरं महाकायं हनिष्यति सुरार्द्दनम् । ८१-३२।

दमित्वा कालियं नागं यम्या उच्चाटयिष्यति ।
दुःसहं धेनुकं हत्वा वकं नद्वदघासुरम् । ८१-३३।

दावं प्रदावं च तेथा प्रलंबं च हनिष्यति ।
ब्रह्मणमिंद्रं वरुणं प्रमत्तौ धनदात्मजो ।८१-३४ ।

विमदान्स विधायेषो हनिष्यति वृपासुरम् ।
शंखचूडंकेशिनं च व्योमं हत्वा व्रजे वसन् ।८१-३५।
एकादश समास्तत्र गोपीभिः क्रीडायिष्यति ।
ततश्च मथुरां प्राप्य रजकं संनिहत्य च । ८१-३६ ।
कुब्जामृज्वीं ततः कृत्वा धनुर्भंक्त्वा गजोत्तमम् ।।
हत्वा कुवलयापीडं मल्लांश्चाणूरकादिकान् ।। ८१-३७ ।।
कंसं स्वमातुलं कृष्णो हनिष्यति ततः परम् ।।
विमुच्य पितरौ बद्धौ यवनेशं निहत्य च ।। ८१-३८।

जरासंध भयात्कृष्णो द्वारकायां समुष्यति ।।
रुक्मिणीं सत्यभामां च सत्यां जाम्बवतीं तथा ।। ८१-३९ ।।

कैकेयीं लक्ष्मणां मित्रविंदां कालिंदिकां विभुः ।।
दारान्षोडशसाहस्रान्भौमं हत्वोद्वहिष्यति ।८१-४०।

पौंड्रकं शिशुपालं च दंतवक्त्रं विदूरथम् ।।
शाल्वं च हत्वा द्विविदं बल्वलं घातयिष्यति । ८१-४१ ।

वज्रनाभं सुनाभं च सार्द्धं वै षट्पुरालयैः ।।
त्रिशरीरं ततो दैत्यं हनिष्यति वरोर्ज्जितम् ।। ८१-४२ ।।

कौखान्पांडवांश्चापि निमित्तमितरेतरम् ।।
कृत्वा हनिष्यति शिव भूभारहरमोत्सुकः ।। ८१-४३ ।।
यदून्यदुभिग्न्योन्यं संहबृत्य स्वकुलं हरिः ।।
पुनरेतन्निजं धाम समेष्यति च सानुगः ।। ८१-४४।

एतत्तेऽभिहितं शंभो भविष्यच्चरितं हरेः ।।
गच्छ द्रक्ष्यसि तत्सर्वं जगतीतलगे हरौ ।८१-४५ ।।
तच्छ्रुत्वां सुरभेर्वाक्यं भृशं प्रीतो विधातृज ।।
स्वस्थानं पुनरायातस्तुभ्यं चापि मयोदितम् ।। ८१-४६ ।।

त्वं च द्रक्ष्यसि कालेन चरितं गोकुलेशितुः ।
तच्छ्रुत्वा शूलिनो वाक्यं वसुर्दृष्टतनूरुहः ।८१-४७।

गायन्माद्यन् विभुं तंत्र्या रमयाम्यातुरं जगत् ।।
एतद्भविष्यत्कथितं मया तुभ्यं द्विजोत्तम ।८१-४८।

यथा तु गौतमस्तद्वदहं चापि हिते रतः ।।
                "सूत उवाच ।।
इत्युक्त्वा नारदस्तस्मै वसवे स द्विजन्मने ।। ८१-४९ ।।

जगाम वीणा रणयंश्चिन्तयन्यदनंदनम् ।।
स वसुस्तद्वचः श्रुत्वा व्रजे सुप्रीतमानसः । ८१-५० 

उवास सर्वदा विप्राः कृष्णक्रीडेक्षणोत्सुकः ।। ८१-५१ ।।

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे वसुचरित्रनिरूपणं नामैकाशीतितमोऽध्यायः ।। ८१ ।।

__________________________________
          राधाष्टमी का महात्यम्य

पद्मपुराण-/खण्डः ४ (ब्रह्मखण्डः राधाष्टमी का महात्यम्य-)

अध्यायः ०८ →

                 शौनक उवाच-
कथयस्व महाप्राज्ञ गोलोकं याति कर्मणा ।
सुमते दुस्तरात्केन जनः संसारसागरात् ।
राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम् ।१।

                  सूत उवाच-
ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामुने ।
तच्छृणुष्व समासेन पृष्टवान्स इति द्विज २।
नारद उवाच-
पितामह महाप्राज्ञ सर्वशास्त्रविदां वर ।
राधाजन्माष्टमी तात कथयस्व ममाग्रतः ३।
तस्याः पुण्यफलं किंवा कृतं केन पुरा विभो ।
अकुर्वतां जनानां हि किल्बिषं किं भवेद्द्विज ४।

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे श्रीराधाष्टमीमाहात्म्यंनाम सप्तमोऽध्यायः ७।

_________________________________

लीलावती प्रिया तस्य तां राधां तु विदुः परे ।
 श्रीराधाया भुजाभ्यां तु विशाखा ललिता सखी ॥ २३ ॥
 सहचर्यस्तथा गोप्यो राधारोमोद्‌भवा नृप ।
 एवं गोलोकरचनां चकार मधुसूदनः ॥ २४ ॥
 विधाय सर्व निजलोकमित्थं
     श्रीराधया तत्र रराज राजन् ।
 असंख्यलोकाण्डपतिः परात्मा
     परः परेशः परिपूर्णदेवः ॥ २५ ॥

गिरिराजखण्ड अध्याय (9)



प्रस्तुतकर्ता ★-Yadav Yogesh Kumar "Rohi"-★ पर 1:41 am
इसे ईमेल करेंइसे ब्लॉग करें! X पर शेयर करेंFacebook पर शेयर करेंPinterest पर शेयर करें

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नई पोस्ट पुरानी पोस्ट मुख्यपृष्ठ
मोबाइल वर्शन देखें
सदस्यता लें टिप्पणियाँ भेजें (Atom)

यादव योगेश कुमार "रोहि" ग्राम - आज़ादपुर-पत्रालय-पहाड़ीपुर जनपद अलीगढ़---उ०प्र० दूरभाष 807716029

मेरी फ़ोटो
★-Yadav Yogesh Kumar "Rohi"-★
Yadav Yogesh Kumar Rohi village Azadpur post Paharipur district Aligarh U.P. 8077160219
मेरा पूरा प्रोफ़ाइल देखें

ब्लॉग आर्काइव

  • ►  2025 (106)
    • ►  जून (10)
    • ►  मई (8)
    • ►  अप्रैल (14)
    • ►  मार्च (22)
    • ►  फ़रवरी (23)
    • ►  जनवरी (29)
  • ►  2024 (395)
    • ►  दिसंबर (41)
    • ►  नवंबर (53)
    • ►  अक्टूबर (31)
    • ►  सितंबर (21)
    • ►  अगस्त (12)
    • ►  जुलाई (27)
    • ►  जून (31)
    • ►  मई (17)
    • ►  अप्रैल (13)
    • ►  मार्च (46)
    • ►  फ़रवरी (49)
    • ►  जनवरी (54)
  • ▼  2023 (398)
    • ►  दिसंबर (47)
    • ►  नवंबर (30)
    • ►  अक्टूबर (48)
    • ►  सितंबर (34)
    • ►  अगस्त (30)
    • ►  जुलाई (11)
    • ►  जून (19)
    • ►  मई (35)
    • ►  अप्रैल (29)
    • ▼  मार्च (39)
      • राम सीता के वियोग में लेखक के अनुसार कामातुर हो रह...
      • भागवत पुराण » स्कन्ध 12: पतनोन्मुख युग » अध्या...
      • राधातन्त्रे सहस्रनामस्तोत्र .
      • राधा जी की शास्त्रीय प्रमाणों से अस्तित्व मूलक-मीम...
      • राध्नोति साधयति भक्तानां कार्य्याणीति इति राधा।(रा...
      • राधा तत्व भक्ति मूलक"
      • राधाष्टमी का महात्यम्यपद्मपुराण-/खण्डः ४ (ब्रह्मखण...
      • राधा की परिभाषा के विभिन्न स्रोत-
      • गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः ।।
      • कामसूत्र-
      • कामसूत्र
      • बल फॉनिशियन देव-
      • श्री दुर्गासप्तशती पाठ का ग्यारहवां अध्याय अर्थ सह...
      • नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।ततस्तौ नाशयिष्या...
      • देवनागरी लिपि का विकास क्रम-
      • अध्याय-त्रयोविञ्शति (23)__________"गोप "गो और "गा...
      • यह स्कंद पुराण के नागर-खंड के तीर्थ-महात्म्य का एक...
      • गोपैरसद्भ‍िरबलेव विनिर्जितोऽस्मि
      • दो यदु ,दो ययाति, दो नहुष जिसमें एक सूर्य के और एक...
      • भागवत धर्म और ब्राह्मण धर्म एक तुलनात्मक दृष्टिकोण...
      • तीन यदु नाम के राजा परन्तु दो नये संस्करण ययाति पु...
      • पृषोदर-
      • पृषोदर-
      • यदु का अर्थ -अध्याय नवम -यदुवंश-सांस्कृतिक पारिभाष...
      • मनुस्मृतिः/नवमोध्यायः
      • ' अध्याय-तृत्तीय-
      • ब्राह्मण बकरे के सजातीय वैश्य गाय के सजातीय क्षत्र...
      • सौराष्ट्रे च यदा ब्रह्मा यज्ञार्थं संगमिष्यति
      • अध्याय द्वितीय ★-
      • अध्याय प्रथम -
      • यदु
      • यदुवंश-सांस्कृतिक पारिभाषिक व्युत्पत्ति कोश-अध्याय...
      • होली
      • अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ वेदों म...
      • अब्राह्मणः सङ्ग्रहणे प्राणान्तं दंडमर्हति ।
      • इति श्रीवामनपुराणे त्रयोदशोऽध्यायः ।। १३ ।। आभीर त...
      • श्रीवामनपुराणे सरोमाहात्म्ये नवचत्वारिंशात्तमोऽध्य...
      • वामनपुराण-
      • जैमिनीयाश्वमेधपर्व (अध्याय: 9 )
    • ►  फ़रवरी (32)
    • ►  जनवरी (44)
  • ►  2022 (166)
    • ►  दिसंबर (34)
    • ►  नवंबर (5)
    • ►  अक्टूबर (14)
    • ►  सितंबर (10)
    • ►  अगस्त (10)
    • ►  जून (3)
    • ►  मई (3)
    • ►  अप्रैल (13)
    • ►  मार्च (23)
    • ►  फ़रवरी (25)
    • ►  जनवरी (26)
  • ►  2021 (267)
    • ►  दिसंबर (15)
    • ►  नवंबर (15)
    • ►  अक्टूबर (20)
    • ►  सितंबर (18)
    • ►  अगस्त (35)
    • ►  जुलाई (17)
    • ►  जून (24)
    • ►  मई (18)
    • ►  अप्रैल (17)
    • ►  मार्च (30)
    • ►  फ़रवरी (27)
    • ►  जनवरी (31)
  • ►  2020 (126)
    • ►  दिसंबर (5)
    • ►  नवंबर (5)
    • ►  अक्टूबर (13)
    • ►  सितंबर (13)
    • ►  अगस्त (3)
    • ►  जुलाई (17)
    • ►  जून (15)
    • ►  मई (16)
    • ►  अप्रैल (16)
    • ►  मार्च (14)
    • ►  फ़रवरी (5)
    • ►  जनवरी (4)
  • ►  2019 (248)
    • ►  दिसंबर (5)
    • ►  नवंबर (8)
    • ►  अक्टूबर (18)
    • ►  सितंबर (17)
    • ►  अगस्त (30)
    • ►  जुलाई (16)
    • ►  जून (22)
    • ►  मई (20)
    • ►  अप्रैल (30)
    • ►  मार्च (22)
    • ►  फ़रवरी (28)
    • ►  जनवरी (32)
  • ►  2018 (393)
    • ►  दिसंबर (38)
    • ►  नवंबर (52)
    • ►  अक्टूबर (33)
    • ►  सितंबर (37)
    • ►  अगस्त (13)
    • ►  जुलाई (15)
    • ►  जून (43)
    • ►  मई (21)
    • ►  अप्रैल (26)
    • ►  मार्च (22)
    • ►  फ़रवरी (19)
    • ►  जनवरी (74)
  • ►  2017 (479)
    • ►  दिसंबर (87)
    • ►  नवंबर (33)
    • ►  अक्टूबर (27)
    • ►  सितंबर (106)
    • ►  अगस्त (49)
    • ►  जुलाई (16)
    • ►  जून (28)
    • ►  मई (16)
    • ►  अप्रैल (90)
    • ►  मार्च (27)
ईथरीयल थीम. Blogger द्वारा संचालित.