भीष्म उवाच !
यदेतत्कथितं ब्रह्मंस्तीर्थमाहात्म्यमुत्तमम्।
कमलस्याभिपातेन तीर्थं जातं धरातले।१।
तत्रस्थेन भगवता विष्णुना शंकरेण च।
यत्कृतं मुनिशार्दूल तत्सर्वं परिकीर्त्तय।२।
कथं यज्ञो हि देवेन विभुना तत्र कारितः।
के सदस्या ऋत्विजश्च ब्राह्मणाः के समागताः।३।
के भागास्तस्य यज्ञस्य किं द्रव्यं का चदक्षिणा।
का वेदी किं प्रमाणं च कृतं तत्र विरंचिना।४।
यो याज्यः सर्वदेवानां वेदैः सर्वत्र पठ्यते।
कं च काममभिध्यायन्वेधा यज्ञं चकार ह।५।
यथासौ देवदेवेशो ह्यजरश्चामरश्च ह।
तथा चैवाक्षयः स्वर्गस्तस्य देवस्य दृश्यते।६।
अन्येषां चैव देवानां दत्तः स्वर्गो महात्मना।
अग्निहोत्रार्थमुत्पन्ना वेदा ओषधयस्तथा।७।
ये चान्ये पशवो भूमौ सर्वे ते यज्ञकारणात्।
सृष्टा भगवतानेन इत्येषा वैदिकी श्रुतिः।८।
तदत्र कौतुकं मह्यं श्रुत्वेदं तव भाषितम्।
यं काममधिकृत्यैकं यत्फलं यां च भावनां।९।
कृतश्चानेन वै यज्ञः सर्वं शंसितुमर्हसि।
शतरूपा च या नारी सावित्री सा त्विहोच्यते।१०।
भार्या सा ब्रह्मणः प्रोक्ताः ऋषीणां जननी च सा।
पुलस्त्याद्यान्मुनीन्सप्त दक्षाद्यांस्तु प्रजापतीन्।११।
स्वायंभुवादींश्च मनून्सावित्री समजीजनत्।
धर्मपत्नीं तु तां ब्रह्मा पुत्रिणीं ब्रह्मणः प्रियः।१२।
पतिव्रतां महाभागां सुव्रतां चारुहासिनीं।
कथं सतीं परित्यज्य भार्यामन्यामविंदत।१३।
किं नाम्नी किं समाचारा कस्य सा तनया विभोः।
क्व सा दृष्टा हि देवेन केन चास्य प्रदर्शिता।१४।
किं रूपा सा तु देवेशी दृष्टा चित्तविमोहिनी।
यां तु दृष्ट्वा स देवेशः कामस्य वशमेयिवान्।१५।
वर्णतो रूपतश्चैव सावित्र्यास्त्वधिका मुने।
या मोहितवती देवं सर्वलोकेश्वरं विभुम्।१६।
यथा गृहीतवान्देवो नारीं तां लोकसुंदरीं।
यथा प्रवृत्तो यज्ञोसौ तथा सर्वं प्रकीर्तय।१७।
तां दृष्ट्वा ब्रह्मणः पार्श्वे सावित्री किं चकार ह।
सावित्र्यां तु तदा ब्रह्मा कां तु वृत्तिमवर्त्तत।१८।
सन्निधौ कानि वाक्यानि सावित्री ब्रह्मणा तदा।
उक्ताप्युक्तवती भूयः सर्वं शंसितुमर्हसि।१९।
किं कृतं तत्र युष्माभिः कोपो वाथ क्षमापि वा।
यत्कृतं तत्र यद्दृष्टं यत्तवोक्तं मया त्विह।२०।
विस्तरेणेह सर्वाणि कर्माणि परमेष्ठिनः।
श्रोतुमिच्छाम्यशेषेण विधेर्यज्ञविधिं परं।२१।
कर्मणामानुपूर्व्यं च प्रारंभो होत्रमेव च।
होतुर्भक्षो यथाऽचापि प्रथमा कस्य कारिता।२२।
कथं च भगवान्विष्णुः साहाय्यं केन कीदृशं।
अमरैर्वा कृतं यच्च तद्भवान्वक्तुमर्हति।२३।
देवलोकं परित्यज्य कथं मर्त्यमुपागतः।
गार्हपत्यं च विधिना अन्वाहार्यं च दक्षिणम्।२४।
अग्निमाहवनीयं च वेदीं चैव तथा स्रुवम्।
प्रोक्षणीयं स्रुचं चैव आवभृथ्यं तथैव च।२५।
अग्नींस्त्रींश्च यथा चक्रे हव्यभागवहान्हि वै।
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि।२६।
भागार्थं यज्ञविधिना ये यज्ञा यज्ञकर्मणि।
यूपान्समित्कुशं सोमं पवित्रं परिधीनपि।२७।
यज्ञियानि च द्रव्याणि यथा ब्रह्मा चकार ह।
विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा।२८।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च।
मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा।२९।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं पुरा।
आयुः क्षेत्राण्यपचयं लक्षणं रूपसौष्ठवम्।३०।
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः।
त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः।३१।
सृष्टा लोकाः पराः स्रष्ट्रा ये चान्येनल्पचेतसा।
या गतिर्धर्मयुक्तानां या गतिः पापकर्मणां।३२।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता।
चतुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः।३३।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः।
यः परं परतः प्राह परं यः परमात्मवान्।३४।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम्।
वेद्यो यो वेदविदुषां यः प्रभुः प्रभवात्मनाम्।३५।
असुभूतश्च भूतानामग्निभूतोग्निवर्चसाम्।
मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम्।३६।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि।
इत्येतत्सर्वमखिलान्सृजन्लोकपितामहः।३७।
यज्ञाद्गतिं कामन्वैच्छत्कथं यज्ञे मतिः कृता।
एष मे संशयो ब्रह्मन्नेष मे संशयः परः।३८।
आश्चर्यः परमो ब्रह्मा देवैर्दैत्यैश्च पठ्यते।
कर्मणाश्चर्यभूतोपि तत्त्वतः स इहोच्यते।३९।
पुलस्त्य उवाच !
प्रश्नभारो महानेष त्वयोक्तो ब्रह्मणश्च यः।
यथाशक्ति तु वक्ष्यामि श्रूयतां तत्परं यशः।४०।
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम्।
सहस्रश्रवणं चैव सहस्रकरमव्ययम्।४१।
सहस्रजिह्वं साहस्रं सहस्रपरमं प्रभुं।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम्।४२।
हवनं सवनं चैव हव्यं होतारमेव च।
पात्राणि च पवित्राणि वेदीं दीक्षां चरुं स्रुवम्।४३।
स्रुक्सोममवभृच्चैव प्रोक्षणीं दक्षिणा धनम्।
अद्ध्वर्युं सामगं विप्रं सदस्यान्सदनं सदः।४४।
यूपं समित्कुशं दर्वी चमसोलूखलानि च।
प्राग्वंशं यज्ञभूमिं च होतारं बन्धनं च यत्।४५।
ह्रस्वान्यतिप्रमाणानि प्रमाणस्थावराणि च।
प्रायश्चित्तानि वाजाश्च स्थंडिलानि कुशास्तथा।४६।
मंत्रं यज्ञं च हवनं वह्निभागं भवं च यं।
अग्रेभुजं होमभुजं शुभार्चिषमुदायुधं।४७।
आहुर्वेदविदो विप्रा यो यज्ञः शाश्वतः प्रभुः।
यां पृच्छसि महाराज पुण्यां दिव्यामिमां कथां।४८।
यदर्थं भगवान्ब्रह्मा भूमौ यज्ञमथाकरोत्।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च।४९।
ब्रह्माथ कपिलश्चैव परमेष्ठी तथैव च।
देवाः सप्तर्षयश्चैव त्र्यंबकश्च महायशाः।५० 1.16.50।
सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान्प्रजापतिः।
पुराणदेवोथ तथा प्रचक्रे प्रदीप्तवैश्वानरतुल्यतेजाः।५१।
पुरा कमलजातस्य स्वपतस्तस्य कोटरे।
पुष्करे यत्र संभूता देवा ऋषिगणास्तथा।५२।
एष पौष्करको नाम प्रादुर्भावो महात्मनः।
पुराणं कथ्यते यत्र वेदस्मृतिसुसंहितं।५३।
वराहस्तु श्रुतिमुखः प्रादुर्भूतो विरिंचिनः।
सहायार्थं सुरश्रेष्ठो वाराहं रूपमास्थितः।५४।
विस्तीर्णं पुष्करे कृत्वा तीर्थं कोकामुखं हि तत्।
वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः।५५।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः।
अहोरात्रेक्षणो दिव्यो वेदांगः श्रुतिभूषणः।५६।
आज्यनासः स्रुवतुंडः सामघोषस्वनो महान्।
सत्यधर्ममयः श्रीमान्कर्मविक्रमसत्कृतः।५७।
प्रायश्चित्तनखो धीरः पशुजानुर्मखाकृतिः।
उद्गात्रांत्रो होमलिंगो फलबीजमहौषधिः।५८।
वाय्वंतरात्मा मंत्रास्थिरापस्फिक्सोमशोणितः।
वेदस्कंधो हविर्गंधो हव्यकव्यातिवेगवान्।५९।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरर्चितः।
दक्षिणाहृदयो योगी महासत्रमयो महान्।६०।
उपाकर्मेष्टिरुचिरः प्रवर्ग्यावर्तभूषणः।
छायापत्नीसहायो वै मणिशृंगमिवोच्छ्रितः।६१।
सर्वलोकहितात्मा यो दंष्ट्रयाभ्युज्जहारगाम्।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः।६२।
ततो जगाम निर्वाणं पृथिवीधारणाद्धरिः।
एवमादिवराहेण धृत्वा ब्रह्महितार्थिना।६३।
उद्धृता पुष्करे पृथ्वी सागरांबुगता पुरा।
वृतः शमदमाभ्यां यो दिव्ये कोकामुखे स्थितः।६४।
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः।६५।
दिग्भिर्विदिग्भिः पृथिवी नदीभिः सह सागरैः।
चराचरगुरुः श्रीमान्ब्रह्मा ब्रह्मविदांवरः।६६।
उवाच वचनं कोकामुखं तीर्थं त्वया विभो।
पालनीयं सदा गोप्यं रक्षा कार्या मखे त्विह।६७।
एवं करिष्ये भगवंस्तदा ब्रह्माणमुक्तवान्।
उवाच तं पुनर्ब्रह्मा विष्णुं देवं पुरः स्थितम्।६८।
त्वं हि मे परमो देवस्त्वं हि मे परमो गुरुः।
त्वं हि मे परमं धाम शक्रादीनां सुरोत्तम।६९।
उत्फुल्लामलपद्माक्ष शत्रुपक्ष क्षयावह।
यथा यज्ञेन मे ध्वंसो दानवैश्च विधीयते।७०।
तथा त्वया विधातव्यं प्रणतस्य नमोस्तु ते।
विष्णुरुवाच।
भयं त्यजस्व देवेश क्षयं नेष्यामि दानवान्।७१।
ये चान्ते विघ्नकर्तारो यातुधानास्तथाऽसुराः।
घातयिष्याम्यहं सर्वान्स्वस्ति तिष्ठ पितामह।७२।
एवमुक्त्वा स्थितस्तत्र साहाय्येन कृतक्षणः।
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश।७३।
सुप्रभाणि च ज्योतींषि चंद्रं चक्रुः प्रदक्षिणम्।
न विग्रहं ग्रहाश्चक्रुः प्रसेदुश्चापि सिंधवः।७४।
नीरजस्का भूमिरासीत्सकला ह्लाददास्त्वपः।
जग्मुः स्वमार्गं सरितो नापि चुक्षुभुरर्णवाः।७५।
आसन्शुभानींद्रियाणि नराणामंतरात्मनाम्।
महर्षयो वीतशोका वेदानुच्चैरवाचयन्।७६।
यज्ञे तस्मिन्हविः पाके शिवा आसंश्च पावकाः।
प्रवृत्तधर्मसद्वृत्ता लोका मुदितमानसाः।७७।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः।
ततो देवाः समायाता दानवा राक्षसैस्सह।७८।
भूतप्रेतपिशाचाश्च सर्वे तत्रागताः क्रमात्।
गंधर्वाप्सरसश्चैव नागा विद्याधरागणाः।७९।
वानस्पत्याश्चौषधयो यच्चेहेद्यच्च नेहति।
ब्रह्मादेशान्मारुतेन आनीताः सर्वतो दिशः।८०।
यज्ञपर्वतमासाद्य दक्षिणामभितोदिशम्।
सुरा उत्तरतः सर्वे मर्यादापर्वते स्थिताः।८१।
गंधर्वाप्सरसश्चैव मुनयो वेदपारगाः।
पश्चिमां दिशमास्थाय स्थितास्तत्र महाक्रतौ।८२।
सर्वे देवनिकायाश्च दानवाश्चासुरागणाः।
अमर्षं पृष्ठतः कृत्वा सुप्रीतास्ते परस्परम्।८३।
ऋषीन्पर्यचरन्सर्वे शुश्रूषन्ब्राह्मणांस्तथा।
ऋषयो ब्रह्मर्षयश्च द्विजा देवर्षयस्तथा।८४।
राजर्षयो मुख्यतमास्समायाताः समंततः।
कतमश्च सुरोप्यत्र क्रतौ याज्यो भविष्यति।८५।
पशवः पक्षिणश्चैव तत्र याता दिदृक्षवः।
ब्राह्मणा भोक्तुकामाश्च सर्वे वर्णानुपूर्वशः।८६।
स्वयं च वरुणो रत्नं दक्षश्चान्नं स्वयं ददौ।
आगत्यवरुणोलोकात्पक्वंचान्नंस्वतोपचत्।८७।
वायुर्भक्षविकारांश्च रसपाची दिवाकरः।
अन्नपाचनकृत्सोमो मतिदाता बृहस्पतिः।८८।
धनदानं धनाध्यक्षो वस्त्राणि विविधानि च।
सरस्वती नदाध्यक्षो गंगादेवी सनर्मदा।८९।
याश्चान्याः सरितः पुण्याः कूपाश्चैव जलाशयाः।
पल्वलानि तटाकानि कुंडानि विविधानि च।९०।
प्रस्रवाणि च मुख्यानि देवखातान्यनेकशः।
जलाशयानि सर्वाणि समुद्राः सप्तसंख्यकाः।९१।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्।
सप्तलोकाः सपातालाः सप्तद्वीपाः सपत्तनाः।९२।
वृक्षा वल्ल्यः सतृणानि शाकानि च फलानि च।
पृथिवीवायुराकाशमापोज्योतिश्च पंचमम्।९३।
सविग्रहाणि भूतानि धर्मशास्त्राणि यानि च।
वेदभाष्याणि सूत्राणि ब्रह्मणा निर्मितं च यत्।९४।
अमूर्तं मूर्तमत्यन्तं मूर्तदृश्यं तथाखिलम्।
एवं कृते तथास्मिंस्तु यज्ञे पैतामहे तदा।९५।
देवानां संनिधौ तत्र ऋषिभिश्च समागमे।
ब्रह्मणो दक्षिणे पार्श्वे स्थितो विष्णुः सनातनः।९६।
वामपार्श्वे स्थितो रुद्रः पिनाकी वरदः प्रभुः।
ऋत्विजां चापि वरणं कृतं तत्र महात्मना।९७।
भृगुर्होतावृतस्तत्र पुलस्त्योध्वर्य्युसत्तमः।
तत्रोद्गाता मरीचिस्तु ब्रह्मा वै नारदः कृतः।९८।
सनत्कुमारादयो ये सदस्यास्तत्र ते भवन्।
प्रजापतयो दक्षाद्या वर्णा ब्राह्मणपूर्वकाः।९९।
ब्रह्मणश्च समीपे तु कृता ऋत्विग्विकल्पना।
वस्त्रैराभरणैर्युक्ताः कृता वैश्रवणेन ते।१००।। 1.16.100।
अंगुलीयैः सकटकैर्मकुटैर्भूषिता द्विजाः।
चत्वारो द्वौ दशान्ये च त षोडशर्त्विजः।१०१।
ब्रह्मणा पूजिताः सर्वे प्रणिपातपुरःसरम्।
अनुग्राह्यो भवद्भिस्तु सर्वैरस्मिन्क्रताविह।१०२।
पत्नी ममैषा सावित्री यूयं मे शरणंद्विजाः।
विश्वकर्माणमाहूय ब्रह्मणः शीर्षमुंडनं।१०३।
यज्ञे तु विहितं तस्य कारितं द्विजसत्तमैः।
आतसेयानि वस्त्राणि दंपत्यर्थे तथा द्विजैः।१०४।
ब्रह्मघोषेण ते विप्रा नादयानास्त्रिविष्टपम्।
पालयंतो जगच्चेदं क्षत्रियाः सायुधाः स्थिताः१०५।
भक्ष्यप्रकारान्विविधिन्वैश्यास्तत्र प्रचक्रिरे।
रसबाहुल्ययुक्तं च भक्ष्यं भोज्यं कृतं ततः।१०६।
अश्रुतं प्रागदृष्टं च दृष्ट्वा तुष्टः प्रजापतिः।
प्राग्वाटेति ददौ नाम वैश्यानां सृष्टिकृद्विभुः।१०७।
द्विजानां पादशुश्रूषा शूद्रैः कार्या सदा त्विह।
पादप्रक्षालनं भोज्यमुच्छिष्टस्य प्रमार्जनं।१०८।
तेपि चक्रुस्तदा तत्र तेभ्यो भूयः पितामहः।
शूश्रूषार्थं मया यूयं तुरीये तु पदे कृताः।१०९।
द्विजानां क्षत्रबन्धूनां बन्धूनां च भवद्विधैः।
त्रिभ्यश्शुश्रूषणा कार्येत्युक्त्वा ब्रह्मा तथाऽकरोत्।११०।
द्वाराध्यक्षं तथा शक्रं वरुणं रसदायकम्।
वित्तप्रदं वैश्रवणं पवनं गंधदायिनम्।१११।
उद्योतकारिणं सूर्यं प्रभुत्वे माधवः स्थितः।
सोमः सोमप्रदस्तेषां वामपक्ष पथाश्रितः।११२।
सुसत्कृता च पत्नी सा सवित्री च वरांगना।
अध्वर्युणा समाहूता एहि देवि त्वरान्विता।११३।
उत्थिताश्चाग्नयः सर्वे दीक्षाकाल उपागतः।
व्यग्रा सा कार्यकरणे स्त्रीस्वभावेन नागता।११४।
इहवै न कृतं किंचिद्द्वारे वै मंडनं मया।
भित्त्यां वैचित्रकर्माणि स्वस्तिकं प्रांगणेन तु।११५।
प्रक्षालनं च भांडानां न कृतं किमपि त्विह।
लक्ष्मीरद्यापि नायाता पत्नीनारायणस्य या।११६।
अग्नेः पत्नी तथा स्वाहा धूम्रोर्णा तु यमस्य तु।
वारुणी वै तथा गौरी वायोर्वै सुप्रभा तथा।११७।
ऋद्धिर्वैश्रवणी भार्या शम्भोर्गौरी जगत्प्रिया।
मेधा श्रद्धा विभूतिश्च अनसूया धृतिः क्षमा।११९।
गंगा सरस्वती चैव नाद्या याताश्च कन्यकाः।
इंद्राणी चंद्रपत्नी तु रोहिणी शशिनः प्रियाः।१२०।
अरुंधती वसिष्ठस्य सप्तर्षीणां च याः स्त्रियः।
अनसूयात्रिपत्नी च तथान्याः प्रमदा इह।१२१।
वध्वो दुहितरश्चैव सख्यो भगिनिकास्तथा।
नाद्यागतास्तु ताः सर्वा अहं तावत्स्थिता चिरं।१२२।
नाहमेकाकिनी यास्ये यावन्नायांति ता स्त्रियः।
ब्रूहि गत्वा विरञ्चिं तु तिष्ठ तावन्मुहूर्तकम्।१२३।
सर्वाभिः सहिता चाहमागच्छामि त्वरान्विता।
सर्वैः परिवृतः शोभां देवैः सह महामते।१२४।
भवान्प्राप्नोति परमां तथाहं तु न संशयः।
वदमानां तथाध्वर्युस्त्यक्त्वा ब्रह्माणमागतः।१२५।
सावित्री व्याकुला देव प्रसक्ता गृहकर्माणि।
सख्यो नाभ्यागता यावत्तावन्नागमनं मम।१२६।
एवमुक्तोस्मि वै देव कालश्चाप्यतिवर्त्तते।
यत्तेद्य रुचितं तावत्तत्कुरुष्व पितामह।१२७।
एवमुक्तस्तदा ब्रह्मा किंचित्कोपसमन्वितः।
पत्नीं चान्यां मदर्थे वै शीघ्रं शक्र इहानय।१२८।
यथा प्रवर्तते यज्ञः कालहीनो न जायते।
तथा शीघ्रं विधित्स्व त्वं नारीं कांचिदुपानय।१२९।
यावद्यज्ञसमाप्तिर्मे वर्णे त्वां मा कृथा मनः।
भूयोपि तां प्रमोक्ष्यामि समाप्तौ तु क्रतोरिह।१३०।
एवमुक्तस्तदा शक्रो गत्वा सर्वं धरातलं।
स्त्रियो दृष्टाश्च यास्तेन सर्वाः परपरिग्रहाः।१३१।
आभीरकन्या रूपाढ्या सुनासा चारुलोचना।
न देवी न च गंधर्वी नासुरी न च पन्नगी।१३२।
न चास्ति तादृशी कन्या यादृशी सा वरांगना।
ददर्श तां सुचार्वंगीं श्रियं देवीमिवापराम्।१३३।
संक्षिपन्तीं मनोवृत्ति विभवं रूपसम्पदा।
यद्यत्तु वस्तुसौंदर्याद्विशिष्टं लभ्यते क्वचित्।१३४।
तत्तच्छरीरसंलग्नं तन्वंग्या ददृशे वरम्।
तां दृष्ट्वा चिंतयामास यद्येषा कन्यका भवेत्।१३५।
तन्मत्तः कृतपुण्योन्यो न देवो भुवि विद्यते।
योषिद्रत्नमिदं सेयं सद्भाग्यायां पितामहः।१३६।
सरागो यदि वा स्यात्तु सफलस्त्वेष मे श्रमः।
नीलाभ्र कनकांभोज विद्रुमाभां ददर्श तां।१३७।
त्विषं संबिभ्रतीमंगैः केशगंडे क्षणाधरैः।
मन्मथाशोकवृक्षस्य प्रोद्भिन्नां कलिकामिव।१३८।
प्रदग्धहृच्छयेनैव नेत्रवह्निशिखोत्करैः।
धात्रा कथं हि सा सृष्टा प्रतिरूपमपश्यता।१३९।
कल्पिता चेत्स्वयं बुध्या नैपुण्यस्य गतिः परा।
उत्तुंगाग्राविमौ सृष्टौ यन्मे संपश्यतः सुखं।१४०।
पयोधरौ नातिचित्रं कस्य संजायते हृदि।
रागोपहतदेहोयमधरो यद्यपि स्फुटम्।१४१।
तथापि सेवमानस्य निर्वाणं संप्रयच्छति।
वहद्भिरपि कौटिल्यमलकैः सुखमर्प्यते।१४२।
दोषोपि गुणवद्भाति भूरिसौंदर्यमाश्रितः।
नेत्रयोर्भूषितावंता वाकर्णाभ्याशमागतौ।१४३।
कारणाद्भावचैतन्यं प्रवदंति हि तद्विदः।
कर्णयोर्भूषणे नेत्रे नेत्रयोः श्रवणाविमौ।१४४।
कुंडलांजनयोरत्र नावकाशोस्ति कश्चन।
न तद्युक्तं कटाक्षाणां यद्द्विधाकरणं हृदि।१४५।
तवसंबंधिनोयेऽत्र कथं ते दुःखभागिनः।
सर्वसुंदरतामेति विकारः प्राकृतैर्गुणैः।१४६।
वृद्धे क्षणशतानां तु दृष्टमेषा मया धनम्।
धात्रा कौशल्यसीमेयं रूपोत्पत्तौ सुदर्शिता।१४७।
करोत्येषा मनो नॄणां सस्नेहं कृतिविभ्रमैः।
एवं विमृशतस्तस्य तद्रूपापहृतत्विषः।१४८।
निरंतरोद्गतैश्छन्नमभवत्पुलकैर्वपुः।
तां वीक्ष्य नवहेमाभां पद्मपत्रायतेक्षणाम्।१४९।
देवानामथ यक्षाणां गंधर्वोरगरक्षसाम्।
नाना दृष्टा मया नार्यो नेदृशी रूपसंपदा।१५० 1.16.150।
त्रैलोक्यांतर्गतं यद्यद्वस्तुतत्तत्प्रधानतः।
समादाय विधात्रास्याः कृता रूपस्य संस्थितिः।१५१।
इन्द्र उवाच।
कासि कस्य कुतश्च त्वमागता सुभ्रु कथ्यताम्।
एकाकिनी किमर्थं च वीथीमध्येषु तिष्ठसि।१५२।
यान्येतान्यंगसंस्थानि भूषणानि बिभर्षि च।
नैतानि तव भूषायै त्वमेतेषां हि भूषणम्।१५३।
न देवी न च गंधर्वी नासुरी न च पन्नगी।
किन्नरी दृष्टपूर्वा वा यादृशी त्वं सुलोचने।१५४।
उक्ता मयापि बहुशः कस्माद्दत्से हि नोत्तरम्।
त्रपान्विता तु सा कन्या शक्रं प्रोवाच वेपती।१५५।
गोपकन्या त्वहं वीर विक्रीणामीह गोरसम्।
नवनीतमिदं शुद्धं दधि चेदं विमंडकम्।१५६।
दध्ना चैवात्र तक्रेण रसेनापि परंतप।
अर्थी येनासि तद्ब्रूहि प्रगृह्णीष्व यथेप्सितम्।१५७।
एवमुक्तस्तदा शक्रो गृहीत्वा तां करे दृढम्।
अनयत्तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः।१५८।
नीयमाना तु सा तेन क्रोशंती पितृमातरौ।
हा तात मातर्हा भ्रातर्नयत्येष नरो बलात्।१५९।
यदि वास्ति मया कार्यं पितरं मे प्रयाचय।
स दास्यति हि मां नूनं भवतः सत्यमुच्यते।१६०।
का हि नाभिलषेत्कन्या भर्तांरं भक्तिवत्सलम्।
नादेयमपि ते किंचित्पितुर्मे धर्मवत्सल।१६१।
प्रसादये तं शिरसा मां स तुष्टः प्रदास्यति।
पितुश्चित्तमविज्ञाय यद्यात्मानं ददामि ते।१६२।
धर्मो हि विपुलो नश्येत्तेन त्वां न प्रसादये।
भविष्यामि वशे तुभ्यं यदि तातः प्रदास्यति।१६३।
इत्थमाभाष्यमाणस्तु तदा शक्रोऽनयच्च ताम्।
ब्रह्मणः पुरतः स्थाप्य प्राहास्यार्थे मयाऽबले।१६४।
आनीतासि विशालाक्षि मा शुचो वरवर्णिनि।
गोपकन्यामसौ दृष्ट्वा गौरवर्णां महाद्युतिम्।१६५।
कमलामेव तां मेने पुंडरीकनिभेक्षणाम्।
तप्तकांचनसद्भित्ति सदृशा पीनवक्षसम्।१६६।
मत्तेभहस्तवृत्तोरुं रक्तोत्तुंग नखत्विषं।
तं दृष्ट्वाऽमन्यतात्मानं सापि मन्मनथचरम्।१६७।
तत्प्राप्तिहेतु क धिया गतचित्तेव लक्ष्यते।
प्रभुत्वमात्मनो दाने गोपकन्याप्यमन्यत।१६८।
यद्येष मां सुरूपत्वादिच्छत्यादातुमाग्रहात्।
नास्ति सीमंतिनी काचिन्मत्तो धन्यतरा भुवि।१६९।
अनेनाहं समानीता यच्चक्षुर्गोचरं गता।
अस्य त्यागे भवेन्मृत्युरत्यागे जीवितं सुखम्।१७०।
भवेयमपमानाच्च धिग्रूपा दुःखदायिनी।
दृश्यते चक्षुषानेन यापि योषित्प्रसादतः।१७१।
सापि धन्या न संदेहः किं पुनर्यां परिष्वजेत्।
जगद्रूपमशेषं हि पृथक्संचारमाश्रितम्।१७२।
लावण्यं तदिहैकस्थं दर्शितं विश्वयोनिना।
अस्योपमा स्मरः साध्वी मन्मथस्य त्विषोपमा।१७३।
तिरस्कृतस्तु शोकोयं पिता माता न कारणम्।
यदि मां नैष आदत्ते स्वल्पं मयि न भाषते।१७४।
अस्यानुस्मरणान्मृत्युः प्रभविष्यति शोकजः।
अनागसि च पत्न्यां तु क्षिप्रं यातेयमीदृशी।१७५।
कुचयोर्मणिशोभायै शुद्धाम्बुज समद्युतिः।
मुखमस्य प्रपश्यंत्या मनो मे ध्यानमागतम्।१७६।
अस्यांगस्पर्शसंयोगान्न चेत्त्वं बहु मन्यसे।
स्पृशन्नटसि तर्हि न त्वं शरीरं वितथं परम्।१७७।
अथवास्य न दोषोस्ति यदृच्छाचारको ह्यसि।
मुषितः स्मर नूनं त्वं संरक्ष स्वां प्रियां रतिम्।१७८।
त्वत्तोपि दृश्यते येन रूपेणायं स्मराधिकः।
ममानेन मनोरत्न सर्वस्वं च हृतं दृढम्।१७९।
शोभा या दृश्यते वक्त्रे सा कुतः शशलक्ष्मणि।
नोपमा सकलं कस्य निष्कलंकेन शस्यते।१८०।
समानभावतां याति पंकजं नास्य नेत्रयोः।
कोपमा जलशंखेन प्राप्ता श्रवणशंङ्खयोः।१८१।
विद्रुमोप्यधरस्यास्य लभते नोपमां ध्रुवम्।
आत्मस्थममृतं ह्येष संस्रवंश्चेष्टते ध्रुवम्।१८२।
यदि किंचिच्छुभं कर्म जन्मांतरशतैः कृतम्।
तत्प्रसादात्पुनर्भर्ता भवत्वेष ममेप्सितः।१८३।
एवं चिंतापराधीना यावत्सा गोपकन्यका।
तावद्ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं वचः।१८४।
देवी चैषा महाभागा गायत्री नामतः प्रभो।
एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम्।१८५।
तदेनामुद्वहस्वाद्य मया दत्तां जगत्प्रभो।
गांधर्वेण विवाहेन विकल्पं मा कृथाश्चिरम्।१८६।
अमुं गृहाण देवाद्य अस्याः पाणिमनाकुलम्।
गांधेर्वेण विवाहेन उपयेमे पितामहः।१८७।
तामवाप्य तदा ब्रह्मा जगादाद्ध्वर्युसत्तमम्।
कृता पत्नी मया ह्येषा सदने मे निवेशय।१८८।
मृगशृंगधरा बाला क्षौमवस्त्रावगुंठिता।
पत्नीशालां तदा नीता ऋत्विग्भिर्वेदपारगैः।१८९।
औदुम्बेरण दण्डेन प्रावृतो मृगचर्मणा।
महाध्वरे तदा ब्रह्मा धाम्ना स्वेनैव शोभते।१९०।
प्रारब्धं च ततो होत्रं ब्राह्मणैर्वेदपारगैः।
भृगुणा सहितैः कर्म वेदोक्तं तैः कृतं तदा।
तथा युगसहस्रं तु स यज्ञः पुष्करेऽभवत्।१९१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे गायत्रीसंग्रहोनाम षोडशोऽध्यायः।१६।
हे ब्रह्मन्! आपने जो यह कमल गिरने से पृथ्वी पर उत्पन्न हुए उत्तम तीर्थ (पुष्कर) की महिमा कही है, वह बहुत श्रेष्ठ है। (1)
जो शतरूपा नाम की नारी हैं, उन्हें ही यहाँ सावित्री कहा गया है। वे ब्रह्मा जी की पत्नी और ऋषियों की माता कही जाती हैं। (10-11)
वे (ब्रह्मा जी) चारों वर्णों (ब्राह्मण, क्षत्रिय, वैश्य, शूद्र) के उत्पन्न करने वाले और उनके रक्षक हैं। वे चारों विद्याओं के ज्ञाता और चारों आश्रमों के आश्रय हैं। [33] जिन्हें परम ज्योति और परम तप के रूप में सुना जाता है, जो श्रेष्ठ से भी श्रेष्ठ (परत: पर) कहे जाते हैं और जो स्वयं परमात्मा स्वरूप हैं। [34] वे लोक-मर्यादाओं के सेतु (पुल) हैं, पवित्र कर्म करने वालों के लिए परम पवित्र हैं, वेदों के विद्वानों के लिए जानने योग्य (वेद्य) हैं और समस्त प्रभावशाली शक्तियों के स्वामी (प्रभु) हैं। [35]
वे समस्त प्राणियों के प्राण (असुभूत) हैं, तेजस्वियों के लिए अग्नि स्वरूप हैं, मनुष्यों के लिए मन स्वरूप हैं और तपस्वियों के लिए साक्षात तप हैं। [36] वे नीति मार्ग पर चलने वालों के लिए 'विनय' हैं और तेजस्वियों का तेज हैं। इस प्रकार इन सब चराचर जगत की सृष्टि करने वाले वे 'लोकपितामह' (ब्रह्मा) हैं। [37]
(जिज्ञासु का प्रश्न:) "हे ब्रह्मन्! उन्होंने यज्ञ से क्या गति प्राप्त करनी चाही और यज्ञ में अपनी बुद्धि क्यों लगाई? मुझे इस विषय में महान संशय है।" [38] देवों और दैत्यों द्वारा उन परम आश्चर्यमय ब्रह्मा जी का स्तवन किया जाता है। उनके कर्म अत्यंत आश्चर्यजनक हैं, फिर भी यहाँ उनके वास्तविक तत्व का वर्णन किया जा रहा है। [39]
पुलस्त्य जी ने कहा: तुमने ब्रह्मा जी के विषय में यह जो प्रश्न पूछा है, वह बहुत गहरा और भारी है। फिर भी, मैं अपनी शक्ति के अनुसार उनके परम यश का वर्णन करता हूँ, उसे सुनो। [40] वे प्रभु (ब्रह्मा/परमात्मा) हजारों मुख वाले, हजारों आँखों वाले, हजारों चरणों वाले, हजारों कानों वाले, हजारों हाथों वाले और अविनाशी हैं। [41] वे हजारों जिह्वाओं वाले, हजारों रूपों वाले, हजारों श्रेष्ठ गुणों से युक्त, हजारों वरदान देने वाले, हजारों के आदि (कारण) और हजारों भुजाओं वाले अविनाशी पुरुष हैं। [42]
हवन (आहुति), सवन (अभिषव), हव्य (हविष्य), होता (यज्ञ करने वाला), पात्र (बर्तन), पवित्र (कुश आदि), वेदी, दीक्षा, चरु (यज्ञीय अन्न), स्रुवा (आहुति देने का पात्र), स्रुक् (बड़ी चम्मच), सोम, अवभृथ (यज्ञ के अंत में स्नान), प्रोक्षणी (जल), दक्षिणा, धन, अध्वर्यु, सामग (सामवेद के गायक), विप्र, सदस्य, सदन, सदस, यूप (यज्ञ का खंभा), समिधा, कुश, दर्वी (चमचा), चमस (सोमपान पात्र), उलूखल (ओखली), प्राग्वंश (यज्ञ मंडप), यज्ञभूमि, होता (यज्ञकर्ता) और जो भी बंधन (नियम) थे—
छोटे, अतिप्रमाण (विशेष आकार के), प्रमाण-स्थावर (निश्चित स्थान वाले), प्रायश्चित्त, वाजा (अन्न), स्थंडिल (यज्ञ की वेदी), कुशा, मन्त्र, यज्ञ, हवन, वह्नि (अग्नि) का भाग, जो कुछ भी (यज्ञ में) होता है, अग्रिभुज (सबसे पहले भोग पाने वाले), होमभुज (होम ग्रहण करने वाले), शुभ कान्ति वाले और उदायुध (उद्यत आयुध वाले) -
वेदों के ज्ञाता ब्राह्मण कहते हैं कि यह शाश्वत प्रभु का यज्ञ है। हे महाराज! आप जो यह पुण्या और दिव्य कथा पूछ रहे हैं, भगवान ब्रह्मा ने देवताओं और मनुष्यों के हित तथा लोकों के अभ्युदय (कल्याण) के लिए पृथ्वी पर जो यज्ञ किया था,
ब्रह्मा, कपिल, परमेष्ठी, देवगण, सप्तर्षि, महान यशस्वी त्र्यंबक (शिव), महानुभाव सनत्कुमार, महात्मा मनु, प्रजापति और प्रदीप्त अग्नि के समान तेजस्वी पुराणाधिपति (भगवान) ने (यज्ञ) किया।
पुराणों के अनुसार, पूर्वकाल में जब कमलज (ब्रह्मा) सो रहे थे, तब पुष्कर में उनके कोटर (छिद्र) में जहाँ देवता और ऋषिगण प्रकट हुए थे, यह महात्मा (विष्णु) का पौष्कर नामक प्रादुर्भाव है, जहाँ वेद-स्मृति-सुसंहित पुराण कहा जाता है।
वराह भगवान, जो श्रुतिमुख हैं, विरंचि (ब्रह्मा) की सहायता के लिए वाराह रूप धारण करके प्रकट हुए। उन्होंने पुष्कर में कोकामुख नाम का विस्तृत तीर्थ बनाया। (उस यज्ञ में) वेद ही चरण थे, यूप (खंभा) दाँत था, यज्ञ के हाथ थे और वेदी ही मुख थे।
उनकी जिह्वा अग्नि है, शरीर के रोम दर्भ (कुश) हैं और मस्तक ब्रह्मलोक (या वेद का सार) है। वे महान तपस्वी हैं। दिन और रात उनके नेत्र हैं, वे दिव्य हैं और वेदांग तथा श्रुतियाँ (वेद) उनके आभूषण हैं। घी उनकी नासिका है, स्रुवा (यज्ञ का पात्र) उनका मुख है और सामवेद का स्वर उनकी गर्जना है। वे सत्य और धर्म के स्वरूप हैं, शोभायुक्त हैं और शुभ कर्मों एवं पराक्रम से सुशोभित हैं।
प्रायश्चित ही उनके नख हैं, वे धैर्यवान हैं। पशु उनके घुटने हैं और उनका आकार स्वयं यज्ञ (मख) जैसा है। उद्गाता (सामवेद गाने वाले) उनकी आँतें हैं, होम उनका लिंग है और फल-बीज ही उनकी औषधियाँ हैं। वायु उनकी अंतरात्मा है, मंत्र उनकी हड्डियाँ हैं, सोम (यज्ञ रस) उनका रक्त है और वेदों के सूक्त उनके कंधे हैं। हविष्य की सुगंध ही उनकी गंध है और वे हव्य (देवताओं का अन्न) एवं कव्य (पितरों का अन्न) को वहन करने वाले वेगवान देव हैं।
'प्राग्वंश' (यज्ञशाला का एक हिस्सा) उनका शरीर है, वे कांतिमान हैं और अनेक प्रकार की दीक्षाओं से पूजित हैं। दक्षिणा उनका हृदय है, वे महान योगी और महासत्र (बड़े यज्ञ) के स्वरूप हैं। उपाकर्म और इष्टि (यज्ञ विशेष) उनकी शोभा हैं। वे छाया रूपी पत्नी के साथ मणियुक्त ऊँचे पर्वत के समान सुशोभित हैं।
समस्त लोकों का हित करने वाले उन वराह भगवान ने अपनी दाढ़ों से पृथ्वी का उद्धार किया। फिर पृथ्वी को धारण करने वाले श्रीहरि पृथ्वी को उसके स्थान पर स्थापित कर निश्चिंत हुए। इस प्रकार आदि-वराह ने ब्रह्मा जी और ब्राह्मणों के हित की इच्छा से प्राचीन काल में समुद्र के जल में डूबी हुई पृथ्वी को पुष्कर (तीर्थ) में ऊपर उठाया।
वे शम (मन का निग्रह) और दम (इंद्रिय निग्रह) से युक्त होकर दिव्य कोकामुख तीर्थ में स्थित हुए। वहाँ आदित्य, वसु, साध्य, मरुद्गण, रुद्र, यक्ष, राक्षस, किन्नर, दिशाओं, नदियों और सागरों के साथ चराचर जगत के गुरु और ब्रह्मवेत्ताओं में श्रेष्ठ ब्रह्मा जी उपस्थित हुए।
ब्रह्मा जी ने कहा— "हे विभु! आपको इस कोकामुख तीर्थ की सदा रक्षा करनी चाहिए और इसे गुप्त रखना चाहिए। यहाँ यज्ञों की रक्षा आपको करनी है।" भगवान विष्णु ने ब्रह्मा जी से कहा— "हे भगवन! मैं ऐसा ही करूँगा।" तब ब्रह्मा जी ने अपने सामने स्थित देवों के देव विष्णु से पुनः कहा।
ब्रह्मा जी बोले— "हे सुरोत्तम! आप ही मेरे परम देव हैं, आप ही मेरे परम गुरु हैं। आप ही मेरा और इंद्र आदि देवताओं का परम धाम (आश्रय) हैं। खिले हुए निर्मल कमल के समान नेत्रों वाले और शत्रुओं का नाश करने वाले प्रभो! जिस प्रकार दानव मेरे यज्ञों का विध्वंस करते हैं, (उससे आप हमारी रक्षा करें)।"
"हे देवेश! आप भय का त्याग करें, मैं दानवों का विनाश करूँगा। जो भी विघ्न डालने वाले यातुधान (राक्षस) और असुर हैं, मैं उन सबका संहार करूँगा। हे पितामह! आप कल्याणपूर्वक (निश्चिंत होकर) स्थित रहें।" (71-72)
तपसा दग्धपाप्मानो दीप्यमाना इवाग्नयः॥१०१॥
(101) वे सभी ऋत्विज (पुरोहित), जिन्होंने नियमपूर्वक व्रत धारण किया था, यज्ञ की दीक्षा लेकर स्थित हुए। तपस्या के कारण उनके समस्त पाप जल चुके थे और वे प्रज्वलित अग्नि के समान देदीप्यमान (चमकदार) लग रहे थे।
दिव्यगंधानुलिप्तांगा दिव्यमालाविभूषिताः॥१०२॥
(102) वे सभी दिव्य आभूषणों से युक्त थे, दिव्य वस्त्र धारण किए हुए थे। उनके अंगों पर दिव्य सुगंधित अनुलेपन (चन्दन आदि) लगा था और वे दिव्य मालाओं से सुशोभित थे।
यथा शक्रस्य भवने सुधर्मायां महर्षयः॥१०३॥
(103) महात्मा ब्रह्मा जी की उस यज्ञशाला में वे सभी ऋत्विज देवताओं की भांति सुशोभित हो रहे थे, जैसे इंद्र के भवन 'सुधर्मा' सभा में महर्षिगण शोभा पाते हैं।
उपतस्थुर्महात्मानं ब्रह्माणं परमेष्ठिनम्॥१०४॥
(104) तब गंधर्वों सहित समस्त देवता, यक्ष, राक्षस और नाग—ये सभी परमेष्ठी महात्मा ब्रह्मा जी की सेवा में उपस्थित हुए।
यज्ञभागान्विधानेन यथार्हं च पृथक् पृथक्॥१०५॥
(105) तब लोकपितामह भगवान ब्रह्मा ने शास्त्रोक्त विधि के अनुसार उन सभी को (देवताओं को) यज्ञ के भाग (हविष्य) उनकी योग्यता के अनुसार अलग-अलग प्रदान किए।
प्रशंसन्तः क्रतुं दिव्यं ब्रह्मणो लोककर्तुः॥१०६॥
(106) वे सभी देवता यज्ञ के भाग प्राप्त कर अत्यंत संतुष्ट हुए और लोककर्ता ब्रह्मा जी के उस दिव्य यज्ञ की भूरि-भूरि प्रशंसा करने लगे।
सामभिर्बह्वृचैश्चैव यजुर्भिश्चैव सर्वशः॥१०७॥
(107) महान भाग्यशाली ऋषियों ने उस समय सामवेद, ऋग्वेद और यजुर्वेद के मंत्रों द्वारा सब ओर से ब्रह्मा जी की स्तुति की।
अपने अंगों, केशों, कपोलों और अधरों (होठों) से कांति बिखेरती हुई वह ऐसी लग रही थी, मानो कामदेव के अशोक वृक्ष की कोई खिली हुई कली हो। कामदेव को अपने नेत्रों की अग्नि से भस्म कर देने वाले विधाता (ब्रह्मा) ने, अपने समान दूसरा कोई रूप न देखते हुए, भला इसका सृजन कैसे किया होगा?
यदि विधाता ने अपनी बुद्धि से इसकी कल्पना की है, तो यह उनकी निपुणता की पराकाष्ठा है। इसके इन उन्नत (ऊँचे) स्तनों को देखकर किसे सुख और आश्चर्य नहीं होगा? (अर्थात् हर देखने वाले के मन में विस्मय और आनंद उत्पन्न होता है)।
यद्यपि इसके अधर (होठ) स्पष्ट रूप से राग (लालिमा/काम) से युक्त हैं, फिर भी सेवन करने वाले को ये शांति (निर्वाण) प्रदान करते हैं। इसके केश टेढ़े-मेढ़े (घुंघराले) होने पर भी सुख प्रदान करने वाले हैं।
अत्यधिक सौंदर्य के आश्रय में दोष भी गुण की तरह प्रतीत होता है। इसके कानों तक लंबे नेत्रों के प्रांत (कोने) सुशोभित हो रहे हैं। विद्वान कहते हैं कि कारण से ही भाव की चेतना होती है—ऐसा लगता है जैसे इसके कान नेत्रों के आभूषण हैं और नेत्र कानों के।
यहाँ कुंडल और काजल के लिए कोई स्थान (आवश्यकता) नहीं जान पड़ता। तुम्हारे हृदय में जो कटाक्षों का यह द्वैत भाव है, वह उचित नहीं है। तुमसे संबंधित जो लोग हैं, वे भला दुखी कैसे हो सकते हैं? प्राकृतिक गुणों के विकार भी पूर्ण सुंदरता को प्राप्त हो रहे हैं।
सैकड़ों क्षणों तक उसे देखने के बाद मुझे यह अमूल्य निधि प्राप्त हुई है। ब्रह्मा ने रूप की उत्पत्ति में अपनी कुशलता की अंतिम सीमा यहाँ दिखा दी है। यह स्त्री अपनी चेष्टाओं और विलासों से मनुष्यों के मन को प्रेमपूर्ण (सस्नेह) बना देती है।
उस युवती के रूप से मोहित हुए इन्द्र का शरीर निरंतर उठने वाले रोमांच (पुलकावली) से ढंक गया। उस नवीन स्वर्ण के समान आभा वाली और कमल के पत्तों जैसे विशाल नेत्रों वाली सुंदरी को देखकर इन्द्र सोचने लगे—
मैंने देवों, यक्षों, गंधर्वों, नागों और राक्षसों की अनेक स्त्रियाँ देखी हैं, परंतु ऐसी रूप-संपत्ति कहीं नहीं देखी। विधाता ने त्रैलोकी की जो-जो भी प्रधान और श्रेष्ठ वस्तुएँ थीं, उन सबको लेकर इसके रूप की रचना की है।
हे सुभ्रु (सुंदर भौंहों वाली)! तुम कौन हो? किसकी पुत्री हो और कहाँ से आई हो? यह बताओ कि तुम इन गलियों (वन के मार्गों) में अकेली किसलिए खड़ी हो?
"तुमने अपने अंगों पर ये जो भी आभूषण धारण किए हैं, ये तुम्हारी शोभा नहीं बढ़ा रहे हैं; बल्कि तुम स्वयं ही इन आभूषणों की शोभा हो (अर्थात तुम इन गहनों से अधिक सुंदर हो)। [153]
"धिक्कार है मेरे इस दुखदायी रूप को, जो अपमान का कारण बन गया है। जिसे केवल आँखों से देख लेने मात्र से ही स्त्री प्रसन्न हो जाती है, वह (स्त्री) निस्संदेह धन्य है; फिर उसका तो कहना ही क्या जिसे यह हृदय से लगा ले! संपूर्ण संसार का सौंदर्य अलग-अलग बिखरा हुआ है।" [1, 2]
"किन्तु विश्व विधाता ने उस समस्त लावण्य (सुंदरता) को यहाँ एक ही स्थान पर एकत्रित कर दिया है। इसकी उपमा स्वयं कामदेव है और कामदेव की कांति ही इसकी सच्ची उपमा है।" [2]
"मेरा यह शोक तिरस्कृत हो गया है, इसमें माता-पिता कारण नहीं हैं। यदि यह मुझे स्वीकार नहीं करता या मुझसे थोड़ा भी बात नहीं करता, तो इसकी याद में शोक से मेरी मृत्यु हो जाएगी। अपनी निर्दोष पत्नी के होते हुए भी मेरी ऐसी दशा हो गई है।" [1, 2]
"स्तनों पर मणियों की शोभा और शुद्ध कमल के समान कांति वाले इसके मुख को देखते हुए मेरा मन पूरी तरह ध्यानमग्न (एकाग्र) हो गया है।"
"यदि तुम इसके अंगों के स्पर्श और मिलन को बहुत बड़ा सौभाग्य नहीं मानते, तो तुम्हारा इधर-उधर घूमना और शरीर धारण करना व्यर्थ ही है।"
"अथवा इसमें तुम्हारा कोई दोष नहीं है, क्योंकि तुम तो स्वेच्छाचारी हो। हे कामदेव! निश्चित ही तुम लूट लिए गए हो, अब अपनी प्रिय रति की रक्षा करो।"
"क्योंकि यह रूप तुमसे (कामदेव से) भी अधिक सुंदर दिखाई दे रहा है। इसने मेरे मन रूपी रत्न और सर्वस्व को दृढ़ता से हर लिया है।" [1, 2]
"जो शोभा इसके मुख में दिखाई देती है, वह कलंक रहित चंद्रमा में भी कहाँ? पूर्ण चंद्रमा की तुलना इसके निष्कलंक मुख से भला कैसे की जा सकती है?"
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें