सत्य नारायण व्रत कथा के पात्र अहीर लोग-
॥ अथ कथा ॥
"व्यास उवाच ॥
एकदा नैमिषारण्ये ऋषय: शौनकादय: ॥ पप्रच्छुर्मुनय: सर्वे सूतं पौराणिकं खलु ॥१॥ ऋषय ऊचु:।
व्रतेन तपसा किंवा प्राप्यते वाञ्छितं फलम् ॥ तत्सर्वं श्रोतुमिच्छाम: कथयस्व महामुने ॥२॥ सूत उवाच।
नारदेनैव सम्पृष्टो भगवान् कमलापित:॥ सुरर्षये यथैवाह तच्छृणुध्वं समाहिता:॥३॥
एकदा नारदो योगी परानुग्रहकाङ्क्षया॥ पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागत:॥४॥
ततो दृष्टवा जनान्सर्वान्नानाक्लेशसमन्वितान्॥ नानायोनिसमुत्पन्नान्क्लिश्यमानान् स्वकर्मभि:।५॥
केनोपायेन चैतेषां दुःखनाशो भवेद ध्रुवम् । इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा॥६॥
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् । शङखचक्रगदापद्मवनमालाविभूषितम्॥७॥
द्दष्टवा तं देवदेवेशं स्तोतुं समुपचक्रमे ॥ -नारद उवाच ॥ नमो वाङमनसातीतरूपायानन्तशक्तये ॥८॥
आदिमध्यान्तहीनाय निर्गुणाय गुणत्मने ॥ सर्वेषामादिभूताय भक्तानामार्तिनाशिने ॥९॥
श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ -श्रीभगवानुवाच॥ किमर्थमागतोऽसि त्वं कि ते मनसि वर्तते ॥१०॥
कथयस्व महाभाग तत्सर्वं कथयामि ते ॥ नारद उवाच ॥ मर्त्यलोके जना: सर्वे नानाक्लेशसमन्विता:॥ नानायोनिसमुत्पन्ना: पच्यन्ते पापकर्मभि:॥११॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद॥ श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि॥१२॥
श्रीभगवानुवाच॥
साधु पृष्टं त्वया वत्स लोकानुग्रहकाङ्क्षया ॥ यत्कृत्वा मुच्यते मोहात्तच्छृणुष्व वदामि ते॥१३॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ॥ तव स्नेहान्मया वत्स प्रकाश:क्रियतेऽधुना॥१४॥
सत्यनारायणस्यैव व्रतं सम्यग्विधानत:॥ कृत्वा सद्य:सुखं भुक्त्त्वापरत्र मोक्षमाप्नुयात्॥१५॥
तच्छुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ "नारद उवाच ॥ किम्फलं किंविधानं च कृतं केनैव तद् व्रतम्॥१६॥
तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं हि तद व्रतम्॥ दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥१७॥
सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम्। यस्मिन् कस्मिन्दिने मर्त्यो भक्तिश्रद्धासमन्वित:।१८॥
सत्यनारायणं देवं यजेच्चैव निशामुखे॥ ब्राह्मणैर्बान्धबैश्चैव सहितो धर्मतत्पर:॥१९॥
नैवेद्यं भक्तितो दद्यात्सपादं भक्तिसंयुतम् ॥ रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णाकम् ॥२०॥
अभावे शालिचूर्णं वा शर्करा च गुडस्तथा । सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥२१॥
विप्राय दक्षिणां दद्यात्कथां श्रुत्वा जनै: सह ॥ ततश्च बन्धुभि: सार्धं विप्रांश्च प्रतिभोजयेत् ॥२२॥
प्रसादं भक्षयेद्भक्त्या नृत्यगीतादिकं चरेत् ॥ ततश्च स्वगृहं गच्छेत्सत्यनारायणं स्मरन् ॥२३॥
एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम् ॥ विशेषत: कलियुगे लघूपायोऽस्ति भूतले ॥२४॥
श्री व्यासजी ने कहा- एक समय नैमिषारण्य तीर्थ में शौनक आदि हजारों ऋषि-मुनियों ने पुराणों के महाज्ञानी श्री सूतजी से पूछा कि वह व्रत-तप कौन सा है, जिसके करने से मनवांछित फल प्राप्त होता है। हम सभी वह सुनना चाहते हैं। कृपा कर सुनाएँ। श्री सूतजी बोले- ऐसा ही प्रश्न नारद ने किया था। जो कुछ भगवान कमलापति ने कहा था, आप सब उसे सुनिए।
परोपकार की भावना लेकर योगी नारद कई लोकों की यात्रा करते-करते मृत्यु लोक में आ गए। वहाँ उन्होंने देखा कि लोग भारी कष्ट भोग रहे हैं। पिछले कर्मों के प्रभाव से अनेक योनियों में उत्पन्न हो रहे हैं। दुःखीजनों को देख नारद सोचने लगे कि इन प्राणियों का दुःख किस प्रकार दूर किया जाए। मन में यही भावना रखकर नारदजी विष्णु लोक पहुँचे। वहाँ नारदजी ने चार भुजाधारी सत्यनारायण के दर्शन किए, जिन्होंने शंख, चक्र, गदा, पद्म अपनी भुजाओं में ले रखा था और उनके गले में वनमाला पड़ी थी।
नारदजी ने स्तुति की और कहा कि मन-वाणी से परे, अनंत शक्तिधारी, आपको प्रणाम है। आदि, मध्य और अंत से मुक्त सर्वआत्मा के आदिकारण श्री हरि आपको प्रणाम। नारदजी की स्तुति सुन विष्णु भगवान ने पूछा- हे नारद! तुम्हारे मन में क्या है? वह सब मुझे बताइए। भगवान की यह वाणी सुन नारदजी ने कहा- मर्त्य लोक के सभी प्राणी पूर्व पापों के कारण विभिन्न योनियों में उत्पन्न होकर अनेक प्रकार के कष्ट भोग रहे हैं।
यदि आप मुझ पर कृपालु हैं तो इन प्राणियों के कष्ट दूर करने का कोई उपाय बताएँ। मैं वह सुनना चाहता हूँ। श्री भगवान बोले हे नारद! तुम साधु हो। तुमने जन-जन के कल्याण के लिए अच्छा प्रश्न किया है। जिस व्रत के करने से व्यक्ति मोह से छूट जाता है, वह मैं तुम्हें बताता हूँ। यह व्रत स्वर्ग और मृत्यु लोक दोनों में दुर्लभ है। तुम्हारे स्नेहवश में इस व्रत का विवरण देता हूँ।
सत्यनारायण का व्रत विधिपूर्वक करने से तत्काल सुख मिलता है और अंततः मोक्ष का अधिकार मिलता है। श्री भगवान के वचन सुन नारद ने कहा कि प्रभु इस व्रत का फल क्या है? इसे कब और कैसे धारण किया जाए और इसे किस-किस ने किया है। श्री भगवान ने कहा दुःख-शोक दूर करने वाला, धन बढ़ाने वाला।
सौभाग्य और संतान का दाता, सर्वत्र विजय दिलाने वाला श्री सत्यनारायण व्रत मनुष्य किसी भी दिन श्रद्धा भक्ति के साथ कर सकता है।
सायंकाल धर्मरत हो ब्राह्मण के सहयोग से और बंधु बांधव सहित श्री सत्यनारायण का पूजन करें। भक्तिपूर्वक खाने योग्य उत्तम प्रसाद (सवाया) लें। यह प्रसाद केले, घी, दूध, गेहूँ के आटे से बना हो। यदि गेहूँ का आटा न हो, तो चावल का आटा और शक्कर के स्थान पर गुड़ मिला दें। सब मिलाकर सवाया बना नैवेद्य अर्पित करें। इसके बाद कथा सुनें, प्रसाद लें, ब्राह्मणों को दक्षिणा दें और इसके पश्चात बंधु-बांधवों सहित ब्राह्मणों को भोजन कराएँ।
प्रसाद पा लेने के बाद कीर्तन आदि करें और फिर भगवान सत्यनारायण का स्मरण करते हुए स्वजन अपने-अपने घर जाएँ। ऐसे व्रत-पूजन करने वाले की मनोकामना अवश्य पूरी होगी। कलियुग में विशेष रूप से यह छोटा-सा उपाय इस पृथ्वी पर सुलभ है।
इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां प्रथमोऽध्याय: ॥१॥
"सूत उवाच॥ अथान्यत्सम्प्रवक्ष्यामि कृतं येन पुरा द्विज॥ कश्चित्काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धन:॥१॥
क्षुतृडभ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले॥ दू:खितं ब्राह्मणं दृष्टवा भगवान् ब्राह्मणप्रिय:॥२॥
वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात् ॥ किमर्थं अमसे विप्र महीं नित्यं सुदु:खित:॥३॥
तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम ॥ "ब्राह्मण उवाच॥ ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम् ॥४॥
उपायं यदि जानासि कृपया कथय प्रभो । "वृद्धब्राह्मण उवाच। सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रद:॥५॥
तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम् ॥ यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानव:॥६॥
विधानं च व्रतस्यापि विप्रायाभाष्य यत्नत:॥ सत्यनारायणो वद्धस्तत्रैवान्तरधीयत ॥७॥
तदव्रतं सङ्करिष्यामि यदुक्तं ब्राह्मणेन वै॥ इति सञ्चिन्त्यविप्रोऽसौ रात्रौनिद्रांलब्धवान्।८।
तत प्रात: समुत्थाय सत्यनारायणव्रतम् ॥ करिष्य इति सङ्कल्प्य भिक्षार्थमगमद् द्विज:॥९॥
तस्मिन्नेव दिने विप्र: प्रचुरं द्रव्यमाप्तवान्। तेनैव बन्धुभि: सार्द्धं सत्यस्य व्रतमाचरत्॥१०॥
सर्वदूःखविनिर्मुक्त: सर्वसम्पत्समन्वित:॥ बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावत:॥११॥
तत:प्रभृति कालं च मासि मासि व्रतं कृतम्॥ एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तम:॥१२॥
सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् । व्रतमस्य यदा विप्रा: पृथिव्यां सङ्करिष्यति॥१३॥
तदैव सर्वदुःखं च मनुजस्य विनश्यति। एवं नारायणेनोक्तं नारदाय महात्मने॥१४॥
मया तत्कथितं विप्रा: किमन्यत्कथयामि व:॥ ऋषय ऊचु:। तस्माद्विप्राच्छ्रुतं केन पृथिव्यां चरितं मुने॥ तत्सर्वं श्रोतुमिच्छाम: श्रद्धास्माकं प्रजायते॥१५॥
सूत उवाच॥ श्रृणुध्वं मुनय: सर्वे व्रतं येन कृतं भुवि ॥ एकदा स द्विजवरो यथाविभवविस्तरै:॥१६॥
बन्धुभि:स्वजनै: सार्धं व्रतं कर्तुं समुद्यत:॥ एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत्॥१७॥
बहि:काष्ठं च संस्थ्याप्य विप्रस्य गृहमाययौ॥ तृष्णया पीडितात्मा च दृष्ट्वा विप्रंकृत व्रतम्॥१८॥
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया ॥ कृते किं फलमाप्नोति विस्तराद्वाद मे प्रभो ॥१९॥
विप्र उवाच॥ सत्यनारायणस्येदं व्रतं सर्वेप्सितप्रदम् ॥ तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥२०॥
तस्मादेतद् व्रतं ज्ञात्वा काष्ठविक्रेतातिहर्षित:॥ पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ ॥२१॥
सत्यनारायणं देवं मनसा इत्यचिन्तयत् ॥ काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद्धनम् ॥२२॥
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ॥ इतिसञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके॥२३॥
जगाम नगरे रम्ये धनिनां यत्र संस्थिति: ॥ तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ॥२४॥
तत: प्रसन्नहृदय: सुपक्वं कदलीफलम् ॥ शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम्॥२५॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ ॥ ततो बन्धून्समाहूय चकार विधिना व्रतम् ॥२६॥
तदव्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत्। इहलोके सुखं भुंक्त्वा चान्ते सत्यपुरं ययौ ॥२७॥
"सूत उवाच ॥ पुनरग्रे प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमा: ॥ पुरा चोल्कामुखो नाम नृपश्चासी:महामति:॥१॥
जितेन्द्रिय: सत्यवादी ययौ देवालयं प्रति ॥ दिने दिने धनं दत्वा द्विजान्सन्तोषयत्सुधी:॥२॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती ॥ भद्रशीला नदीतीरे सत्यस्य व्रतमाचरत् ॥३॥
एतस्मिन्नन्तरे तत्र साधुरेक: समागत: ॥ वाणिज्यार्थं बहुधनैरनेकै: परिवारित: ॥४॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति ॥ दृष्ट्वा स व्रतिनं भूपं पप्रच्छ विनयान्वित:॥५॥
॥साधुरुवाच ॥ किमिदं कुरुषे राजन्भक्तियुक्तन चेतसा ॥ प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम्॥६॥
'राजोवाच ॥ पूजनं क्रियते साधो विष्णोरतुलतेजस: ॥ व्रतं च स्वजनै: सार्वं पुत्राद्यावाप्तिकाम्यया॥७॥
भूपस्य वचनं श्रुत्वा साधु: प्रोवाच सादरम् ॥ सर्वं कथय मे राज्यन्करिष्येऽहं तवोदितम् ॥८॥
ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम्॥ ततो निवृत्य वाणिज्यात्सानन्दो गृहमागत:॥९॥
भार्यायै कथितं सर्वं व्रतं सन्ततिदायकम् ॥ तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत् ॥१०॥
इति लीलावतीं प्राह पत्नीं साधु: स सत्तम:॥ एकस्मिन्दिवसे तस्य भार्या लीलावती सती॥११॥
भर्तृयुक्ताऽऽनन्दचित्ताऽभवद्धर्मपरायणा ॥ गर्भिणी साऽभवत्तस्य भार्या सत्यप्रसादत:॥१२॥
दशमे मासि वै तस्या: कन्यारत्नमजायत ॥ दिने दिने सा ववृधे शुक्लपक्षे यथा शशी॥१३॥
सम्ना कलावति चेति तन्नामकरण कृतम् ॥ ततो लीलावती प्राह स्वामिनं मधुरं वच:॥१४॥
न करोषि किमर्यं वै पुरा सङ्कल्पितं व्रतं॥ साधुरुवाच॥ विवाहसमये त्वस्या: करिष्यामि व्रतं प्रिये ॥१५॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति॥ तत: कलावती कन्या ववृधे पितृवेश्मनि॥१६॥
दृष्ट्वा कन्यां तत: साधुर्नगरे सखिभि:सह॥ मन्त्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित्॥१७॥
विवाहार्थे च कन्याया: वरं श्रेष्ठं विचारय ॥ तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ॥१८॥
तस्मादेकं वणिक्पुत्रं समादायागतो हि स:॥ दृष्ट्वा तु सुन्दरं बालंवणिक्पुत्रं गुणान्वितम्॥१९॥
ज्ञातिभिर्बन्धुभि: सार्धं परितुष्टेन चेतसा॥ दत्तवान् साधु: पुत्राय कन्यां विधिविधानत:॥२०॥
ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम् ॥ विवाहसमये तस्यास्तेन रुष्टेऽभवत्प्रभु:॥२१॥
तत: कालेन नियतो निजकर्मविशारद:॥ वाणिज्यार्थं तत:शीघ्रं जामातृसहितो वणिक्।२२॥
रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपत:॥ वाणिज्यमकरोत्साधुर्जामात्रा श्रीमता सह॥२३॥
तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च॥ एतस्मिन्नेव काले तु सत्यनारायण:प्रभु:॥२४॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ॥ दारुणं कठिनं चास्य महद दुःखं भविष्यति॥२५॥
एकस्मिन्दिवसे राज्ञो धनमादाय तस्कर:॥ तत्रैव चागतश्चौरो वणिजौ यत्र संस्थितौ॥२६॥
तत्पश्चाद्धावकान् दूतान् दृष्ट्वा भीतेन चेतसा ॥ धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षित:॥२७॥
ततो दूता:समायाता यत्रास्ते सज्जनो वणिक्॥ दृष्ट्वा नृपधनं तत्र बदध्वाऽऽनीतौ वणिक्सुतौ॥२८॥
हर्षेण धावमानाश्च ऊचुर्नृपसमीपत:॥ तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो॥२९॥
राज्ञाऽऽज्ञप्तास्तत: शीघ्रं दृढं बदध्वा तु तावुभौ ॥ स्थापितौ द्वौमहादुर्गे कारागारेऽविचारत:॥३०॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वच:॥ अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना॥३१॥
तच्छापाच्च तयोर्गेहे भार्या चैवातिदुःखिता॥ चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम्॥३२॥
आधिव्याधिसमायुक्ता क्षुत्पिपासातिदुःखिता॥ अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे ॥ कलावती तु कन्यापि बभ्राम प्रतिवासरम्॥३३॥
एकस्मिन्दिवसे जाता क्षुधार्ता द्विजमन्दिरम् ॥ गत्वाऽपश्यद व्रतं तत्र सत्यनारायणस्य च॥३४॥
उपविश्य कथां श्रुत्वा वरं प्रार्थितवत्यपि । प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥३५॥
माता कलावतीं कन्यां कथयामास प्रेमत:॥ पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते॥३६॥
कन्या कलावती प्राह मातरं प्रति सत्वरम्॥ द्विजालये व्रतं मातर् दृष्टं वाञ्छितसिद्धिदम् ॥३७॥
तच्छत्वा कन्यकावाक्यं व्रतं कर्तुं समुद्यता ॥ सा तदा तु वणिग्भार्या सत्यनारायणस्य च ॥३८॥
व्रतं चक्रे सैव साध्वी बन्धुभि: स्वजनै: सह ॥ भर्तृजामातरौ क्षिप्रमागच्छेतांस्वामाश्रमम् ॥३९॥
अपराधं च मे भर्तुर्जामातु: क्षन्तुमर्हसि। व्रतेनानेन तुष्टोऽसौ सत्यनारायण: पुन:॥४०॥
दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम् ॥ बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम॥४१॥
देयं धनं च तत्सर्वं गृहीतं यत्त्वयाधुना ॥ नो चेत्त्वां नाशयिष्यामि सराज्यं धनपुत्रकम्॥४२॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत्प्रभु:॥ तत: प्रभातसमये राजा च स्वजनै: सह ॥४३॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति॥ वृद्धौ महाजनौ शीघ्रं मोचयद्वौ वणिक्सुतौ॥४४॥
इति राज्ञो वच:श्रुत्वा मोचयित्वा महाजनौ॥ समानीय नृपस्याग्रे प्राहुस्ते विनयान्विता:॥४५॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तो निगडबन्धनात्॥ ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ॥४६॥
स्मरन्तौ पूर्ववृत्तान्तं नोचतुर्भयविह्वलौ॥ राजा वणिक्सुतौ वीक्ष्य वच:प्रोवाच सादरम्॥४७॥
दैवात्प्राप्तं महद्दुःखमिदानीं नास्ति वै भयम्॥ तदा निगडसंत्यागं क्षौरकर्माद्यकारयत् ॥४८॥
वस्त्रालङ्कारकं दत्वा परितोष्य नृपश्च तौ॥ पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद् भृशम॥४९॥
पुराऽऽनीतं तु यद्- द्रव्यं द्विगुणीकृत्य दत्तवान् । प्रोवाच तौ ततो राजा गच्छ साधो निजाश्रमम्।५०॥
राजानं प्रणिपत्याह गन्तव्यं त्वत्प्रासादत:॥ इत्युक्त्वा तौ महावैश्यौ जग्मतु: स्वगृहं प्रति॥५१॥________
( इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां तृतीयोऽध्याय:॥३॥
॥सूत उवाच॥ यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् । ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥१॥
कियद दूरे गते साधौ सत्यनारायण: प्रभु:॥ जिज्ञासां कृतवान् साधो किमस्ति तव नौ स्थितम्।२॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै ॥ कथं पृच्छसि भो दण्डिन् मुद्रां नेतुं किमिच्छसि।३॥
लतापत्रादिकं चैव वर्तने तरणौ मम ॥ निष्ठुरं च वच: श्रुत्वा सत्यं भवतु ते वच:॥४॥
एवमुक्त्वा गत: शीघ्रं दण्डी तस्य समीपत:॥ कियद् दूरे ततो गत्वा स्थित: सिन्धुसमीपत:॥५॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा॥ उत्थितां तरणिं द्दष्ट्वा विस्मयं परमं ययौ॥६॥
दृष्ट्वा लतादिकं चैव मूर्छितो न्यपतद भुवि ॥ लब्धसंज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितोऽभवत् ॥७॥
तदा तु दुहितु: कान्तो वचनं चेदमब्रवीत् ॥ किमथ क्रियते शोक: शापो दत्तश्च दण्डिना॥८॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशय:। अतस्तच्छरणं यामो वाञ्छितार्थो भविष्यति॥९॥
जामातुर्वचनं श्रत्वा तत्सकाशं गतस्तदा ॥ दृष्ट्वा च दण्डिनं भक्तया नत्वा प्रोवाच सादरम्।१०॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ॥ एवं पुन: पुनर्नत्वा महाशोकाकुलोऽभेवत्॥११॥
प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च॥ मा रोदी:श्रृणु मद्वाक्यं मम पूजाबहिर्मुख:॥१२॥
ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहु:॥ तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यत:॥१३॥
॥साधुरुवाच॥ त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस:॥ न जानन्ति गुणान् रूपं तवाश्चर्यमिदं प्रभो॥१४॥
मूढोऽहं त्वां कथं जाने मोहितस्तव मायया॥ प्रसीद पूजयिष्यामि यथाविभवविस्तरै:॥१५॥
पुरा वित्तं च तत्सर्वं त्राहि मां शरणागतम् ॥ श्रत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दन:॥१६॥
वरं च वाञ्छितं दत्त्वा तत्रैवान्तर्दधे हरि: ॥ ततो नौकां समारुह्य द्दष्ट्वा वित्तप्रपूरिताम्॥१७॥
कृपया सत्यदेवस्य सफलं वाञ्छितं मम॥ इत्युक्त्वा स्वजनै:सार्द्धं पूजांकृत्वा यथाविधिम्।१८॥
हर्षेण चाभवत्पूर्ण:सत्यदेवप्रसादत:। नावं संयोज्य यत्नेन स्वदेशगमनं कृतम्॥१९॥
साधुर्जामातरं प्राह पश्य रत्नपुरी मम ॥ दुतं च प्रेषयामास निजवित्तस्य रक्षकम्॥२०॥
दूतोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च॥ प्रोवाच वाञ्छितं वाक्यंनत्वा बद्धाञ्जलिस्तदा।२१॥
निकटे नगरस्यैव जामात्रा सहितो वणिक् ॥ आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युत:॥२२॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ॥ सत्यपूजां तत: कृत्वा प्रोवाच तनुजां प्रति॥२३॥
व्रजामि शीधमागच्छ साधुसंदर्शनाय च ॥ इति मातृवच: श्रुत्वा व्रतं कृत्वा समाप्य च॥२४॥
प्रसादं च परित्यज्य गता सापि पतिं प्रति। तेन रुष्ट: सत्यदेवो भर्तारं तरर्णि तथा॥२५॥
संहृत्य च धनै: सार्द्धं जले तस्यावमज्जयत् ॥ तत: कलावती कन्या न विलोक्य निजं पतिम् ॥२६॥
शोकेन महता तत्र रुदती चापतद भुवि ॥ दृष्ट्वा तथाविधां नावं कन्यां च बहुदु:खिताम्।२७॥
भीतेन मनसा साधु: किमाश्चर्यमिदं भवेत् ॥ चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहका: ॥२८॥
ततो लीलावती कन्यां दृष्ट्वा सा विह्वलाभवत् ॥ विललापातिदुःखेन भर्तारं चेदमब्रवीत्॥२९॥
इदानीं नौकया सार्द्धं कथं सोऽभूदलक्षित:॥ न जाने कस्य देवस्य हेलया चैव सा हृता ॥३०॥
सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते ॥ इत्युक्त्वा विललापैव ततश्व स्वजनै:सह ॥३१॥
ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद ह॥ तत: कलावती कन्या नष्टे स्वामिनि दुःखिता॥३२॥
गृहीत्वा पादुकां तस्यानुगन्तुं च मनो दधे॥ कन्यायाश्चरितं दृष्ट्वा सभार्य: सज्जनो वणिक्।३३।
अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् ॥ हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया॥३४॥
सत्यपूजां करिष्यामि यथाविभवविस्तरै: ॥ इति सर्वान्समाहूय कथयित्वा मनोरथम्॥३५॥
नत्वा च दण्डवद् भूमौ सत्यदेवं पुन: पुन: ॥ ततस्तुष्ट: सत्यदेवो दिनानां परिपालक:॥३६॥
जगाद वचनं चैनं कृपया भक्तवत्सल: ॥ त्यक्त्वा प्रसादं ते कन्या पर्ति द्रष्टुं समागता॥३७॥
अतोऽदृष्टोऽभवत्तस्या: कन्यकाया: पतिर्ध्रुवम् ॥ गृहं गत्वाप्रसादं च भुक्त्वा साऽऽयाति चेत्पुन:।३८।
लब्धभर्त्री सुता साधो भविष्यति न संशय:॥ कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात्।३९॥
क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा॥ सा पश्चात्पुनरागत्य ददर्श स्वजनं पतिम् ॥४०॥
तत: कलावती कन्या जगाद पितरं प्रति ॥ इदानीं च गृहं याहि विलम्बं कुरुषे कथम् ॥४१॥
तच्छुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद्वणिक्सुत:॥ पूजनं सत्यदेवस्य कृत्वा विधिविधानत:॥४२॥
धनैर्बन्धुगणै: सार्धं जगाम निजमन्दिरम् ॥ पौर्णमास्यां च सङ्क्रा:तौकृतवा:सत्यपूजनम्।४३।
इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥४४॥
(इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां चतुर्थोऽध्याय:॥४॥
श्रीस्कन्दपुराणे रेवाखण्डे अन्तर्गते सत्यनारायणव्रतकथायां पञ्मोऽध्याय: प्रारम्भ ॥४॥
सत्य नारायण व्रत कथा के पात्र अहीर लोग-
॥सूत उवाच॥
अथान्यच्च प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमा: ॥ आसीत्तुङ्गध्वजो राजा प्रजापालनतत्पर:॥१॥
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप स:॥ एकदा स वनं गत्वा हत्वा बहुविधान्पशून् ॥२॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् ॥ गोपा:कुर्वन्ति सन्तुष्टा भक्तियुक्ता: सबान्धवा:।३॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम स:॥ ततो गोपगणा: सर्वे प्रसादं नृपसन्निधौ ॥४॥
संस्थाप्य पुनरागत्य भुक्त्या सर्वे यथेप्सितम् ॥ तत: प्रसादं सन्त्यज्य राजा दुःखमवाप स: ॥५॥
तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् ॥ सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥६॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ॥ मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ॥७॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणै: सह ॥ भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृप:॥८॥
सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् ॥ इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥९॥
य इदं कुरुने सत्यव्रतं परमदुर्लभम् ॥ श्रुणोति च कथां पुण्यां भक्तियुक्तांफलप्रदाम्॥१०॥
धनधान्यादिकं तस्य भवेत्सत्यप्रसादत: ॥ दरिद्रो लभते वित्तं बद्धो मुच्येत् बन्धनात्॥११॥
भीतो भयात्प्रसुच्येत् सत्यमेव न संशय:॥ ईप्सितं च फलं भुक्त्त्वा चान्ते सत्यपुरं व्रजेत्॥१२॥
इति व: कथितं विप्रा; सत्यनारायणव्रतम् ॥ यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानव:॥१३॥
विशेषत: कलियुगे सत्यपूजा फलप्रदा ॥ केचित्कालं वदिष्यन्ति सत्यमीशं तमेव च॥१४॥
सत्यनारायणं केचित्सत्यदेवं तथापरे ॥ नानारूपधरो भूत्वा सर्वेषामीप्सितप्रद: ॥१५॥
भविष्यति कलौ सत्यव्रतरूपी सनातन:॥ श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम्॥१६॥
य इदं पठते नित्यं श्रृणोति मुनिसत्तमा: ॥ तस्य नश्यन्ति पापानि सत्यदेवप्रसादत:॥१७॥
व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च ॥ तेषां त्वपरजन्मानि कथयामि मुनीश्वरा:॥१८॥
शतानन्दो महाप्राज्ञ: सुदामा ब्राह्मणो ह्मभूत ॥ तम्मिञ्जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह।१९॥
काष्ठभारवहो भिल्लो गुहराजो बभूव ह ॥ तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्षं जगाम वै॥२०॥
उल्कामुखो महाराजो नृपो दशरथोऽभवत् ॥ श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठं तदागमत् ॥२१॥
धार्मिक: सत्यसन्धश्च साधुर्मोरध्वजोऽभवत् ॥ देहार्धं क्रकचैश्छित्वा दत्वा मोक्षमवाप ह ॥२२॥
तुङ्गध्वजो महाराज: स्वायम्भुरभवत्किल॥ सर्वान्भागवतान् कृत्वा श्रीवैकुण्ठं तदाऽगमत्।२३॥
"इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायणव्रतकथायां पञ्चमोऽध्याय:।५। इति श्रीसत्यनारायणकथा समाप्त।।
"सूत उवाच"
अथान्यच्च प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः। आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ १ ॥
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा स वनं गत्वा हत्वा बहुविधान् पशून्॥ २॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम्। गोपाः कुर्वन्ति संतुष्टा भक्तियुक्ताः सबान्धवाः ॥३॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः। ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ॥४॥
संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम्। ततः प्रसादं संत्यज्य राजा दुःखमवाप सः॥५॥
"अनुवाद:-श्रीसूतजी बोले – हे श्रेष्ठ मुनियो ! अब इसके बाद मैं एक अन्य कथा कहूँगा, आप उसे सुनें। अपनी प्रजा का पालन करने में तत्पर(तैयार रहने वाला) तुङ्गध्वज नाम का एक राजा था।१।
उसने सत्यदेव (सत्यनारायण) के प्रसाद का परित्याग करके दुःख प्राप्त किया। एक बार वह वन में जाकर और वहाँ बहुत-से पशुओंको मारकर।२।
वह वट वृक्ष के नीचे आया तो वहाँ उसने देखा कि गोपगण (अहीर लोग) बन्धु-बान्धवों के साथ संतुष्ट होकर भक्तिपूर्वक भगवान् सत्यदेव की पूजा करतें हैं।३।
राजा यह देखकर भी अहंकार( दर्प) वश न तो वह राजा वहाँ गया और न उसने भगवान् सत्यनारायण को प्रणाम ही किया। इसके बाद (पूजन के पश्चात) सभी गोपगण भगवान् सत्य नारायण का प्रसाद राजा के समीप में।४।।
रखकर वहाँ से पुन: लौट कर और इच्छानुसार उन सभी ने भगवान्का प्रसाद ग्रहण किया। इधर राजा को प्रसादका परित्याग करने से बहुत दुःख हुआ॥ ५॥
तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत्। सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥६ ॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम्। मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ॥७॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणैः सह। भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः॥८॥
सत्यदेवेन प्रसादेन धनपुत्रान्वितोऽभवत् । इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥ ९॥
उसका सम्पूर्ण धन-धान्य एवं सभी सौ पुत्र नष्ट हो गये। राजा ने मन में यह निश्चय किया कि अवश्य हो भगवान् सत्यनारायण ने हमारा नाश कर दिया है।६।
इसलिये मुझे वहीं जाना चाहिये जहाँ श्रीसत्यनारायण का पूजन हो रहा था। ऐसा मन में निश्चय करके वह राजा गोपगणों( अहीरों) के समीप गया।७।
और उसने गोपगणों के साथ भक्ति-श्रद्धा से युक्त होकर विधिपूर्वक भगवान् सत्यदेव की पूजा की।८।।
भगवान् सत्यदेव की कृपा से वह पुनः धन और पुत्रों से सम्पन्न हो गया तथा इस लोक में सभी सुखों को उपभोगकर अन्त में सत्यपुर (वैकुण्ठलोक)- को चला गया॥९॥
य इदं कुरुते सत्यव्रतं परमदुर्लभम्। शृणोति च कथां पुण्यां भक्तियुक्तः फलप्रदाम् ॥१०॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः। दरिद्रो लभते वित्तं बद्धो मुच्येत् बन्धनात् ॥ ११॥
भीतो भयात् प्रमुच्येत् सत्यमेव न संशयः। ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं व्रजेत् ॥ १२ ॥
इति वः कथितं विप्राः सत्यनारायणव्रतम्। यत् कृत्वा सर्वदुः खेभ्यो मुक्तो भवति मानवः॥१३॥
सूत जी कहते हैं- जो व्यक्ति इस परम दुर्लभ श्रीसत्यनारायण के व्रत को करता और पुण्यमयी तथा फलप्रदायिनी कथा को भक्तियुक्त होकर सुनता है।।१०।
उसे भगवान् सत्यनारायण की कृपा से धन-धान्य आदि की प्राप्ति होती है। दरिद्र के घर में धन हो जाता है, बन्धन में पड़ा हुआ बन्धन से छूट जाता है।११।।
डरा हुआ व्यक्ति भय से मुक्त हो जाता है-यह सत्य बात है, इसमें संशय नहीं। (इस लोकमें वह सभी इच्छित फलों का भोग प्राप्त करके अन्त में सत्यपुर (वैकुण्ठलोक) को जाता है।१२।
हे ब्राह्मणो ! इस प्रकार मैंने आप लोगों से भगवान् सत्यनारायण के व्रत को कहा, जिसे करके मनुष्य सभी दुःखों से मुक्त हो जाता है ॥१३ ॥
विशेषतः कलियुगे सत्यपूजा फलप्रदा। केचित् कालं वदिष्यन्ति सत्यमीशं तमेव च ॥ १४॥
सत्यनारायणं केचित् सत्यदेवं तथापरे। नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥१५॥
भविष्यति कलौ सत्यव्रतरूपी सनातनः। श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम्॥१६॥
य इदं पठेत् नित्यं शृणोति मुनिसत्तमाः। तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः॥१७॥
व्रतं वैस्तु कृतं पूर्व सत्यनारायणस्य च। तेषां त्वपरजन्मानि कथयामि मुनीश्वराः॥१८॥
कलियुग में तो भगवान् सत्यदेव (सत्यनारायण) की पूजा विशेष फल प्रदान करने वाली है। भगवान् विष्णु को ही कुछ लोग काल, कुछ लोग सत्य, कोई ईश।१४।
और कोई सत्यदेव तथा दूसरे लोग सत्यनारायण नाम से कहेंगे। अनेक रूप धारण करके भगवान् सत्यनारायण सभी का मनोरथ सिद्ध करते हैं।१५।
कलियुग में सनातन भगवान् विष्णु ही सत्यव्रत-रूप धारण करके सभी का मनोरथ पूर्ण करनेवाले होंगे।१६।
हे श्रेष्ठ मुनियो। जो व्यक्ति नित्य भगवान् सत्यनारायण की इस व्रत-कथा को पढ़ता है, सुनता है, भगवान् सत्यनारायण की कृपा से उसके सभी पाप नष्ट हो जाते हैं।१७।
हे मुनीश्वरो ! पूर्वकाल में जिन लोगों ने भगवान् सत्यनारायण का व्रत किया था, उनके अगले जन्म का वृत्तान्त कहता हूँ, आप लोग उसे सुनें॥१८॥
__________
"शतानन्दो महाप्राज्ञः सुदामा ब्राह्मणो ह्यभूत्। तस्मिञ्जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥१९॥
शब्दार्थ- शतानन्द:( प्रथमा विभक्ति एक वचन कर्ताकारक- । महाप्राज्ञ:= महती प्रज्ञा( प्रकृष्टं ज्ञापयति यया इति प्रज्ञा- (विवेक बद्धि)।सुदामा ब्राह्मण: हि अभूत् =सुदामा नामक ब्राह्मण हुआ।अभूत् = भू -धातु रूप - कर्तरि प्रयोग लुङ् लकार परस्मैपद प्रथम पुरुष एकवचन। तस्मिन् + जन्मनि = उस जन्म में। श्रीकृष्णं = श्रीकृष्ण को । ध्यात्वा= ध्यै- धातु + क्त्वा प्रत्यय। ध्यान करके। मोक्षं = मुक्ति को। अवाप= प्राप्त किया। ह = निश्चय ही।
"काष्ठभारवहो भिल्लो गुहराजो बभूव ह। तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्षं जगाम वै ॥ २० ॥
शब्दार्थ:- काष्ठभारवह: = लकड़हारा। भिल्ल: गुहराज: बभूव= भील गुहराज हुआ। ह= निश्चय ही। तस्मिन् + जन्मनि = उस जन्म में। श्रीरामं सेव्य= श्रीराम की सेवाकरके। मोक्षं जगाम वै= निश्चय ही मोक्ष को प्राप्त हुआ। जगाम= गम्- धातु - गम्- प्राप्तौ गतौ च- लिट् लकार कर्तरि प्रयोग परस्मैपद ; एकवचन कर्ताकारक रूप।
"उल्कामुखो महाराजो नृपो दशरथोऽभवत्। श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठं तदागमत् ॥ २१ ॥
शब्दार्थ:- उल्कामुख: +महाराज:+नृप:+ दशरथ:+अभवत्= उल्कामुख महाराज [दूसरे जन्म में ] राजा दशरथ हुए। श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठं तदागमत्= श्रीरंगनाथ(दक्षिण भारत में विष्णु का स्वरूप) की भलीभाँति पूजाकर तब वे वैकुण्ठ धाम को चले गये।
"धार्मिकः सत्यसन्धश्च साधुर्मोरध्वजोऽभवत्। देहार्धं क्रकचैश्छित्त्वा दत्त्वा मोक्षमवाप ह ॥ २२ ॥
शब्दार्थ:- धार्मिक:= धर्मकर्मकरनेवाला। सत्यसन्ध= सत्य प्रतिज्ञा करने वाला:+ साधु = साधु नामक वैश्य + मयूरध्वज:+ अभवत्।= मयूर ध्वज नामक राजा हुआ। देहार्धं= आधी देह को । क्रकचैश्छित्त्वा = आरे से चिरवाकर( कटवाकर। दत्त्वामोक्षं+ अवाप ह।= और उस देह को देकर निश्चय ही मोक्ष को प्राप्त किया।
"तुङ्गध्वजो महाराजः स्वायम्भुवोऽभवत् किल । सर्वान् भागवतान् कृत्वा श्रीवैकुण्ठं तदाऽगमत् ॥ २३ ॥
शब्दार्थ:-तुङ्गध्वजो महाराजः स्वायम्भुवोऽभवत् किल ।= तुंगध्वज महाराज कालान्तर में निश्चय ही स्वायम्भुव हुए । सर्वान् भागवतान् कृत्वा = सभी भगवत भक्तों को । कृत्वा= करके ।श्रीवैकुण्ठं तदाऽगमत् = तब वैकुण्ठ को गये।
"भूत्वा गोपाश्च ते सर्वे व्रजमण्डलवासिनः। निहत्य राक्षसान् सर्वान् गोलोकं तु तदा ययुः॥२४ ॥
शब्दार्थ:-शब्दार्थ:-
सत्यनारायण की वन में कथाकरने वाले वे सभी गोपगण ही व्रजमण्डल में ( भूत्वा = जन्म लेकर /होकर )
गोपा: = गोप गण। ते सर्वे= वे सब। व्रजमण्डलवासिनः= व्रजमण्डल के निवासी।
निहत्य= मारकर। राक्षसान् सर्वान् = सभी राक्षसों को ।
गोलोकं तु तदा ययुः= इसके पश्चात गो-लोक को चले गये।
महान् प्रज्ञासम्पन्न शतानन्द नाम के ब्राह्मण [सत्यनारायणका व्रत करनेके प्रभावसे] दूसरे जन्म में सुदामा नामक ब्राह्मण हुए और उस जन्म में भगवान् श्रीकृष्ण का ध्यान करके उन्होंने मोक्ष प्राप्त किया।१९।
लकड़हारा भिल्लों का राजा गुहराज हुआ और अगले जन्ममें उसने भगवान् श्रीरामकी सेवा करके मोक्ष प्राप्त किया।२०।
महाराज उल्कामुख [दूसरे जन्म में] राजा दशरथ हुए, जिन्होंने श्रीरङ्गनाथ ( विष्णु) की पूजा करके अन्त में वैकुण्ठ प्राप्त किया।२१।
इसी प्रकार धार्मिक और सत्यव्रती साधु [पिछले जन्म के सत्यव्रत के प्रभाव से दूसरे जन्म में] मोरध्वज नाम का राजा हुआ। उसने आरे से चीरकर अपने पुत्र की आधी देह भगवान् विष्णुको अर्पित कर मोक्ष प्राप्त किया।२२।
महाराज तुङ्गध्वज पूर्व जन्म में स्वायम्भुव मनु के रूप में हुए थे और भगवत्सम्बन्धी सम्पूर्ण कार्यों का अनुष्ठान करके वैकुण्ठलोक को प्राप्त हुए। जो गोपगणा थे, वे सब जन्मान्तरमें व्रजमण्डलमें निवास करनेवाले गोप हुए और सभी राक्षसोंका संहार करके उन्होंने भी भगवान का शाश्वतधाम – गोलोक प्राप्त किया ॥ १९-२४॥
॥इति श्रीस्कन्दपुराणे रेवाखण्डे॥ श्रीसत्यनारायणव्रतकथायां पञ्चमोऽध्यायः॥ ५॥
॥इस प्रकार श्रीस्कन्दपुराणके अन्तर्गत रेवाखण्डमें श्रीसत्यनारायणव्रतकथाका यह पञ्चम्- अध्याय पूरा हुआ॥५॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें